भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 1.79

1.79.1

पौरवेणाथ वयसा ययातिर्नहुषात्मजः । रूपयौवनसम्पन्नः कुमारः समपद्यत ।
प्रीतियुक्तो नृपश्रेष्ठश्चरा विषयान्प्रियान् ॥

1.79.2

यथाकामं यथोत्साहं यथाकालं यथासुखम् ।
धर्माविरुद्धं राजेन्द्रो यथा भवति सोऽन्वभूत् ॥

1.79.3

देवानतर्पयद्यज्ञैः श्राद्धैस्तद्वित्पितॄनपि ।
दीनाननुग्रहैरिष्टैः कामैश्च द्विजसत्तमान् ॥

1.79.4

अतिथीनन्नपानैश्च विशश्च परिपालनैः ।
आनृशंस्येन शूद्रांश्च दस्यून्सन्निग्रहेण च ॥

1.79.5

धर्मेण च प्रजाः सर्वा यथावदनुरञ्जयन् ।
ययातिः पालयामास साक्षादिन्द्र इवापरः ॥

1.79.6

स राजा सिंहविक्रान्तो युवा विषयगोचरः ।
अविरोधेन धर्मस्य चचार सुखमुत्तमम् ॥

1.79.7

स सम्प्राप्य शुभान्कामांस्तृप्तः खिन्नश्च पार्थिवः ।
कालं वर्षसहस्रान्तं सस्मार मनुजाधिपः ॥

1.79.8

परिसंख्याय कालज्ञः कलाः काष्ठाश्च वीर्यवान् ।
यौवनं प्राप्य राजर्षिः सहस्रपरिवत्सरान् ॥

1.79.9

विश्वाच्या सहितो रेमे व्यभ्राजन्नन्दने वने ।
अलकायां स कालं तु मेरुशृङ्गे तथोत्तरे ॥

1.79.10

यदा स पश्यते कालं धर्मात्मा तं महीपतिः ।
पूर्णं मत्वा ततः कालं पूरुं पुत्रमुवाच ह ॥

1.79.11

यथाकामं यथोत्साहं यथाकालमरिन्दम ।
सेविता विषयाः पुत्र यौवनेन मया तव ॥

1.79.12

न जातु कामः कामानामुपभोगेन शाम्यति ।
हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते ॥

1.79.13

यत्पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः ।
एकस्यापि न पर्याप्तं तस्मान्नृष्णां परित्यजेत् ॥

1.79.14

या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः ।
योऽसौ प्राणान्तिको रोगस्तान्तृष्णां त्यजतः सुखम् ॥

1.79.15

पूर्णं वर्षसहस्रं मे विषयासक्तचेतसः ।
तथाप्यनुदिनं तृष्णा ममैतेष्वभिजायते ॥

1.79.16

तस्मादेनामहं त्यक्त्वा ब्रह्मण्याधाय मानसम् ।
निर्द्वन्द्वो निर्ममो भूत्वा चरिष्यामि मृगैः सह ॥

1.79.17

पूरो प्रीतोऽस्मि भद्रं ते गृहाणेदं स्वयौवनम् । राज्यं चेदं गृहाण त्वं यावदिच्छसि यौवनम् ।
तावद्दीर्घायुषा भुङ्ख त्वं हि मे प्रियकृत्सुतः ॥
वैशम्पायन उवाच ।

1.79.18

प्रतिपेदे जरां राजा ययातिर्नाहुषस्तदा ।
यौवनं प्रतिपेदे च पूरुः स्वं पुनरात्मवान् ॥

1.79.19

अभिषेक्तुकामं नृपतिं पूरुं पुत्रं कनीयसम् ।
ब्राह्मणप्रमुखा वर्णा इदं वचनमब्रुवन् ॥

1.79.20

कथं शुक्रस्य नप्तारं देवयान्याः सुतं प्रभो ।
ज्येष्ठं यदुमतिक्रम्य राज्यं पूरोः प्रयच्छसि ॥

1.79.21

यदुर्ज्येष्ठस्तव सुतो जातस्तमनु तुर्वसुः ।
शर्मिष्ठायाः सुतो द्रुह्युस्ततोऽनुः पूरुरेव च ॥

1.79.22

कथं ज्येष्ठानतिक्रम्य कनीयान्राज्यमर्हति ।
एतत्सम्बोधयामस्त्वां धर्मं त्वं प्रतिपालय ॥
ययातिरुवाच ।

1.79.23

ब्राह्मणप्रमुखा वर्णाः सर्वे शृण्वन्तु मे वचः ।
ज्येष्ठं प्रति यथा राज्यं न देयं मे कथञ्चन ॥

1.79.24

मम ज्येष्ठेन यदुना नियोगो नानुपालितः ।
प्रतिकूलः पितुर्यश्च न स पुत्रः सतां मतः ॥

1.79.25

मातापित्रोर्वचनकृद्धितः पथ्यश्च यः सुतः ।
स पुत्रः पुत्रवद्यश्च वर्तते पितृमातृषु ॥

1.79.26

पुदिति नरकस्याख्या दुःखं च नरकं विदुः ।
पुतस्त्राणात्ततः पुत्त्रमिहेच्छन्ति परत्र च ॥

1.79.27

आत्मनः सदृशः पुत्रः पितृदेवर्षिपूजने ।
यो बहूनां गुणकरः स पुत्रो ज्येष्ठ उच्यते ॥

1.79.28

मूकोऽन्धो बधिरः श्वित्री स्वधर्मं नानुतिष्ठति ।
चोरः किल्बिषिकः पुत्रो ज्येष्ठो न ज्येष्ठ उच्यते ॥

1.79.29

ज्येष्ठांशहारी गुणकृदिह लोके परत्र च । श्रेयान्पुत्रो गुणोपेतः स पुत्रो नेतरो वृथा ।
वदन्ति धर्मं धर्मज्ञाः पितॄणां पुत्रकारणात् ॥

1.79.30

वेदोक्तं सम्भवं मह्यमनेन हृदयोद्भवम् ।
तस्य जातमिदं कृत्स्नमात्मा पुत्र इति श्रुतिः ॥

1.79.31

यदुनाऽहमवज्ञातस्तथा तुर्वसुनापि च ।
द्रुह्युना चानुना चैव मय्यवज्ञ कृता भृशम् ॥

1.79.32

पूरुणा तु कृतं वाक्यं मानितं च विशेषतः ।
कनीयान्मम दायादो धृता येन जरा मम ॥

1.79.33

मम कामः स च कृतः पूरुणा मित्ररूपिणा ।
शुक्रेण च वरोदत्तः काव्येनोशनसा स्वयम् ॥

1.79.34

पुत्रो यस्त्वाऽनुवर्तेत स राजा पृथिवीपतिः ।
यो वानुवर्ती पुत्राणां स पुत्रो दायभाग्भवेत् ॥

1.79.35

भवतोऽनुनयाम्येवं पूरू राज्येऽभिषिच्यताम् ।
प्रकृतय ऊचुः ।
यः पुत्रो गुणसम्पन्नो मातापित्रोर्हितः सदा ॥

1.79.36

सर्वमर्हति कल्याणं कनीयानपि सत्तमः ।
वेद धमार्थशास्त्रेषु मुनिभिः कथितं पुरा ॥

1.79.37

अर्हः पूरुरिदं राज्यं यः सुतः प्रियकृत्तव ।
वरदानेन शुक्रस्य न शक्यं वक्तुमुत्तरम् ॥
वैशम्पायन उवाच ।

1.79.38

पौरजानपदैस्तुष्टैरित्युक्तो नाहुषस्तदा ।
अभ्यषिञ्चत्ततः पूरुं राज्ये स्वे सुतमात्मनः ॥

1.79.39

यदुं च तुर्वसुं चोभौ द्रुह्युं चैव सहानुजम् ।
अन्तेषु स विनिक्षिप्य नाहुषः स्वात्मजान्सुतान् ॥

1.79.40

दत्त्वा च पूरवे राज्यं वनवासाय दीक्षितः ।
पुरात्स निर्ययौ राजा ब्राह्मणैस्तापसैः सह ॥

1.79.41

देवयान्या च सहितः शर्मिष्ठया च भारत ।
अकरोत्स वने राजा सभार्यस्तप उत्तमम् ॥

1.79.42

यदोस्तु यादवा जातास्तुर्वसोर्यवनाः स्मृताः ।
द्रुह्योः सुतास्तु वै भोजा अनोस्तु म्लेच्छजातयः ॥

1.79.43

पूरोस्तु पौरवो वंशो यत्र जातोऽसि पार्थिव ।
इदं वर्षसहस्राणि राज्यं कारयितुं वशी ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc