भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 1.81

1.81.1

स्वर्गतः स तु राजेन्द्रो निवसन्देववेश्मनि ।
पूजितस्त्रिदशैः साध्यैर्मरुद्भिर्वसुभिस्तथा ॥

1.81.2

देवलोकं ब्रह्मलोकं सञ्चरन्पुण्यकृद्वशी ।
अवसत्पृथिवीपालो दीर्घकालमिति श्रुतिः ॥

1.81.3

स कदाचिन्नृपश्रेष्ठो ययातिः शक्रमागमत् ।
कथान्ते तत्र शक्रेण स पृष्टः पृथिवीपतिः ॥
शक्र उवाच ।

1.81.4

यदा स पूरुस्तव रूपेण राज- ञ्जरां गृहीत्वा प्रचचार भूमौ ।
तदा च राज्यं सम्प्रदायैव तस्मै त्वया किमुक्तः कथयेह सत्यम् ॥
ययातिरुवाच ।

1.81.5

गङ्गायमुनयोर्मध्ये कृत्स्नोयं विषयस्तव ।
मध्ये पृथिव्यास्त्वं राजा भ्रातरोऽन्त्याधिपास्तव ॥

1.81.6

न च कुर्यान्नरो दैन्यं शाठ्यं क्रोधं तथैव च ।
जैहयं च मत्सरं वैरं सर्वत्रेदं न कारयेत् ॥

1.81.7

मातरं पितरं ज्येष्ठं विद्वांसं च तपोधनम् ।
क्षमावन्तं च राजेन्द्र नावमन्येत बुद्धिमान् ॥

1.81.8

ळशक्तस्तु क्षमते नित्यमशक्तः क्रुध्यते नरः ।
दुर्जनः सुजनं द्वेष्टि दुर्बलो बलवत्तरम् ॥

1.81.9

रूपवन्तमरूपी च धनवन्तं च निर्धनः ।
अकर्मी कर्मिणं द्वेष्टि धार्मिकं च नधार्मिकः ॥

1.81.10

निर्गुणो गुणवन्तं च पुत्रैतत्कलिलक्षणम् ।
विपरीतं च राजेन्द्र एतेषु कृतलक्षणम् ॥

1.81.11

ब्राह्मणो वाथ वा राजा वैश्यो वा शूद्र एव वा ।
प्रशस्तेषु प्रसक्ताश्चेत्प्रशस्यन्ते यशस्विनः ॥

1.81.12

तस्मात्प्रशस्ते राजेन्द्र नरः सक्तमना भवेत् ।
अलोकज्ञा ह्यप्रशस्ता भ्रातरस्ते ह्यबुद्धयः ॥

1.81.13

अन्त्याधिपतयः सर्वे ह्यभवन्गुरुशासनात् ।
इन्द्र उवाच ।
त्वं हि धर्मविदो राजन्कत्थसे धर्मसुत्तमम् ।
कथयस्व पुनर्मेऽद्य लोकवृत्तान्तमुत्तमम् ॥
ययातिरुवाच

1.81.14

अक्रोधनः क्रोधनेभ्यो विशिष्ट- स्तथा तितिक्षुरतितिक्षोर्विशिष्टः ।
अमानुषेभ्यो मानुषाश्च प्रधाना विद्वांस्तथैवाविदुषः प्रधानः ॥

1.81.15

आक्रुश्यमानो नाकोशेन्मन्युरेव तितिक्षतः ।
आक्रोष्टारं निर्दहति सुकृतं चास्य विन्दति ॥

1.81.16

नारुन्तुदः स्यान्न नृशंसवादी न हीनतः परमभ्याददीत ।
ययाऽस्य वाचा पर उद्विजेत न तां वदेद्रुशतीं पापलोक्याम् ॥

1.81.17

अरुन्तुदं पुरुषं तीक्ष्णवाचं वाक्कण्टकैर्वितुदन्तं मनुष्यन् ।
विद्यादलक्ष्मीकतमं जनानां मुखे निबद्धां निरृतिं वहन्तम् ॥

1.81.18

सद्भिः पुरस्तादभिपूजितः स्या- त्सद्भिस्तथा पृष्ठतो रक्षितः स्यात् ।
सदाऽसतामतिवादांस्तितिक्षे- त्सतां वृत्तं चाददीतार्यवृत्तः ॥

1.81.19

वाक्सायका वदनान्निष्पतन्ति यैराहतः शोचति रात्र्यहानि ।
परस्य ये मर्मसु सम्पतन्ति तान्पण्डितो नावसृजेत्परेषु ॥

1.81.20

नहीदृशं संवननं त्रिषु लोकेषु विद्यते ।
दया मैत्री च भूतेषु दानं च मधुरा च वाक् ॥

1.81.21

तस्मात्सान्त्वं सदा वाच्यं न वाच्यं परुषं क्वचित् ।
पूज्यान्सम्पूजयेद्दद्यान्न च याचेत्कदाचन ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc