भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 1.24

1.24.1

स श्रुत्वाऽथात्मनो देहं सुपर्णः प्रेक्ष्य च स्वयम् ।
शरीरप्रतिसंहारमात्मनः सम्प्रचक्रमे ॥
सुपर्ण उवाच ।

1.24.2

न मे सर्वाणि भूतानि विभियुर्देहदर्शनात् ।
भीमरूपात्समुद्विग्रास्तस्मात्तेजस्तु संहरे ॥
सौतिरुवाच ।

1.24.3

ततः कामगमः पक्षी कामवीर्यो विहन्गमः ।
अरुणं चात्मनः पृष्ठमारोप्य स पितुर्गृहात् ॥

1.24.4

मातुरन्तिकमागच्छत्परं तीरं महोदधेः ।
तत्रारुणश्च निक्षिप्तो पुरोदेशे महाद्युतेः ॥

1.24.5

सूर्यस्तेजोभिरत्युग्रैर्लोकान्दग्धुमना यदा ।
रुरुरुवाच ।
किमर्थं भगवान्सूर्यो लोकान्दग्धुमनास्तदा ॥

1.24.6

किमस्तापहृतं देवैर्येनमं मन्युराविशत् ।
प्रमतिरुवाच ।
चन्द्रार्काभ्यां यदा राहुराख्यातो ह्यमृतं पिबन् ॥

1.24.7

वैरानुबन्धं कृतवांश्चन्द्रादित्यौ तदाऽनघ ।
बाध्यमानं ग्रहेणाथ ह्यादित्यं मन्युराविशत् ॥

1.24.8

सुरार्थाय समुत्पन्नो रोषो राहोस्तु मां प्रति ।
बह्वनर्थकरं पापमेकोऽहं समवाप्नुयाम् ॥

1.24.9

सहाय एव कार्येषु न च कृच्छ्रेषु दृश्यते ।
पश्यन्ति ग्रस्यमानं मां सहन्ते वै दिवौकसः ॥

1.24.10

तस्माल्लोकविनाशार्थं ह्यवतिष्ठे न संशयः ।
एवं कृतमतिः सूर्यो ह्यस्तमभ्यगमद्गिरिम् ॥

1.24.11

तस्माल्लोकविनाशाय सन्तापयत भास्करः ।
ततो देवानुपागम्य प्रोचुरेवं महर्षयः ॥

1.24.12

आद्यार्धरात्रसमये सर्वलोकभयावहः ।
उत्पत्स्यते महान्दाहस्त्रैलोक्यस्य विनाशनः ॥

1.24.13

ततो देवाः सर्षिगणा उपगम्य पितामहम् ।
अब्रुवन्किमिवेहाद्य महद्दाहकृतं भयम् ॥

1.24.14

न तावद्दृश्यते सूर्यः क्षयोऽयं प्रतिभाति च ।
उदिते भगवन्भानौ कथनेतद्भविष्यति ॥
पितामह उवाच ।

1.24.15

एष लोकविनाशाय रविरुद्यन्तुमुद्यतः ।
दृश्यन्नेव हि लोकान्स भस्मराशीकरिष्यति ॥

1.24.16

तस्य प्रतिविधानं च विहितं पूर्वमेव हि ।
कश्यपस्य सुतो धीमानरुणेत्यभिविश्रुतः ॥

1.24.17

महाकायो महातेजाः स स्थास्यति पुरो रवेः ।
करिष्यति च सारथ्यं तेजश्चास्य हरिष्यति ॥

1.24.18

लोकानां स्वस्ति चैवं स्यादृषीणां च दिवौकसाम् ।
प्रमतिरुवाच ।
ततः पितामहाज्ञातः सर्वं चक्रे तदाऽरुणः ॥

1.24.19

उदितश्चैव सविता ह्यरुणेन समावृतः ।
एतत्ते सर्वमाख्यातं यत्सूर्यं मन्युराविशत् ॥

1.24.20

अरुणश्च यथैवास्य सारथ्यमकरोत्प्रभुः ।
भूय एवापरं प्रश्नं शृणु पूर्वमुदाहृतम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc