भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 1.224

1.224.1

राजन्निःसंशयं श्रेयो वाच्यस्त्वमसि बान्धवैः ।
न त्वशुश्रूषमाणे वै वाक्यं सम्प्रति तिष्ठति ॥

1.224.2

प्रियं हितं च तद्वाक्यमुक्तवान्कुरुसत्तमः ।
भीष्मः शान्तनवो राजन्प्रतिगृह्णासि तन्न च ॥

1.224.3

तथा द्रोणेन बहुधा भाषितं हितमुत्तमम् ।
तच्च राधासुतः कर्णो मन्यते न हितं तव ॥

1.224.4

चिन्तयंश्च न पश्यामि राजंस्तव सुहृत्तमम् ।
आभ्यां पुरुषसिंहाभ्यां यो वा स्यात्प्रज्ञयाधिकः ॥

1.224.5

इमौ हि वृद्धौ वयसा प्रज्ञया च श्रुतेन च ।
समौ च त्वयि राजेन्त्र तथा पाण्डुसुतेषु च ॥

1.224.6

धर्मे चानवरौ राजन्सत्यतायां च भारत ।
रामाद्दाशरथेश्चैव गयाच्चैव न संशयः ॥

1.224.7

न चोक्तवन्तावश्रेयः पुरस्तादपि किञ्चन ।
न चाप्यपकृतं किञ्चिदनयोर्लक्ष्यते त्वयि ॥

1.224.8

तावुभौ पुरुषव्याघ्रावनागसि नृपे त्वयि ।
न मन्त्रयेतां त्वच्छ्रेयः कथं सत्यपराक्रमौ ॥

1.224.9

प्रज्ञावन्तौ नरश्रेष्ठावस्मिँल्लोके नराधिप ।
त्वन्निमित्तमतो नेमौ किञ्चिज्जिह्मं वदिष्यतः ॥

1.224.10

इति मे नैष्ठिकी बुद्धिर्वर्तते कुरुनन्दन ।
न चार्थहेतोर्धर्मज्ञौ वक्ष्यतः पक्षसंश्रितम् ॥

1.224.11

एतद्धि परमं श्रेयो मन्येऽहं तव भारत ।
दुर्योधनप्रभृतयः पुत्रा राजन्यथा तव ॥

1.224.12

तथैव पाण्डवेयास्ते पुत्रा राजन्न संशयः ।
तेषु चेदहितं किञ्चिन्मन्त्रयेयुरतद्विदः ॥

1.224.13

मन्त्रिणस्ते न च श्रेयः प्रपश्यन्ति विशेषतः । अथ ते हृदये राजन्विशेषः स्वेषु वर्तते ।
अन्तरस्थं विवृण्वानाः श्रेयः कुर्युर्न ते ध्रुवम् ॥

1.224.14

एतदर्थमिमौ राजन्महात्मानौ महाद्युती ।
नोचतुर्विवृतं किञ्चिन्न ह्येष तव निश्चयः ॥

1.224.15

यच्चाप्यशक्यतां तेषामाहतुः पुरुषर्षभौ ।
तत्तथा पुरुषव्याघ्र तव तद्भद्रमस्तु ते ॥

1.224.16

कथं हि पाण्डवः श्रीमान्सव्यसाची धनञ्जयः ।
शक्यो विजेतुं सन्ग्रामे राजन्मघवतापि हि ॥

1.224.17

भीमसेनो महाबाहुर्नागायुतबलो महान् ।
राक्षसानां भयकरो बाहुशाली महाबलः ॥

1.224.18

हिडिम्बो निहतो येन बाहुयुद्धेन भारत ।
यो रावणसमो युद्धे तथा च बकराक्षसः ॥

1.224.19

स युध्यमानो राजेन्द्र भीमो भीमपराक्रमः । कथं स्म युधि शक्येत विजेतुममरैरपि ॥

1.224.20

तथैव कृतिनौ युद्धे यमौ यमसुताविव ।
कथं विजेतुं शक्यौ तौ रणे जीवितुमिच्छता ॥

1.224.21

यस्मिन्धृतिरनुक्रोशः क्षमा सत्यं पराक्रमः ।
नित्यानि पाण्डवे ज्येष्ठे स जीयेत रणे कथम् ॥

1.224.22

येषां पक्षधरो रामो येषां मन्त्री जनार्दनः ।
किं नु तैरजितं सङ्ख्ये येषां पक्षे च सात्यकिः ॥

1.224.23

द्रुपदः श्वशुरो येषां येषां स्यालाश्च पार्षताः ।
धृष्टद्युम्नमुखा वीरा भ्रातरो द्रुपदात्मजाः ॥

1.224.24

चैद्यश्च येषां भ्राता च शिशुपालो महारथः । सोऽशक्यतां च विज्ञाय तेषामग्रे च भारत ।
दायाद्यतां च धर्मेण सम्यक्तेषु समाचर ॥

1.224.25

इदं निर्दिष्टमयशः पुरोचनकृतं महत् ।
तेषामनुग्रहेणाद्य राजन्प्रक्षालयात्मनः ॥

1.224.26

तेषामनुग्रहश्चायं सर्वेषां चैव नः कुले ।
जीवितं च परं श्रेयः क्षत्रस्य च विवर्धनम् ॥

1.224.27

द्रुपदोऽपि महान्राजा कृतवैरश्च नः पुरा ।
तस्य सन्ग्रहणं राजन्स्वपक्षस्य विवर्धनम् ॥

1.224.28

बलवन्तश्च दाशार्हा बहवश्च विशाम्पते ।
यतः कृष्णस्ततः सर्वे यतः कृष्णस्ततो जयः ॥

1.224.29

यच्च साम्नैव शक्येत कार्यं साधयितुं नृप ।
को दैवशप्तस्तत्कार्यं विग्रहेण समाचरेत् ॥

1.224.30

श्रुत्वा च जीवतः पार्थान्पौरजानपदा जनाः ।
बलवद्दर्शने हृष्टास्तेषां राजन्प्रियं कुरु ॥

1.224.31

दुर्योधनश्च कर्णश्च शकुनिश्चापि सौबलः ।
अधर्मयुक्ता दुष्प्रज्ञा बाला मैषां वचः कृथाः ॥

1.224.32

उक्तमेतत्पुरा राजन्मया गुणवतस्तव ।
दुर्योधनापराधेन प्रजेयं वै विनङ्क्ष्यति ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc