भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 1.150

1.150.1

द्रुपदस्यापि विप्रर्षे श्रोतुमिच्छामि सम्भवम् । कथं चापि समुत्पन्नः कथमस्त्राण्यवाप्तवान् ॥

1.150.2

एतदिच्छामि भगवंस्त्वत्तः श्रोतुं द्विजोत्तम ।
कौतूहलं जन्मसु मे कीर्त्यमानेष्वनेकशः ॥
वैशम्पायन उवाच ।

1.150.3

राजा बभूव पाञ्चालः पुत्रार्थी पुत्रकारणात् ।
वनं गतो महाराजस्तपस्तेपे सुदारुणम् ॥

1.150.4

आराधयन्प्रयत्नेन महर्षीन्संशितव्रतान् ।
तस्य सन्तप्यमानस्य वने मृगगणायुते ॥

1.150.5

कालस्तु सुमहान्राजन्नत्ययात्सुतकारणात् ।
स तु राजा महातेजास्तपस्तीव्रं समाददे ॥

1.150.6

कञ्चित्कालं वायुभक्षो निराहारस्तथैव च ।
तथैव तु महाबाहोर्वर्तमानस्य भारत ॥

1.150.7

कालस्तस्य महाराज यातो वै नृपसत्तम ।
ततो नातिचिरात्काले वसन्ते कामदीपने ॥

1.150.8

फुल्लाशोकवने चैव प्राणिनां सुमनोहरे ।
नद्यास्तीरं ततो गत्वा गङ्गायाः पद्मलोचनः ॥

1.150.9

नियमस्थश्च राजासीत्तदा भरतसत्तम ।
ततो नातिचिरात्काले वनं तन्मनुजेश्वर ॥

1.150.10

सम्प्राप्ता ह्यप्सरा राजन्मेनकेत्यभिविश्रुता ।
पुष्पद्रुमान्सज्जमाना राज्ञो दर्शनमागमत् ॥

1.150.11

न ददर्श तु सा राजंस्तत्र स्थानगतं नृपम् ।
दृष्ट्वा चाप्सरसं तां तु शुक्रं राज्ञोऽपतद्भुवि ॥

1.150.12

ततः स राजा राजेन्द्र लज्जया नृपतिः स्वयम् ।
पद्भ्यामाक्रमतायुष्मंस्ततस्तु द्रुपदोऽभवत् ॥

1.150.13

ततस्तु तपसा तस्य राजर्षेर्भावितात्मनः ।
पुत्रः समभवच्छीघ्रं पदोस्तस्य क्रमेण तु ॥

1.150.14

तेनास्य ऋषयः सर्वे समागम्य तपोधनाः ।
नाम चुक्रुर्हि विद्वांसो द्रुपदोऽस्त्विति भारत ॥

1.150.15

स तस्यैवाश्रमे राजन्भरद्वाजस्य भारत ।
ववृधे सुमुखं तत्र कामैः सर्वैर्नृपोत्तम ॥

1.150.16

पाञ्चालोऽपि हि राजेन्द्र स्वराज्यं गतवान्प्रभुः ।
भरद्वाजस्य विद्यार्थं सुतं दत्वा महात्मनः ॥

1.150.17

स कुमारस्ततो राजन्द्रोणेन सहितो वने ।
वेदांश्चाधिजगे साङ्गान्धनुर्वेदांश्च भारत ॥

1.150.18

परया स मुदा युक्तो विचचार वने सुखम् ।
तस्यैवं वर्तमानस्य वने वनचरैः सह ॥

1.150.19

कालेनातिचिराद्राजन्पिता स्वर्गमुपेयिवान् ।
स समागम्य पाञ्चालैः पाञ्चालेष्वभिषेचितः ॥

1.150.20

प्राप्तश्च राज्यं राजेन्द्र सुहृदां प्रीतिवर्धनः ।
राज्यं ररक्ष धर्मेण यथा चेन्द्रस्त्रिविष्टपम् ॥

1.150.21

एतन्मया ते राजेन्द्र यथावत्परिकीर्तितम् ।
द्रुपदस्य च राजर्षेर्धृष्टद्युम्नस्य जन्म च ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc