भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 1.76

1.76.1

ययातिः स्वपुरं प्राप्य महेन्द्रपुरसन्निभम् ।
प्रविश्यान्तःपुरं तत्र देवयानीं न्यवेशयत् ॥

1.76.2

देवयान्याश्चानुमते सुतां तां वृषपर्वणः ।
अशोकवनिकाभ्याशे गृहं कृत्वा न्यवेशयत् ॥

1.76.3

वृतां दासीसहस्रेण शर्मिष्ठां वार्षपर्वणीम् ।
वासोभरन्नपानैश्च संविभज्य सुसत्कृताम् ॥

1.76.4

देवयान्या तु सहितः स नृपो नहुषात्मजः ।
प्रीत्या परमया युक्तो मुमुदे शाश्वतीः समाः ॥

1.76.5

अशोकवनिकामध्ये देवयानी समागता ।
शर्मिष्ठया सा क्रीडित्वा रमणीये मनोरमे ॥

1.76.6

तत्रैव तां तु निर्दिश्य राज्ञा सह ययौ गृहम् । एवमेव सह प्रीत्या बहु कालं मुमोद च ॥

1.76.7

विजहार बहूनब्दान्देववन्मुदितः सुखी ॥

1.76.8

ऋतुकाले तु सम्प्राप्ते देवयानी वराङ्गना ।
लेभे गर्भं प्रथमतः कुमारं च व्यजायत ॥

1.76.9

गते वर्षसहस्रे तु शर्मिष्ठा वार्षपर्वणी ।
ददर्श यौवनं प्राप्ता ऋतुं सा चान्वचिन्तयत् ॥

1.76.10

शुद्धा स्नाता तु शर्मिष्ठा सर्वालङ्कारशोभिता ।
अशोकशाखामालम्ब्य सुपुष्पस्तबकैर्वृताम् ॥

1.76.11

आदर्शे मुखमुद्वीक्ष्य भर्तुर्दर्शनलालसा ।
शोकमोहसमाविष्टा वचनं चेदमब्रवीत् ॥

1.76.12

अशोक शोकापनुद शोकोपहतचेतसाम् । त्वन्नामानं कुरुष्वाद्य प्रियसन्दर्शनेन माम् ।
एवमुक्तवती सा तु शर्मिष्ठा पुनरब्रवीत् ॥

1.76.13

ऋतुकालश्च सम्प्राप्तो न च मेऽस्ति वृतः पतिः ।
किं प्राप्तं किं नु कर्तव्यं किं वा कृत्वा सुखं भवेत् ॥

1.76.14

देवयानी प्रजाताऽसौ वृथाऽहं प्राप्तयौवना ।
यथा तया वृतो भर्ता तथैवाहं वृणोमि तम् ॥

1.76.15

राज्ञा पुत्रफलं देयमिति मे निश्चिता मतिः ।
अपीदानीं स धर्मात्मा ईयान्मे दर्शनं रहः ॥

1.76.16

केशैर्बध्या तु राजानं याचेऽहं सदृशं पतिम् । स्पृहेदिदं देवयानी पुत्रमीक्ष्य पुनःपुनः ।
क्रीडन्नन्तःपुरे तस्याः क्वचित्क्षणमवाप्य च ॥
वैशम्पायन उवाच ।

1.76.17

अथ निष्क्रम्य राजाऽसौ तस्मिन्काले यदृच्छया ।
अशोकवनिकाभ्याशे शर्मिष्ठां प्राप तिष्ठतीम् ॥

1.76.18

तमेकं रहिते दृष्ट्वा शर्मिष्ठा चारुहासिनी ।
प्रत्युद्गम्याञ्जलिं कृत्वा राजानं वाक्यमब्रवीत् ॥
शर्मिष्ठोवाच ।

1.76.19

सोमस्येन्द्रस्य विष्णोर्वा यमस्य वरुणस्य वा ।
तव वा नाहुष गृहे कः स्त्रियं द्रष्टुमर्हति ॥

1.76.20

रूपाभिजनशीलैर्हि त्वं राजन्वेत्थ मां सदा ।
सा त्वां याचे प्रसाद्याहमृतुं देहि नराधिप ॥
ययातिरुवाच ।

1.76.21

वेद्मि त्वां शीलसम्पन्नां दैत्यकन्यामनिन्दिताम् ।
रूपं च ते न पश्यामि सूच्यग्रमपि निन्दितम् ॥

1.76.22

तदाप्रभृति दृष्ट्वा त्वां स्मराम्यनिशमुत्तमे । अब्रवीदुशना काव्यो देवयानीं यदाऽवहम् ।
नेयमाह्वयितव्या ते शयने वार्षपर्वणी ॥

1.76.23

देवयान्याः प्रियं कृत्वा शर्मिष्ठामपि पोषय ॥
शर्मिष्ठोवाच ।

1.76.24

न नर्मयुक्तमनृतं हिनस्ति न स्त्रीषु राजन्न विवाहकाले ।
प्राणात्यये सर्वधनापहारे पञ्चानृतान्याहुरपातकानि ॥

1.76.25

पृष्टं तु साक्ष्ये प्रवदन्तमन्यथा वदन्ति मिथ्या पतितं नरेन्द्र ।
एकार्थतायां तु समाहितायां मिथ्या वदन्तं ह्यनृतं हिनस्ति ॥

1.76.26

अनृतं नानृतं स्त्रीषु परिहासविवाहयोः । आत्मप्राणार्थघाते च तदेवोत्तमतां व्रजेत् ॥
ययातिरुवाच ।

1.76.27

राजा प्रमाणं भूतानां स नश्येत मृषा वदन् ।
अर्थकृच्छ्रमपि प्राप्य न मिथ्या कर्तुमुत्सहे ॥
शर्मिष्ठोवाच ।

1.76.28

समावेतौ मतो राजन्पतिः सख्याश्च यः पतिः ।
समं विवाहमित्याहुः सख्या मेऽसि वृतः पतिः ॥

1.76.29

सह दत्तास्मि काव्येन देवयान्या मनीषिणा । पूज्या पोषयितव्येति न मृषा कर्तुमर्हसि ॥

1.76.30

सुवर्णमणिमुक्तानि वस्त्राण्याभरणानि च ।
याचितॄणां ददासि त्वं गोभूम्यादीनि यानि च ॥

1.76.31

बहिःस्थं दानमित्युक्तं न शरीराश्रितं नृप ।
दुष्करं पुत्रदानं च आत्मदानं च दुष्करम् ॥

1.76.32

शरीरदानात्तत्सर्वं दत्तं भवति मारिष ।
यस्य यस्य यथा कामस्तस्य तस्य ददाम्यहम् ॥

1.76.33

इत्युक्त्वा नगरे राजंस्त्रिकालं घोषितं त्वया । त्वयोक्तमनृतं राजन्वृथा घोषितमेव वा ।
तत्सत्यं कुरु राजेन्द्र यथा वैश्रवणस्तथा ॥
ययातिरुवाच ।

1.76.34

दातव्यं याचमानेभ्य इति मे व्रतमाहितम् ।
त्वं च याचसि मां कामं ब्रूहि किं करवाणि ते ॥

1.76.35

धनं वा यदि वा किञ्चिद्राज्यं वाऽपि शुचिस्मिते ।
शर्मिष्ठोवाच ।
अधर्मात्पाहि मां राजन्धर्मं च प्रतिपादय ॥

1.76.36

नान्यं वृणे पुत्रकामा पुत्रात्परतरं न च । त्वत्तोऽपत्यवती लोके चरेयं धर्ममुत्तमम् ॥

1.76.37

त्रय एवाधना राजन्भार्या दासस्तथा सुतः ।
यत्ते समधिगच्छन्ति यस्यैते तस्य तद्धनम् ॥

1.76.38

पुत्रार्थं भर्तृपोषार्थं स्त्रियः सृष्टाः स्वयम्भुवा । अपतिर्वापि या कन्या अनपत्या च या भवेत् ।
तासां जन्म वृथा लोके गतिस्तासां न विद्यते ॥

1.76.39

देवयान्या भुजिष्याऽस्मि वश्या च तव भार्गवी ।
सा चाहं च त्वया राजन्भजनीये भजस्व माम् ॥
वैशम्पायन उवाच ।

1.76.40

एवमुक्तस्तु राजा स तथ्यमित्यभिजज्ञिवान् ।
पूजयामास शर्मिष्ठां धर्मं च प्रत्यपादयत् ॥

1.76.41

स समागम्य शर्मिष्ठां यथा काममवाप्य च ।
अन्योन्यं चाभिसम्पूज्य जग्मतुस्तौ यथागतम् ॥

1.76.42

तस्मिन्समागमे सुभ्रूः शर्मिष्ठा चारुहासिनी ।
लेभे गर्भं प्रथमतस्तस्मान्नृपतिसत्तमात् ॥

1.76.43

प्रयज्ञे च ततः काले राजन्राजीवलोचना ।
कुमारं देवगर्भाभं राजीवनिभलोचनम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc