भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 1.73

1.73.1

यः परेषां नरो नित्यमतिवादांस्तितिक्षते ।
देवयानि विजानीहि तेन सर्वमिदं जितम् ॥

1.73.2

यः समुत्पतितं क्रोधं निगृह्णाति इयं यथा ।
स यन्तेत्युच्यते सद्भिर्न यो रश्मिषु लम्बते ॥

1.73.3

यः समुत्पतितं क्रोधमक्रोधेन निरस्यति ।
देवयानि विजानीहि तेन सर्वमिदं जितम् ॥

1.73.4

यः समुत्पतितं क्रोधं क्षमयेह निरस्यति ।
यथोरगस्त्वचं जीर्णां स वै पुरुष उच्यते ॥

1.73.5

यः सन्धारयते मन्युं योऽतिवादांस्तितिक्षते ।
यश्च तप्तो न तपति दृढं सोऽर्थस्य भाजनम् ॥

1.73.6

यो यजेदपरिश्रान्तो मासिमासि शतं समाः ।
न क्रुद्ध्येद्यश्च सर्वस्य तयोरक्रोधनोऽधिकः ॥

1.73.7

तस्मादक्रोधनः श्रेष्ठः कामक्रोधौ विगर्हितौ ।
क्रुद्धस्य निष्फलान्येव दानयज्ञतपांसि च ॥

1.73.8

तस्मादक्रोधने यज्ञतपोदानफलं महत् ।
भवेदसंशयं भद्रे नेतरस्मिन्कदाचन ॥

1.73.9

न यतिर्न तपस्वी च न यज्वा न च धर्मभाक् ।
क्रोधस्य यो वशं गच्छेत्तस्य लोकद्वयं न च ॥

1.73.10

पुत्रो भृत्यः सुहृद्भ्राता भार्या धर्मश्च सत्यता ।
तस्यैतान्यपयास्यन्ति क्रोधशीलस्य निश्चितम् ॥

1.73.11

यत्कुमाराः कुमार्यश्च वैरं कुर्युरचेतसः ।
न तत्प्राज्ञोऽनुकुर्वीत न विदुस्ते बलाबलम् ॥
देवयान्युवाच ।

1.73.12

वेदाहं तात बालाऽपि धर्माणां यदिहान्तरम् ।
अक्रोधे चातिवादे च वेद चापि बलाबलम् ॥

1.73.13

स्ववृत्तिमननुष्ठाय धर्ममुत्सृज्य तत्त्वतः । शिष्यस्याशिष्यवृत्तेस्तु न क्षन्तव्यं बुभूषता ॥

1.73.14

प्रेष्यः शिष्यः स्ववृत्तिं हि विसृज्य विफलं गतः । तस्मात्सन्कीर्णवृत्तेषु वासो मम न रोचते ॥

1.73.15

पुमांसो ये हि निन्दन्ति वृत्तेनाभिजनेन च ।
न तेषु निवसेत्प्राज्ञः श्रेयोऽर्थी पापबुद्धिषु ॥

1.73.16

ये त्वेनमभिजानन्ति वृत्तेनाभिजनेन वा ।
तेषु साधुषु वस्तव्यं स वासः श्रेष्ठ उच्यते ॥

1.73.17

सुयन्त्रितपरा नित्यं विहीनाश्च धनैर्वराः ।
दुर्वृत्ताः पापकर्माणश्चण्डाला धनिनोपि च ॥

1.73.18

नैव जात्या हि चण्डालाः स्वकर्मविहितैर्विना ।
धनाभिजनविद्यासु सक्ताश्चण्डालधर्मिणः ॥

1.73.19

अकारणाश्च द्वेष्यन्ति परिवादं वदन्ति ते ।
साधोस्तत्र न वासोस्ति पापिभिः पापतां व्रजेत् ॥

1.73.20

सुकृते दुष्कृते वापि यत्र सज्जति यो नरः । ध्रुवं रतिर्भवेत्तस्य तस्माद्द्वेषं न रोचयेत् ॥

1.73.21

वाग्दुरुक्तं महाघोरं दुहितुर्वृषपर्वणः ।
मम मथ्नाति हृदयमग्निकाम इवारणिम् ॥

1.73.22

न ह्यतो दुष्करतरं मन्ये लोकेष्वपि त्रिषु ।
यः सपत्नश्रियं दीप्तां हीनश्रीः पर्युपासते ॥

1.73.23

मरणं शोभनं तस्य इति विद्वज्जना विदुः ।
अवमानमवाप्नोति शनैर्नीचसमागमात् ॥

1.73.24

अतिवादा वक्त्रतो निःसरन्ति यैराहतः शोचति रात्र्यहानि ।
परस्य वै मर्मसु ते पतन्ति तस्माद्धीरो नैव मुच्येत्परेषु ॥

1.73.25

निरोहेदायुधैश्छिन्नं संरोहेद्दग्धमाग्निना ।
वाक्क्षतं च न संरोहेदाशरीरं शरीरिणाम् ॥

1.73.26

संरोहित शरैर्विद्धं नवं परशुना हतम् ।
वाचा दुरुक्तं बीभत्सं न संरोहेत वाक्क्षतम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc