भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 1.249

1.249.1

सोऽब्रवीदर्जुनं चैव वासुदेवं च सात्वतम् ।
लोकप्रवीरौ तिष्ठन्तौ काण्डवस्य समीपतः ॥

1.249.2

ब्राह्मणो बहुभोक्ताऽस्मि बुञ्जेऽपरिमितं सदा ।
भिक्षे वार्ष्णेयपार्थौ वामेकां तृप्तिं प्रयच्छतम् ॥

1.249.3

एवमुक्तो तमब्रूतां ततस्तौ कृष्णपाण्डवौ ।
केनान्नेन भवांस्तृप्येत्तस्यान्नस्य यतावहे ॥

1.249.4

एवमुक्तः स भगवानब्रवीत्तावुभौ ततः ।
भाषमाणौ तदा वीरौ किमन्नं क्रियतामिति ॥
ब्राह्मण उवाच ।

1.249.5

नाहमन्नं बुभुक्षे वै पावकं मां निबोधतम् ।
यदन्नमनुरूपं मे तद्युवां सम्प्रयच्छतम् ॥

1.249.6

इदमिन्द्रः सदा दावं खाण्डवं परिरक्षति ।
न च शक्नोम्यहं दग्धुं रक्ष्यमाणं महात्मना ॥

1.249.7

वसत्यत्र सखा तस्य तक्षकः पन्नगः सदा ।
सगणस्तत्कृते दावं परिरक्षति वज्रभृत् ॥

1.249.8

तत्र भूतान्यनेकानि रक्ष्यन्तेऽस्य प्रसङ्गतः ।
तं दिधक्षुर्न शक्नोमि दग्धुं शक्रस्य तेजसा ॥

1.249.9

स मां प्रज्वलितं दृष्ट्वा मेघाम्भोभिः प्रवर्षति ।
ततो दग्धुं न शक्नोमि दिधक्षुर्दावमीप्सितम् ॥

1.249.10

स युवाभ्यां सहायाभ्यामस्त्रविद्भ्यां समागतः ।
दहेयं खाण्डवं दावमेतदन्नं वृतं मया ॥

1.249.11

युवां ह्युदकधारास्ता भूतानि च समन्ततः ।
उत्तमास्त्रविदौ सम्यक्सर्वतो वारयिष्यथः ॥
जनमेजय उवाच ।

1.249.12

किमर्थं भगवानग्निः खाण्डवं दग्धुमिच्छति ।
रक्ष्यमाणं महेन्द्रेण नानासत्वसमायुतम् ॥

1.249.13

न ह्येतत्कारणं ब्रह्मन्नल्पं सम्प्रतिभाति मे ।
यद्ददाह सुसन्क्रुद्धः खाण्डवं हव्यवाहनः ॥

1.249.14

एतद्विस्तरशो ब्रह्मन्श्रोतुमिच्छामि तत्त्वतः ।
खाण्डवस्य पुरा दाहो यथा समभवन्मुने ॥
वैशम्पायन उवाच ।

1.249.15

शृणु मे ब्रुवतो राजन्सर्वमेतद्यथातथम् ।
यन्निमित्तं ददाहाग्निः खाण्डवं पृथिवीपते ॥

1.249.16

हन्त ते कथयिष्यामि पौराणीमृषिसंस्तुताम् ।
कथामिमां नरश्रेष्ठ खाण्डवस्य विनाशिनीम् ॥

1.249.17

पौराणः श्रूयते राजन्राजा हरिहयोपमः ।
श्वेतकिर्नाम विख्यातो बलविक्रमसंयुतः ॥

1.249.18

यज्वा दानपतिर्धीमान्यथा नान्योऽस्ति कश्चन ।
जग्राह दीक्षां स नृपः तदा द्वादशवार्षिकीम् ॥

1.249.19

तस्य सत्रे सदा तस्मिन्समागच्छन्महर्षयः । वेदवेदाङ्गविद्वांसो ब्राह्मणाश्च सहस्रशः ॥

1.249.20

ईजे च स महायज्ञैः क्रतुभिश्चाप्तदक्षिणैः ॥

1.249.21

तस्य नान्याऽभवद्बुद्धिर्दिवसे दिवसे नृप ।
सत्रे क्रियासमारम्भे दानेषु विविधेषु च ॥

1.249.22

ऋत्विग्भिः सहितो धीमानेवमीजे स भूमिपः ।
ततस्तु ऋत्विजश्चास्य धूमव्याकुललोचनाः ॥

1.249.23

कालेन महता खिन्नास्तत्यजुस्ते नराधिपम् ।
ततः प्रसादयामास ऋत्विजस्तान्महीपतिः ॥

1.249.24

चक्षुर्विकलतां प्राप्ता न प्रपेदुश्च ते क्रतुम् ।
ततस्तेषामनुमते तद्विप्रैस्तु नराधिपः ॥

1.249.25

सत्रं समापयामास ऋत्विग्भिरपरैः सह ।
तस्यैवंवर्तमानस्य कदाचित्कालपर्यये ॥

1.249.26

सत्रमहार्तुकामस्य संवत्सरशतं किल ।
ऋत्विजो नाभ्यपद्यन्त समाहर्तुं महात्मनः ॥

1.249.27

स च राजाऽकरोद्यत्नं महान्तं ससुहृज्जनः ।
प्रणिपातेन सान्त्वेन दानेन च महायशाः ॥

1.249.28

ऋत्विजोऽनुनयामास भूयो भूयस्त्वतन्द्रितः ।
ते चास्य तमभिप्रायं न चक्रुरमितौजसः ॥

1.249.29

स चाश्रमस्थान्राजर्षिस्तानुवाच रुषान्वितः ।
यद्यहं पतितो विप्राः शुश्रूषायां न च स्थितः ॥

1.249.30

आशु त्याज्योऽस्मि युष्माभिर्ब्राह्मणैश्च जुगुप्सितः ।
तन्नार्हथ क्रतुश्रद्धां व्याघातयितुमद्य ताम् ॥

1.249.31

अस्थाने वा परित्यागं कर्तुं मे द्विजसत्तमाः ।
प्रपन्न एव वो विप्राः प्रसादं कर्तुमर्हथ ॥

1.249.32

सान्त्वदानादिभिर्वाक्यैस्तत्त्वतः कार्यवत्तया ।
प्रसादयित्वा वक्ष्यामि यन्नः कार्यं द्विजोत्तमाः ॥

1.249.33

अथवाऽहं परित्यक्तो भवद्भिर्द्वेषकारणात् ।
ऋत्विजोऽन्यान्गमिष्यामि याजनार्थं द्विजोत्तमाः ॥

1.249.34

एतावदुक्त्वा वचनं विरराम स पार्थिवः ।
यदा न शेकू राजानं याजनार्थं परन्तप ॥

1.249.35

ततस्ते याजकाः क्रुद्धास्तमूचुर्नृपसत्तमम् ।
तव कर्माम्यजस्रं वै वर्तन्ते पार्थिवोत्तम ॥

1.249.36

ततो वयं परिश्रान्ताः सततं कर्मवाहिनः ।
श्रमादस्मात्परिश्रान्तान्स त्वं नस्त्यक्तुमर्हसि ॥

1.249.37

बुद्धिमोहं समास्थाय त्वरासम्भावितोऽनघ ।
गच्छ रुद्रसकाशं त्वं सहि त्वां याजयिष्यति ॥

1.249.38

साधिक्षेपं वचः श्रुत्वा सन्क्रुद्धः श्वेतकिर्नृपः ।
कैलासं पर्वतं गत्वा तप उग्रं समास्थितः ॥

1.249.39

आराधयन्महादेवं नियतः संशितव्रतः ।
उपवासपरो राजन्दीर्घकालमतिष्ठत ॥

1.249.40

कदाचिद्द्वादशे काले कदाचिदपि षोडशे ।
आहारमकरोद्राजा मूलानि च फलानि च ॥

1.249.41

ऊर्ध्वबाहुस्त्वनिमिषस्तिष्ठन्स्थाणुरिवाचलः ।
षण्मासानभवद्राजा श्वेतकिः सुसमाहितः ॥

1.249.42

तं तथा नृपशार्दूलं तप्यमानं महत्तपः ।
शङ्करः परमप्रीत्या दर्शयामास भारत ॥

1.249.43

उवाच चैनं भगवान्स्निग्धगम्भीरया गिरा ।
प्रीतोऽस्मि नरशार्दूल तपसा ते परन्तप ॥

1.249.44

वरं वृणीष्व भद्रं ते यं त्वमिच्छसि पार्थिव ।
एतच्छ्रुत्वा तु वचनं रुद्रस्यामिततेजसः ॥

1.249.45

प्रणिपत्य महात्मानं राजर्षिः प्रत्यभाषत ।
यदि मे भगवान्प्रीतः सर्वलोकनमस्कृतः ॥

1.249.46

स्वयं मां देवदेवेश याजयस्व सुरेश्वर ।
एतच्छ्रुत्वा तु वचनं राज्ञा तेन प्रभाषितम् ॥

1.249.47

उवाच भगवान्प्रीतः स्मितपूर्वमिदं वचः ।
नास्माकमेतद्विषये वर्तते याजनं प्रति ॥

1.249.48

त्वया च सुमहत्तप्तं तपो राजन्वरार्थिना ।
याजयिष्यामि राजंस्त्वां समयेन परन्तप ॥

1.249.49

समा द्वादश राजेन्द्र ब्रह्मचारी समाहितः ।
सततं त्वाज्यधाराभिर्यदि तर्पयसेऽनलम् ॥

1.249.50

कामं प्रार्थयसे यं त्वं मत्तः प्राप्स्यसि तं नृप ।
एवमुक्तश्च रुद्रेण श्वेतकिर्मनुजाधिपः ॥

1.249.51

तथा चकार तत्सर्वं यथोक्तं शूलपाणिना ।
पूर्णे तु द्वादशे वर्षे पुनरायान्महेश्वरः ॥

1.249.52

दृष्टैव च स राजानं शङ्करो लोकभावनः ।
उवाच परमप्रीतः श्वेतकिं नृपसत्तमम् ॥

1.249.53

तोषितोऽहं नृपश्रेष्ठ त्वयेहाद्येन कर्मणा ॥
याजनं ब्राह्मणानां तु विधिदृष्टं परन्तप ॥

1.249.54

अतोऽहं त्वां स्वयं नाद्य याजयामि परन्तप ।
ममांशस्तु क्षितितले महाभागो द्विजोत्तमः ॥

1.249.55

दुर्वासा इति विख्यातः स हि त्वां याजयिष्यति ।
मन्नियोगान्महातेजाः सम्भाराः सम्भ्रियन्तु ते ॥

1.249.56

एतच्छ्रुत्वा तु वचनं रुद्रेण समुदाहृतम् ।
स्वपुरं पुनरागम्य सम्भारान्पुनरार्जयत् ॥

1.249.57

ततः सम्भृतसम्भारो भूयो रुद्रमुपागमत् । उवाच च महिपालः प्राञ्जलिः प्रणतः स्थितः ।
सम्भृता मम सम्भाराः सर्वोपकरणानि च ॥

1.249.58

त्वत्प्रसादानमहादेव श्वो मे दीक्षा भवेदिति ।
एतच्छ्रुत्वा तु वचनं तस्य राज्ञो महात्मनः ॥

1.249.59

दुर्वाससं समाहूय रुद्रो वचनमब्रवीत् ।
एष राजा महाभागः श्वेतकिर्द्विजसत्तम ॥

1.249.60

एनं याजय विप्रेन्द्र मन्नियोगेन भूमिपम् ।
बाढमित्येव वचनं रुद्रं त्वृषिरुवाच ह ॥

1.249.61

ततः सत्रं समभवत्तस्य राज्ञो महात्मनः ।
यथाविधि यथाकालं यथोक्तं बहुदक्षिणम् ॥

1.249.62

तस्मिन्परिसमाप्ते तु राज्ञः सत्रे महात्मनः ।
दुर्वाससाऽभ्यनुज्ञाता विप्रतस्थुः स्म याजकाः ॥

1.249.63

ये तत्र दीक्षिताः सर्वे सदस्याश्च महौजसः ।
सोऽपि राजन्महाभागः स्वपुरं प्राविशत्तदा ॥

1.249.64

पूज्यमानो महाभागैर्ब्राह्मणैर्वेदपारगैः ।
बन्दिभिः स्तूयमानश्च नागरैश्चाभिनन्दितः ॥

1.249.65

एवंवृत्तः स राजर्षिः श्वेतकिर्नृपसत्तमः ।
कालेन महता चापि ययौ स्वर्गमभिष्टुतः ॥

1.249.66

ऋत्विग्भिः सहितः सर्वैः सदस्यैश्च समन्वितः ।
तस्य सत्रे पपौ वह्निर्हविद्वार्दशवत्सरान् ॥

1.249.67

सततं चाज्यधाराभिरैकात्म्ये तत्र कर्मणि ।
हविषा च ततो वह्निः परां तृप्तिमगच्छत ॥

1.249.68

न चैच्छत्पुनरादातुं हविरन्यस्य कस्यचित् ।
पाण्डुवर्णो विवर्णश्च न यतावत्प्रकाशते ॥

1.249.69

ततो भघवतो वह्नेर्विकारः समजायत ।
तेजसा विप्रहीणश्च ग्लानिश्चैनं समाविशत् ॥

1.249.70

स लक्षयित्वा चात्मानं तेजोहीनं हुताशनः ।
जगाम सदनं पुण्यं ब्रह्मणो लोकपूजितम् ॥

1.249.71

तत्र ब्रह्माणमासीनमिदं वचनमब्रवीत् ।
भगवन्परमा प्रीतिः कृता श्वेतकिना मम ॥

1.249.72

अरुचिश्चाभवत्तीव्रा तां न शक्नोम्यपोहितुम् ।
तेजसा विप्रहीणोऽस्मि बलेन च जगत्पते ॥

1.249.73

इच्छेयं त्वत्प्रसादेन स्वात्मनः प्रकृतिं स्थिराम् ।
एतच्छ्रुत्वा हुतवहाद्भगवान्सर्वलोककृत् ॥

1.249.74

हव्यवाहमिदं वाक्यमुवाच प्रहसन्निव ।
त्वया द्वादश वर्षाणि वसोर्धाराहुतं हविः ॥

1.249.75

उपयुक्तं महाभाग तेन त्वां ग्लानिराविशत् ।
तेजसा विप्रहीणत्वात्सहसा हव्यवाहन ॥

1.249.76

मागमस्त्वं व्यथां वह्ने प्रकृतिस्थो भविष्यसि ।
अरुचिं नाशयिष्येऽहं समयं प्रतिपद्य ते ॥

1.249.77

पुरा देवनियोगेन यत्त्वया भस्मसात्कृतम् ।
आलयं देवशत्रूणां सुघोरं खाण्डवं वनम् ॥

1.249.78

तत्र सर्वाणि सत्वानि निवसन्ति विभावसो ।
तेषां त्वं मेदसा तृप्तः प्रकृतिस्थो भविष्यसि ॥

1.249.79

गच्छ शीघ्रं प्रदग्धुं त्वं ततो मोक्ष्यसि किल्विषात् ।
एतच्छुत्वा तु वचनं परमेष्ठिमुखाच्च्युतम् ॥

1.249.80

उत्तमं जवमास्थाय प्रदुद्राव हुताशनः । आगम्य खाण्डवं दावमुत्तमं वीर्यमास्थितः ।
सहसा प्राज्वलच्चाग्निः क्रुद्धो वायुसमीरितः ॥

1.249.81

प्रदीप्तं खाण्डवं दृष्ट्वा ये स्युस्तत्र निवासिनः ।
परमं यत्नेमातिष्ठन्पावकस्य प्रशान्तये ॥

1.249.82

करैस्तु करिणः शीघ्रं जलमादाय सत्वराः ।
सिषिचुः पावकं क्रुद्धाः शतशोऽथ सहस्रशः ॥

1.249.83

बहुशीर्षास्ततो नागाः शिरोभिर्जलसन्ततिम् ।
मुमुचुः पावकाभ्याशे सत्वराः क्रोधमूर्च्छिताः ॥

1.249.84

तथैवान्यानि सत्वानि नानाप्रहरणोद्यमैः ।
विलयं पावकं शीघ्रमनयन्भरतर्षभ ॥

1.249.85

अनेन तु प्रकारेण भूयोभूयश्च प्रज्वलन् ।
सप्तकृत्वः प्रशमितः खाण्डवे हव्यवाहनः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc