भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 1.38

1.38.1

सर्पाणां तु वचः श्रुत्वा सर्वेषामिति चेति च ।
वासुकेश्च वचः श्रुत्वा एलापत्रोऽब्रवीदिदम् ॥

1.38.2

प्रागेव दर्शिता बुद्धिर्मयैषा भुजगोत्तमाः ।
हेयेति यदि वो बुद्धिस्तवापि च तथा प्रभो ॥

1.38.3

अस्तु कामं मभाद्यापि बुद्धिः स्मरणमागता । तां शृणुध्वं प्रवक्ष्यामि याथातथ्येन पन्नगाः ॥

1.38.4

न स यज्ञो न भविता न स राजा तथाविधः ।
जनमेजयः पाण्डवेयो यतोऽस्माकं महद्भयम् ॥

1.38.5

दैवेनोपहतो राजन्यो भवेदिह पूरुषः ।
स दैवमेवाश्रयेत नान्यत्तत्र परायणम् ॥

1.38.6

तदिदं चैवमस्माकं भयं पन्नगसत्तमाः ।
दैवमेवाश्रयामोऽत्र शृणुध्वं च वचो मम ॥

1.38.7

अहं शापे समुत्सृष्टे समश्रौषं वचस्तदा । मातुरुत्सङ्गमारूढो भयात्पन्नगसत्तमाः ।
देवानां पन्नगश्रेष्ठास्तीक्ष्णास्तीक्ष्ण इति प्रभो ॥

1.38.8

शापदुःखाग्नितप्तानां पन्नगानामनामयम् । कृपया परयाऽविष्टाः प्रार्थयन्तो दिवौकसः ॥
देवा ऊचुः ।

1.38.9

का हि लब्ध्वा प्रियान्पुत्राञ्शपेदेवं पितामह ।
ऋते कद्रूं तीक्ष्णरूपां देवदेव तवाग्रतः ॥

1.38.10

तथेति च वचस्तस्यास्त्वयाप्युक्तं पितामह ।
इच्छाम एतद्विज्ञातुं कारणं यन्न वारिता ॥
ब्रह्मोवाच ।

1.38.11

बहवः पन्नगास्तीक्ष्णा घोररूपा विषोल्बणाः ।
प्रजानां हितकामोऽहं न च वारितवांस्तदा ॥

1.38.12

ये दन्दशूकाः क्षुद्राश्च पापाचारा विषोल्बणाः ।
तेषां विनाशो भविता न तु ये धर्मचारिणः ॥

1.38.13

यन्निमित्तं च भविता मोक्षस्तेषां महाभयात् ।
पन्नगानां निबोधध्वं तस्मिन्काले समागते ॥

1.38.14

यायावरकुले धीमान्भविष्यति महानृषिः ।
जरत्कारुरिति ख्यातस्तपस्वी नियतेन्द्रियः ॥

1.38.15

तस्य पुत्रो जरत्कारोर्भविष्यति तपोधनः । आस्तीको नाम यज्ञं स प्रतिषेत्स्यति तं तदा ।
तत्र मोक्ष्यन्ति भुजगा ये भविष्यन्ति धार्मिकाः ॥
देवा ऊचुः ।

1.38.16

स मुनिप्रवरो ब्रह्मञ्जरत्कारुर्महातपाः ।
कस्यां पुत्रं महात्मानं जनयिष्यति वीर्यवान् ॥
ब्रह्मोवाच ।

1.38.17

वासुकेर्भगिनी कन्या समुत्पन्ना सुशोभना ।
तस्मै दास्यति तां कन्यां वासुकिर्भुजगोत्तमः ॥

1.38.18

तस्यां जनयिता पुत्रं वेदवेदाङ्गपारगम् । सनामायां सनामा स कन्यायां द्विजसत्तमः ॥
एलापत्र उवाच ।

1.38.19

एवमस्त्विति तं देवाः पितामहमथाब्रुवन् ।
उत्क्वैवं वचनं देवान्विरिञ्चिस्त्रिदिवं ययौ ॥

1.38.20

सोऽहमेवं प्रपश्यामि वासुके भगिनी तव ।
जरत्कारुरिति ख्याता तां तस्मै प्रतिपादय ॥

1.38.21

भैक्षवद्भिक्षमाणाय नागानां भयशान्तये ।
ऋषये सुव्रतायैनामेष मोक्षः श्रुतो मया ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc