भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 1.138

1.138.1

ततस्ते मन्त्रयामासुर्दुर्योधनपुरोगमाः ।
प्राणवान्विक्रमी चापि शौर्ये च महति स्थितः ॥

1.138.2

स्पर्धते चापि सततमस्मानेव वृकोदरः ।
तं तु सुप्तं पुरोद्याने जले शूले क्षिपामहे ॥

1.138.3

ततो जलविहारार्थं कारयामास भारत । प्रमाणकोट्यामुद्देशे स्थलं किञ्चिदुपेत्य ह ॥

1.138.4

भक्ष्यं भोज्यं च पेयं च चोष्यं लेह्यमथापि च ।
उपपादितं नरैस्तत्र कुशलैः सूदकर्मणि ॥

1.138.5

न्यवेदयंस्तत्पुरुषा धार्तराष्ट्राय वै तदा ।
ततो दुर्योधनस्तत्र पाण्डवानाह दुर्मतिः ॥

1.138.6

गङ्गां चैवानुयास्याम उद्यानवनशोभिताम् ।
सहिता भ्रातरः सर्वे जलक्रीडामवाप्नुमः ॥

1.138.7

एवमस्त्विति तं चापि प्रत्युवाच युधिष्ठिरः ।
ते रथैर्नगराकारैर्देशजैश्च गजोत्तमैः ॥

1.138.8

निर्ययुर्नगराच्छूराः कौरवाः पाण्डवैः सह ।
उद्यानवनमासाद्य विसृज्य च महाजनम् ॥

1.138.9

विशन्ति स्म तदा वीराः सिंहा इव गिरेर्गुहाम् ।
उद्यानमभिपश्यन्तो भ्रातरः सर्व एव ते ॥

1.138.10

उपस्थानगृहैः शुभ्रैर्वलभीभिश्च शोभितम् ।
गवाक्षकैस्तथा जालैर्यन्त्रैः साञ्चारिकैरपि ॥

1.138.11

सम्मार्जितं सौधकारैश्चित्रकारैश्च चित्रितम् ।
दीर्घिकाभिश्च पूर्णाभिस्तथा पुष्करिणीषु च ॥

1.138.12

जलं तच्छुशुभे च्छन्नं फुल्लैर्जलरुहैस्तथा ।
उपच्छन्ना वसुमती तथा पुष्पैर्यथर्तुकैः ॥

1.138.13

तत्रोपविष्टास्ते सर्वे पाण्डवाः कौरवाश्च ह ।
उपच्छन्नान्बहून्कामांस्ते भुञ्जन्ति ततस्ततः ॥

1.138.14

अथोद्यानवरे तस्मिंस्तथा क्रीडागताश्चते ।
परस्परस्य वक्त्रेषु ददुर्भक्ष्यांस्ततस्ततः ॥

1.138.15

ततो दुर्योधनः पापस्तद्भक्ष्ये कालकूटकम् ।
विषं प्रक्षेपयामास भीमसेनजिघांसया ॥

1.138.16

स्वयमुत्थाय चैवाथ हृदयेन क्षुरोपमः ।
स वाचाऽमृतकल्पश्च भ्रातृवच्च सुहृद्यथा ॥

1.138.17

स्वयं प्रक्षिपते भक्ष्यं बहु भीमस्य पाकृत् ।
प्रभक्षितं च भीमेन तं वै दोषमजानता ॥

1.138.18

ततो दुर्योधनस्तत्र हृदयेन हसन्निव ।
कृतकृत्यमीवात्मानं मन्यते पुरुषाधमः ॥

1.138.19

ततस्ते सहिताः सर्वे जलक्रीडामकुर्वत ।
पाण्डवा धार्तराष्ट्राश्च तदा मुदितमानसाः ॥

1.138.20

विहारावसथेष्वेव वीरा वासमरोचयन् ।
भीमस्तु बलवान्भुक्त्वा व्यायामाभ्यधिकं जले ॥

1.138.21

वाहयित्वा कुमारांस्ताञ्जलक्रीडागतांस्तदा ।
प्रमाणकोट्यां वासार्थी सुष्वापावाप्य तत्स्थलम् ॥

1.138.22

शीतं वातं समासाद्य श्रान्तो मदविमोहितः ।
विषेण च परीताङ्गो निश्चेष्टः पाण्डुनन्दनः ॥

1.138.23

ततो बद्ध्वा लतापाशैर्भीमं दुर्योधनः स्वयम् ।
शूलान्यप्सु निखायाशु प्रादेशाभ्यन्तराणि च ॥

1.138.24

लतापाशैर्दृढं बद्धं स्थलाज्जलमपातयत् ।
सशेषत्वान्न सम्प्राप्तो जले शूलिनि पाण्डवः ॥

1.138.25

पपात यत्र तत्रास्य शूलं नासीद्यदृच्छया । स निःसञ्ज्ञो जलस्यान्तमवाग्वै पाण्डवोऽविशत् ।
आक्रामन्नागभवने तदा नागकुमारकान् ॥

1.138.26

ततः समेत्य बहुभिस्तदा नागैर्महाविषैः ।
अदश्यत भृशं भीमो महादंष्ट्रैर्विपोल्बणैः ॥

1.138.27

ततोऽस्य दश्यमानस्य तद्विषं कालकूटकम् ।
हतं सर्पविषेणैव स्थावरं जङ्गमेन तु ॥

1.138.28

दंष्ट्राश्च दंष्ट्रिणां तेषां मर्मस्वपि निपातिताः ।
त्वचं नैवास्य बिभिदुः सारत्वात्पृथुवक्षसः ॥

1.138.29

ततः प्रबुद्धः कौन्तेयः सर्वं सञ्छिद्य बन्धनम् ।
पोथयामास तान्सर्पान्केचिद्भीताः प्रदुद्रुवुः ॥

1.138.30

हतावशेषा भीमेन सर्वे वासुकिमभ्ययुः ।
ऊचुश्च सर्पराजानं वासुकिं वासवोपमम् ॥

1.138.31

अयं नरो वै नागरेन्द्र ह्यप्सु बद्ध्वा प्रवेशितः ।
यथा च नो मतिर्व्रीर विषपीतो भविष्यति ॥

1.138.32

निश्चेष्टोऽस्माननुप्राप्तः स च दष्टोऽन्वबुध्यत ।
ससञ्ज्ञश्चापि संवृत्तश्छित्त्वा बन्धनमाशु नः ॥

1.138.33

पोथयन्तं महाबाहुं त्वं वै तं ज्ञातुमर्हसि ।
ततो वासुकिरभ्येत्य नागैरनुगतस्तदा ॥

1.138.34

पश्यति स्म महाबाहुं भीमं भीमपराक्रमम् ।
आर्यकेण च दृष्टः स पृथाया आर्यकेम च ॥

1.138.35

तदा दौहित्रदौहित्रः परिष्वक्तः सुपीडितम् ।
सुप्रीतश्चाभवत्तस्य वासुकिः स महायशाः ॥

1.138.36

अब्रवीत्तं च नागेन्द्रः किमस्य क्रियतां प्रियम् ।
धनौघो रत्ननिचयो वसु चास्य प्रदीयताम् ॥

1.138.37

एवमुक्तस्तदा नागो वासुकिं प्रत्यभाषत ।
यदि नागेन्द्र तुष्टोऽसि किमस्य धनसञ्चयैः ॥

1.138.38

रसं पिबेत्कुमारोऽयं त्वयि प्रीते महाबलः ।
बलं नागसहस्रस्य यस्मिन्कुण्डे प्रतिष्ठितम् ॥

1.138.39

यावत्पिबति बालोऽयं तावदस्मै प्रदीयताम् ।
एवमस्त्विति तं नागं वासुकिः प्रत्यभाषत ॥

1.138.40

ततो भीमस्तदा नागैः कृतस्वस्त्ययनः शुचिः ।
प्राङ्मुखश्चोपविष्टश्च रसं पिबति पाण्डवः ॥

1.138.41

एकोच्छ्वासात्ततः कुण्डं पिबति स्म महाबलः ।
एवमष्टौ स कुण्डानि ह्यपिबत्पाण्डुनन्दनः ॥

1.138.42

ततस्तु शयने दिव्ये नागदत्ते महाभुजः ।
अशेत भीमसेनस्तु यथासुखमरिन्दमः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc