भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 1.84

1.84.1

यदाऽवसो नन्दने कामरूपी संवत्सराणामयुतं शतानाम् ।
किं कारणं कार्तयुगप्रधान हित्वा च त्वं वसुधामन्वपद्यः ॥
ययातिरुवाच ।

1.84.2

ज्ञातिः सुहृत्स्वजनो वा यथेह क्षीणे वित्ते त्यज्यते मानवैर्हि ।
तथा तत्र क्षीणपुण्यं मनुष्यं त्यजन्ति सद्यः सेश्वरा देवसङ्घाः ॥
अष्टक उवाच ।

1.84.3

तस्मिन्कथं क्षीणपुण्या भवन्ति सम्मुह्यते मेऽत्र मनोऽतिमात्रम् ।
किं वा विशिष्टाः कस्य धामोपयान्ति तद्वै ब्रूहि क्षेत्रवित्त्वं मतो मे ॥
ययातिरुवाच ।

1.84.4

इमं भौमं नरकं ते पतन्ति ललाप्यमाना नरदेव सर्वे ।
ते कङ्कगोमायुबलाशनार्थे क्षीणे पुण्ये बहुधा प्रव्रजन्ति ॥

1.84.5

तस्मादेतद्वर्जनीयं नरेन्द्र दुष्टं लोके गर्हणीयं च कर्म ।
आख्यातं ते पार्थिव सर्वमेव भूयश्चेदानीं वद किं ते वदामि ॥
अष्टक उवाच ।

1.84.6

यदा तु तान्वितुदन्ते वयांसि तथा गृध्राः शितिकण्ठाः पतङ्गाः ।
कथं भवन्ति कथमाभवन्ति न भौममन्यं नरकं शृणोमि ॥
ययातिरुवाच ।

1.84.7

ऊर्ध्वं देहात्कर्मणो जृम्भमाणा- द्व्यक्तं पृथिव्यामनुसञ्चरन्ति ।
इमं भौमं नरकं ते पतन्ति नावेक्षन्ते वर्षपूगाननेकान् ॥

1.84.8

षष्टिं सहस्राणि पतन्ति व्योम्नि तथा अशीतिं परिवत्सराणि ।
तान्वै तुदन्ति पततः प्रपातं भीमा भौमा राक्षसास्तीक्ष्णदंष्ट्राः ॥
अष्टक उवाच ।

1.84.9

यदेनसस्ते पततस्तुदन्ति भीमा भौमा राक्षसास्तीक्ष्णदंष्ट्राः ।
कथं भवन्ति कथमाभवन्ति कथम्भूता गर्भभूता भवन्ति ॥
ययातिरुवाच ।

1.84.10

अस्रं रेतः पुष्पफलानुपृक्त- मन्वेति तद्वै पुरुषेण सृष्टम् ।
स वै तस्या रज आपद्यते वै स गर्भभूतः समुपैति तत्र ॥

1.84.11

वनस्पतीनोषधीश्चाविशन्ति आपो वायुं पृथिवीं चान्तरिक्षम् ।
चतुष्पदं द्विपदं चाति सर्व- मेवम्भूता गर्भभूता भवन्ति ॥
अष्टक उवाच ।

1.84.12

अन्यद्वपुर्विदधातीह गर्भ- मुताहोस्वित्स्वेन कायेन याति ।
आपद्यमानो नरयोनिमेता- माचक्ष्व मे संशयात्प्रब्रवीमि ॥

1.84.13

शरीरदेहातिसमुच्छ्रयं च चक्षुःश्रोत्रे लभते केन सञ्ज्ञाम् ।
एतत्तत्त्वं सर्वमाचक्ष्व पृष्टः क्षेत्रज्ञं त्वां तात मन्याम सर्वे ॥
ययातिरुवाच ।

1.84.14

वायुः समुत्कर्षति गर्भयोनि- मृतौ रेतः पुष्पफलानुपृक्तम् ।
स तत्र तन्मात्रकृताधिकारः क्रमेण संवर्धयतीह गर्भम् ॥

1.84.15

स जायमानो विगृहीतमात्रः सञ्ज्ञामधिष्ठाय ततो मनुष्यः ।
स श्रोत्राभ्यां वेदयतीह शब्दं स वै रूपं पश्यति चक्षुषा च ॥

1.84.16

घ्राणेन गन्धं जिह्वयाऽथो रसं च त्वचा स्पर्शं मनसा वेदभावम् ।
इत्यष्टकेहोपहितं हि विद्धि महात्मनः प्राणभृतः शरीरे ॥
अष्टक उवाच ।

1.84.17

यः संस्थितः पुरुषो दह्यते वा निखन्यते वापि निकृष्यते वा ।
अभावभूतः स विनाशमेत्य केनात्मानं चेतयते परस्तात् ॥
ययातिरुवाच ।

1.84.18

हित्वा सोऽसून्सुप्तवन्निष्टनित्वा पुरोधाय सुकृतं दुष्कृतं वा ।
अन्यां योनिं पवनाग्रानुसारी हित्वा देहं भजते राजसिंह ॥

1.84.19

पुण्यां योनिं पुण्यकृतो व्रजन्ति पापां योनिं पापकृतो व्रजन्ति ।
कीटाः पतङ्गाश्च भवन्ति पापा न मे विवक्षास्ति महानुभाव ॥

1.84.20

चतुष्पदा द्विपदाः षट्पदाश्च तथाभूता गर्भभूता भवन्ति ।
आख्यातमेतन्निखिलेन सर्वं भूयस्तु किं पृच्छसि राजसिंह ॥
अष्टक उवाच ।

1.84.21

किंस्वित्कृत्वा लभते तात लोका- न्मर्त्यः श्रेष्ठांस्तपसा विद्यया च ।
तन्मे पृष्टः शंस सर्वं यथाव- च्छुभाँल्लोकान्येन गच्छेत्क्रमेण ॥
ययातिरुवाच ।

1.84.22

तपश्च दानं च शमो दमश्च ह्रीरार्जवं सर्वभूतानुकम्पा ।
स्वर्गस्य लोकस्य वदन्ति सन्तो द्वाराणि सप्तैव महान्ति पुंसाम् । नश्यन्ति मानेन तमोऽभिभूताः पुंसः सदैवेति वदन्ति सन्तः ॥

1.84.23

अधीयानः पण्डितम्मन्यमानो यो विद्यया हन्ति यशः परेषाम् ।
तस्यान्तवन्तश्च भवन्ति लोका न चास्य तद्ब्रह्म फलं ददाति ॥

1.84.24

चत्वारि कर्माण्यभयङ्कराणि भयं प्रयच्छन्त्ययथाकृतानि ।
मानाग्निहोत्रमुत मानमौनं मानेनाधीतमुत मानयज्ञः ॥

1.84.25

न मानमान्यो मुदमाददीत न सन्तापं प्राप्नुयाच्चावमानात् ।
सन्तः सतः पूजयन्तीह लोके नासाधवः साधुबुद्धिं लभन्ते ॥

1.84.26

इति दद्यामिति यज इत्यदीय इति व्रतम् ।
इत्येतानि भयान्याहुस्तानि वर्ज्यानि सर्वशः ॥

1.84.27

ये चाश्रयं वेदयन्ते पुराणं मनीषिणो मानसमार्गरुद्धम् ।
तन्निःश्रेयस्तेन संयोगमेत्य परां शान्तिं प्रत्युः प्रेत्य चेह ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc