भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 1.207

1.207.1

धृष्टद्युमनस्तु पाञ्चाल्यः पृष्ठतः कुरुनन्दनौ ।
अन्वगच्छत्तदा यान्तौ भार्गवस्य निवेशने ॥

1.207.2

सोज्ञायमानः पुरुषानवधाय समन्ततः ।
स्वयमारान्निलीनोऽभूद्भार्गवस्य निवेशने ॥

1.207.3

सायं च भीमस्तु रिपुप्रमाथी जिष्णुर्यमौ चापि महानुभावौ ।
भैक्षं चरित्वा तु युधिष्ठिराय निवेदयाञ्चक्रुरदीनसत्वाः ॥

1.207.4

ततस्तु कुन्ती द्रुपदात्मजां ता- मुवाच काले वचनं वदान्या ।
ततोऽग्रमादाय कुरुष्व भद्रे बलिं च विप्राय च देहि भिक्षाम् ॥

1.207.5

ये चान्नमिच्छन्ति ददस्व तेभ्यः परिश्रिता ये परितो मनुष्याः ।
ततश्च शेषं प्रविभज्य शीघ्र- मर्धं चतुर्णां मम चात्मनश्च ॥

1.207.6

अर्धं तु भीमाय च देहि भद्रे य एष नागर्षभतुल्यरूपः ।
गौरो युवा संहननोपपन्न एषो हि वीरो बहुभुक् सदैव ॥

1.207.7

सा हृष्टरूपैव तु राजपुत्री तस्या वचः साध्वविशङ्कमाना ।
यथावदुक्तं प्रचकार साध्वी ते चापि सर्वे बुभुजुस्तदन्नम् ॥

1.207.8

कुशैस्तु भूमौ शयनं चकार माद्रीपुत्रः सहदेवस्तपस्वी ।
अथात्मकीयान्यजिनानि सर्वे संस्तीर्य वीराः सुषुपुर्धरण्याम् ॥

1.207.9

अगस्त्यकान्तामभितो दिशं तु शिरांसि तेषां कुरुसत्तमानाम् ।
कुन्ती पुरस्तात्तु बभूव तेषां पादान्तरे चाथ बभूव कृष्णा ॥

1.207.10

अशेत भूमौ सह पाण्डुपुत्रैः पादोपधानीव कृता कुशेषु ।
न तत्र दुःखं मनसापि तस्या न चावमेने कुरुपुङ्गवांस्तान् ॥

1.207.11

ते तत्र शूराः कथयाम्बभूवुः कथा विचित्राः पृतनाधिकाराः ।
अस्त्राणि दिव्यानि रथांश्च नागान् खड्गान्गदाश्चापि परश्वधांश्च ॥

1.207.12

तेषां कथास्ताः परिकीर्त्यमानाः पाञ्चालराजस्य सुतस्तदानीम् ।
सुश्राव कृष्णां च तदा निषण्णां ते चापि सर्वे ददृशुर्मनुष्याः ॥

1.207.13

धृष्टद्युम्नो राजपुत्रस्तु सर्वं वृत्तं तेषां कथितं चैव रात्रौ ।
सर्वं राज्ञे द्रुपदायाखिलेन निवेदयिष्यंस्त्वरितो जगाम ॥

1.207.14

पाञ्चालराजस्तु विषण्णरूप- स्तान्पाण्डवानप्रतिविन्दमानः ।
धृष्टद्युम्नं पर्यपृच्छन्महात्मा क्व सा गता केन नीता च कृष्णा ॥

1.207.15

कच्चिन्न शूद्रेण न हीनजेन वैश्येन वा करदेनोपपन्ना ।
कच्चित्पदं मूर्ध्नि न पङ्कदिग्धं कच्चिन्न माला पतिता श्मशाने ॥

1.207.16

कच्चित्स वर्णप्रवरो मनुष्य उद्रिक्तवर्णोऽप्युत एव कच्चित् ।
कच्चिन्न वामो मम मूर्ध्नि पादः कृष्णाभिमर्शेन कृतोऽद्य पुत्र ॥

1.207.17

कच्चिन्न तप्स्ये परमप्रतीतः संयुज्य पार्थेन नरर्षभेण ।
वदस्व तत्त्वेन महानुभाव कोऽसौ विजेता दुहितुर्ममाद्य ॥

1.207.18

विचित्रवीर्यस्य सुतस्य कच्चि- त्कुरुप्रवीरस्य ध्रियन्ति पुत्राः ।
कच्चित्तु पार्थेन यवीयसाऽध्य धनुर्गृहीतं निहतं च लक्ष्यम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc