भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 1.10

1.10.1

मम प्राणसमा भार्या दष्टासीद्भुजगेन ह ।
तत्र मे समयो घोर आत्मनोरग वै कृतः ॥

1.10.2

भुजन्गं वै सदा हन्यां यं यं पश्येयमित्युत ।
ततोऽहं त्वां जिघांसामि जीवितेनाद्य मोक्ष्यसे ॥
डुण्डुभ उवाच ।

1.10.3

अन्ये ते भुजगा ब्रह्मन्ये दश्तीह मानवान् ।
डुण्डुभानहिगन्धेन न त्वं हिंसितुमर्हसि ॥

1.10.4

एकानर्थान्पृथग्धर्मानेकदुःखान्पृथक्सुखान् ।
डुण्डुभान्धर्मविद्भूत्वा न त्वं हिंसितुमर्हसि ॥
सौतिरुवाच ।

1.10.5

इति श्रुत्वा वचस्तस्य डुण्डुभस्य रुरुस्तदा ।
नावधीद्भयसंविग्नमृषिं मत्त्वाऽथ डुण्डुभम् ॥

1.10.6

उवाच चैनं भगवान्रुरुः संशमयन्निव ।
केन त्वं भुजग ब्रूहि कोऽसीमां विक्रियां गतः ॥
डुण्डुभ उवाच ।

1.10.7

अहं पुरा रुरो नाम्ना ऋषिरासं सहस्रपात् ।
सोऽहं शापेन विप्रस्य भुजगत्वमुपागतः ॥
रुरुरुवाच ।

1.10.8

किमर्थं शप्तवान्कुद्धो द्विजस्त्वां भुजगोत्तम ।
कियन्तं चैव कालं ते वपुरेतद्भविष्यसि ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc