भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 1.198

1.198.1

पुनश्चैव महातेजा विश्वामित्रजिघांसया ।
अग्निं सम्भृतवान्घोरं शाक्तेयः सुमहातपाः ॥

1.198.2

वासिष्ठसम्भृतश्चाग्निर्विश्वामित्रहितैषिणा । तेजसा वह्नितुल्येन ग्रस्तः स्कन्देन धीमता ॥
अर्जुन उवाच ।

1.198.3

राज्ञा कल्माषपादेन गुरौ ब्रह्मविदां वरे ।
कारणं किं पुरस्कृत्य भार्या वै सन्नियोजिता ॥

1.198.4

जानता वै परं धर्मं वसिष्ठेन महात्मना ।
अगम्यागमनं कस्मात्कृतं तेन महर्षिणा ॥

1.198.5

अधर्मिष्ठं वसिष्ठेन कृतं चापि पुरा सखे ।
एतन्मे संशयं सर्वं छेत्तुमर्हसि पृच्छतः ॥
गन्धर्व उवाच ।

1.198.6

धनञ्जय निबोधेयं यन्मां त्वं परिपृच्छसि ।
वसिष्ठं प्रति दुर्धर्ष तथा मित्रसहं नृपम् ॥

1.198.7

कथितं ते मया सर्वं यथा शप्तः स पार्थिवः ।
शक्तिना भरतश्रेष्ठ वासिष्ठेन महात्मना ॥

1.198.8

स तु शापवशं प्राप्तः क्रोधपर्याकुलेक्षणः ।
निर्जगाम पुराद्राजा सहदारः परन्तपः ॥

1.198.9

अरण्यं निर्जनं गत्वा सदारः परिचक्रमे ।
नानामृगगणाकीर्णं नानासत्वसमाकुलम् ॥

1.198.10

नानागुल्मलताच्छन्नं नानाद्रुमसमावृतम् ।
अरण्यं घोरसन्नादं शापग्रस्तः परिभ्रमन् ॥

1.198.11

स कदाचित्क्षुधाविष्टो मृगयन्भक्ष्यमात्मनः ।
ददर्श सुपरिक्लिष्टः कस्मिंश्चिन्निर्जने वने ॥

1.198.12

ब्राह्मणं ब्राह्मणीं चैव मिथुनायोपसन्गतौ ।
तौ तं वीक्ष्य सुवित्रस्तावकृतार्थौ प्रधावितौ ॥

1.198.13

तयोः प्रद्रवतोर्विप्रं जग्राह नृपतिर्बलात् ।
दृष्ट्वा गृहीतं भर्तारमथ ब्राह्मण्यभाषत ॥

1.198.14

शृणु राजन्मम वचो यत्त्वां वक्ष्यामि सुव्रत ।
आदित्यवंशप्रभवस्त्वं हि लोके परिश्रुतः ॥

1.198.15

अप्रमत्तः स्थि धर्मे गुरुशुश्रूषणे रतः ।
शापोपहत दुर्धर्ष न पापं कर्तुमर्हसि ॥

1.198.16

ऋतुकाले तु सम्प्राप्ते भर्तृव्यसनकर्शिता ।
अकृतार्था ह्यहं भर्त्रा प्रसवार्थं समागता ॥

1.198.17

प्रसीद नृपतिश्रेष्ठ भर्ताऽयं मे विसृज्यताम् ।
एवं विक्रोशमानायास्तस्यास्तु न नृशंसवत् ॥

1.198.18

भर्तारं भक्षयामास व्याघ्रो मृगमिवेप्सितम् ।
तस्याः क्रोधाभिभूताया यान्यश्रूण्यपतन्भुवि ॥

1.198.19

सोऽग्निः समभवद्दीप्तस्तं च देशं व्यदीपयत् ।
ततः सा शोकसन्तप्ता भर्तृव्यसनकर्शिता ॥

1.198.20

कल्माषपादं राजर्षिमशपद्ब्राह्मणी रुषा ।
यस्मान्ममाकृतार्थायास्त्वया क्षुद्र नृशंसवत् ॥

1.198.21

प्रेक्षन्त्या भक्षितो मेऽद्य प्रियो भर्ता महायशाः ।
तस्मात्त्वमपि दुर्बुद्धे मच्छापपरिविक्षतः ॥

1.198.22

पत्नीमृतावनुप्राप्य सद्यस्त्यक्ष्यसि जीवितम् । तेन प्रसाद्यमाना सा प्रसादमकरोत्तदा ।
यस्य चर्षेर्वसिष्ठस्य त्वया पुत्रा विनाशिताः ॥

1.198.23

तेन सन्गम्य ते भार्या तनयं जनयिष्यति ।
सते वंशकरः पुत्रो भविष्यति नृपाधम ॥

1.198.24

एवं शप्त्वा तु राजानं सा तमाङ्गिरसी शुभा ।
तस्यैव सन्निधौ दीप्तं प्रविवेश हुताशनम् ॥

1.198.25

वसिष्ठश्च महाभागः सर्वमेतदवैक्षत ।
ज्ञानयोगेन महता तपसा च परन्तप ॥

1.198.26

मुक्तशापश्च राजर्षिः कालेन महता ततः ।
ऋतुकालेऽभिपतितो मदयन्त्या निवारितः ॥

1.198.27

न हि सस्मार स नृपस्तं शापं काममोहितः ।
देव्याः सोऽथ वचः श्रुत्वा सम्भ्रान्तो नृपसत्तमः ॥

1.198.28

तं शापमनुसंस्मृत्य पर्यतप्यद्भृशं तदा । एतस्मात्कारणाद्राजा वसिष्ठं सन्ययोजयत् ।
स्वदारेषु नरश्रेष्ठ शापदोषसमन्वितः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc