भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 1.22

1.22.1

नागाश्च संविदं कृत्वा कर्तव्यमिति तद्वचः ।
निःस्नेहा वै दहेन्माता असम्प्राप्तमनोरथा ॥

1.22.2

प्रसन्ना मोक्षयेदस्मांस्तस्माच्छापाच्च भामिनी ।
कृष्णं पुच्छं करिष्यामस्तुरगस्य न संशयः ॥

1.22.3

इति निश्चित्य ते तस्य कृष्णा वाला इव स्थिताः । एतस्मिन्नन्तरे ते तु सपत्न्यौ पणिते तदा ॥

1.22.4

ततस्ते पणितं कृत्वा भगिन्यौ द्विजसत्तम ।
जग्मतुः परया प्रीत्या परं पारं महोदधेः ॥

1.22.5

कद्रूश्च विनता चैव दाक्षायण्यौ विहायसा ।
आलोकयन्त्यावक्षोभ्यं समुद्रं निधिमम्भसाम् ॥

1.22.6

वायुनाऽतीव सहसा क्षोभ्यमाणं महास्वनम् ।
तिमिन्गिलसमाकीर्णं मकरैरावृतं तथा ॥

1.22.7

संयुतं बहुसाहस्रैः सत्वैर्नानाविधैरपि ।
घोरर्घोरमनाधृष्यं गम्भीरमतिभैरवम् ॥

1.22.8

आकरं सर्वरत्नानामालयं वरुणस्य च ।
नागानामालयं चापि सुरम्यं सरितां पतिम् ॥

1.22.9

पातालज्वलनावासमसुराणां तथालयम् ।
भयन्कराणां सत्त्वानां पयसो निधिमव्ययम् ॥

1.22.10

शुभ्रं दिव्यममर्त्यानाममृतस्याकरं परम् ।
अप्रमेयमचिन्त्यं च सुपुम्यजलसम्मितम् ॥

1.22.11

महानदीभिर्बह्वीभिस्तत्र तत्र सहस्रशः ।
आपूर्यमाणमत्यर्थं नृत्यन्तमिव चोर्मिभिः ॥

1.22.12

इत्येवं तरलतरोर्मिसन्कुलं ते गम्भीरं विकसितमम्बरप्रकाशम् ।
पातालज्वलनशिखाविदीपिताङ्गं गर्जन्तं द्रुतमभिजग्मतुस्ततस्ते ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc