भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 1.226

1.226.1

एवमेतन्महाप्राज्ञ यथात्थ विदुराद्य माम् ।
ममापि परमो हर्षः सम्बन्धेऽस्मिन्कृते प्रभो ॥

1.226.2

गमनं चापि युक्तं स्याद्दृढमेषां महात्मनाम् ।
न तु तावन्मया युक्तमेतद्वक्तुं स्वयं गिरा ॥

1.226.3

यदा तु मन्यते वीरः कुन्तीपुत्रो युधिष्ठिरः ।
भीमसेनार्जुनौ चैव यमौ च पुरुषर्षभौ ॥

1.226.4

रामकृष्णौ च धर्मज्ञौ तदा गच्छन्तु पाण्डवाः ।
एतौ हि पुरुषव्याघ्रावेषां प्रियहिते रतौ ॥
युधिष्ठिर उवाच ।

1.226.5

परवन्तो वयं राजंस्त्वयि सर्वे सहानुगाः ।
यथा वक्ष्यसि नः प्रीत्या तत्करिष्यामहे वयम् ॥
वैशम्पायन उवाच ।

1.226.6

ततोऽब्रवीद्वासुदेवो गमनं रोचते मम ।
यथा वा मन्यते राजा द्रुपदः सर्वधर्मवित् ॥
द्रुपद उवाच ।

1.226.7

यथैव मन्यते वीरो दाशार्हः पुरुषोत्तमः ।
प्राप्तकालं महाबाहुः सा बुद्धिर्निश्चिता मम ॥

1.226.8

यथैव हि महाभागाः कौन्तेया मम साम्प्रतम् ।
तथैव वासुदेवस्य पाण्डुपुत्रा न संशयः ॥

1.226.9

न तद्ध्यायति कौन्तेयः पाण्डुपुत्रो युधिष्ठिरः ।
यथैषां पुरुषव्याघ्रः श्रेयो ध्यायति केशवः ॥
वैशम्पायन उवाच ।

1.226.10

पृथायास्तु ततो वेश्म प्रविवेश महामतिः ।
पादौ स्पृष्ट्वा पृथायास्तु शिरसा च महीं गतः ॥

1.226.11

दृष्ट्वा तु देवरं कुन्ती शुशोच च मुहुर्मुहुः ।
कुन्त्युवाच ।
वैचित्रवीर्य ते पुत्राः कथञ्चिज्जीवितास्त्वया ॥

1.226.12

त्वत्प्रसादाज्जतुगृहे मृताः प्रत्यागतास्तथा ।
कूर्मी चिन्तयते पुत्रान्यत्र वा तत्र सम्मता ॥

1.226.13

चिन्तया वर्धिताः पुत्रा यथा कुशलिनस्तथा ।
तव पुत्रास्तु जीवन्ति त्वद्भक्त्या भरतर्षभ ॥

1.226.14

यथा परभृतः पुत्रानरिष्टा वर्धयेत्सदा ।
तथैव पुत्रास्तु मम त्वया तात सुरक्षिताः ॥

1.226.15

क्लेशास्तु बहवः प्राप्तास्तथा प्राणान्तिका मया ।
अतः परं न जानामि कर्तव्यं ज्ञातुमर्हसि ॥
विदुर उवाच ।

1.226.16

न विनश्यन्ति लोकेषु तव पुत्रा महाबलाः ।
अचिरेणैव कालेन स्वराज्यस्था भवन्ति ते ॥

1.226.17

बान्धवैः सहिताः सर्वे न शोकं कुरु माधवि ।
वैशम्पायन उवाच ।
ततस्ते समनुज्ञाता द्रुपदेन महात्मना ॥

1.226.18

पाण्डवाश्चैव कृष्णश्च विदुरश्च महामतिः ।
आदाय द्रौपदीं कृष्णां कुन्तीं चैव यशस्विनीम् ॥

1.226.19

सविहारं सुखं जग्मुर्नगरं नागसाह्वयम् ।
सुवर्णकक्ष्याग्रैवेयान्सुवर्णाङ्कुशभूषितान् ॥

1.226.20

जाम्बूनदपरिष्कारान्प्रभिन्नकरटामुखान् ।
अधिष्ठितान्महामात्रैः सर्वशस्त्रसमन्वितान् ॥

1.226.21

सहस्रं प्रददौ राजा गजानां वरवर्मिणाम् ।
रथानां च सहस्रं वै सुवर्णमणिचित्रितम् ॥

1.226.22

चतुर्युजां भानुमच्च पञ्चानां प्रददौ तदा ।
सुवर्णपरिबर्हाणां वरचामरमालिनाम् ॥

1.226.23

जात्यश्वानां च पञ्चाशत्सहस्रं प्रददौ नृपः । दासीनामयुतं राजा प्रददौ वरभूषणम् ।
ततः सहस्रं दासानां प्रददौ वरधन्वनाम् ॥

1.226.24

हैमानि शय्यासनबाजनानि द्रव्याणि चान्यानि च गोधनानि ।
पृथक्पृथक्वैव ददौ स कोटिं पाञ्चालराजः परमप्रहृष्टः ॥

1.226.25

शिबिकानां शतं पूर्णं वाहान्पञ्चशतं नरान् ॥

1.226.26

एवमेतानि पाञ्चालो जन्यार्थे प्रददौ धनम् ।
हरणं चापि पाञ्चाल्या ज्ञातिदेयं च सोमकः ॥

1.226.27

धृष्टद्युम्नो ययौ तत्र भगिनीं गृह्य भारत । नानद्यमानो बहुशस्तूर्यघोषैः सहस्रशः ॥

1.226.28

श्रुत्वा चोपस्थितान्वीरान्धृतराष्ट्रोऽम्बिकासुतः ।
प्रतिग्रहाय पाण्डूनां प्रेषयामास कौरवान् ॥

1.226.29

विकर्णं च महेष्वासं चित्रसेनं च भारत ।
द्रोणं च परमेष्वासं गौतमं कृपमेव च ॥

1.226.30

तैस्तैः परिवृताः शूरैः शोभमाना महारथाः ।
नगरं हास्तिनपुरं शनैः प्रविविशुस्तदा ॥

1.226.31

पाण्डवानागताञ्छ्रुत्वा नागरास्तु कुतूहलात् ।
मण्डयाञ्चक्रिरे तत्र नगरं नागसाह्वयम् ॥

1.226.32

मुक्तपुष्पावकीर्णं तु जलसिक्तं तु सर्वतः ।
धूपितं दिव्यधूपेन मङ्गलैश्चाभिसंवृतम् ॥

1.226.33

पताकोच्छ्रितमाल्यं च पुरमप्रतिमं बभौ । शङ्खभेरीनिनादैश्च नानावादित्रनिस्वनैः ॥

1.226.34

कौतूहलेन नगरं पूर्यमाणमिवाभवत् ।
यत्र ते पुरुषव्याघ्राः शोकदुःखसमन्विताः ॥

1.226.35

निर्गताश्च पुरात्पूर्वं धृतराष्ट्रप्रबाधिताः ।
पुनर्निवृत्ता दिष्ट्या वै सह मात्रा परन्तपाः ॥

1.226.36

इत्येवमीरिता वाचो जनैः प्रियचिकीर्षुभिः । तत उच्चावचा वाचः प्रियाः सर्वत्र भारत ॥

1.226.37

उदीरितास्तदाऽशृण्वन्पाण्डवा हृदयन्गमाः ।
पौरा ऊचुः
अयं स पुरुषव्याघ्रः पुनरायाति धर्मवित् ॥

1.226.38

यो नः स्वानिव दायादान्धर्मेण परिरक्षति ।
अद्य पाण्डुर्महाराजो वनादिव मनःप्रियम् ॥

1.226.39

आगतश्चैवमस्माकं चिकीर्षन्नात्र संशयः ।
किं न्वद्य सुकृतं कर्म सर्वेषां नः प्रियं परम् ॥

1.226.40

यन्नः कुन्तीसुता वीरा भर्तारः पुनरागताः । यदि दत्तं यदि हुतं यदि वाप्यस्ति नस्तपः ।
तेन तिष्ठन्तु नगरे पाण्डवाः शरदां शतम् ॥

1.226.41

ततस्ते धृतराष्ट्रस्य भीष्मस्य च महात्मनः ।
अन्येषां च तदर्हाणां चक्रुः पादाभिवन्दनम् ॥

1.226.42

पृष्टास्तु कुशलप्रश्नं सर्वेण नगरेण ते ।
समाविशन्त वेश्मानि धृतराष्ट्रस्य शासनात् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc