भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 1.28

1.28.1

इत्युक्तो गरुडः सर्पैस्ततो मातरमब्रवीत् ।
गच्छाम्यमृतमाहर्तुं भक्ष्यमिच्छामि वेदितुम् ॥
विनतोवाच ।

1.28.2

समुद्रकुक्षावेकान्ते निषादालयमुत्तमम् ।
भवनानि निषादानां तत्र सन्ति द्विजोत्तम ॥

1.28.3

पापिनां नष्टलोकानां निर्घृणानां दुरात्मनाम् ।
निषादानां सहस्राणि तान्भुक्त्वाऽमृतमानय ॥

1.28.4

न च ते ब्राह्मणं हन्तुं कार्या बुद्धिः कथञ्चन ।
अवध्यः सर्वभूतानां ब्राह्मणो ह्यनलोपमः ॥

1.28.5

अग्निरर्को विषं शस्त्रं विप्रो भवति कोपितः ।
गुरुर्हि सर्वभूतानां ब्राह्मणः परिकीर्तितः ॥

1.28.6

एवमादिस्वरूपैस्तु सतां वै ब्राह्मणो मतः ।
स ते तात न हन्तव्यः सन्क्रुद्धेनापि सर्वथा ॥

1.28.7

ब्राह्मणानामभिद्रोहो न कर्तव्यः कथञ्चन ।
न ह्येवमग्निर्नादित्यो भस्म कुर्यात्तथानघ ॥

1.28.8

यथा कुर्यादभिक्रुद्धो ब्राह्मणः संशितव्रतः ।
तदेतैर्विविधैर्लिङ्गैस्त्वं विद्यास्तं द्विजोत्तमम् ॥

1.28.9

भूतानामग्रभूर्विप्रो वर्णश्रेष्ठः पिता गुरुः ।
गरुड उवाच ।
किंरूपो ब्राह्मणो मातः किंशीलः किम्पराक्रमः ॥

1.28.10

किंस्विदग्निनिभो भाति किंस्वित्सौम्यप्रदर्शनः ।
यथाहमभिजानीयां ब्राह्मणं लक्षणैः शुभैः ॥

1.28.11

तन्मे कारणतो मातः पृच्छतो वक्तुमर्हसि ।
विनतोवाच ।
यस्ते कण्ठमनुप्राप्तो निगीर्णं बडिशं यथा ॥

1.28.12

दहेदङ्गारवत्पुत्रं तं विद्याद्ब्राह्मणर्षभम् ।
विप्रस्त्वया न हन्तव्यः सन्क्रुद्धेनापि सर्वदा ॥

1.28.13

प्रोवाच चैन विनता पुत्रहार्दादिदं वचः ।
जठरे न च जीर्येद्यस्तं जानीहि द्विजोत्तमम् ॥

1.28.14

पुनः प्रोवाच विनता पुत्रहार्दादिदं वचः ।
जानन्त्यप्यतुलं वीर्यमाशीर्वादपरायणा ॥

1.28.15

प्रीता परमदुःखार्ता नागैर्विप्रकृता सती ।
विनतोवाच ।
पक्षौ ते मारुतः पातु चन्द्रसूर्यौ च पृष्ठतः ॥

1.28.16

शिरश्च पातु वह्निस्ते वसवः सर्वतस्तनुम् । विष्णुः सर्वगतः सर्वमह्गानि तव चैव ह ।
अहं च ते सदा पुत्र शान्तिस्वस्तिपरायणा ॥

1.28.17

इहासीना भविष्यामि स्वस्तिकारे रता सदा ।
अरिष्टं व्रज पन्थानं पुत्र कार्यार्थसिद्धये ॥
सौतिरुवाच ।

1.28.18

ततः स मातुर्वचनं निशम्य वितत्य पक्षौ नभ उत्पपात ।
ततो निषादान्बलवानुपागतो बुभुक्षितः काल इवान्तकोऽपरः ॥

1.28.19

स तान्निषादानुपसंहरंस्तदा रजः समुद्धूय नभःस्पृशं महत् ।
समुद्रकुक्षौ च विशोषयन्पयः समीपजान्भूधरजान्विचालयन् ॥

1.28.20

ततः स चक्रे महदाननं तदा निषादमार्गं प्रतिरुध्य पक्षिराट् ।
ततो निषादास्त्वरिताः प्रवव्रजु- र्यतो मुखं तस्य भुजन्गभोजिनः ॥

1.28.21

तदाननं विवृतमतिप्रमाणव- त्समभ्ययुर्गगनमिवार्दिताः खगाः ।
सहस्रशः पवनजोविमोहिता यथा.ञनिलप्रचलितपादपे वने ॥

1.28.22

ततः खगो वदनममित्रतापनः समाहरत्परिचपलो मत्बलाः ।
निषूदयन्बहुविधमत्स्यजीविनो बभुक्षितो गगनचरेश्वरस्तदा ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc