भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 1.3

1.3.1

जनमेजयः पारिक्षितः सह भ्रातृभिः कुरुक्षेत्रे दीर्घसत्रमुपास्ते । तस्य भ्रातरस्त्रयः श्रुतसेन उग्रसेनो भीमसेन इति ।
तेषु तत्सत्रमुपासीनेष्वभ्यागच्छत्सारमेयः ॥

1.3.2

जनमेजयस्य भ्रातृभिरभिहतो रोरूयमाणो मातुः समीपमुपागच्छत् ॥

1.3.3

तं माता रोरूयमाणमुवाच ।
किं रोदिषि केनास्यभिहत इति ॥

1.3.4

स एवमुक्तो मातरं प्रत्युवाच जनमेजयस्य भ्रातृभिरभिहतोऽस्मीति ॥

1.3.5

तं माता प्रत्युवाच व्यक्तं त्वया तत्रापराद्धं येनास्यभिहत इति ॥

1.3.6

स तां पुनरुवाच नापराध्यामि किञ्चिन्नावेक्षे हवींषि नावलिह इति ॥

1.3.7

तच्छ्रुत्वा तस्य माता सरमा पुत्रदुःखार्ता तत्सत्रमुपागच्छद्यत्र स जनमेजयः सह भ्रातृभिर्दीर्घसत्रमुपास्ते ॥

1.3.8

स तया क्रुद्धया तत्रोक्तोऽयं मे पुत्रो न किञ्चिदपराध्यति नावेक्षते हवींषि नावलेढि किमर्थमभिहत इति ॥

1.3.9

न किञ्चिदुक्तवन्तस्ते सा तानुवाच यस्मादयमभिहतोऽनपकारी तस्माददृष्टं त्वां भयमागमिष्यतीति ॥

1.3.10

जनमेजय एवमुक्तो देवशुन्या सरमया भृशं सम्भ्रान्तो विषण्णश्चासीत् ॥

1.3.11

स तस्मिन्सत्रे समाप्ते हास्तिनपुरं प्रत्येत्य पुरोहितमनुरूपमन्विच्छमानः परं यत्नमकरोद्यो मे पापकृत्यां शमयेदिति ॥

1.3.12

स कदाचिन्मृगयां गतः पारिक्षितो जनमेजयः कस्मिंश्चित्स्वविषय आश्रममपश्यत् ॥

1.3.13

तत्र कश्चिदृपिरासाञ्चक्रे श्रुतश्रवा नाम ।
तस्य तपस्यभिरतः पुत्र आस्ते सोमश्रवा नाम ॥

1.3.14

तस्य तं पुत्रमभिगम्य जनमेजयः पारिक्षितः पौरोहित्याय वव्रे ॥

1.3.15

स नमस्कृत्य तमृषिमुवाच भगवन्नयं तव पुत्रो मम पुरोहितोऽस्त्विति ॥

1.3.16

स एवमुक्तः प्रत्युवाच जनमेजयं भो जनमेजय पुत्रोऽयं मम सर्प्यां जातो महातपस्वी स्वाध्यायसम्पन्नो मत्तपोवीर्यसम्भृतो मच्छुक्रं पीतवत्यास्तस्याः कुक्षौ जातः ॥

1.3.17

समर्थोऽयं भवतः सर्वाः पापकृत्याः शमयितुमन्तरेण महादेवकृत्याम् ॥

1.3.18

अस्य त्वेकमुपांशुव्रतं यदेनं कश्चिद्ब्राह्मणः कञ्चिदर्थमभियाचेत्तं तस्मै दद्यादयं यद्येतदुत्सहसे ततो नयस्वैनमिति ॥

1.3.19

तेनैवमुक्तो जनमेजयस्तं प्रत्युवाच भगवंस्तत्तथा भविष्यतीति ॥

1.3.20

स तं पुरोहितमुपादायोपावृत्तो भ्रातृनुवाच मयाऽयं वृत उपाध्यायो यदयं ब्रूयात्तत्कार्यमविचारयद्भिर्भवद्भिरिति । तेनैवमुक्ता भ्रातरस्तस्य तथा चक्रुः ।
स तथा भ्रातॄन्सन्दिश्य तक्षशिलां प्रत्यभिप्रतस्थे तं च देशं वशे स्थापयामास ॥

1.3.21

एतस्मिन्नन्तरे कश्चिदृषिर्धौम्यो नामापोदस्तस्य शिष्यास्त्रयो बभूवुः ॥

1.3.22

उपमन्युरारुणिर्बैदश्चेति स एकं शिष्यम्मारुणिं पाञ्चाल्यं प्रेषयामास गच्छ केदारखण्डं बधानेति ॥

1.3.23

स उपाध्यायेन सन्दिष्ट आरुणिः पाञ्चाल्यस्तत्र गत्वा तत्केदारखण्डं बद्धुं नाशकत् ।
स क्लिश्यमानोऽपश्यदुपायं भवत्वेवं करिष्यामीति ॥

1.3.24

स तत्र संविवेश केदारखण्डे शयाने व तथा तस्मिंस्तदुदकं तस्थौ ॥

1.3.25

ततः कदाचिदुपाध्याय आपोदो धौम्यः शिष्यावपृच्छत् क्व आरुणिः पाञ्चाल्यो गत इति ॥

1.3.26

तौ तं प्रत्यूचतुर्भगवंस्त्वयैव प्रेषितो गच्छ केदारखण्डं बधानेति ।
स एवमुक्तस्तौ शिष्यौ प्रत्युवाच तस्मात्तत्र सर्वे गच्छामो यत्र स गत इति ॥

1.3.27

स तत्र गत्वा तस्याह्वानाय शब्दं चकारः ।
भो आरुणे पाञ्चाल्य क्वासि वत्सैहीति ॥

1.3.28

स तच्छ्रुत्वा आरुणिरुपाध्यायवाक्यं तस्मात्केदारखण्डात्सहसोत्थायतमुपाध्यायमुपतस्थे ॥

1.3.29

प्रोवाच चैनमयमस्म्यत्र केदारखण्डे निःसरमाणमुदकमवारणीयं संरोद्धुं संविष्टो भगवच्छब्दं श्रुत्वैव सहसा विदार्य केदारखण्डं भवन्तमुपस्थितः ॥

1.3.30

तदभिवादये भगवन्तमाज्ञापयतु भवान्कमर्थं करवाणीति ॥

1.3.31

स एवमुक्त उपाध्यायः प्रत्युवाच यस्माद्भवान्केदारखण्डं विदार्योत्थितस्तस्मादुद्दालक एवनाम्ना भवान्भविष्यतीत्युपाध्यायेनानुगृहीतः ॥

1.3.32

यस्माच्च त्वया मद्वचनमनुष्ठितं तस्माच्छ्रेयोऽवाप्स्यसि ।
सर्वे च ते वेदाः प्रतिभास्यन्ति सर्वाणि च धर्मशास्त्राणीति ॥

1.3.33

स एवमुक्त उपाध्यायेनेष्टं देशं जगाम ॥

1.3.34

अथापरः शिष्यस्तस्यैवापोदस्य धौम्यस्योपमन्युर्नाम ।
तं चोपाध्यायः प्रेषयामास वत्सोपमन्यो गा रक्षस्वेति ॥

1.3.35

स उपाध्यायवचनादरक्षद्गाः स चाहनि गा रक्षित्वा दिवसक्षये गुरुगृहमागम्योपाध्यायस्याग्रतः स्थित्वा नमश्चक्रे ॥

1.3.36

तमुपाध्यायः पीवानमपश्यदुवाच चैनं वत्सोपमन्यो केन वृत्तिं कल्पयसि पीवानसि दृढमिति ॥

1.3.37

स उपाध्यायं प्रत्युवाच भो भैक्ष्येण वृत्तिं कल्पयामीति तमुपाध्यायः प्रत्युवाच ॥

1.3.38

मय्यनिवेद्य बैक्ष्यं नीपयोक्तव्यमिति ।
स तथेत्युक्तो भैक्ष्यं चरित्वोणध्यायन्यवेदयत् ॥

1.3.39

स तस्मादुपाध्यायः सर्वमेव भैक्ष्यमगृह्णात् ।
स तथेत्युक्तः पुनररक्षद्गा अहनि रक्षित्वा निशामुखे गुरुकुलमागम्य गुरोरग्रतःस्थित्वा नमश्चक्रे ॥

1.3.40

तमुपाध्यायस्तथापि पीवानमेव दृष्ट्वोवाच ।
वत्सोपमन्यो सर्वमशेषतस्ते भैक्ष्यं गृह्णामि केनेदानीं वृत्तिं कल्पयसीति ॥

1.3.41

स एवमुक्त उपाध्यायं प्रत्युवाच ।
भगवते निवेद्य पूर्वमपरं चरामि तेन वृत्तिं कल्पयामीति तमुपाध्यायः प्रत्युवाच ॥

1.3.42

नैषा न्याय्या गुरुवृत्तिरन्येषामपि भैक्ष्योपजीविनां वृत्त्युपरोधं करोषि इत्येवं वर्तमानो लुब्धोऽसीति ॥

1.3.43

स तथेत्युक्त्वा गा अरक्षद्रक्षित्वाच पुनरुपाध्यायगृहमागम्योपाध्यायस्याग्रतः स्थित्वा नमश्चक्रे ॥

1.3.44

तमुपाध्यायस्तथापि पीवानमेव दृष्ट्वा पुनरुवाच ।
वत्सोपमन्यो अहं ते सर्वं भैक्ष्यं गृह्णामि न चान्यच्चरसि पीवानसि भृशं केन वृत्तिं कल्पयसीति ॥

1.3.45

स एवमुक्तस्तमुपाध्यायं प्रत्युवाच । भो एतासां गवां पयसा वृत्तिं कल्पयामीति ।
तमुवाचोपाध्यायो नैतन्न्याय्यं पय उपयोक्तुं भवतो मया नाभ्यनुज्ञातमिति ॥

1.3.46

स तथेति प्रतिज्ञाय गा रक्षित्वा पुनरुपाध्यायगृहमेत्य गुरोरग्रतः स्थित्वा नमश्चक्रे ॥

1.3.47

तमुपाध्यायः पीवानमेव दृष्ट्वोवाच ।
वत्सोपमन्यो भैक्ष्यं नाश्नासि न चान्यच्चरसि पयो न पिबसि पीवानसि भृशं केनेदानीं वृत्तिं कल्पयसीति ॥

1.3.48

स एवमुक्त उपाध्यायं प्रत्युवाच ।
भोः फेनं पिबापि यमिमे वत्सा मातॄणां स्तनात्पिबन्त उद्गिरन्ति ॥

1.3.49

तमुपाध्यायः प्रत्युवाच । एते त्वदनुकम्पया गुणवन्तो वत्साः प्रभूततरं फेनमुद्गिरन्ति ।
तदेषामपि वत्सानां वृत्त्युपरोधं करोष्येवं वर्तमानः । फेनमपि भवान्न पातुमर्हतीति स तथेति प्रतिश्रुत्य निराहारः पुनररक्षद्गाः ॥

1.3.50

तथा प्रतिषिद्धो भैक्ष्यं नाश्नाति नचान्यच्चरति पयो न पिबति फेनं नोपयुह्क्ते स कदाचिदरण्ये क्षुधार्तोऽर्कपत्राण्यभक्षयत् ॥

1.3.51

स तैरर्कपत्रैर्भक्षितैः क्षारतिक्तकटुरूक्षैस्तीक्ष्णविपाकैश्चक्षुष्युपहतोऽन्धो बभूव ।
ततः सोऽन्धोऽपि चङ्क्रम्यमाणः कूपेऽपतत् ॥

1.3.52

अथ तस्मिन्ननागच्छति सूर्ये चास्ताचलावलम्बिनि उपाध्यायः शिष्यानवोचत् ॥

1.3.53

मयोपमन्युः सर्वतः प्रतिषिद्धः स नियतं कुपितस्ततो नागच्छति चिरगतस्त्विति ।
ततोऽन्वेष्य इत्येवमुक्त्वा शिष्यैः सार्धमरण्यं गत्वा तस्याह्वानाय शब्दं चकार भो उपमन्यो क्वासि वत्सैहीति ॥

1.3.54

स उपाध्यायस्य आह्वानवचनं श्रुत्वा प्रत्युवाचोच्चैरयमस्मिन्कूपे पतितोऽहमिति ।
तमुपाध्यायः प्रत्युवाच कथं त्वमस्मिन्कूपे पतित इति ॥

1.3.55

स उपाध्यायं प्रत्युवाच अर्कपत्राणि भक्षयित्वान्धीभूतोस्म्यतश्चङ्क्रम्यमाणः कूपे पतित इति ।
तमुपाध्यायः प्रत्युवाच ॥

1.3.56

अश्विनौ स्तुहि तौ देवभिषजौ त्वां चक्षुष्मन्तं कर्ताराविति ।
स एवमुक्त उपाध्यायेनोपमन्युः स्तोतुमुपचक्रमे देवावश्विनौ वाग्भिरृग्भिः ॥

1.3.57

प्रपूर्वगौ पूर्वजौ चित्रभानू गिरा वां शंसामि तपसा ह्यनन्तौ ।
दिव्यौ सुपर्णौ विरजौ विमाना- वधिक्षिपन्तौ भुवनानि विश्वा ॥

1.3.58

हिरण्मयौ शकुनी साम्परायौ नासत्यदस्रौ सुनसौ वैजयन्तौ ।
शुक्लं वयन्तौ तरसा सुवेमा- वधिव्ययन्तावसितं विवस्वतः ॥

1.3.59

ग्रस्तां सुपर्णस्य बलेन वर्तिका- ममुञ्चतामश्विनौ सौभगाय ।
तावत्सुवृत्तावनमं तमाय या- वसत्तमा गा अरुणा उदावहत् ॥

1.3.60

षष्टिश्च गावस्त्रिशताश्च धेनव एकं वत्सं सुवते तं दुहन्ति ।
नानागोष्ठा विहिता एकदोहना- स्तावश्विनौ दुहतो घर्ममुक्थ्यम् ॥

1.3.61

एकां नाभिं सप्त सथा अराः श्रिताः प्रधिष्वन्या विंशतिरर्पिता अराः ।
अनेमि चक्रं परिवर्ततेऽजरं मायाऽश्विनौ समनक्ति चर्षणी ॥

1.3.62

एकं चक्रं वर्तते द्वादशारं षण्णाभिमेकाक्षममृतस्य धारणम् ।
यस्मिन्देवा अधि विश्वे विषक्ता- स्तावश्विनौ मुञ्चतो मा विषीदतम् ॥

1.3.63

अश्विनाविन्दुममृतं वृत्तभूयौ तिरोधत्तामश्विनौ दासपत्नी ।
हित्वा गिरिमश्विनौ गामुदाचरन्तौ तद्वृष्टिमह्नात्प्रस्थितौ बलस्य ॥

1.3.64

युवां दिशो जनयथो दशाग्रे समानं मूर्ध्नि रथयानं वियन्ति ।
तासां यातमृषयोऽनुप्रयान्ति देवा मनुष्याः क्षितिमाचरन्ति ॥

1.3.65

युवां वर्णान्विकुरुथो विश्वरूपां- स्तेऽधिक्षियन्ते भुवनानि विश्वा ।
ते भानवोऽप्यनुसृताश्चरन्ति देवा मनुष्याः क्षितिमाचरन्ति ॥

1.3.66

तौ नासत्यावश्विनौ वां महेऽहं स्रजं च यां बिभृथः पुष्करस्य ।
तौ नासत्वावमृतावृतावृधा- वृते देवास्तत्प्रपदे न सूते ॥

1.3.67

मुखेन गर्भं लभतां युवानौ गतासुरेतत्प्रपदेन सूते ।
सद्यो जातो मातरमत्ति गर्भ- स्तावश्विनौ मुञ्चथौ जीवसे गाम् ॥

1.3.68

स्तोतुं न शक्नोमि गुणैर्भवन्तौ चक्षुर्विहीनः पथि सम्प्रमोहः ।
दुर्गेऽहमस्मिन्पतितोऽस्मि कूपे युवां शरण्यौ शरणं प्रपद्ये ॥
सौतिरुवाच ।

1.3.69

एवमृग्भिश्चान्यैरस्तुवत् ।
इत्येवं तेनाभिष्टुतावश्विनावाजग्मतुराहतुश्चैं प्रीतौ स्व एष तेऽपूपोशानैनमिति ॥

1.3.70

स एवमुक्तः प्रत्युवाच नानृतमूचतुर्भगवन्तौ नत्वहमेतमपूपमुपयोक्तुमुत्सहे गुरवेऽनिवेद्येति ॥

1.3.71

ततस्तमश्विनावूचतुः ।
आवाभ्यां पुरस्ताद्भवत उपाध्यायेनैवमेवाभिष्टुताभ्यामपूपोदत्त उपयुक्तः स तेनानिवेद्य गुरवे त्वमपि तथैव कुरुष्व यथा कृतमुपाध्यायेनेति ॥

1.3.72

स एवमुक्तः प्रत्युवाच एतत्प्रत्यनुनये भवन्तावश्विनौ नोत्सहेऽहमनिवेद्य गुरवेऽपूपमुपयोक्तुमिति ॥

1.3.73

तमश्विनावाहतुः प्रीतौ स्वस्तवानया गुरुभक्त्या ।
उपाध्यायस्य ते कार्ष्णायसा दन्ता भवतोऽपि हिरण्मया भविष्यन्ति चक्षुष्मांश्च भविष्यसि श्रेयश्चावाप्स्यसीति ॥

1.3.74

स एवमुक्तोऽश्विभ्यां लब्धचक्षुरुपाध्यायसकाशमागम्याभ्यवादयत् ॥

1.3.75

आचचक्षे च स चास्य प्रीतिमान्बभूव ॥

1.3.76

आह चैनं यथाऽश्विनावाहतुस्तथा त्वं श्रेयोऽवाप्स्यसीति ॥

1.3.77

सर्वे च ते वेदाःप्रतिभास्यन्ति सर्वाणि च धर्मशास्त्राणीति ।
एषा तस्यापि परीक्षोपमन्न्योः ॥

1.3.78

अथापरः शिष्यस्तस्यैवापोदस्य धौम्यस्य बैदो नाम तमुपाध्यायः समादिदेश वत्स बैद इहास्यतां तावन्मम गृहे कञ्चित्कालं शुश्रूषुणा च भवितव्यं श्रेयस्ते भविष्यतीति ॥

1.3.79

स तथेत्युक्त्वा गुरुकुले दीर्घकालं गुरुशुश्रूषणपरोऽवसत् ।
गौरिव नित्यं गुरुणा धूर्षु नियोज्यमानः शीतोष्णक्षुत्तृष्णादुःखसहः सर्वत्राप्रतिकूलस्तस्य महतात्कालेन गुरुः परितोषं जगाम ॥

1.3.80

तत्परितोषाच्च श्रेयः सर्वज्ञतां चावाप ।
एषा तस्यापि परीक्षा बैदस्य ॥

1.3.81

स उपाध्यायेनानुज्ञातः समावृत्तस्तस्माद्गुरुकुलवासाद्गृहाश्रमं प्रत्यपद्यत । तस्यापि स्वगृहे वसतस्त्रयः शिष्या बभूवुः स शिष्यान्न किञ्चिदुवाच कर्म वा क्रियतां गुरुशुश्रूषा वेति ।
दुःखाभिज्ञो हि गुरुकुलवासस्य शिष्यान्परिक्लेशेन योजयितुं नेयेष ॥

1.3.82

अथ कस्मिंश्चित्काले बैदं ब्राह्मणं जनमेजयः पौष्यश्च क्षत्रियावुपेत्योपाध्यायं वरयाञ्चक्रतुः ॥

1.3.83

स कदाचिद्याज्यकार्येणाभिप्रस्थित उत्तङ्कनामानं शिष्यं नियोजयामास ॥

1.3.84

भोयत्किञ्चिदस्मद्गृहे परिहीयते तदिच्छाम्यहमपरिहीयमानं भवता क्रियमाणमिति स एवं प्रतिसन्दिश्योत्तङ्कं बैदः प्रवासं जगाम ॥

1.3.85

अथोत्तङ्कः शुश्रूषुर्गुरुनियोगमनुतिष्ठमानो गुरुकुले वसति स्म ।
स तत्र वसमान उपाध्यायस्त्रीभिः सहिताभिराहूयोक्तः ॥

1.3.86

उपाध्यायानी ते ऋतुमती उपाध्यायश्च प्रोषितोऽस्या यथाऽयमृतुर्वन्ध्यो न भवति तथा क्रियतामेषा विषीदतीति ॥

1.3.87

एवमुक्तस्ताः स्त्रियः प्रत्युवाच । न मया स्त्रीणां वचनादिदमकार्यं करणीयम् ।
न ह्यहमुपाध्यायेन सन्दिष्टोऽकार्यमपि त्वया कार्यमिति ॥

1.3.88

तस्य पुनरुपाध्यायः कालान्तरेण गृहमाजगाम तस्मात्प्रवासात् ।
स तु तद्वृत्तं तस्याशेषमुपलभ्य प्रीतिमानभूत् ॥

1.3.89

उवाच चैनं वत्सोत्तङ्कं किं ते प्रियं करवाणीति ।
धर्मतो हि शुश्रूषितोऽस्मि भवता तेन प्रीतिः परस्परेण नौ संवृद्धा तदनुजाने भवन्तं सर्वानेव कामानवाप्स्यसि गम्यतामिति ॥

1.3.90

स एवमुक्तः प्रत्युवाच किं ते प्रियं करवाणीति एवं ह्याहुः ॥

1.3.91

यश्चाधर्मेण वै ब्रूयाद्यश्चाधर्मेण पृच्छति ।
तयोरन्यतरः प्रैति विद्वेषं चाधिगच्छति ॥

1.3.92

सोहमनुज्ञातो भवता इच्छामीष्टं गुर्वर्थमुपहर्तुमिति ।
तेनैवमुक्त उपाध्यायः प्रत्युवाच वत्सोत्तङ्क उष्यतां तावदिति ॥

1.3.93

स कदाचित्तमुपाध्यायमाहोत्तङ्क आज्ञापयतु भवान्किं ते प्रियमुपाहरामि गुर्वर्थमिति ॥

1.3.94

तमुपाध्यायः प्रत्युवाच वत्सोत्तङ्क बहुशो मां चोदयसि गुर्वर्थमुपाहरामीति तद्गच्छैनां प्रविश्योपाध्यायानीं पृच्छ किमुपाहरामीति एषा यद्ब्रवीति तदुपाहरस्वेति ॥

1.3.95

स एवमुक्त उपाध्यायेनोपाध्यायानीमपृच्छद्भवत्युपाध्यायेनास्म्यनुज्ञातो गृहं गन्तुमिच्छामीष्टं ते गुर्वर्थमुपहृत्यानृणो गन्तुं तदाज्ञापयतु भवती किमुपाहरामि गुर्वर्थमिति ॥

1.3.96

सैवमुक्तोपाध्यायानी तमुत्तङ्कं प्रत्युवाच गच्छ पौष्यं प्रति राजानं कुण्डले भिक्षितुं तस्य क्षत्रियया पिनद्धे ॥

1.3.97

आनयस्वेतश्चतुर्थेऽहनि पुण्यकर्म भविता ताभ्यामाबद्धाभ्यां शोभमाना ब्राह्मणान्परिवेष्टुमिच्छामि ।
तत्सम्पादयस्व एवं हि कुर्वतः श्रेयो भविताऽन्यथा कुतः श्रेय इति ॥

1.3.98

स एवमुक्तस्तयोपाध्यायान्या प्रातिष्ठतोत्तङ्कः स पथि गच्छन्नपश्यदृषभमतिप्रमाणं तमधिरूढं च पुरुषमतिप्रमाणमेव स पुरुष उत्तङ्कमभ्यभाषत ॥

1.3.99

भोउत्तङ्कैतत्पुरीषमस्य ऋषभस्य भक्षयस्वेति स एवमुक्तो नैच्छत् ॥

1.3.100

तमाह पुरुषो भूयो भक्षयस्वोत्तङ्क मा विचारयोपाध्यायेनापि ते भक्षितं पूर्वमिति ॥

1.3.101

स एवमुक्तो बाढमित्युक्त्वा तदा तद्वृपभस्य मूत्रं पुरीषं च भक्षयित्वोत्तङ्कः सम्भ्रमाढुत्थित एवापोऽनुस्पृश्य प्रतस्थे ॥

1.3.102

यत्र स क्षत्रियः पौष्यस्तमुपेत्यासीनमपश्यदुत्तङ्कः ।
स उत्तङ्कस्तमुपेत्याशीर्भिरभिनन्द्योवाच ॥

1.3.103

अर्थी भवन्तमुपागतोऽस्मीति स एनमभिवाद्योवाच ।
भगवन्पौष्यः खल्वहं किं करवाणीति ॥

1.3.104

स तमुवाच गुर्वर्थं कुण्डलयोरर्थेनाभ्यागतोऽस्मि ।
ये वै ते क्षत्रिया पिनद्धे कुण्डले ते भवान्दातुमर्हतीति ॥

1.3.105

तं प्रत्युवाच पौष्यः प्रविश्यान्तःपुरं क्षत्रिया याच्यतामिति ।
स तेनैवमुक्तः प्रविश्यान्तःपुरं क्षत्रियां नापश्यत् ॥

1.3.106

स पौष्यं पुनरुवाच न युक्तं भवताऽहमनृतेनोपचरितुं न हि तेऽन्तःपुरे क्षत्रिया सन्निहिता नैनां पश्यामि ॥

1.3.107

स एवमुक्तः पौष्यः क्षणमात्रं विमृश्योत्तङ्कं प्रत्युवाच ।
नियतं भवानुच्छिष्टः स्मर तावन्न हि सा क्षत्रिया उच्छिष्टेनाशुचिना शक्या द्रष्टुं पतिव्रतात्वात्सैषा नाशुचेर्दर्शनमुपैतीति ॥

1.3.108

अथैवमुक्त उत्तङ्कः स्मृत्वोवाचास्ति खलु मया तु भक्षितं नोपस्पृष्टमागच्छतेति ।
तं पौष्यः प्रत्युवाच एष ते व्यतिक्रमो नोत्थितेनोपस्पृष्टं भवति शीघ्रमागच्छतेति ॥

1.3.109

अथोत्तङ्कस्तं तथेत्युक्त्वा प्राङ्मुख उपावेश्य सुप्रक्षालितपाणिपादवदनो निःशब्दाभिरफेनाभिरनुष्णाभिर्हृद्गताभिरद्भिस्त्रिः पीत्वा द्विः परिमृज्य खान्यद्भिरुपस्पृश्य चान्तःपुरं प्रविवेश ॥

1.3.110

ततस्तां क्षत्रियामपश्यत्सा च दृष्ट्वैवोत्तङ्कं प्रत्युत्थायाभिवाद्योवाच स्वागतं ते भगवन्नाज्ञापय किं करवाणीति ॥

1.3.111

स तामुवाचैते कुण्डले गुर्वर्थं मे भिक्षिते दातुमर्हसीति ।
सा प्रीता तेन तस्य सद्भावेन पात्रमयमनतिक्रमणीयश्चेति मत्वा ते कुण्डले अवमुच्यास्मै प्रायच्छदाह चैनमेते कुण्डले तक्षको नागराजः सुभृशं प्रार्थयत्यप्रमत्तो नेतुमर्हसीति ॥

1.3.112

स एवमुक्तस्तां क्षत्रियां प्रत्युवाच भवती सुनिर्वृता भवतु ।
न मां शक्तस्तक्षको नागराजो धर्षयितुमिति ॥

1.3.113

स एवमुक्त्वा तां क्षत्रियामामन्त्र्य पौष्यसकाशमागच्छत् ।
आह चैनं भोः पौष्य प्रीतोऽस्मीति तमुत्तङ्कं पौष्यः प्रत्युवाच ॥

1.3.114

भगवंश्चिरेण पात्रमासाद्यते भवाश्च गुणवानतिथिस्तदिच्छे श्राद्धं कर्तुं क्रियतां क्षण इति ॥

1.3.115

तमुत्तङ्कः प्रत्युवाच कृतक्षण एवास्मि शीघ्रमिच्छामि यथोपपन्नमन्नमुपस्कृतं भवतेति स तथेत्युक्त्वा यथोपपन्नेनान्नेनैनं भोजयामास ॥

1.3.116

अथोत्तङ्कः सकेशं शीतमन्नं दृष्ट्वा अशुच्येतदिति मत्वा तं पौष्यमुवाच ।
यस्मान्मे अशुच्यन्नं ददासि तस्मादन्धो भविष्यसीति ॥

1.3.117

तं पौष्यः प्रत्युवाच ।
यस्मात्त्वमदुष्टमन्नन्दूषयसि तस्मादनपत्यो भविष्यसीति तमुत्तङ्कः प्रत्युवाच ॥

1.3.118

न युक्तं भवताऽन्नमशुचि दत्त्वा प्रतिशापं दातुं तस्मादन्नमेव प्रत्यक्षीकुरु ।
ततः पौष्यस्तदन्नमशुचि दृष्ट्वा तस्याशुचिभावमपरोक्षयामास ॥

1.3.119

अथ तदन्नं मुक्तकेश्या स्त्रियोपहृतमनुष्णं सकेशं चाशुच्येतदिति मत्वा तमृषिमुत्तङ्कं प्रसादयामास ॥

1.3.120

भघवन्नेतदज्ञानादन्नं सकेशमुपाहृतं शीतं च । तत्क्षामये भवन्तं न भवेयमन्ध इति ।
तमुत्तङ्कः प्रत्युवाच ॥

1.3.121

न मृषा ब्रवीमि भूत्वा त्वमन्धो नचिरादनन्धो भविष्यसीति ।
ममापि शापो भवता दत्तो न भवेदिति ॥

1.3.122

तं पौष्यः प्रत्युवाच न चाहं शक्तः शापं प्रत्यादातुं न हि मे मन्युरद्याप्युपशमं गच्छति किं चैतद्भवता न ज्ञायते ।
यथा ॥

1.3.123

नवनीतं हृदयं ब्राह्मणस्य वाचि क्षुरो निहितस्तीक्ष्णधारः ।
तदुभयमेतद्विपरीतं क्षत्रियस्य वाङ्गवनीतं हृदयं तीक्ष्णधारम् ॥ इति ॥

1.3.124

तदेवन्गते न शक्तोऽहं तीक्ष्णहृदयत्वात्तं शापमन्यथाकर्तुं गम्यतामिति ।
तमुत्तङ्कः प्रत्युवाच ॥

1.3.125

भवताऽहमन्नस्याशुचिभावमालक्ष्य प्रत्यनुनीतः । प्राक् च तेऽभिहितं यस्माददुष्टमन्नं दूषयसि तस्मादनपत्यो भविष्यसीति ।
दुष्टे चान्ने नैष मम शापो भविष्यतीति ॥

1.3.126

साधयामस्तावदित्युक्त्वा प्रातिष्ठतोत्तङ्कस्ते कुण्डले गृहीत्वा ।
सोऽपश्यदथ पथि नग्नं क्षपणकमागच्छन्तं मुहुर्मुहुर्दृश्यमानमदृश्यमानं च ॥

1.3.127

अथोत्तङ्कस्ते कुण्डले सन्न्यस्य भूमावुदकार्थं प्रचक्रमे ।
एतस्मिन्नन्तरे स क्षपणकस्त्वरमाण उपसृत्य ते कुण्डले गृहीत्वा प्राद्रवत् ॥

1.3.128

तमुत्तङ्कोऽभिसृत्य कृतोदककार्यः शुचिः प्रयतो नमो देवेभ्यो गुरुभ्यश्च कृत्वा महता जवेन तमन्वयात् ॥

1.3.129

तस्य तक्षको दृढमासन्नः सतं जग्राह ।
गृहीतमात्रः स तद्रूपं विहाय तक्षकस्वरूपं कृत्वा सहसा धरण्यां विवृतं महाबिलं प्रविवेश ॥

1.3.130

प्रविश्य च नागलोकं स्वभवनमगच्छत् ।
अथोत्तङ्कस्तस्याः क्षत्रियाया वचः स्मृत्वा तं तक्षकमन्वगच्छत् ॥

1.3.131

स तद्बिलं दण्डकाष्ठेन चखान न चाशकत् । तं क्लिश्यमानमिन्द्रोऽपश्यत्स वज्रं प्रेषयामास ।
गच्छास्य ब्राह्मणस्य साहाय्यं कुरुष्वेति ॥

1.3.132

अथ वज्रं दण्डकाष्ठमनुप्रविश्य तद्बिलमदारयत् ॥

1.3.133

तमुत्तङ्कोऽनुविवेश तेनैव बिलेन प्रविश्य च तं नागलोकमपर्यन्तमनेकविधप्रासादहर्म्यवलभीनिर्यूहशतसन्कुलमुच्चावचक्रीडाश्चर्यस्थानावकीर्णमपश्यत् ॥

1.3.134

स तत्र नागांस्तानस्तुवदेभिः श्लोकैः । य ऐरावतराजानः सर्पाः समितिशोभाः ।
क्षरन्त इव जीमूताः सविद्युत्पवनेरिताः ॥

1.3.135

सुरूपा बहुरूपाश्च तथा कल्माषकुण्डलाः ।
आदित्यवन्नाकपृष्ठे रेजुरैरावतोद्भवाः ॥

1.3.136

बहूनि नागवेश्मानि गङ्गायास्तीर उत्तरे ।
तत्रस्थानपि संस्तौमि महतः पन्नगानहम् ॥

1.3.137

इच्छेत्कोऽर्कांशुसेनायां चर्तुमैरावतं विना ।
शतान्यशीतिरष्टौ च सहस्राणि च विंशतिः ॥

1.3.138

सर्पाणां प्रग्रहा यान्ति धृतराष्ट्रो यदैजति ।
ये चैनमुपसर्पन्ति ये च दूरपथं गताः ॥

1.3.139

अहमैरावतज्येष्ठभ्रातृभ्योऽकरवं नमः ।
यस्य वासः कुरुक्षेत्रे खाण्डवे चाभवत्पुरा ॥

1.3.140

तं नागराजमस्तौषं कुण्डलार्थाय तक्षकम् ।
तक्षकश्चाश्वसेनश्च नित्यं सहचरावुभौ ॥

1.3.141

कुरुक्षेत्रं च वसतां नदीमिक्षुमतीमनु ।
जघन्यजस्तक्षकस्य श्रुतसेनेति यः सुतः ॥

1.3.142

अवसद्यो महद्द्युम्नि प्रार्थयन्नागमुख्यताम् ।
करवाणि सदा चाहं नमस्तस्मै महात्मने ॥
सौतिरुवाच ।

1.3.143

एवं स्तुत्वा स विप्रर्षिरुत्तङ्को भुजगोत्तमान् ।
नैव ते कुण्डले लेभे ततश्चिन्तामुपागमत् ॥

1.3.144

एवं स्तुवन्नपि नागान्यदा ते कुण्डले नालभत्तदाऽपश्यत्स्त्रियौ तन्त्रे अधिरोप्य सुवेमे पटं वयन्त्यौ ।
तस्मिंस्तन्त्रे कृष्णाः सिताश्च तन्तवश्चक्रं चापश्यद्द्वादशारं षड्भिः कुमारैः परिवर्त्यमानं पुरुषं चापश्यदश्वं च दर्शनीयम् ॥

1.3.145

स तान्सर्वांस्तुष्टाव एभिर्मन्त्रवादश्लोकैः ॥

1.3.146

त्रीण्यर्पितान्यत्र शतानि मध्ये षष्टिश्च नित्यं चरति ध्रुवेऽस्मिन् ।
चक्रे चतुर्विंशतिपर्वयोगे षड्वै कुमाराः परिवर्तयन्ति ॥

1.3.147

तन्त्रं चेदं विश्वरूपे युवत्यौ वयतस्तन्तून्सततं वर्तयन्त्यौ ।
कृष्णान्सितांश्चैव विवर्तयन्त्यौ भूतान्यजस्रं भुवनानि चैव ॥

1.3.148

वज्रस्य भर्ता भुवनस्य गोप्ता वृत्रस्य हन्ता नमुचेर्निहन्ता ।
कृष्णे वसानो वसने महात्मा सत्यानृते यो विविनक्ति लोके ॥

1.3.149

यो वाजिनं गर्भमपां पुराणं वैश्वानरं वाहनमभ्युपैति ।
नमोऽस्तु तस्मै जगदीश्वराय लोकत्रयेशाय पुरन्दराय ॥

1.3.150

ततः स एनं पुरुषः प्राह प्रीतोऽस्मि तेऽहसनेन स्तोत्रेण किं ते प्रियं करवाणीति ।
स तमुवाच नागा मे वशमीयुरिति ॥

1.3.151

स चैनं पुरुषः पुनरुवाच एतमश्वमपाने धमस्वेति ॥

1.3.152

ततोऽश्वस्यापानमधमत्ततोऽश्वाद्धम्यमानात्सर्वस्रोतोभ्यः पावकार्चिषः सधूमा निष्पेतुः ॥

1.3.153

ताभिर्नागलोक उपधूपितेऽथ सम्भ्रान्तस्तक्षकोऽग्नेस्तेजोभयाद्विषण्णः कुण्डले गृहीत्वा सहसा भवनान्निष्क्रम्योत्तङ्कमुवाच ॥

1.3.154

इमे कुण्डले गृह्णातु भवानिति ।
स ते प्रतिजग्राहोत्तङ्कः प्रतिगृह्य च कुण्डलेऽचिन्तयत् ॥

1.3.155

अद्य तत्पुण्यकमुपाध्यायान्या दूरं चाहमभ्यागतः स कथं सम्भावयेयमिति ॥

1.3.156

तत एनं चिन्तयानमेव स पुरुष उवाच ।
उत्तङ्क एनमेवाश्वमधिरोह त्वां क्षणेनैवोपाध्यायकुलं प्रापयिष्यतीति ॥

1.3.157

स तथेन्युक्त्वा तमश्वमधिरुह्य प्रत्याजगामोपाध्यायकुलं ।
उपाध्यायानी च स्नाता केशानावापयन्त्युपविष्टोत्तङ्को नागच्छतीति शापायास्य मनो दधे ॥

1.3.158

अथैतस्मिन्नन्तरे स उत्तङ्कः प्रविश्य उपाध्यायकुलं उपाध्यायानीमभ्यवादयत्ते चास्यै कुण्डले प्रायच्छत्सा चैनं प्रत्युवाच ॥

1.3.159

उत्तङ्क देशे कालेऽभ्यागतः स्वागतं ते वत्स इदानीं यद्यनागतोसि कोपितया मया शप्तो भविष्यसि श्रेयस्तवोपस्थितं सिद्धिमाप्नुहीति ॥

1.3.160

अथोत्तङ्क उपाध्यायमभ्यवादयत् ।
तमुपाध्यायः प्रत्युवाच वत्सोत्तङ्क स्वागतं ते किं चिरं कृतमिति ॥

1.3.161

तमुत्तङ्क उपाध्यायं प्रत्युवाच ।
भोस्तक्षकेण मे नागराजेन विघ्नः कृतोऽस्मिन्कर्मणि तेनास्मि नागलोकं गतः ॥

1.3.162

तत्र च मया दृष्टे स्त्रियौ तन्त्रेऽधिरोप्य पटं वयन्त्यौ तस्मिंश्च कृष्णाः सिताश्च तन्तवः ।
किं तत् ॥

1.3.163

तत्र च मया चक्रं दृष्टं द्वादशारं षट्चैनं कुमाराः परिवर्तयन्ति तदपि किं । पुरुषश्चापि मया दृष्टः स चापि कः ।
अश्वश्चातिप्रमाणो दृष्टः स चापि कः ॥

1.3.164

पथि गच्छता च मया ऋषभो दृष्टस्तं च पुरुषोऽधिरूढस्तेनास्मि सोपचारमुक्त उत्तङ्कास्य ऋषभस्य पुरीषं भक्षय उपाध्यायेनापि ते भक्षितमिति ॥

1.3.165

ततस्तस्य वचनान्मया तदृषभस्य पुरीषमुपयुक्तं स चापि कः । तदेतद्भवतोपदिष्टमिच्छेयं श्रोतुं किं तदिति ।
स तेनैवमुक्त उपाध्यायः प्रत्युवाच ॥

1.3.166

ये ते स्त्रियौ धाता विधाता च ये च ते कृष्णाः सितास्तन्तवस्ते रात्र्यहनी ।
यदपि तच्चक्रं द्वादशारं षट्कुमाराः परिवर्तयन्ति तेपि षडृतवः द्वादशारा द्वादश मासाः संवत्सरश्चक्रम् ॥

1.3.167

यः पुरुषःस पर्जन्यः योऽश्वः सोऽग्निः य ऋषभस्त्वया पथि गच्छता दृष्टः स ऐरावतो नागराट् ॥

1.3.168

यश्चैनमधिरूढः पुरुषः स चेन्द्रः यदपि ते भक्षितं तस्य ऋषभस्य पुरीषं तदमृतं तेन खल्वसि तस्मिन्नागभवने न व्यापन्नस्त्वम् ॥

1.3.169

स हि भगवानिन्द्रो मम सखा त्वदनुक्रोशादिममनुग्रहं कृतवान् ।
तस्मात्कुण्डले गृहीत्वा पुनरागतोऽसि ॥

1.3.170

तत्सौम्य गम्यतामनुजाने भवन्तं श्रेयोऽवाप्स्यसीति ।
स उपाध्यायेनानुज्ञातो भगवानुत्तङ्कः क्रुद्धस्तक्षकं प्रतिचिकीर्षमाणो हास्तिनपुरं प्रतस्थे ॥

1.3.171

स हास्तिनपुरं प्राप्य नचिराद्विप्रसत्तमः ।
समागच्छत राजानमुत्तङ्को जनमेजयम् ॥

1.3.172

पुरा तक्षशिलासंस्थं निवृत्तमपराजितम् ।
सम्यग्विजयिनं दृष्ट्वा समन्तान्मन्त्रिभिर्वृतम् ॥

1.3.173

तस्मै जयाशिषः पूर्वं यथान्यायं प्रयुज्य सः ।
उवाचैनं वचः काले शब्दसम्पन्नया गिरा ॥
उत्तङ्क उवाच ।

1.3.174

अन्यस्मिन्करणीये तु कार्ये पार्थिवसत्तम ।
अर्चयित्वा यथान्यायं प्रत्युवाच द्विजोत्तमम् ॥
सौतिरुवाच ।

1.3.175

एवमुक्तस्तु विप्रेण स राजा जनमेजयः ।
अर्चयित्वा यथान्यायं प्रत्युवाच द्विजोत्तमम् ॥
जनमेजय उवाच ।

1.3.176

आसां प्रजानां परिपालनेन स्वं क्षत्रधर्मं परिपालयामि ।
प्रव्रूहि मे किं करणीयमद्य येनासि कार्येण समागतस्त्वम् ॥
सौतिरुवाच ।

1.3.177

स एवमुक्तस्तु नृपोत्तमेन द्विजोत्तमः पुण्यकृतां वरिष्ठः ।
उवाच राजानमदीनसत्वं स्वमेव कार्यं नृपते कुरुष्व ॥
उत्तङ्क उवाच ।

1.3.178

तक्षकेण महीन्द्रेन्द्र येन ते हिंसितः पिता ।
तस्मै प्रतिकुरुष्व त्वं पन्नगाय दुरात्मने ॥

1.3.179

कार्यकालं हि मन्येऽहं विधिदृष्टस्य कर्मणः ।
तद्गच्छापचितिं राजन्पितुस्तस्य महात्मनः ॥

1.3.180

तेन ह्यनपराधी स दष्टो दुष्टान्तरात्मना ।
पञ्चत्वमगमद्राजा वज्राहत इव द्रुमः ॥

1.3.181

बलदर्पसमुत्सिक्तस्तक्षकः पन्नगाधमः ।
अकार्यं कृतवान्पापो योऽदशत्पितरं तव ॥

1.3.182

राजर्षिवंशगोप्तारममरप्रतिमं नृपम् ।
यियासुं काश्यपं चैव न्यवर्तयत पापकृत् ॥

1.3.183

होतुमर्हसि तं पापं ज्वलिते हव्यवाहने ।
सर्पसत्रे महाराज त्वरितं तद्विधीयताम् ॥

1.3.184

एवं पितुश्चापचितिं कृतवांस्त्वं भविष्यसि ।
मम प्रियं च सुमहत्कृतं राजन् भविष्यति ॥

1.3.185

कर्मणः पृथिवीपाल मम येन दुरात्मना ।
विघ्नः कृतो महाराज गुर्वर्थं चरतोऽनघ ॥
सौतिरुवाच ।

1.3.186

एतच्छ्रुत्वा तु नृपतिस्तक्षकाय चुकोप ह ।
उत्तङ्कवाक्यहविषा दीप्तोऽग्निर्हविषा यथा ॥

1.3.187

अपृच्छत्स तदा राजा मन्त्रिणः स्वान्सुदुःखितः ।
उत्तङ्कस्यैव सान्निध्ये पितुः स्वर्गगतिं प्रति ॥

1.3.188

तदैव हि स राजेन्द्रो दुःखशोकाप्लुतोऽभवत् । यदैव वृत्तं पितरमुत्तङ्कादशृणोत्तदा ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc