भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 1.200

1.200.1

ततस्ते नरशार्दूला भ्रातरः पञ्च पाण्डवाः । तं ब्राह्मणं पुरस्कृत्य पाञ्चाल्याश्च स्वयंवरम् ।
प्रययुर्द्रौपदीं द्रष्टुं तं च देशं महोत्सवम् ॥

1.200.2

ततस्ते तं महात्मानं शुद्धात्मानमकल्मषम् ।
ददृशुः पाण्डवा वीराः पथि द्वैपायनं तदा ॥

1.200.3

तस्मै यथावत्सत्कारं कृत्वा तेन च सत्कृताः ।
कथान्ते चाभ्यनुज्ञाताः प्रययुर्द्रुपदक्षयम् ॥

1.200.4

पश्यन्तो रमणीयानि वनानि च सरांसि च ।
तत्रतत्र वसन्तश्च शनैर्जग्मुर्महराथाः ॥

1.200.5

स्वाध्यायवन्तः शुचयो मधुराः प्रियवादिनः ।
आनुपूर्व्येण सम्प्राप्ताः पाञ्चालान्पाण्डुनन्दनाः ॥

1.200.6

ते तु दृष्ट्वा पुरं तच्च स्कन्धावारं च पाण्डवाः ।
कुम्भकारस्य शालायां निवासं चक्रिरे तदा ॥

1.200.7

तत्र भैक्षं समाजह्रुर्ब्राह्मणीं वृत्तिमाश्रिताः ।
तान्सम्प्राप्तांस्तथा वीराञ्जज्ञिरे न नराः क्वचित् ॥

1.200.8

यज्ञसेनस्तु पाञ्चालो भीष्मद्रोमकृतागसम् ।
ज्ञात्वाऽत्मानं तदारेभे त्राणायात्मक्रियां क्षमां ॥

1.200.9

अवाप्य धृष्टद्युम्नं हि न स द्रोणमचिन्तयत् ।
स तु वैरप्रसङ्गाच्च भीष्माद्भयमचिन्तयत् ॥

1.200.10

कन्यादानात्तु शरणं सोऽमन्यत महीपतिः । यज्ञसेनस्य कामस्तु पाण्डवाय किरीटिने ॥

1.200.11

दास्यामि कृष्मामिति वै न चैनं विवृणोति सः । जामातृबलसंयोगं मेने हि बलवत्तरम् ॥

1.200.12

सोऽन्वेषमाणः कौन्तेयान्पाञ्चालो जनमेजय ।
दृढं धनुरथानम्यं कारयामास भारत ॥

1.200.13

वैयाघ्रपद्यस्योग्रं वै सृञ्जयस्य महीपतिः ।
तद्धनुः किन्धुरं नाम देवदत्तमुपानयत् ॥

1.200.14

आयसी तस्य च ज्याऽसीत्प्रतिबद्धा महाबला ।
न तु ज्यां प्रसहेदन्यस्तद्धनुःप्रवरं महत् ॥

1.200.15

शङ्करेण वरं दत्तं प्रीतेन च महात्मना ।
तन्निष्फलं स्यान्न तु मे इति प्रामाण्यमागतः ॥

1.200.16

मया कर्तव्यमधुना दुष्करं लक्ष्यवेधनम् । इति निश्चित्य मनसा कारितं लक्ष्यमुत्तमम् ॥

1.200.17

यन्त्रं वैहायसं चापि कारयामास कृत्रिमम् ।
तेन यन्त्रेण सहितं राजँल्लक्ष्यं च काञ्चनम् ॥
द्रुपद उवाच ।

1.200.18

इदं सज्यं धनुः कृत्वा सज्जैरेभिश्च सायकैः ।
अतीत्य लक्ष्य यो वेद्धा स लब्धा मत्सुतामिति ॥
वैशम्पायन उवाच ।

1.200.19

इति स द्रुपदो राजा स्वयंवरमघोषयत् ।
तच्छ्रुत्वा पार्थिवाः सर्वे समीयुस्तत्र भारत ॥

1.200.20

ऋषयश्च महात्मानः स्वयंवरदिदृक्षवः ।
दुर्योधनपुरोगाश्च सकर्णाः कुरवो नृप ॥

1.200.21

यादवा वासुदेवेन सार्धमन्धकवृष्णयः । ततोऽर्चिता राजगुणा द्रुपदेन महात्मना ॥

1.200.22

उपोपविष्टा मञ्चेषु द्रष्टुकामाः स्वयंवरम् ।
ब्राह्मणाश्च महाभागा देशेभ्यः समुपागमन् ॥

1.200.23

ब्राह्मणैरेव सहिताः पाण्डवाः समुपाविशन् ।
त्रयस्त्रिंशत्सुराः सर्वे विमानैर्व्योम्न्यवस्थिताः ॥

1.200.24

ततः पौरजनाः सर्वे सागरोद्धूतनिःस्वनाः ।
शिंशुमारशिरः प्राप्य न्यविशंस्ते स्म पार्थिवाः ॥

1.200.25

प्रागुत्तरेण नगराद्भूमिभागे समे शुभे ।
समाजवाटः शुशुभे भवनैः सर्वतो वृतः ॥

1.200.26

प्राकारपरिखोपेतो द्वारतोरणमण्डितः ।
वितानेन विचित्रेण सर्वतः समलङ्कृतः ॥

1.200.27

तूर्यौघशतसङ्कीर्णः परार्ध्यागुरुधूपितः ।
चन्दनोदकसिक्तश्च माल्यदामोपशोभितः ॥

1.200.28

कैलासशिखरप्रख्यैर्नभस्तलविलेखिभिः ।
सर्वतः संवृतः शुभ्रैः प्रासादैः सुकृतोच्छ्रयै ॥

1.200.29

सुवर्णजालसंवीतैर्मणिकुट्टिमभूषणैः ।
सुखारोहणसोपानैर्महासनपरिच्छदैः ॥

1.200.30

स्रग्दामसमवच्छन्नैरगुरूत्तमवासितैः ।
हंसांशुवर्णैर्बहुभिरायोजनसुगन्धिभिः ॥

1.200.31

असम्बाधशतद्वारैः शयनासनशोभितैः ।
बहुधातुपिनद्धाङ्गैर्हिमवच्छिखरैरिव ॥

1.200.32

तत्र नानाप्रकारेषु विमानेषु स्वलङ्कृताः ।
स्पर्धमानास्तदाऽन्योन्यं निषेदुः सर्वपार्थिवाः ॥

1.200.33

तत्रोपविष्टान्ददृशुर्महासत्वान्पृथग्जनाः ।
राजसिंहान्महाभागान्कृष्णागुरुविभूषितान् ॥

1.200.34

महाप्रसादान्ब्राह्मण्यान्स्वराष्ट्रपरिरक्षिणः ।
प्रियान्सर्वस्य लोकस्य सुकृतैः कर्मभिः शुभैः ॥

1.200.35

मञ्चेषु च परार्द्ध्येषु पौरजानपदा जनाः ।
कृष्णादर्शनसिद्ध्यर्थं सर्वतः समुपाविशन् ॥

1.200.36

ब्राह्मणैस्ते च सहिताः पाण्डवाः समुपाविशन् ।
ऋद्धिं पञ्चालराजस्य पश्यन्तस्तामनुत्तमाम् ॥

1.200.37

ततः समाजो ववृधे स राजन्दिवसान्बहून् ।
रत्नप्रदानबहुलः शोभितो नटनर्तकैः ॥

1.200.38

वर्तमाने समाजे तु रमणीयेऽह्नि षोडशे । मैत्रे मुहूर्ते तस्याश्च राजदाराः पुराविदः ।
पुत्रवत्यः सुवसनाः प्रतिकर्मोपचक्रमुः ॥

1.200.39

वैडूर्यमयपीठे तु निविष्टां द्रौपदीं तदा ।
सतूर्यं स्नापयाञ्चक्रुः स्वर्णकुम्भस्थितैर्जलैः ॥

1.200.40

तां निवृत्ताभिषेकां च दुकूलद्वयधारिणीम् ।
निन्युर्मणिस्तम्भवतीं वेदिं वै सुपरिष्कृताम् ॥

1.200.41

निवेश्य प्राङ्मुखीं हृष्टां विस्मिताक्ष्यः प्रसाधिकाः ।
केनालङ्करणेनेमामित्यन्योन्यं व्यलोकयन् ॥

1.200.42

धूपोष्मणा च केशानामार्द्रभावं व्यपोहयन् ।
बबन्धुरस्या धम्मिल्लं माल्यैः सुरभिगन्धिभिः ॥

1.200.43

दूर्वामधूकरचितं माल्यं तस्या ददुः करे ।
चक्रुश्च कृष्णागरुणा पत्रसङ्गं कुचद्वये ॥

1.200.44

रेजे सा चक्रवाकाङ्का स्वर्णदीर्घा सरिद्वरा ।
अलकैः कुटिलैस्तस्या मुखं विकसितं बभौ ॥

1.200.45

आसक्तभृङ्गं कुसुमं शशिम्बिम्बं जिगाय तत् ।
कालाञ्जनं नयनयोराचारार्थं समादधुः ॥

1.200.46

भूषणं रत्नखचितैरलञ्चक्रुर्यथोचितम् ।
माता च तस्याः पृषती हरितालमनश्शिलाम् ॥

1.200.47

अङ्गुलीभ्यामुपादाय तिलकं विदधे मुखे ।
अलङ्कृतां वधूं दृष्ट्वा योषितो मुदमाययुः ॥

1.200.48

माता न मुमुदे तस्याः पतिः कीदृग्भविष्यति ।
सौविदल्लाः समागम्य द्रुपदस्याज्ञया ततः ॥

1.200.49

एनामारोपयामासुः करिणीं कुचभूषिताम् ।
ततोऽवाद्यन्त वाद्यानि मङ्गलानि दिवि स्पृशन् ॥

1.200.50

विलासिनीजनाश्चापि प्रवरं करिणीशतम् ।
माङ्गल्यगीतं गायन्त्यः पार्स्वयोरुभयोर्ययुः ॥

1.200.51

जनापसरणे व्यग्राः प्रतिहार्यः पुरा ययुः ।
कोलाहलो महानासीत्तस्मिन्पुरवरे तदा ॥

1.200.52

धृष्टद्युम्नो ययावग्रे हयमारुह्य भारत ।
द्रुपदो रङ्गदेशे तु बलेन महता युतः ॥

1.200.53

तस्थौ व्यूह्य महानीकं पालितं दृढधन्विभिः । आप्लुताङ्गीं सुवसनां सर्वाभरणभूषिताम् ॥

1.200.54

मालां च समुपादाय काञ्चनीं समलङ्कृताम् । आगतां ददृशुः सर्वे रङ्गभूमिमलङ्कृताम् ॥

1.200.55

अवतीर्णा ततो रङ्गं द्रौपदी भरतर्षभ । तस्थौ प्रमुदितान्सर्वान्नृपतीन्रङ्गमण्डले ।
प्रेक्षन्ती व्रीडितापाङ्गी द्रष्टृणां सुमनोहरा ॥

1.200.56

पुरोहितः सोमकानां मन्त्रविद्ब्राह्मणः शुचिः ।
परिस्तीर्य जुहावाग्निमाज्येन विधिवत्तदा ॥

1.200.57

सन्तर्पयित्वा ज्वलनं ब्राह्मणान्स्वस्ति वाच्य च ।
वारयामास सर्वाणि वादित्राणि समन्ततः ॥

1.200.58

निःशब्दे तु कृते तस्मिन्धृष्टद्युम्नो विशाम्पते ।
कृष्णामादाय विधिवन्मेघदुन्दुभिनिःस्वनः ॥

1.200.59

रङ्गमध्यं गतस्तत्र मेघगम्भीरया गिरा ।
वाक्यमुच्चैर्जगादेदं श्लक्ष्णमर्थवदुत्तमम् ॥

1.200.60

इदं धनुर्लक्ष्यमिमे च बाणाः शृण्वन्तु मे भूपतयः समेताः ।
छिद्रेण यन्त्रस्य मसर्पयध्वं शरैः शितैर्व्योमचरैर्दशार्धैः ॥

1.200.61

एतन्महत्कर्म करोति यो वै कुलेन रूपेण बलेन युक्तः ।
तस्याद्य भार्या भगिनी ममेयं कृष्णा भवित्री न मृषा ब्रवीमि ॥

1.200.62

तानेवमुक्त्वा द्रुपदस्य पुत्रः पश्चादिदं तां भगिनीमुवाच ।
नाम्ना च गोत्रेण च कर्मणा च सन्कीर्तयन्भूमिपतीन्समेतान् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc