भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 1.135

1.135.1

पाण्डोरुपरमं दृष्ट्वा देवकल्पा महर्षयः ।
ततो मन्त्रविदः सर्वे मन्त्रयाञ्चक्रिरे मिथः ॥
तापसा ऊचुः ।

1.135.2

हित्वा राज्यं च राष्ट्रं च स महात्मा महायशाः ।
अस्मिंस्थाने तपस्तप्त्वा तापसाञ्शरणं गतः ॥

1.135.3

स जातमात्रान्पुत्रांश्च दारांश्च भवतामिह ।
प्रादायोपनिधिं राजा पाण्डुः स्वर्गमितो गतः ॥

1.135.4

तस्येमानात्मजान्देहं भार्यां च सुमहात्मनः ।
स्वराष्ट्रं गृह्य गच्छामो धर्म एष हि नः स्मृतः ॥
वैशम्पायन उवाच ।

1.135.5

ते परस्परमामन्त्र्य देवकल्पा महर्षयः ।
पाण्डोः पुत्रान्पुरस्कृत्य नगरं नागसाह्वयम् ॥

1.135.6

उदारमनसः सिद्धा गमने चक्रिरे मनः ।
भीष्माय पण्डवान्दातुं धृतराष्ट्राय चैव हि ॥

1.135.7

तस्मिन्नेव क्षणे सर्वे तानादाय प्रतस्थिरे ।
पाण्डोर्दारांश्च पुत्रांश्च शरीरे ते च तापसाः ॥

1.135.8

सुखिनी सा पुरा भूत्वा सततं पुत्रवत्सला ।
प्रपन्ना दीर्घमध्वानं सन्क्षिप्तं तदमन्यत ॥

1.135.9

सा त्वदीर्घेण कालेन सम्प्राप्ता कुरुजाङ्गलम् ।
वर्धमानपुरद्वारमाससाद यशस्विनी ॥

1.135.10

द्वारिणं तापसा ऊचू राजानं च प्रकाशय ।
ते तु गत्वा क्षणेनैव सभायां विनिवेदिताः ॥

1.135.11

तं चारणसहस्राणां मुनीनामागमं तदा ।
श्रुत्वा नागपुरे नॄणां विस्मयः समपद्यत ॥

1.135.12

मुहूर्तोदित आदित्ये सर्वे बालपुरस्कृताः ।
सदारास्तापसान्द्रष्टुं निर्ययुः पुरवासिनः ॥

1.135.13

स्त्रीसङ्घाः क्षत्रसङ्घाश्च यानसङ्घसमास्थिताः ।
ब्राह्मणैः सह निर्जग्मुर्ब्राह्मणानां च योषितः ॥

1.135.14

तथा विट्शूद्रसङ्घानां महान्यतिकरोऽभवत् ।
न कश्चिदकरोदीर्ष्यामभवन्धर्मबुद्धयः ॥

1.135.15

तथा भीष्मः शान्तनवः सोमदत्तो.ञथ बाह्लिकः ।
प्रज्ञाचक्षुश्च राजर्षिः क्षत्ता च विदुरः स्वयम् ॥

1.135.16

सा च सत्यवती देवी कौसल्या च यशस्विनी ।
राजदारैः परिवृता गान्धारी चापि निर्ययौ ॥

1.135.17

धृतराष्ट्रस्य दायादा दुर्योधनपुरोगमाः ।
भूषिता भूषणैश्चित्रैः शतसङ्ख्या विनिर्ययुः ॥

1.135.18

तान्महर्षिगणान्दृष्ट्वा शिरोभिरभिवाद्य च ।
उपोपविविशुः सर्वे कौरव्याः सपुरोहिताः ॥

1.135.19

तथैव शिरसा भूमावभिवाद्य प्रणम्य च ।
उपोपविविशुः सर्वे पौरजानपदा अपि ॥

1.135.20

तमकूजमभिज्ञाय जनौघं सर्वशस्तदा ।
पूजयित्वा यथान्यायं पाद्येनार्घ्येण च प्रभो ॥

1.135.21

भीष्मो राज्यं च राष्ट्रं च महर्षिभ्यो न्यवेदयत् । तेषामथो वृद्धतमः प्रत्युत्थाय जटाजिनी ।
ऋषीणां मतमाज्ञाय महर्षिरिदमब्रवीत् ॥

1.135.22

यः स कौरव्यदायादः पाण्डुर्नाम नराधिपः ।
कामभोगान्परित्यज्य शतशृङ्गमितो गतः ॥

1.135.23

राजा भोगान्परित्यज्य तपस्वी सम्बभूव ह ।
स यथोक्तं तपस्तेपे पत्रमूलफलाशनः ॥

1.135.24

पत्नीभ्यां सह धर्मात्मा सञ्चित्कालमतन्द्रितः ।
तेन वृत्तसमाचारैस्तपसा च तपस्विनः ॥

1.135.25

तोषितास्तापसास्तत्र शतशृङ्गनिवासिनः ।
स्वर्गलोकं गन्तुकामं तापसाः सन्निवार्य तम् ॥

1.135.26

उद्यन्तं सह पत्नीभ्यां विप्रा वचनमब्रुवन् ।
अनपत्यस्य राजेन्द्र पुण्या लोका न सन्ति ते ॥

1.135.27

तस्माद्धर्मं च वायुं च महेन्द्रं च तथाऽश्विनौ ।
आराधयस्व राजेन्द्र पत्नीभ्यां सह देवताः ॥

1.135.28

प्रीताः पुत्रान्प्रदास्यन्ति ऋणमुक्तो भविष्यसि ।
तपसा दिव्यचक्षुष्ट्वात्पश्यामस्ते तथा सुतान् ॥

1.135.29

अस्माकं वचनं श्रुत्वा देवानाराधयत्तदा । ब्रह्मचर्यव्रतस्थस्य तस्य दिव्येन हेतुना ॥

1.135.30

साक्षाद्धर्मादयं पुत्रस्तत्र जातो युधिष्ठिरः ।
तथैनं बलिनां श्रेष्ठं तस्य राज्ञो महात्मनः ॥

1.135.31

मातरिश्वा ददौ पुत्रं भीमं नाम महाबलम् ।
पुरन्दरादयं जज्ञे कुन्त्यां सत्यपराक्रमः ॥

1.135.32

अस्मिञ्जाते महेष्वासे पृथामिन्द्रस्तदाऽब्रवीत् ।
मत्प्रसादादयं जातः कुन्ति सत्यपराक्रमः ॥

1.135.33

अजेयानपि जेताऽरीन्देवतादीन्न संशयः । यस्य कीर्तिर्महेष्वासान्सर्वानभिभविष्यति ॥

1.135.34

युधिष्ठिरो राजसूयं भ्रातृवीर्यादवाप्स्यति ।
एष जेता मनुष्यांश्च सर्वान्गन्धर्वराक्षसान् ॥

1.135.35

एष दुर्योधनादीनां कौरवाणां च जेष्यति ।
वीरस्यैतस्य विक्रान्तैर्धर्मपुत्रो युधिष्ठिरः ॥

1.135.36

यक्ष्यते राजसूयाद्यैर्धर्म एव परः सदा । यौ तु माद्री महेष्वासावसूत पुरुषोत्तमौ ॥

1.135.37

अश्विभ्यां पुरुषव्याघ्राविमौ तावपि तिष्ठतः । नकुलः सहदेवश्च तावप्यमिततेजसौ ॥

1.135.38

चरता धर्मनित्येन वनवासं यशस्विना ।
एष पैतामहो वंशः पाण्डुना पुनरुद्धृतः ॥

1.135.39

पुत्राणां जन्म वृद्धिं च वैदिकाध्ययनानि च ।
पश्यन्तः सततं पाण्डोः परां प्रीतिमवाप्स्यथ ॥

1.135.40

वर्तमानः सतां वृत्ते पुत्रलाभमवाप च ।
पितृलोकं गतः पाण्डुरितः सप्तदशेऽहनि ॥

1.135.41

तं चितागतमाज्ञाय वैश्वानरमुखे हुतम् ।
प्रविष्टा पावकं माद्री हित्वा जीवितमात्मनः ॥

1.135.42

सा गता सह तेनैव पतिलोकमनुव्रता । तस्यास्तस्य च यत्कार्यं क्रियतां तदनन्तरम् ॥

1.135.43

पृथां च शरणं प्राप्तां पाण्डवांश्च यशस्विनः ।
यथावदनुमन्यन्तां धर्मो ह्येष सनातनः ॥

1.135.44

इमे तयोः शरीरे द्वे पुत्राश्चेमे तयोर्वराः ।
क्रियाभिरनुगृह्यन्तां सह मात्रा परन्तपाः ॥

1.135.45

प्रेतकार्ये निवृत्ते तु पितृमेधं महायशाः ।
लभतां सर्वधर्मज्ञः पाण्डुः कुरुकुलोद्वहः ॥
वैशम्पायन उवाच ।

1.135.46

एवमुक्त्वा कुरून्सर्वान्कुरूणामेव पश्यताम् ।
क्षणेनान्तर्हिताः सर्वे तापसा गुह्यकैः सह ॥

1.135.47

गन्धर्वनगराकारं तथैवान्तर्हितं पुनः ।
ऋषिसिद्धगणं दृष्ट्वा विस्मयं ते परं ययुः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc