भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 1.181

1.181.1

अमर्षी द्रुपदो राजा कर्मसिद्धान्द्विजर्षभान् ।
अन्विच्छन्परिचक्राम ब्राह्मणावसथान्बहून् ॥

1.181.2

पुत्रजन्म परीप्सन्वै शोकोपहतचेतनः । द्रोणेन वैरं द्रुपदो न सुष्वाप स्मरन्सदा ।
नास्ति श्रेष्ठमपत्यं म इति नित्यमचिन्तयत् ॥

1.181.3

जातान्पुत्रान्स निर्वेदाद्धिग्बन्धूनिति चाब्रवीत् ।
निःश्वासपरमश्चासीद्द्रोणं प्रतिचिकीर्षया ॥

1.181.4

प्रभावं विनयं शिक्षां द्रोणस्य चरितानि च ।
क्षात्रेण च बलेनास्य चिन्तयन्नाध्यगच्छत ॥

1.181.5

प्रतिकर्तुं नृपश्रेष्ठो यतमानोऽपि भारत ।
अभितः सोऽथ कल्माषीं गङ्गाकूले परिभ्रमन् ॥

1.181.6

ब्राह्मणावसथं पुम्यमाससाद महीपतिः ।
तत्र नास्नातकः कश्चिन्न चासीदव्रती द्विजः ॥

1.181.7

अधीयानौ महाभागौ सोऽपश्यत्संशितव्रतौ ।
याजोपयाजौ ब्रह्मर्षी शाम्यन्तौ परमेष्ठिनौ ॥

1.181.8

संहिताध्ययने युक्तौ गोत्रतश्चापि काश्यपौ ।
तारणेयौ युक्तरूपौ ब्राह्मणावृषिसत्तमौ ॥

1.181.9

स तावामन्त्रयामास सर्वकामैरतन्द्रितः ।
बुद्ध्वा बलं तयोस्तत्र कनीयांसमुपह्वरे ॥

1.181.10

प्रपेदे च्छन्दयन्कामैरुपयाजं धृतव्रतम् ।
पादशुश्रूषणे युक्तः प्रियवाक्सर्वकामदः ॥

1.181.11

अर्चयित्वा यथान्यायमुपयाजमुवाच सः ।
येन मे कर्मणा ब्रह्मन्पुत्रः स्याद्द्रोणमृत्यवे ॥

1.181.12

अर्जुनस्य भवेद्भार्या भवेद्या वरवर्णिनी । उपयाज कृते तस्मिन् गवां दाताऽस्मि तेऽर्बुदं ॥

1.181.13

यद्वा तेऽन्यद्द्विजश्रेष्ठ मनसः सुप्रियं भवेत् ।
सर्वं तत्ते प्रदाताऽहं न हि मेऽत्रास्ति संशयः ॥

1.181.14

इत्युक्तो नाहमित्येवं तमृषिः प्रत्यभाषत ।
आराधयिष्यन्द्रुपदः स तं पर्यचरत्पुनः ॥

1.181.15

ततः संवत्सरस्यान्ते द्रुपदं स द्विजोत्तमः ।
उपयाजोऽब्रवीत्काले राजन्मधुरया गिरा ॥

1.181.16

ज्येष्ठो भ्राता ममागृह्माद्विचरन् गहने वने ।
अपरिज्ञातशौचायां भूमौ निपतितं फलम् ॥

1.181.17

तदपश्यमहं भ्रातुरसाम्प्रतमनुव्रजन् ।
विमर्शं सन्करादाने नायं कुर्यात्कदाचन ॥

1.181.18

दृष्ट्वा फलस्य नापश्यद्दोषान्पापानुबन्धकान् ।
विविनक्ति न शौचं यः सोऽन्यत्रापि कथं भवेत् ॥

1.181.19

संहिताध्ययनं कुर्वन्वसन्गुरुकुले च यः ।
भैक्षमुत्सृष्टमन्येषां भुङ्क्ते स्म च यदा तदा ॥

1.181.20

कीर्तयन्गुणमन्नानामघृणी च पुनः पुनः ।
तं वै फलार्थिनं मन्ये भ्रातरं तर्कचक्षुषा ॥

1.181.21

तं वै गच्छस्व नृपते स त्वां संयाजयिष्यति ।
जुगुप्समानो नृपतिर्मनसेदं विचिन्तयन् ॥

1.181.22

उपयाजवचः श्रुत्वा याजस्याश्रममभ्यगात् ।
अभिसम्पूज्य पूजार्हमथ याजमुवाच ह ॥

1.181.23

अयुतानि ददान्यष्टौ गवां याजय मां विभो ।
द्रोणवैराभिसन्तप्तं प्रह्लादयितुमर्हसि ॥

1.181.24

स हि ब्रह्मविदां श्रेष्ठो ब्रह्मास्त्रे चाप्यनुत्तमः ।
तस्माद्द्रोणः पराजैष्ट मां वै स सखिविग्रहे ॥

1.181.25

क्षत्रियो नास्ति तस्यास्यां पृथिव्यां कश्चिदग्रणीः ।
कौरवाचायर्मुख्यस्य भारद्वाजस्य धीमतः ॥

1.181.26

द्रोणस्य शरजालानि प्राणिदेहहराणि च ।
षडरत्नि धनुश्चास्य दृश्यते परमं महत् ॥

1.181.27

स हि ब्राह्मणवेषेण क्षात्रं वेगमशंसयम् ।
प्रतिहन्ति महेष्वासो भारद्वाजो महामनाः ॥

1.181.28

क्षत्रोच्छेदाय विहितो जामदग्न्य इवास्थितः ।
तस्य ह्यस्त्रबलं घोरमप्रधृष्यं नरैर्भुवि ॥

1.181.29

ब्राह्मं सन्धारयंस्तेजो हुताहुतिरिवानलः ।
समेत्य स दहत्याजौ क्षात्रधर्मपुरःसरः ॥

1.181.30

ब्रह्मक्षत्रे च विहिते ब्राह्मं तेजो विशिष्यते ।
सोऽहं क्षात्राद्बलाद्धीनो ब्राह्मं तेजः प्रपेदिवान् ॥

1.181.31

द्रोणाद्विशिष्टमासाद्य भवन्तं ब्रह्मवित्तमम् ।
द्रोणान्तकमहं पुत्रं लभेयं युधि दुर्जयम् ॥

1.181.32

तत्कर्म कुरु मे मे याज वितराम्यर्बुदं गवाम् ।
तथेत्युक्त्वा तु तं याजो याज्यार्थमुपकल्पयत् ॥

1.181.33

गुर्वर्थ इति चाकाममुपयाजमचोदयत् ।
याजो द्रोणविनाशाय प्रतिजज्ञे तथा च सः ॥

1.181.34

ततस्तस्य नरेन्द्रस्य उपयाजो महातपाः ।
आचख्यौ कर्म वैतानं तदा पुत्रफलाय वै ॥

1.181.35

स च पुत्रो महावीर्यो महातेजा महाबलः ।
इष्यते यद्विधो राजन्भविता ते तथाविधः ॥

1.181.36

भारद्वाजस्य हन्तारं सोऽभिसन्धाय भूपतिः ।
आजह्वे तत्तथा सर्वं द्रुपदः कर्मसिद्धये ॥

1.181.37

याजस्तु हवनस्यान्ते देवीमाज्ञापयत्तदा ।
प्रेहि मां राज्ञि पृषति मिथुनं त्वामुपस्थितम् ॥
राज्ञ्युवाच ।

1.181.38

अवलिप्तं मुखं ब्रह्मन्दिव्यान्गन्धान्बिभर्मि च ।
सूतार्थे नोपलब्धाऽस्मि तिष्ठ याज मम प्रिये ॥
याज उवाच ।

1.181.39

याजेन श्रपितं हव्यमुपयाजाभिमन्त्रितम् ।
कथं कामं न सन्दध्यात्सा त्वं विप्रेहि तिष्ठ वा ॥
ब्राह्मण उवाच ।

1.181.40

एवमुक्त्वा तु याजेन हुते हविषि संस्कृते ।
उत्तस्थौ पावकात्तस्मात्कुमारो देवसन्निभिः ॥

1.181.41

ज्वालावर्णो घोररूपः किरीटी वर्म चोत्तमम् ।
बिभ्रत्सखङ्गः सशरो धनुष्मान्विनदन्मुहुः ॥

1.181.42

सोऽध्यारोदद्रथवरं तेन च प्रययौ तदा ।
ततः प्रणेदुः पञ्चालाः प्रहृष्टाः साधुसाध्विति ॥

1.181.43

हर्षाविष्टांस्ततश्चैतान्नेयं सेहे वसुन्धरा ।
भयापहो राजपुत्रः पञ्चालानां यशस्करः ॥

1.181.44

राज्ञः शोकापहो जात एष द्रोणवधाय वै ।
इत्युवाच महद्भूतमदृश्यं खेचरं तदा ॥

1.181.45

कुमारी चापि पाञ्चाली वेदीमध्यात्समुत्थिता ।
सुभगा दर्शनीयाङ्गी स्वसितायतलोचना ॥

1.181.46

श्यामा पद्मपलाशाक्षी नीलकुञ्चितमूर्धजा ।
ताम्रतुङ्गनखी सुभ्रूश्चारुपीनपयोधरा ॥

1.181.47

मानुषं विग्रहं कृत्वा साक्षादमरवर्णिनी ।
नीलोत्पलसमो गन्धो यस्याः क्रोशात्प्रधावति ॥

1.181.48

या बिभर्ति परं रूपं यस्या नास्त्युपमा भुवि ।
देवदानवयक्षाणामीप्सितां देवरूपिणीम् ॥

1.181.49

सदृशी पाण्डुपुत्रस्य अर्जुनस्येति भारत । ऊचुः प्रहृष्टमनसो राजभक्तिपुरस्कृताः ॥

1.181.50

तां चापि जातां सुश्रोणीं वागुवाचाशरीरिणी ।
सर्वयोषिद्वरा कृष्णा निनीषुः क्षत्रियान्क्षयम् ॥

1.181.51

सुरकार्यमियं काले करिष्यति सुमध्यमा ।
अस्या हेतोः कौरवाणां महदुत्पत्स्यते भयम् ॥

1.181.52

तच्छ्रुत्वा सर्वपञ्चालाः प्रणेदुः सिंहसङ्घवत् ।
न चैतान्हर्षसम्पूर्णानियं सेहे वसुन्धरा ॥

1.181.53

पाञ्चालराजस्तां दृष्ट्वा हर्षादश्रूण्यवर्तयत् । परिष्वज्य च तां कृष्णां स्नुषा पाण्डोरिति ब्रुवन् ।
अङ्कमारोप्य पाञ्चालीं राजा हर्षमवाप सः ॥

1.181.54

तौ दृष्ट्वा पार्षती याजं प्रपेदे वै सुतार्थिनी ।
न वै मदन्यां जननीं जानीयातामिमाविति ॥

1.181.55

तथेत्युवाच तां याजो राज्ञः प्रियचिकीर्षया ।
तयोश्च नामनी चक्रुर्द्विजाः सम्पूर्णमानसाः ॥

1.181.56

धृष्टत्वादत्यमर्षित्वाद्द्युम्नाद्युत्सम्भवादपि ।
धृष्टद्युम्नः कुमारोऽयं द्रुपदस्य भवत्विति ॥

1.181.57

कृष्णेत्येवाब्रुवकन्कृष्णां कृष्णा.ञभूत्सा हि वर्णतः ।
तथा तन्मिथुनं जज्ञे द्रुपदस्य महामखे ॥

1.181.58

वैदिकाध्ययने पारं धृष्टद्युम्नो गतः परम् ॥

1.181.59

धृष्टद्युम्नं तु पाञ्चाल्यमानीय स्वं निवेशनम् ।
उपाकरोदस्त्रहेतोर्भारद्वाजः प्रतापवान् ॥

1.181.60

अमोक्षणीयं दैवं हि भावि मत्वा महामतिः ।
तथा तत्कृतवान्द्रोण आत्मकीर्त्यनुरक्षणात् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc