भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 1.210

1.210.1

तत आहूय पाञ्चाल्यो राजपुत्रं युधिष्ठिरम् ।
परिग्रहेण ब्राह्मेण परिगृह्य महाद्युतिः ॥

1.210.2

पर्यपृच्छददीनात्मा कुन्तीपुत्रं सुवर्चसम् ।
कथं जानीम भवतः क्षत्रियान्ब्राह्मणानुत ॥

1.210.3

वैश्यान्वा गुणसम्पन्नानथ वा शूद्रयोनिजान् ।
मायामास्थाय वा सिद्धांश्चरतः सर्वतोदिशम् ॥

1.210.4

कृष्णाहेतोरनुप्राप्ता देवाः सन्दर्शनार्थिनः ।
ब्रवीतु नो भवान्सत्यं सन्देहो ह्यत्र नो महान् ॥

1.210.5

अपि नः संशयस्यान्ते मनः सन्तुष्टिमावहेत् ।
अपि नो भागधेयानि शुभानि स्युः परन्तप ॥

1.210.6

इच्छया ब्रूहि तत्सत्यं सत्यं राजसु शोभते ।
इष्टापूर्तेन च तथा वक्तव्यमनृतं न तु ॥

1.210.7

श्रुत्वा ह्यमरसङ्काश तव वाक्यमरिन्दम ।
ध्रुवं विवाहकरणमास्थास्यामि विधानतः ॥
युधिष्ठिर उवाच ।

1.210.8

मा राजन्विमना भूस्त्वं पाञ्चाल्य प्रीतिरस्तु ते ।
ईप्सितस्ते ध्रुवः कामः संवृत्तोऽयमसंशयम् ॥

1.210.9

वयं हि क्षत्रिया राजन्पाण्डोः पुत्रा महात्मनः ।
ज्येष्ठं मां विद्धि कौन्तेयं भीमसेनार्जुनाविमौ ॥

1.210.10

आभ्यां तव सुता राजन्निर्जिता राजसंसदि ।
यमौ च तत्र कुन्ती च यत्र कृष्मा व्यवस्थिता ॥

1.210.11

व्येतु ते मानसं दुःखं क्षत्रियाः स्मो नरर्षभ ।
पद्मिनीव सुतेयं ते ह्रदादन्यह्रदं गता ॥

1.210.12

इति तथ्यं महाराज सर्वमेतद्ब्रवीमि ते ।
भवान्हि गुरुरस्माकं परमं च परायणम् ॥
वैशम्पायन उवाच ।

1.210.13

ततः स द्रुपदो राजा हर्षव्याकुललोचनः ।
प्रतिवक्तुं मुदा युक्तो नाशकत्तं युधिष्टिरम् ॥

1.210.14

यत्नेन तु स तं हर्षं सन्निगृह्य परन्तपः ।
अनुरूपं तदा वाचा प्रत्युवाच युधिष्ठिरम् ॥

1.210.15

पप्रच्छ चैनं धर्मात्मा यथा ते प्रद्रुताः पुरात् ।
स तस्मै सर्वमाचख्यावानुपूर्व्येण पाण्डवः ॥

1.210.16

तच्छ्रुत्वा द्रुपदो राजा कुन्तीपुत्रस्य भाषितम् ।
विगर्हयामास तदा धृतराष्ट्रं नरेश्वरम् ॥

1.210.17

आश्वासयामास च तं कुन्तीपुत्रं युधिष्ठिरम् ।
प्रतिजज्ञे च राज्याय द्रुपदो वदतां वरः ॥

1.210.18

ततः कुन्ती च कृष्णा च भीमसेनार्जुनावपि ।
यमौ च राज्ञा सन्दिष्टं विविशुर्भवनं महत् ॥

1.210.19

तत्र ते न्यवसन्राजन्यज्ञसेनेन पूजिताः ।
प्रत्याश्वस्तस्ततो राजा सह पुत्रैरुवाच तम् ॥

1.210.20

गृह्णातु विधिवत्पाणिमद्यायं कुरुनन्दनः ।
पुण्येऽहनि महाबाहुरर्जुनः कुरुतां क्षणम् ॥
वैशम्पायन उवाच ।

1.210.21

तमब्रवीत्ततो राजा धर्मात्मा च युधिष्ठिरः ।
ममापि दारसम्बन्धः कार्यस्तावद्विशाम्पते ॥

1.210.22

तस्मात्पूर्वं मया कार्यं तद्भवाननुमन्यताम् ।
द्रुपद उवाच ।
भवान्वा विधिवत्पाणिं गृह्णातु दुहितुर्मम ।
यस्य वा मन्यसे वीर तस्य कृष्णामुपादिश ॥
युधिष्ठिर उवाच ।

1.210.23

सर्वेषां महिषी राजन्द्रौपदी नो भविष्यति ।
एवं प्रव्याहृतं पूर्वं मम मात्रा विशाम्पते ॥

1.210.24

अहं चाप्यनिविष्टो वै भीमसेनश्च पाण्डवः ।
पार्थेन विजिता चैषा रत्नभूता सुता तव ॥

1.210.25

एष नः समयो राजँल्लब्धस्य सह भोजनम् ।
न च तं हातुमिच्छामः समयं राजसत्तम ॥

1.210.26

अक्रमेण निवेशे च धर्मलोपो महान्भवेत् । सर्वेषां धर्मतः कृष्णा महिषी नो भविष्यति ।
आनुपूर्व्येण सर्वेषां गृह्णातु ज्वलने करान् ॥
द्रुपद उवाच ।

1.210.27

एकस्य बह्व्यो विहिता महिष्यः कुरुनन्दन ।
नैकस्या बहवः पुंसः श्रूयन्ते पतयः क्वचित् ॥

1.210.28

सोऽयं न लोके वेदे वा जातु धर्मः प्रशस्ते । लोकवेदविरुद्धं त्वं नाधर्मं धर्मविच्छुचिः ।
कर्तुमर्हसि कौन्तेय कस्मात्ते बुद्धिरीदृशी ॥
युधिष्ठिर उवाच ।

1.210.29

सूक्ष्मो धर्मो महाराज नास्य विद्मो वयं गतिम् ।
पूर्वेषामानुपूर्व्येण यातं वर्त्माऽनुयामहे ॥

1.210.30

न मे वागनृतं प्राह नाधर्मे धीयते मतिः ।
एवं चैव वदत्यम्बा मम चैतन्मनोगतम् ॥

1.210.31

आश्रमे रुद्रनिर्दिष्टाद्व्यासादेतन्मया श्रुतम् । एष धर्मो ध्रुवो राजंश्चरैनमविचारयन् ।
मा च शङ्का तत्र ते स्यात्कथञ्चिदपि पार्थिव ॥
द्रुपद उवाच ।

1.210.32

त्वं च कुन्ती च कौन्तय धृष्टद्युम्नश्च मे सुतः ।
कथयन्त्विति कर्तव्यं श्वः काल्ये करवामहे ॥
वैशम्पायन उवाच ।

1.210.33

ते समेत्य ततः सर्वे कथयन्ति स्म भारत ।
अथ द्वैपायनो राजन्नभ्यागच्छद्यदृच्छया ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc