भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 1.148

1.148.1

पाण्डवान्धार्तराष्ट्रांश्च कृतास्त्रान्प्रसमीक्ष्य सः ।
गुर्वर्थं दक्षिणां काले प्राप्तेऽमन्यत वै गुरुः ॥

1.148.2

अस्त्रशिक्षामनुज्ञातान्रङ्गद्वारमुपागतान् ।
भारद्वाजस्ततस्तांस्तु सर्वानेवाभ्यभाषत ॥

1.148.3

इच्छामि दत्तां सहितां मह्यं परमदक्षिणाम् । एवमुक्तास्ततः सर्वे शिष्या द्रोणमथाब्रुवन् ।
भगवन्किं प्रयच्छाम आज्ञापयतु नो गुरुः ॥

1.148.4

ततः शिष्यान्समाहूय आचार्योऽर्थमचोदयत् ।
द्रोणः सर्वानशेषेण दक्षिणार्थं महीपते ॥

1.148.5

पञ्चालराजं द्रुपदं गृहित्वा रणमूर्धनि ।
पर्यानयत भद्रं वः सा स्यात्परमदक्षिणा ॥

1.148.6

तथेत्युक्त्वा तु ते सर्वे रथैस्तूर्णं प्रहारिणः ।
आचार्यधनदानार्थं द्रोणेन सहिता ययुः ॥

1.148.7

ततोऽभिजग्मुः पञ्चालान्निघ्नन्तस्ते नरर्षभाः ।
ममृदुस्तस्य नगरं द्रुपदस्य महौजसः ॥

1.148.8

दुर्योधनश्च कर्णश्च युयुत्सुश्च महाबलः ।
दुःशासनो विकर्णश्च जलसन्धः सुलोचनः ॥

1.148.9

एते चान्ये च बहवः कुमारा बहुविक्रमाः ।
अहं पूर्वमहं पूर्वमित्येवं क्षत्रियर्षभाः ॥

1.148.10

ततो वरराथारूढाः कुमाराः सादिभिः सह ।
प्रविश्य नगरं सर्वे राजमार्गमुपाययुः ॥

1.148.11

तस्मिन्काले तु पाञ्चालः श्रुत्वा दृष्ट्वा महद्बलम् ।
भ्रातृभिः सहितो राजंस्त्वरया निर्ययौ गृहात् ॥

1.148.12

ततस्तु कृतसन्नाहा यज्ञसेनसहोदराः ।
शरवर्षाणि मुञ्चन्तः प्रणेदुः सर्व एव ते ॥

1.148.13

ततो रथेन शुभ्रेण समासाद्य तु कौरवान् ।
यज्ञसेनः शरान्घोरान्ववर्ष युधि दुर्जयः ॥

1.148.14

पूर्वमेव तु सम्मन्त्र्य पार्थो द्रोणमथाऽब्रवीत् ।
दर्पोद्रेकात्कुमाराणामाचार्यं द्विजसत्तमम् ॥

1.148.15

एषां पराक्रमस्यान्ते वयं कुर्याम साहसम् ।
एतैरशक्यः पाञ्चालो ग्रहीतुं रणमूर्धनि ॥

1.148.16

एवमुक्त्वा तु कौन्तेयो भ्रातृभिः सहितोऽनघः ।
अर्धक्रोशे तु नगरादतिष्ठद्बहिरेव सः ॥

1.148.17

द्रुपदः कौरवान्दृष्ट्वा प्राधावत समन्ततः ।
शरजालेन महता मोहयन्कौरवीं चमूम् ॥

1.148.18

तमुद्यतं रथेनैकमाशुकारिणमाहवे ।
अनेकमिव सन्त्रासान्मेनिरे तत्र कौरवाः ॥

1.148.19

द्रुपदस्य शरा घोरा विचेरुः सर्वतोदिशम् ।
ततः शङ्खाश्च भेर्यश्च मृदङ्गाश्च सहस्रशः ॥

1.148.20

प्रावाद्यन्त महाराज पञ्चालानां निवेशने ।
सिंहनादश्च सञ्जज्ञे पञ्चालानां महात्मनाम् ॥

1.148.21

धनुर्ज्यातलशब्दश्च संस्पृश्य गगनं महान् ।
दुर्योधनो विकर्णश्च सुबाहुर्दीर्घलोचनः ॥

1.148.22

दुःशाशनश्च सन्क्रुद्धः शरवर्षैरवाकिरन् ।
सोऽतिविद्धो महेष्वासः पार्षतो युधि दुर्जयः ॥

1.148.23

व्यधमत्तान्यनीकानि तत्क्षणादेव भारत ।
दुर्योधनं विकर्णं च कर्णं चापि महाबलम् ॥

1.148.24

नानानृपसुतान्वीरान्सैन्यानि विविधानि च ।
अलातचक्रवत्सर्वं चरन्बाणैरतर्पयत् ॥

1.148.25

ततस्तु नागराः सर्वे मुसलैर्यष्टिभिस्तदा ।
अभ्यवर्षन्त कौरव्यान्वर्षमाणा घा इव ॥

1.148.26

सबालवृद्धाः काम्पिल्याः कौरवानभ्ययुस्तदा ।
श्रुत्वा सुतुमुलं युद्धं कौरवानेव भारत ॥

1.148.27

द्रवन्तिस्म नदन्तिस्म क्रोशन्तः पाण्डवान्प्रति ।
पाडवास्तु स्वनं श्रुत्वा आर्तानां रोमहर्षणम् ॥

1.148.28

अभिवाद्य ततो द्रोणं रथानारुरुहुस्तदा ।
युधिष्ठिरं निवार्याशु मा युध्यस्वेति पाण्डवम् ॥

1.148.29

माद्रेयौ चक्ररक्षौ तु फाल्गुनश्च तदाऽकरोत् ।
सेनाग्रगो भीमसेनस्तदाभूद्गदया सह ॥

1.148.30

तदा शत्रुस्वनं श्रुत्वा भ्रातृभिः सहितोऽनघः ।
आयाज्जवेन कौन्तेयो रथेनानादयन्दिशः ॥

1.148.31

पञ्चालानां ततः सेनामुद्धूतार्णवनिःस्वनाम् ।
भीमसेनो महाबाहुर्दण्डपाणिरिवान्तकः ॥

1.148.32

प्रविवेश महासेनां मकरः सागरं यथा । चतुरङ्गबलाकीर्णे ततस्तस्मिन्रणोत्सवे ॥

1.148.33

स्वयमभ्यद्रवद्भीमो नागानीकं गदाधरः ॥

1.148.34

स युद्धकुशलः पार्थो बाहुवीर्येण चातुलः ।
अहनत्कुञ्जरानीकं गदया कालरूपधृक् ॥

1.148.35

ते गजा गिरिसङ्काशाः क्षरन्तो रुधिरं बहु ।
भीमसेनस्य गदया भिन्नमस्तकपिण्डकाः ॥

1.148.36

पतन्ति द्विरदा भूमौ वज्रघातादिवाचलाः ।
गजानश्वान्रथांश्चैव पातयामास पाण्डवः ॥

1.148.37

पदातींश्च रथांश्चैव न्यवधीदर्जुनाग्रजः ।
गोपाल इव दण्डेन यथा पशुगणान्वने ॥

1.148.38

चालयन्रथनागांश्च सञ्चचाल वृकोदरः ।
भारद्वाजप्रियं कर्तुमुद्यतः फाल्गुनस्तदा ॥

1.148.39

पार्षतं शरजालेन क्षिपन्नागात्स पाण्डवः ।
हयौघांश्च रथौघांश्च गजौघांश्च समन्ततः ॥

1.148.40

पातयन्समरे राजन्युगान्ताग्रिरिव ज्वलन् ।
ततस्ते हन्यमाना वै पञ्चालाः सृञ्जयास्तथा ॥

1.148.41

शरैर्नानाविधैस्तूर्णं पार्थं सञ्छाद्य सर्वशः ।
सिंहनादं मुखैः कृत्वा समयुध्वन्त पाण्डवम् ॥

1.148.42

तद्युद्धमभवद्धोरं समुहाद्भुतदर्शनम् ।
सिंहनादस्वनं श्रुत्वा नामृष्यत्पाकशासनिः ॥

1.148.43

ततः किरीटी सहसा पञ्चालान्समरेऽद्रवत् ।
छादयन्निषुजालेन महता मोहयन्निव ॥

1.148.44

शीघ्रमभ्यस्यतो बाणान्सन्दधानस्य चानिशम् ।
नान्तरं ददृशे किञ्चित्कौन्तेयस्य यशस्विनः ॥

1.148.45

न दिशो नान्तरिक्षं च तदा नैव च मेदिनी ।
अदृश्यत महाराज तत्र किञ्चिन्न सङ्गरे ॥

1.148.46

पाञ्चालानां कुरूणां च साधुसाध्विति निस्वनः । तत्र तूर्यनिनादश्च शङ्खानां च महास्वनः ॥

1.148.47

सिंहनादश्च सञ्जज्ञे साधुशब्देन मिश्रितः ।
ततः पाञ्चालराजस्तु तथा सत्यजिता सह ॥

1.148.48

त्वरमाणोऽभिदुद्राव महेन्द्रं शम्बरो यथा ।
महता शरवर्षेण पार्थः पाञ्चालमावृणोत् ॥

1.148.49

ततो हलहलाशब्द आसीत्पाञ्चालके बले ।
जिवृक्षति महासिंहे गजानामिव यूथपम् ॥

1.148.50

दृष्ट्वा पार्थं तदायान्तं सत्यजित्सत्यविक्रमः ।
पाञ्चालं वै परिप्रेप्सुर्धनञ्जयमदुद्रुवत् ॥

1.148.51

ततस्त्वर्जुनपाञ्चालौ युद्धाय समुपागतौ ।
व्यक्षोभयेतां तौ सैन्यमिन्द्रवैरोचनाविव ॥

1.148.52

ततः सत्यजितं पार्थो दशभिर्मर्मभेदिभिः ।
विव्याध बवलद्गाढं तदद्भुतमिवाभवत् ॥

1.148.53

ततः शरशतैः पार्थं पाञ्चालः शीघ्रमार्दयत् ।
पार्थस्तु शरवर्षेण च्छाद्यमानो महारथः ॥

1.148.54

वेगं चक्रे महावेगो धनुर्ज्यामवमृज्य च ।
ततः सत्यजितश्चापं छित्वा राजानमभ्ययात् ॥

1.148.55

अथान्यद्धनुरादाय सत्यजिद्वेगवत्तरम् ।
साश्वं ससूतं सरथं पार्थं विव्याध सत्वरः ॥

1.148.56

स तं न ममृषे पार्थः पाञ्चालेनार्दितो युधि ।
ततस्तस्य विनाशार्थं सत्वरं व्यसृजच्छरान् ॥

1.148.57

हयान्ध्वजं धनुर्मुष्टिमुभौ तौ पार्ष्णिसारथी ।
स तथा भिद्यमानेषु कार्मुकेषु पुनः पुनः ॥

1.148.58

हयेषु विनिकृत्तेषु विमुखोऽभवदाहवे ।
स सत्यजितमालेक्य तथा विमुखमाहवे ॥

1.148.59

वेगेन महता राजन्नभ्यधावत पार्षतम् ।
तदा चक्रे महद्युद्धमर्जुनो जयतां वरः ॥

1.148.60

तस्य पार्थो धनुश्छित्त्वा ध्वजं चोर्व्यामपातयत् ।
पञ्चभिस्तस्य विव्याध हयान्सूतं च सायकैः ॥

1.148.61

तत उत्सृज्य तच्चापमाददानः शरावरम् ।
खड्गमुद्धृत्य कौन्तेयः सिंहनादमथाकरोत् ॥

1.148.62

पाञ्चालस्य रथस्येषामाप्लुत्य सहसाऽपतत् ।
पाञ्चालरथमास्थाय अवित्रस्तो धनञ्जयः ॥

1.148.63

विक्षोभ्याम्भोनिधिन्तार्क्ष्यस्तन्नागमिव सोऽग्रहीत् ।
ततस्तु सर्वपाञ्चाला विद्रवन्ति दिशो दश ॥

1.148.64

दर्शयन्सर्वसैन्यानां स बाह्वोर्बलमात्मनः ।
सिंहनादस्वनं कृत्वा निर्जगाम धनञ्जयः ॥

1.148.65

आयान्तमर्जुनं दृष्ट्वा कुमाराः सहितास्तदा ।
ममृदुस्तस्य नगरं द्रुपदस्य महात्मनः ॥
अर्जुन उवाच ।

1.148.66

सम्बन्धी कुरुवीराणां द्रुपदो राजसत्तमः ।
मा वधीस्तद्बलं भीम गुरुदानं प्रदीयताम् ॥
वैशम्पायन उवाच ।

1.148.67

भीमसेनस्तदा राजन्नर्जुनेन निवारितः ।
अतृप्तो युद्धधर्मेषु न्यवर्तत महाबलः ॥

1.148.68

ते यज्ञसेनं द्रुपदं गृहीत्वा रणमूर्धनि ।
उपाजग्मुः सहामात्यं द्रोणाय भरतर्षभ ॥

1.148.69

भग्नदर्पं हृतधनं तं तथा वशमागतम् ।
स वैरं मनसा ध्यात्वा द्रोणो द्रुपदमब्रवीत् ॥

1.148.70

विमृज्य तरसा राष्ट्रं पुरं ते मृदितं मया ।
प्राप्य जीवन्रिपुवशं सखिपूर्वं किमिष्यते ॥

1.148.71

एवमुक्त्वा प्रहस्यैनं किञ्चित्स पुनरब्रवीत् ।
मा भैः प्राणभयाद्वीर क्षमिणो ब्राह्मणा वयम् ॥

1.148.72

आश्रमे क्रीडितं यत्तु त्वया बाल्ये मया सह ।
तेन संवर्धितः स्नेहः प्रीतिश्च क्षत्रियर्षभ ॥

1.148.73

प्रार्थयेयं त्वया सख्यं पुनरेव जनाधिप ।
वरं ददामि ते राजन्राज्यस्यार्धमवाप्नुहि ॥

1.148.74

अराजा किल नो राज्ञः सखा भवितुमर्हति ।
अतः प्रयतितं राज्ये यज्ञसेन मया तव ॥

1.148.75

राजासि दक्षिणे कूले भागीरथ्याहमुत्तरे ।
सखायं मां विजानीहि पाञ्चाल यदि मन्यसे ॥
द्रुपद उवाच ।

1.148.76

अनाश्चर्यमिदं ब्रह्मन्विक्रान्तेषु महात्मसु ।
प्रीये त्वयाऽहं त्वत्तश्च प्रीतिमिच्छामि शाश्वतीम् ॥
वैशम्पायन उवाच ।

1.148.77

एवमुक्तः स तं द्रोणो मोक्षयामास भारत ।
सत्कृत्य चैनं प्रीतात्मा राज्यार्धं प्रत्यपादयत् ॥

1.148.78

माकन्दीमथ गङ्गायास्तीरे जनपदायुताम् ।
सोऽध्यावसद्दीनमनाः काम्पिल्यं च पुरोत्तमम् ॥

1.148.79

दक्षिणांश्चापि पञ्चालान्यावच्चर्मण्वती नदी ।
द्रोणेन चैवं द्रुपदः परिभूयाथ पालितः ॥

1.148.80

क्षात्रेण च बलेनास्य नापश्यत्स पराजयम् ।
हीनं विदित्वा चात्मानं ब्राह्मेण स बलेनतु ॥

1.148.81

पुत्रजन्म परीप्सन्वै पृथिवीमन्वसञ्चरत् ।
अहिच्छत्रं च विषयं द्रोणः समभिपद्यत ॥

1.148.82

एवं राजन्नहिच्छत्रा पुरीजनपदायुता ।
युधि निर्जित्य पार्थेन द्रोणाय प्रतिपादिता ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc