भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 1.63

1.63.1

पूरोर्वंशमहं धन्यं राज्ञाममिततेजसाम् ।
प्रवक्ष्यामि पितॄणां ते तेषां नामानि मे शृमु ॥

1.63.2

अव्यक्तप्रभवो ब्रह्मा शाश्वतो नित्य अव्ययः ।
तस्मान्मरीचिः सञ्जज्ञे दक्षश्चैव प्रजापतिः ॥

1.63.3

अङ्गुष्ठाद्दक्षमसृजच्चक्षुर्भ्यां च मरीचिनम् ।
मरीचेः कश्यपः पुत्रो दक्षस्य दुहिताऽदितिः ॥

1.63.4

अदित्यां कश्यपाद्विवस्थान् ।
विवस्वतो मनुर्मनोरिला ॥

1.63.5

इलायाः पुरूरवाः । पुरूरवस आयुः ।
आयुषो नहुषः । नहुषस्य ययातिः ॥

1.63.6

ययातेर्द्वे भार्ये बभूवतुः ।
उशनसो दुहिता देवयानी वृषपर्वणश्च दुहिता शर्मिष्ठा नाम ॥

1.63.7

तत्रानुवंशो भवति । यदुं च तुर्वसुं चैव देवयानी व्यजायत ।
द्रुह्यं चानुं च पूरुं च शर्मिष्ठा वार्षपर्वणी ॥

1.63.8

तत्र यदोर्यादवाः । पूरोः पौरवाः ।
पूरोर्भार्या कौसल्या बभूव । तस्यामस्य जज्ञे जनमेजयः ॥

1.63.9

स त्रीन्हयमेधानाजहार ।
विश्वजिता चेष्ट्वा वनं प्रविवेश ॥

1.63.10

जनमेजयस्तु सुनन्दां नामोपयेमे मागधीं ।
तस्यामस्य जज्ञे प्राचीन्वान् ॥

1.63.11

यः प्राचीं दिशं जिगाय ।
यावत्सूर्यादयात् तत्तस्य प्राचीनत्वम् ॥

1.63.12

प्राचीन्वांस्तु खल्वाश्मकीमुपयेमे यादवीम् ।
तस्यामस्य जज्ञे शस्यातिः ॥

1.63.13

शय्यातिस्तु त्रिशङ्कोर्दुहितरं वराङ्गीं नामोपयेमे तस्यामस्य जज्ञेऽहंयातिः ॥

1.63.14

अहंयातिस्तु खलु कृतवीर्यदुहितरं भानुमतीं नामोपयेमे ।
तस्यामस्य जज्ञे सार्वभौमः ॥

1.63.15

सार्वभौमस्तु खलु जित्वाऽजहार कैकयीं सुन्दरां नाम तामुपयेमे ।
तस्यामस्य जज्ञे जयत्सेनः ॥

1.63.16

जयत्सेनस्तु खलु वैदर्भीमुपयेमे सुश्रवां नाम ।
तस्यामस्य जज्ञेऽपराचीनः ॥

1.63.17

अपराचीनस्तु खलु वैदर्भीमपरामुपयेमे मर्यादां नाम ।
तस्यामस्य जज्ञेऽरिहः ॥

1.63.18

अरिहः खल्वाङ्गीमुपेयेमे ।
तस्यामस्य जज्ञे महाभौमः ॥

1.63.19

महाभौमस्तु खलु प्रसेनजिद्दुहितरमुपयेमे सुयज्ञां नाम ।
तस्यामस्य जज्ञे अयुतानायी ॥

1.63.20

यः पुरुषमेधे पुरुषाणामयुतमानयत्तत्तस्यायुतानायित्वम् ॥

1.63.21

अयुतानायी तु खलु पृथुश्रवसो दुहितरमुपयेमे भासां नाम ।
तस्यामस्य जज्ञेऽक्रोधनः ॥

1.63.22

अक्रोधनस्तु खलु कालिङ्गीं कण्डूं नामोपयेमे ।
तस्यामस्य जज्ञे देवातिथिः ॥

1.63.23

देवातिथिस्तु खलु वैदर्भीमुपयेमे मर्यादां नाम तस्यामस्य जज्ञे ऋचः ॥

1.63.24

ऋचस्तु खलु वामदेव्यामङ्गराजकन्यायामृक्षं पुत्रमजीजनत् ॥

1.63.25

ऋक्षस्तु खलु तक्षकदुहितरं ज्वलन्तीं नामोपयेमे ।
तस्यामन्त्यनारमुत्पादयामास ॥

1.63.26

अन्त्यनारस्तु खलु सरस्वत्यां द्वादशवार्षिकं सत्रमाजहार ।
तमुदवसाने सरस्वत्यभिगम्य भर्तारं वरयामास ॥

1.63.27

तस्यां पुत्रं जनयामास त्रस्नुं नाम ।
अत्रानुवंशो भवति ॥

1.63.28

त्रस्नुं सरस्वती पुत्रमन्त्यनारादजीजनत् ।
इलिलं जनयामास कालिन्द्यान्त्रस्नुरात्मजम् ॥

1.63.29

इलिलस्तु रथन्तर्यां दुष्यन्तादीन्पञ्च पुत्रानजीजनत् ॥

1.63.30

दुष्यन्तस्तु लाक्षीं नाम भागीरथीमुपयेमे तस्यामस्य जज्ञे जनमेजयः ॥

1.63.31

सएव दुष्यन्तो विश्वामित्रदुहितरं शकुन्तलां नामोपयेमे ।
तस्यामस्य जज्ञे भरतः ॥

1.63.32

तत्रेमौ श्लोकौ भवतः । माता भस्त्रा पितुः पुत्रो यस्माज्जातः स एव सः ।
भरस्व पुत्रं दौष्यन्तिं सत्यमाह शकुन्तला ॥

1.63.33

रेतोधाः पुत्र उन्नयति नरदेव यमक्षयात् ।
त्वं चास्य धाता गर्भस्य सत्यमाह शकुन्तला ॥

1.63.34

ततोऽस्य भरतत्वम् । भरतस्तु खलु काशेयीं सार्वसेनीमुपयेमे सुनन्दां नाम ।
तस्यामस्य जज्ञे भुमन्युः ॥

1.63.35

भुमन्युस्तु खलु दाशार्हीमुपयेमे सुवर्णां नाम ।
तस्यामस्य जज्ञे सुहोत्रः ॥

1.63.36

सुहोत्रस्तु खल्वैक्ष्वाकीमुपयेमे जयन्तीं नाम । तस्यामस्य जज्ञे हस्ती ।
य इदं पुरं निर्मापयामास ॥

1.63.37

तस्माद्धास्तिनपुरत्वम् ।
हस्ती खलु त्रैगर्तीमुपयेमे यशोदां नाम तस्यामस्य जज्ञे विकुञ्जतः ॥

1.63.38

विकुञ्जनस्तु खलु दाशार्हीमुपयेमे सुन्दरां नाम ।
तस्यामस्य जज्ञेऽजमीढः ॥

1.63.39

अजमीढस्य तु चतुर्विंशतिपुत्रशतं बभूव ।
कैकय्यां नागायां गान्धार्यां विमलायामृक्षायामिति ॥

1.63.40

पृथग्वंशकर्तारो नृपतयः ।
तत्र अजमीढादृक्षायां संवरणो जज्ञे स वंशकरः ॥

1.63.41

सवरणस्तु वैवस्वतीं तपतीं नामोपयेमे ।
तस्यामस्य जज्ञे कुरुः ॥

1.63.42

कुरुस्तु खलु दाशार्हीमुपयेमे शुभाङ्गीं नाम ।
तस्यामस्य जज्ञे विदूरथः ॥

1.63.43

विदूरथस्तु खलु मागधीमुपयेमे सम्प्रियां नाम ।
तस्यामस्य जज्ञेऽनश्वान् ॥

1.63.44

अनश्वांस्तु खलु मागधीमुपयेमेऽमृतां नाम ।
तस्यामस्य जज्ञे परिक्षित् ॥

1.63.45

परिक्षित्खलु बाहुकामुपयेमे सुवेषां नाम ।
तस्यामस्य जज्ञे भीमसेनः ॥

1.63.46

भीमसेनस्तु खलु कैकयीमुपयेमे सुकुमारीं नाम ।
तस्यामस्य जज्ञे परिश्रवाः ॥

1.63.47

यमाहुः प्रतीप इति । प्रतीपस्तु खलु शैब्यामुपयेमे सुनन्दीं नाम ।
तस्यां त्रीन्पुत्रानुत्पादयामास देवापिं शन्तनुं बाह्लीकं चेति ॥

1.63.48

देवापिस्तु खलु बाल एवारण्यं प्रविवेश ।
शन्तनुस्तु महीपालोऽभवत् ॥

1.63.49

तत्र श्लोको भवति । यं यं कराभ्यां स्पृशति जीर्णं स सुखमश्नुते ।
पुनर्युवा च भवति तस्मात्तं शन्तनुं विदुः ॥

1.63.50

तदस्य शन्तनुत्वं । शन्तनुस्तु खलु गङ्गां भागीरथीमुपयेमे तस्यामस्य जज्ञे देवव्रतः ।
यमाहुर्भीष्म इति ॥

1.63.51

भीष्मस्तु खलु पितुः प्रियचिकीर्षया सत्यवतीमानयामास मातरं ।
यामाहुः कालीति ॥

1.63.52

तस्यां पूर्वं पुराशरात्कन्यागर्भो द्वैपायनः ।
तस्यामेव शन्तनोर्द्वौ पुत्रौ बभूवतुः चित्राङ्गदो विचित्रवीर्यश्च ॥

1.63.53

चित्राङ्गदस्तु प्राप्तराज्य एव गन्धर्वेण निहृतः ।
ततो विचित्रवीर्यो राजा बभूव ॥

1.63.54

विचित्रवीर्यस्तु खलुकाशिराजस्य सुते अम्बिकाम्बालिके उदवहत् ।
विचित्रवीर्योऽनुत्पन्नापत्य एव विदेहत्वं प्राप्तः ॥

1.63.55

ततः सत्यवती चिन्तयामास कथं नु खलु शन्तनोः पिण्डविच्छेदो न स्यादिति ॥

1.63.56

साथ द्वैपायनं चिन्तयामास सोऽग्रतः स्थितः किं करवाणीति ।
तं सत्यवत्युवाच भ्राता तेऽनपत्य एव स्वर्गतः तस्यार्थेऽपत्यमुत्पादयेति ॥

1.63.57

स परमित्युवाच स तत्र त्रीन्पुत्रानुत्पादयामास धृतराष्ट्रं पाण्डुं विदुरं चेति ॥

1.63.58

धृतराष्ट्रात्पुत्रशतं बभूव गान्धार्यां वरदानाद्द्वैपायनस्य तेषां च धार्तराष्ट्राणां चत्वारः प्रधानाः दुर्योधनो दुश्शासनो विकर्णश्चित्रसेनश्चेति ॥

1.63.59

पाण्डोस्तु कुन्ती माद्रीति स्त्रीरत्ने बभूवतुः ।
स मृगयां चरन्मैथुनगतमृषिं मृगचारिणं बाणेन जघान ॥

1.63.60

स बाणविद्ध उवाच पाण्डुम् ।
अत्र श्लोको भवति ॥

1.63.61

योऽकृतार्थं हि मां ग्रूर बाणेनाघ्ना मृगव्रतम् ।
त्वामप्येतादृशो भावः क्षिप्रमेवागमिष्यति ॥

1.63.62

इति मृगव्रतचारिणा ऋषिणा शप्तः ।
स विषण्णरूपः पाण्डुस्तं शापं परिहरन्नोपसर्पति भार्ये ॥

1.63.63

कदाचित्स आह । स्वचापल्यादिदं प्राप्तवानहम् ।
पुराणेषु पठ्यमानं शृणोमि नानपत्यस्य लोकाः सन्तीति ॥

1.63.64

सा त्वं मदर्थे पुत्रानुत्पादयेति कुन्तीमुवाच ॥

1.63.65

सा कुन्ती पुत्रानुत्पादयामास धर्माद्युधिष्ठिरं मारुताद्भीमसेनमिन्द्रादर्जुनमिति । स हृष्टरूपः पाण्डुरुवाच ।
इयं ते सपत्नी भवति माद्र्यनपत्या व्रीडिता साध्वी अस्यामपत्यमुत्पाद्यतामिति ॥

1.63.66

सा कुन्ती तस्यै माद्र्यै तथेति व्रतमादिदेश ।
ततस्तस्यां नकुलसहदेवौ यमावश्विभ्यां जज्ञाते ॥

1.63.67

माद्रीं तु खलु स्वलङ्कृतां दृष्ट्वा पाण्डुर्भावं चक्रे ।
स तां प्राप्यैव विदेहत्वं प्राप्तः ॥

1.63.68

ततस्तेन सह चितामन्वारुरोह माद्री ।
कुन्तीं चोवाच यमयोरार्ययाऽप्रमत्तया भवितव्यमिति ॥

1.63.69

ततः पञ्चपाण्डवान्सह कुन्त्या हास्तिनपुरं नयन्ति स्म तपस्विनः ॥

1.63.70

तत्र भीष्माय धृतराष्ट्रविदुरयोः पाण्डोः स्वर्गगमनं याथातथ्यं निवेदयन्तिस्म तपस्विनः ॥

1.63.71

पाण्डवान्सह कुन्त्या जतुगृहे दाहयितुकामो धृतराष्ट्रात्मजोऽभूत् ॥

1.63.72

तांश्च विदुरो मोक्षयामास ।
ततो भीमो हिडिम्बं हत्वा पुत्रमुत्पादयामास हिडिम्बायां घटोत्कचं नाम ॥

1.63.73

ततश्चैकचक्रां जग्मुः कुशलिनः ।
ततः पाञ्चालविषयं गत्वा स्वयंवरे द्रौपदीं लब्ध्वाऽर्धराज्यं प्राप्येन्द्रप्रस्थनिवासिनस्तस्यां पुत्रानुत्पादयामासुर्द्रौपद्याम् ॥

1.63.74

प्रतिविन्ध्यां युधिष्ठिरः । सुतसोमं वृकोदरः ।
श्रुतकीर्तिमर्जुनः । शतानीकं नकुलः । श्रुतसेनं सहदेव इति ॥

1.63.75

शैव्यस्य कन्यां देवकीं नामोपयेमे युधिष्ठिरः ।
तस्यां पुत्रं जनयामास यौधेयं नाम ॥

1.63.76

भीमसेनस्तु वाराणस्यां काशिराजकन्यां जलन्धरां नामोपयेमे स्वयंवरस्थां ।
तस्यामस्य जज्ञे शर्वत्रातः ॥

1.63.77

अर्जुनस्तु खलु द्वारवतीं गत्वा भगवतो वासुदेवस्य भगिनीं सुभद्रां नामोदवहद्भार्यां ।
तस्यामभिमन्युं नाम पुत्रं जनयामास ॥

1.63.78

नकुलस्तु खलु चैद्यां रेणुमतीं नामोदवहत् ।
तस्यां पुत्रं जनयामास निरमित्रं नाम ॥

1.63.79

सहदेवस्तु खलु माद्रीमेव स्वयंवरे विजयां नामोदवहद्भार्याम् ।
तस्यां पुत्रं जनयामास सुहोत्रं नाम ॥

1.63.80

भीमसेनश्च पूर्वमेव हिडिम्बायां राक्षस्यां पुत्रमुत्पादयामास घटोत्कचं नाम ।
अर्जुनस्तु नागकन्यायामुलूप्यामिरावन्तं नाम पुत्रं जनयामास ॥

1.63.81

ततो मणलूरुपतिकन्यायां चित्राङ्गदायामर्जुनः पुत्रमुत्पादयामास बभ्रुवाहनं नाम ।
एते त्रयोदश पुत्राः पाण्डवानाम् ॥

1.63.82

विराटस्य दुहितरमुत्तरां नामाभिमन्युरुपेयेमे ।
तस्यामस्य परासुर्गर्भोऽजायत ॥

1.63.83

तमुत्सङ्गे प्रतिजग्राह पृथा नियोगात्पुरुषोत्तमस्य ।
षाण्मासिकं गर्भमहं जीवयामि पादस्पर्शादिति वासुदेव उवाच ॥

1.63.84

अहं जीवयामि कुमारमनन्तवीर्यं जात एवायमजायत । अभिमन्योः सत्येन चेयं पृथिवी धारयत्विति वासुदेवस्य पादस्पर्शात्सजीवोऽजायत ।
नाम तस्याकरोत्सुभद्रा ॥

1.63.85

परिक्षीणे कुले जात उत्तरायां परन्तपः ।
परिक्षिदभवत्तस्मात्सौभद्रात्तु यशस्विनः ॥

1.63.86

परीक्षित्तु खलु भद्रवतीं नामोपयेमे ।
तस्यां तत्र भवाञ्जनमेजयः ॥

1.63.87

जनमेजयात्तु भवतः खलु वपुष्टमायां पुत्रौ द्वौ शतानीकः शङ्कुकर्णश्च ॥

1.63.88

शतानीकस्तु खलु वैदेहीमुपयेमे ।
तस्यामस्य जज्ञे पुत्रोऽश्वमेधदत्तः ॥

1.63.89

इत्येष पूरोर्वंशस्तु पाण्डवानां च कीर्तितः ।
पूरोर्वंशमिमं श्रुत्वा सर्वपापैः प्रमुच्यते ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc