महाभारत · अध्याय 1.12
कथं हिंसितवान्सर्पान्स राजा जनमेजयः ।
सर्पा वा हिंसितास्तत्र किमर्थं द्विजसत्तम ॥
किमर्थं मोक्षिताश्चैव पन्नगास्तेन धीमता ।
आस्तीकेन द्विजश्रेष्ठ श्रोतुमिच्छाम्यशेषतः ॥
ऋषिरुवाच ।
श्रोष्यसि त्वं रुरो सर्वमास्तीकचरितं महत् ।
ब्राह्मणानां कथयतां त्वरावान्गमने ह्यहम् ॥
सौतिरुवाच ।
इत्युक्त्वान्तर्हिते योगात्तस्मिन्नृषिवरे प्रभौ । सम्भ्रमाविष्टहृदयो रुरुर्मेने तदद्भुतम् ॥
बलं परममास्थाय पर्यधावत्समन्ततः ।
तमृषिं नष्टमन्विच्छन्संश्रान्तो न्यपतद्भुवि ॥
स मोहे परमं गत्वा नष्टसञ्ज्ञ इवाभवत् ।
तदृषेर्वचनं तथ्यं चिन्तयानः पुनःपुनः ॥
लब्धसञ्ज्ञो रुरुश्चायात्तदाचख्यौ पितुस्तदा ।
पित्रे तु सर्वमाख्याय डुण्डुभस्य वचोऽर्थवत् ॥
अपृच्छत्पितरं भूयः सोस्तीकस्य वचस्तदा ।
आख्यापयत्तदाऽख्यानं डुण्डुभेनाथ कीर्तितम् ॥
तत्कीर्त्यमानं भगवञ्श्रोतुमिच्छामि तत्त्वतः । पिता चास्य तदाख्यानं पृष्टः सर्वं न्यवेदयत् ॥
मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0