भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 1.242

1.242.1

कुकुरान्धकवृष्णीनामपयानं च पाण्डवः ।
विनिश्चित्य ततः पार्थः सुभद्रामिदमब्रवीत् ॥

1.242.2

शृणु भद्रे यथाशास्त्रं हितार्थं मुनिभिः कृतम् ।
विवाहं बहुधा सत्सु वर्णानां धर्मसंयुतम् ॥

1.242.3

कन्यायास्तु पिता भ्राता माता मातुल एव वा ।
पितुः पिता पितुर्भ्राता दाने तु प्रभुतां गतः ॥

1.242.4

महोत्सवं पशुपतेर्द्रष्टुकामः पिता तव ।
अन्तर्द्वीपं गतो भद्रे पुत्रैः पौत्रैः सबान्धवैः ॥

1.242.5

मम चैव विशालाक्षि विदेशस्था हि बान्धवाः ।
तस्मात्सुभद्रे गान्धर्वो विवाहः पञ्चमः स्मृतः ॥

1.242.6

समागमे तु कन्यायाः क्रियाः प्रोक्ताश्चतुर्विधाः ।
तेषां प्रवृत्तिं साधूनां शृणु माधवि तद्यथा ॥

1.242.7

वरमाहूय विधिना पित्रा दत्ता तथार्थिने ।
सा पत्नी तु परैरुक्ता सा वश्या तु पतिव्रता ॥

1.242.8

भृत्यानां भरणार्थाय आत्मनः पोषणाय च ।
दाने गृहीता या नारी सा भार्येति स्मृता बुधैः ॥

1.242.9

धर्मतो वरयित्वा तु आनीय स्वं निवेशनम् ।
न्यायेन दत्तातारुण्ये दाराः पितृकृताः स्मृताः ॥

1.242.10

गान्धर्वेण विवाहेन रागात्पुत्रार्थकारणात् ।
आत्मनाऽनुगृहीता या वश्या सा तु प्रजावती ॥

1.242.11

जनयेद्या तु भर्तारं जाया इत्येव नामतः ।
पत्नी भार्या च दाराश्च जाया चेति चतुर्विधाः ॥

1.242.12

चतस्र एवाग्निसाक्ष्याः क्रियायुक्ताश्च धर्मतः ।
गान्धर्वस्तु क्रियाहीनो रागादेव प्रवर्तते ॥

1.242.13

सकामायाः सकामेन निर्मन्त्रो रहसि स्मृतः ।
मयोक्तमक्रियं चापि कर्तव्यं माधवि त्वया ॥

1.242.14

अयनं चैव मासश्च ऋतुः पक्षस्तथा तिथिः ।
करणं च मुहूर्तं च लग्नसम्पत्तथैव च ॥

1.242.15

विवाहस्य विशालाक्षि प्रशस्तं चोत्तरायणम् ।
वैशाखश्चैव मासानां पक्षाणां शुक्ल एव च ॥

1.242.16

नक्षत्राणां तथा हस्तस्तृतीया च तिथिष्वपि ।
लग्नो हि मकरः श्रेष्ठः करणानां बवस्तथा ॥

1.242.17

मैत्रो मुहूर्तो वैवाह्य आवयोः शुभकर्मणि ।
सर्वसम्पदियं भद्रे अद्य रात्रौ भविष्यति ॥

1.242.18

भगवानस्तमभ्येति आदित्यस्तपतां वरः ।
रात्रौ विवाहकालोऽयं भविष्यति न संशयः ॥

1.242.19

नारायणोऽपि सर्वज्ञो नावबुध्येत विश्वकृत् ।
धर्मसङ्कटमापन्ने किं नु कृत्वा सुखं भवेत् ॥

1.242.20

मनोभवेन कामेन मोहितं मां प्रलापिनम् ।
प्रतिवाक्यं च मे देवि किं न वक्ष्यसि माधवि ॥
वैशम्पायन उवाच ।

1.242.21

अर्जुनस्य वचः श्रुत्वा चिन्तयन्ती जनार्दनम् ।
नोवाच किञ्चिद्वचनं बाष्पदूषितलोचना ॥

1.242.22

रागोन्मादप्रलापी सन्नर्जुनो जयतां वरः ।
चिन्तयामास पितरं प्रविश्य च लतागृहम् ॥

1.242.23

चिन्तयानं तु कौन्तेयं मत्वा शच्या शचीपतिः ।
सहितो नारदाद्यैश्च मुनिभिश्च महामनाः ॥

1.242.24

गन्धर्वैरप्सरोभिश्च चारणैश्चापि गुह्यकैः ।
अरुन्धत्या वसिष्ठेन ह्याजगाम कुशस्थलीम् ॥

1.242.25

चिन्तितं च सुभद्रायाश्चिन्तयित्वा जनार्दनः ।
निद्रयापहृतज्ञानं रौहिणेयं विना तदा ॥

1.242.26

सहाक्रूरेण शिनिना सत्यकेन गदेन च ।
वसुदेवेन देवक्या आहूकेन च धीमता ॥

1.242.27

आजगाम पुरीं रात्रौ द्वारकां स्वजनैर्वृतः ।
पूजयित्वा तु देवेशो नारदादीन्महायशाः ॥

1.242.28

कुशलप्रश्नमुक्त्वा तु देवेन्द्रेणाभियाचितः ।
वैवाहिकीं क्रियां कृष्णः स तथेत्येवमुक्तवान् ॥

1.242.29

आहुको वसुदेवश्च सहाक्रूरः ससात्यकिः । अभिप्रणम्य शिरसा पाकशासनमब्रुवन् ।
देवदेव नमस्तेस्तु लोकनाथ जगत्पते ॥

1.242.30

वयं धन्याः स्म सहितैर्बान्धवैः सहिताः प्रभो ।
कृतप्रसादास्तु वयं तव वाक्येन विश्वजित् ॥
वैशम्पायन उवाच ।

1.242.31

एवमुक्त्वा प्रसाद्यैनं पूजयित्वा प्रयत्नतः ।
महेन्द्रशासनात्सर्वे सहिता ऋषिभिस्तदा ॥

1.242.32

विवाहं कारयामासुः शक्रपुत्रस्य शास्त्रतः ।
अरुन्धती शची देवी रुग्मिणी देवकी तथा ॥

1.242.33

दिव्यस्त्रीभिश्च सहिताः सुभद्रायाः शुभाः क्रियाः ।
अर्जुनेऽपि तथा सर्वाः क्रिया भद्राः प्रयोजयन् ॥

1.242.34

महर्षिः काश्यपो होता सदस्या नारदादयः ।
पुण्याशिषः प्रयोक्तारः सर्वे ते हि तदार्जुने ॥

1.242.35

अभिषेकं तदा कृत्वा महेन्द्रः पाकशासनिम् ।
लोकपालैस्तु सहितः सर्वदेवैरभिष्टुतः ॥

1.242.36

किरीटाङ्गदहाराद्यैर्हस्ताभरणकुण्डलैः ।
भूषयित्वा तदा पार्थं द्वितीयमिव वासवम् ॥

1.242.37

पुत्रं परिष्वज्य तदा प्रीतिमाप पुरन्दरः ।
शछी देवी तदा भद्रामरुन्धत्यादिभिस्तथा ॥

1.242.38

कारयामास वैवाह्यमङ्गलान्यादवस्त्रियः ।
सहाप्सरोभिर्मुदिता भूषयित्वा स्वभूषणैः ॥

1.242.39

पौलोमीमिव मन्यन्ते सुभद्रां तत्र योषितः ।
ततो विवाहो ववृधे कृतः सर्वगुणान्वितः ॥

1.242.40

तस्याः पाणिं गृहीत्वा तु मन्त्रैर्होमपुरस्कृतम् ।
सुभद्रया बभौ जिष्णुः शच्या इव शचीपतिः ॥

1.242.41

सा जिष्णुमधिकं भेजे सुभद्रा चारुदर्शना ।
पार्थस्य सदृशी भद्रा रूपेण वयसा तथा ॥

1.242.42

सुभद्रायाश्च पार्थोऽपि सदृशो रूपलक्षणैः ।
इत्यूचुश्च तदा देवाः प्रीताः सेन्द्रपुरोगमाः ॥

1.242.43

एवं निवेश्य देवास्ते गन्धर्वैः साप्सरोगणैः ।
आमन्त्र्य यादवाः सर्वे विप्रजग्मुर्यथागतम् ॥

1.242.44

यादवाः पार्थमामन्त्र्य अन्तर्द्वीपं गतास्तदा ।
वासुदेवस्तदा पार्थमुवाच यदुनन्दनः ॥

1.242.45

द्वाविंशद्दिवसान्पार्थ इहोष्य भरतर्षभ ।
मामकं रथमारुह्य शैब्यसुग्रीवयोजितम् ॥

1.242.46

सुभद्रया सुखं पार्थ खाण्डवप्रस्थमाविश । यादवैः सहितः पश्चादागमिष्यामि भारत ।
यतिवेषेण नियतो वस त्वं रुक्मिणीगृहे ॥
वैशम्पायन उवाच ।

1.242.47

एवमुक्त्वा प्रचक्राम अन्तर्द्वीपं जनार्दनः ।
कृतोद्वाहस्ततः पार्थः कृतकार्योऽभवत्तदा ॥

1.242.48

तस्यां चोपगतो भावः पार्थस्य सुमहात्मनः ।
तस्मिन्भावः सुभद्राया अन्योन्यं समवर्धत ॥

1.242.49

स तथा युयुजे वीरो भद्रया भरतर्षभः ।
अभिनिष्पन्नया रामः सीतयेव समन्वितः ॥

1.242.50

अपि जिष्णुर्विजज्ञे तां ह्रीं श्रियं सन्नतिक्रियाम् ।
देवतानां वरस्त्रीणां रूपेण सदृशीं सतीम् ॥

1.242.51

स प्रकृत्या श्रिया दीप्त्या सन्दिदीपे तयाऽधिकम् ।
उद्यत्सहस्रदीप्तांशुः शरदीव दिवाकरः ॥

1.242.52

सा तु तं मनुजव्याघ्रमनुरक्ता यशस्विनी ।
कन्यापुरगता भूत्वा तत्परा समपद्यत ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc