भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 1.57

1.57.1

ये सर्पाः सर्पसत्रेऽस्मिन्पतिता हव्यवाहने ।
तेषां नामानि सर्वेषां श्रोतुमिच्छामि सूतज ॥
सौतिरुवाच ।

1.57.2

सहस्राणि बहून्यस्मिन्प्रयुतान्यर्बुदानि च ।
न शक्यं परिसंख्यातुं बहुत्वाद्द्विजसत्तम ॥

1.57.3

यथास्मृति तु नामानि पन्नगानां निबोध मे ।
उच्यमानानि मुख्यानां हुतानां जातवेदसि ॥

1.57.4

वासुकेः कुलजातांस्तु प्राधान्येन निबोध मे ।
नीलरक्तान्सितान्घोरान्महाकायान्विषोल्बणान् ॥

1.57.5

अवशान्मातृवाग्दण्डपीडितान्कृपणान्हूतान् ।
कोटिशो मानसः पूर्णः शलः पालो हलीमकः ॥

1.57.6

पिच्छलः कौणपश्चक्रः कालवेगः प्रकालनः ।
हिरण्यबाहुः शरणः कक्षकः कालदन्तकः ॥

1.57.7

एते वासुकिजा नागाः प्रविष्टा हव्यवाहने । अन्ये च बहवो विप्र तथा वै कुलसम्भवाः ।
प्रदीप्ताग्नौ हुताःसर्वे घोररूपा महाबलाः ॥

1.57.8

तक्षकस्य कुले जातान्प्रवक्ष्यामि निबोध तान् ।
पुच्छाण्डको मण्डलकः पिण्डसेक्ता रभेणकः ॥

1.57.9

उच्छिखः शरभो भङ्गो बिल्वतेजा विरोहणः ।
शिली शलकरो मूकः सुकुमारः प्रवेपनः ॥

1.57.10

मुद्गरः शिशुरोमा च सुरोमा च महाहनुः ।
एते तक्षकजा नागाः प्रविष्टा हव्यवाहनम् ॥

1.57.11

पारावतः पारियात्रः पाण्डरो हरिणः कृशः ।
विहङ्गः शरभो मोदः प्रमोदः संहतापनः ॥

1.57.12

ऐरावतकुलादेते प्रविष्टा हव्यवाहनम् ।
कौरव्यकुलजान्नागाञ्शृणु मे त्वं द्विजोत्तम ॥

1.57.13

एरकः कुण्डलो वेणी वेणीस्कन्धः कुमारकः ।
बाहुकः शृङ्गबेरश्च धूर्तकः प्रातरातकौ ॥

1.57.14

कौरव्यकुलजास्त्वेते प्रविष्टा हव्यवाहनम् ।
धृतराष्ट्रकुले जाताञ्शृणु नागान्यथातथम् ॥

1.57.15

कीर्त्यमानान्मया ब्रह्मन्वातवेगान्विषोल्बणान् ।
शङ्कुकर्णः पिठरकः कुठारमुखसेचकौ ॥

1.57.16

पूर्णाङ्गदः पूर्णमुखः प्रहासः शकुनिर्दरिः ।
अमाहठः कामठकः सुषेणो मानसोऽव्ययः ॥

1.57.17

अष्टावक्रः कोमलकः श्वसनो मौनवेपगः । भैरवो मुण्डवेदाङ्गः पिशङ्गश्चोदपारकः ।
ऋषभो वेगवान्नागः पिण्डारकमहाहनू ॥

1.57.18

रक्ताङ्गः सर्वसारङ्गः समृद्धपटवासकौ ।
वराहको वीरणकः सुचित्रश्चित्रवेगिकः ॥

1.57.19

पराशरस्तरुणको मणिः स्कन्धस्तथाऽरुणिः ।
इति नागा मया ब्रह्मन्कीर्तिताः कीर्तिवर्धनाः ॥

1.57.20

प्राधान्येन बहुत्वात्तु न सर्वे परिकीर्तिताः ।
एतेषां प्रसवो यश्च प्रसवस्य च सन्ततिः ॥

1.57.21

न शक्यं परिसंख्यातुं ये दीप्तं पावकं गताः । द्विशीर्षाः पञ्चशीर्षाश्च सप्तशीर्षास्तथाऽपरे ।
दशशीर्षाः शतशीर्षास्तथान्ये बहुशीर्षकाः ॥

1.57.22

कालानलविषा घोरा हुताः शतसहस्रशः ।
महाकाया महावेगाः शैलशृङ्गसमुच्छ्रयाः ॥

1.57.23

योजनायामविस्तारा द्वियोजनसमायताः ।
कामरूपाः कामबला दीप्तानलविषोल्बणाः ॥

1.57.24

दग्धास्तत्र महासत्रे ब्रह्मदण्डनिपाडिताः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc