भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 1.111

1.111.1

अम्बायां निर्गतायां तु भीष्मः शान्तनवस्तदा ।
न्यायेन कारयामास राज्ञो वैवाहिकीं क्रियाम् ॥

1.111.2

अम्बिकाम्बालिके चैव परिणीयाग्निसन्निधौ । तयोः पाणी गृहीत्वा तु कौरव्यो रूपदर्पितः ।
विचित्रवीर्यो धर्मात्मा कामात्मा समपद्यत ॥

1.111.3

ते चापि बृहतीश्यामे नीलकुञ्चितमूर्धजे ।
रक्ततुङ्गनखोपेते पीनश्रोणिपयोधṟए ॥

1.111.4

आत्मनः प्रतिरूपोऽसौ लब्धः पतिरिति स्थिते ।
विचित्रवीर्यं कल्याण्यौ पूजयामासतुः शुभे ॥

1.111.5

अन्योन्यं प्रति सक्ते च एकभावे इव स्थिते । स चाश्विरूपसदृशो देवतुल्यपराक्रमः ।
सर्वासामेव नारीणां चित्तप्रमथनो रहः ॥

1.111.6

ताभ्यां सह समाः सप्त विहरन्पृथिवीपतिः ।
विचित्रवीर्यस्तरुणो यक्ष्मणा समगृह्यत ॥

1.111.7

सुहृदां यतमानानामाप्तैः सह चिकित्सकैः ।
जगामास्तमिवादित्यः कौरव्यो यमसादनम् ॥

1.111.8

धर्मात्मा स तु गाङ्गेयः चिन्ताशोकपरायणः ।
प्रेतकार्याणि सर्वाणि तस्य सम्यगकारयत् ॥

1.111.9

राज्ञो विचित्रवीर्यस्य सत्यवत्या मते स्थितः ।
ऋत्विग्बिः सहितो भीष्मः सर्वैश्च कुरुपुङ्गवैः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc