भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 1.259

1.259.1

मन्दपालोऽञपि कौरव्यं चिन्तयामास पुत्रकान् ।
उक्त्वाऽपि च स तिग्मांशुं नैव शर्माधिगच्छति ॥

1.259.2

स तप्यमानः पुत्रार्थे लपितामिदमब्रवीत् ।
कथं नु शक्ताः शरणे लपिते मम पुत्रकाः ॥

1.259.3

वर्धमाने हुतवहे वाते चाशु प्रवायति ।
असमर्था विमोक्षाय भविष्यन्ति ममात्मजाः ॥

1.259.4

कथं त्वशक्ता त्राणाय माता तेषां तपस्विनी ।
भविष्यति हि शोकार्ता पुत्रत्राणमपश्यती ॥

1.259.5

कथमुड्डीयनेऽशक्तान्पतने च ममात्मजान् ।
सन्तप्यमाना बहुधा वाशमाना प्रधावती ॥

1.259.6

जरितारिः कथं पुत्रः सारिसृक्कः कथं च मे ।
स्तम्बमित्रः कथं द्रोणः कथं सा च तपस्विनी ॥

1.259.7

लालप्यमानं तमृषैं मन्दपालं तथा वने ।
लपिता प्रत्युवाचेदं सासूयमिव भारत ॥

1.259.8

न ते पुत्रेष्ववेक्षाऽस्ति यानृषीनुक्तवानसि ।
तेजस्विनो वीर्यवन्तो न तेषां ज्वलनाद्भयम् ॥

1.259.9

त्वयाऽग्नौ ते परीताश्च स्वयं हि मम सन्निधौ ।
श्रुतं तथा चेति ज्वलनेन महात्मना ॥

1.259.10

पलो न तां वाचमुक्त्वा मिथ्या करिष्यति ।
न्धुकृत्ये न तेन ते स्वस्थ मानसम् ॥

1.259.11

तामेव तु ममामित्रां चिन्तयन्परितप्यसे ।
ध्रुवं मयि न ते स्नेहो यथा तपयं पुराऽभवत् ॥

1.259.12

नहि पक्षवता न्याय्यं निः हेन सुहृज्जने ।
पीड्यमान उपद्रष्टुं शक्तेना मा कथञ्चन ॥

1.259.13

गच्छ त्वं जरितामेव यदर्थं परितप्यसे ।
चरिष्याम्यहमप्येका यथा पुरुषाश्रिता ॥
मन्दपाल उवाच ।

1.259.14

नाहमेवं चरे लोके यथा त्वमभिमन्यसे ।
अपत्यहेतोर्विचरे तच्च कृच्छ्रगतं मम ॥

1.259.15

भूतं हित्वा च भाव्यर्थे योऽवलम्बेत्स मन्दधीः ।
अवमन्येत तं लोको यथेच्छसि तथा कुरु ॥

1.259.16

एष हि प्रज्वलन्नग्निर्लेलिहानी महीरुहान् ।
आविग्ने हृदि सन्तापं जनयत्यशिवं मम ॥
वैशम्पायन उवाच ।

1.259.17

भर्तुर्हि वाक्यं सा श्रुत्वा लपिता दुःखिताऽभवत् । सान्त्वयामास च पुनः पति पतिपरायणा ॥

1.259.18

तस्माद्देशादतिक्रान्ते ज्वलने जरिता पुनः ।
जगाम पुत्रकानेन जरिता पुत्रगृद्धिनी ॥

1.259.19

सा तान्कुशलिनः सर्वान्विमुक्ताञ्जातवेदसः ।
रोरूयमाणान्ददृशे वने पुत्रान्निरामयान् ॥

1.259.20

अश्रूणि मुमुचे तेषां दर्शनात्सा पुनःपुनः ।
न श्रद्धेयं ततस्तेषांर्शनं वै पुनःपुनः ॥

1.259.21

इति मत्वाऽब्रवीद्वाकजरिता पुत्रगृद्धिनी । एकाकशश्च पुत्रांस्तन्त्र्शमानान्वपद्यत ॥

1.259.22

जरिता तु परिष्वज्युत्रस्नेहाच्चुचुम्ब ह ॥

1.259.23

ततोऽभ्यगच्छत्सहसमन्दपालोऽपि भारत ।
अथ ते सर्व एवैनं भ्यनन्दंस्तदा सुताः ॥

1.259.24

गुरुत्वान्मन्दपालस्तपसश्च विशेषतः ।
अभिवादामहे सर्वे तपक्षाः प्रसादतः ॥

1.259.25

एवमुक्तवतां तेषां तनन्द्य महातपाः । परिष्वज्य ततो मू उपाघ्राय च बलकान् ।
पुत्रान्स्वयं समाहूयतः प्रोवाच गौतमः ॥

1.259.26

लालप्यमानमेकैकंरितां च पुनःपुनः ।
न चैवोचुस्तदा किन्तमृषिं साध्वसाधु वा ॥
मन्दपाल उवाच ।

1.259.27

ज्येष्ठः सुतस्ते कत कतमस्तस्य चानुजः ।
मध्यमः कतमश्चैव यान्कतमश्च ते ॥

1.259.28

एवं ब्रुवन्तं दुःखाकं मा न प्रतिभाषसे । कृतवानस्मि हव्यानैव शान्तिमितो लभे ।
एवमुक्त्वा तु तां मन्दपालस्तदाऽस्पृशत् ॥
जरितोवाच ।

1.259.29

किं नु ज्येष्ठेन ते किमनन्तरजेन ते ।
किं वा मध्यमजातेन किं कनिष्ठेन वा पुनः ॥

1.259.30

यां त्वं मां सर्वतो हीनामुत्सृज्यासि गतः पुरा ।
तामेव लपितां गच्छ तरुणीं चारुहासिनीम् ॥
मन्दपाल उवाच ।

1.259.31

न स्त्रीणां विद्यते किञ्चिदमुत्र पुरुषान्तरात् ।
सापत्नकमृते लोके नान्यदर्थविनाशनम् ॥

1.259.32

वैराग्निदीपनं चैव भृशुद्वेगकारि च ।
सुव्रता चापि कल्याणी सर्वभूतेषु विश्रुता ॥

1.259.33

अरुन्धती महात्मानं वसिष्ठं पर्यशङ्कत ।
विशुद्धभावमत्यन्तं सदा प्रियहिते रतम् ॥

1.259.34

सप्तर्षिमध्यगं वीरमवमेने च तं मुनिम् । अपध्यानेन सा तेन धूमारुणसमप्रभा ।
लक्ष्याऽलक्ष्या नाभिरूपा निमित्तमिव पश्यति ॥

1.259.35

अपत्यहेतोः सम्प्राप्तं तथा त्वमपि मामिह ।
इष्टमेवं गते हि त्वं सा तथैवाद्य वर्तते ॥

1.259.36

न हि भार्येति विश्वासः कार्यः पुंसा कथञ्चन ।
न हि कार्यमनुध्याति नारी पुत्रवती सती ॥
वैशम्पायन उवाच ।

1.259.37

ततस्ते सर्व एवैनं पुत्राः सम्यगुपासते ।
स च तानात्मजान्सर्वानाश्वासयितुमुद्यतः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc