भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 1.31

1.31.1

कोऽपराधो महेन्द्रस्य कः प्रमादश्च सूतज ।
तपसा वालखिल्यानां सम्भूतो गरुडः कथम् ॥

1.31.2

कश्यपस्य द्विजातेश्च कथं वै पक्षिराट् सुतः ।
अधृष्टः सर्वभूतानामवध्यस्चाभवत्कथम् ॥

1.31.3

कथं च कामचारी स कामवीर्यश्च खेचरः ।
एतदिच्छाम्यहं श्रोतुं पुराणे यदि पठ्यते ॥
सौतिरुवाच ।

1.31.4

विषयोऽयं पुराणस्य यन्मां त्वं परिपृच्छसि ।
शृणु मे वदतः सर्वमेतत्सन्क्षेपतों द्विज ॥

1.31.5

यजतः पुत्रकामस्य कश्यपस्य प्रजापतेः ।
साहाय्यमृषयो देवा गन्धर्वाश्च ददुः किल ॥

1.31.6

तत्रेध्मानयने शक्रो नियुक्तः कश्यपेन ह ।
मुनयो वालखिल्याश्च ये चान्ये देवतागणाः ॥

1.31.7

शक्रस्तु वीर्यसदृशमिध्यभारं गिरिप्रभम् ।
समुद्यम्यानयामास नातिकृच्छ्रादिव प्रभुः ॥

1.31.8

अथापश्यदृषीन्ह्रस्वानङ्गुष्ठोदरवर्ष्मणः ।
पलाशवर्तिकामेकां वहतः संहतान्पथि ॥

1.31.9

प्रलीनान्स्वेष्विवाङ्गेषु निराहारांस्तपोधनान् ।
क्लिश्यमानान्मन्दबलान्गोष्पदे सम्प्लुतोदके ॥

1.31.10

तान्सर्वान्विस्मयाविष्टो वीर्योन्मत्तः पुरन्दरः ।
अपहास्याभ्यगाच्छीघ्रं लम्बयित्वाऽवमन्य च ॥

1.31.11

तेऽथ रोषसमाविष्टाः सुभृशं जातमन्यवः ।
आरेभिरे महत्कर्म तदा शक्रभयन्करम् ॥

1.31.12

जुहुवुस्ते सुतपसो विधिवज्जातवेदसम् ।
मन्त्रैरुच्चावचैर्विप्रा येन कामेन तच्छृणु ॥

1.31.13

कामवीर्यः कामगमो देवराजभयप्रदः ।
इन्द्रोऽन्यः सर्वदेवानां भवेदिति यतव्रताः ॥

1.31.14

इन्द्राच्छतगुणः शौर्ये वीर्ये चैव मनोजवः ।
तपसो नः फलेनाद्य दारुणः सम्भवित्विति ॥

1.31.15

तद्बुद्ध्वा भृशसन्तप्तो देवराजः शतक्रतुः ।
जगाम शरणं तत्र कश्यपं संशितव्रतम् ॥

1.31.16

तच्छ्रुत्वा देवराजस्य कश्यपोऽथ प्रजापतिः ।
वालखिल्यानुपागम्य कर्मसिद्धिमपृच्छत ॥
कश्यप उवाच ।

1.31.17

केन कामेन चारब्धं भवद्भिर्होमकर्म च ।
याथातथ्येन मे ब्रूत श्रोतुं कौतूहलं हि मे ॥
वालखिल्या ऊचुः ।

1.31.18

अवज्ञाताः सुरेन्द्रेण मूढेनाकृतबुद्धिना ।
ऐश्वर्यमदमत्तेन सदाचारान्निरस्यता ॥

1.31.19

तद्विघातार्थमारम्भो विधिवत्तस्य कश्यप ॥
सौतिरुवाच ।

1.31.20

एवमस्त्विति तं चापि प्रत्यूचुः सत्यवादिनः ।
तान्कश्यप उवाचेदं सान्त्वपूर्वं प्रजापतिः ॥

1.31.21

अयमिन्द्रस्त्रिभुवने नियोगाद्ब्रह्मणः कृतः ।
इन्द्रार्थे च भवन्तोऽपि यत्नवन्तस्तपोधनाः ॥

1.31.22

न मिथ्या ब्रह्मणो वाक्यं कर्तुमर्हथ सत्तमाः ।
भवतां हि न मिथ्याऽयं सन्कल्पो वै चिकीर्षितः ॥

1.31.23

भवत्वेष पतत्रीणामिन्द्रोऽतिबलसत्त्ववान् ।
प्रसादः क्रियतामस्य देवराजस्य याचतः ॥
सौतिरुवाच ।

1.31.24

एवमुक्ताः कश्यपेन वालखिल्यास्तपोधनाः ।
प्रत्यूचुरभिसम्पूज्य मुनिश्रेष्ठं प्रजापतिम् ॥
वालखिल्या ऊचुः ।

1.31.25

इन्द्रार्थोऽयं समारम्भः सर्वेषां नः प्रजापते ।
अपत्यार्थं समारम्भो भवतश्चायमीप्सितः ॥

1.31.26

तदिदं सफलं कर्म त्वयैव प्रतिगृह्यताम् ।
तथा चैवं विधत्स्वात्र यथा श्रेयोऽनुपश्यसि ॥
सौतिरुवाच ।

1.31.27

एतस्मिन्नेव काले तु देवी दाक्षायणी शुभा ।
विनता नाम कल्याणी पुत्रकामा यशस्विनी ॥

1.31.28

तपस्तप्त्वा व्रतपरा स्नाता पुंसवने शुचिः ।
उपचक्राम भर्तारं तामुवाचाथ कश्यपः ॥

1.31.29

आरम्भः सफलो देवि भविता यस्त्वयेप्सितः ।
जनयिष्यसि पुत्रौ द्वौ वीरौ त्रिभुवनेश्वरौ ॥

1.31.30

तपसा वालखिल्यानां मम सन्कल्पतस्तथा ।
भविष्यतो महाभागौ पुत्रौ त्रैलोक्यपूजितौ ॥

1.31.31

उवाच चैनां भगवान्कश्यपः पुनरेव ह ।
धार्यतामप्रमादेन गर्भोऽयं सुमहोदयः ॥

1.31.32

एकः सर्वपतत्रीणामिन्द्रत्वं कारयिष्यति ।
लोकसम्भावितो वीरः कामरूपो विहङ्गमः ॥
सौतिरुवाच ।

1.31.33

शतक्रतुमथोवाच प्रीयमाणः प्रजापतिः ।
त्वत्सहायौ महावीर्यौ भ्रातरौ ते भविष्यतः ॥

1.31.34

नैताभ्यां भविता दोषः सकाशात्ते पुरन्दर ।
व्येतु ते शक्र सन्तापस्त्वमेवेन्द्रो भविष्यसि ॥

1.31.35

न चाप्येवं त्वया भूयः क्षेप्तव्या ब्रह्मवादिनः ।
न चावमान्या दर्पात्ते वाग्वज्रा भृशकोपनाः ॥
सौतिरुवाच ।

1.31.36

एवमुक्तो जगामेन्द्रो निर्विशङ्कस्त्रिविष्टपम् ।
विनता चापि सिद्धार्था बभूव मुदिता तथा ॥

1.31.37

जनयामास पुत्रौ द्वावरुणं गरुडं तथा ।
विकलाङ्गोऽरुणस्तत्र भास्करस्य पुरःसरः ॥

1.31.38

पतत्त्रीणां च गरुडमिन्द्रत्वेनाभ्यषिञ्चत ।
तस्यैतत्कर्म सुमहच्छ्रूयतां भृगुनन्दन ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc