भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 1.1

1.1.1

नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं चैव ततो जयमुदीरयेत् ॥

1.1.2

नारायणं सुरगुरुं जगदेकनाथं भक्तप्रियं सकललोकनमस्कृतं च ।
त्रैगुण्यवर्जितमजं विभुमाद्यमीशं वन्दे भवघ्नममरासुरसिद्धवन्द्यम् ॥

1.1.3

नमो धर्माय महते नमः कृष्णाय वेधसे ।
ब्राह्मणेभ्यो नमस्कृत्य धर्मान्वक्ष्यामि शाश्वतान् ॥

1.1.4

ओं नमो भगवते वासुदेवाय । ओं नमः पितामहाय । ओं नमः प्रजापतिभ्यः ।
ओं नमः कृष्णद्वैपायनाय । ओं नमः सर्वविघ्नविनायकेभ्यः ॥

1.1.5

रोमहर्षणपुत्र उग्रश्रवाः सौतिः पौराणिको नैमिशारण्ये शौनकस्य कुलपतेर्द्वादशवार्षिके सत्रे

1.1.6

सुखासीनानभ्यगच्छद्ब्रह्मर्षीन्संशितव्रतान् ।
विनयावनतो भूत्वा कदाचित्सूतनन्दनः ॥

1.1.7

तमाश्रममनुप्राप्य नैमिशारण्यवासिनः । उवाच तानृषीन्सर्वान्धन्यो वोऽस्म्यद्यदर्शनात्

1.1.8

वेद वैयासिकीः सर्वाः कथा धर्मार्यैसंहिताः । वक्ष्यामि वो द्विजश्रेष्ठाः शृण्वन्त्वद्य तपोधनाः

1.1.9

तस्य तद्वचनं श्रुत्वा नैमिशारण्यवासिनः ।
चित्रा श्रोतुं कथास्तत्र परिव्रुस्तपस्विनः ॥

1.1.10

अभिवाद्य मुनींस्तांस्तु सर्वानेव कुताञ्जलिः ।
अपृच्छत्स तपोवृद्धिं सद्भिश्चैवाभिपूजितः ॥

1.1.11

अथ तेषूपविष्टेषु सर्वेष्वेव तपस्विषु ।
निर्दिष्टमासनं भेजे विनयाद्रौमहर्षणिः ॥

1.1.12

सुखासीनं ततस्तं तु विश्रान्तमुपलक्ष्य च ।
अथापृच्छदृषिस्तत्र कश्चित्प्रस्तावयन्कथाः ॥

1.1.13

कुत आगम्यते सौते क्वचायं विहृतस्त्वया ।
कालः कमलपत्राक्ष शंसैतत्पृच्छतो मम ॥

1.1.14

एवं पृष्टोऽब्रवीत्सम्यग्यथावद्रौमहर्षणिः ।
वाक्यं वचनसम्पन्नस्तेषां च चरिताश्रयम् ॥

1.1.15

तस्मिन्सदसि विस्तीर्णे मुनीनां भावितात्मनाम् ।
सौतिरुवाच ।
जनमेजयस्य राजर्षेः सर्पसत्रे महात्मनः ॥

1.1.16

समीपे पार्थिवेन्द्रस्य सम्यक्पारिक्षितस्य च । कृष्णद्वैपायनप्रोक्ताः सुपुण्या विविधाः कथाः

1.1.17

कथिताश्चापि विधिवद्या वैशम्पायनेन वै ।
श्रुत्वाऽहं ता विचित्रार्था महाभारतसंश्रिताः ॥

1.1.18

वहूनि सम्परिक्रम्य तीर्थान्यायतनानि च ।
समन्तपञ्चकं नाम पुण्यं द्विजनिषेवितम् ॥

1.1.19

गतवानस्मि तं देशं युद्धं यत्राभवत्पुरा ।
कुरूणां पाण्डवानां च सर्वेषां चहीक्षिताम् ॥

1.1.20

दिदृक्षुंरागतस्तस्मात्समीपं भावतामिह ।
आयुष्मन्तः सर्व एव ब्रह्मभाता हि मे मताः ॥
अस्मिन्यज्ञे महाभङ्गाः सूर्यपावकवर्चसः ॥

1.1.21

कृताभिषेकाः शुचयः कृतजप्या हुताग्नयः । भवन्त आसते स्वस्था ब्रवीमि किमहं द्विजाः

1.1.22

पुराणसंहिताः पुण्याः कथा धर्मार्थसंश्रिताः ।
इतिवृत्तं नरेन्द्राणामृषीणां च महात्मनाम् ॥
ऋषय ऊचुः ।

1.1.23

द्वैपायनेन यत्प्रोक्तं पुराणं परमर्षिणा ।
सुरैर्ब्रह्मर्षिभिश्चैव श्रुत्वा यदभिपूजितम् ॥

1.1.24

तस्याख्यानवरिष्ठस्य विचित्रपदपर्वणः ।
सूक्ष्मार्थन्याययुक्तस्य वेदार्थैर्भूषितस्य च ॥

1.1.25

भारतस्येतिहासस्य पुण्यां ग्रन्थार्थसंयुताम् ।
संस्कारोपगतां ब्राह्मीं नानाशास्त्रोपबृंहिताम् ॥

1.1.26

जनमेजयस्य यां राज्ञो वैशम्पायन उक्तवान् ।
यथावत्स ऋषिः पृष्टः सत्रे द्वैपायनाज्ञया ॥

1.1.27

वेदैश्चतुर्भिः सयुक्तां व्यासस्याद्भुतकर्मणः ।
संहितां श्रोतुमिच्छामः पुण्यां पापभयापहाम् ॥
सौतिरुवाच ।

1.1.28

आद्यं पुरुषमीशानं पुरुहूतं पुरुष्टुतम् ।
ऋतमेकाक्षरं ब्रह्म व्यक्ताव्यक्तं सनातनम् ॥

1.1.29

असच्च सच्चैव च यद्विश्वं सदसतः परम् परावराणां स्रष्टारं पुराणं परमव्ययम् ॥

1.1.30

मङ्गल्यं मङ्गलं विष्णुं वरेण्यमनघं शुचिम् ।
नमस्कृत्य हृषीकेशं चराचरगुरुं हरिम् ॥

1.1.31

महर्षेः पूजितस्येह सर्वलोकैर्महात्मनः ।
प्रवक्ष्यामि मतं पुण्यं व्यासस्याद्भुतकर्मणः ॥

1.1.32

नमो भगवते तस्मै व्यासायामिततेजसे ।
यस्य प्रसादाद्वक्ष्यामि नारायणकथामिमाम् ॥

1.1.33

सर्वाश्रमाभिशमनं सर्वतीर्थावगाहनम् ।
न तथा फलद सूते नारायणकथा यथा ॥

1.1.34

नास्ति नारायणसमं न भूतं न भविष्यति ।
एतेन सत्यवाक्येन सर्वार्थान्साधयाम्यहम् ॥

1.1.35

आचख्युः कवयः केचित्सम्प्रत्याचक्षते परे ।
आख्यास्यन्ति तथैवान्य इतिहासमिमं भुवि ॥

1.1.36

इदं तु त्रिषु लोकेषु महज्ज्ञानं प्रतिष्ठितम् ।
विस्तरैश्च समासैश्च धार्यते यद्द्विजातिभिः ॥

1.1.37

अलङ्कृतं शुभैः शब्दैः समयैर्दिव्यधनुषैः ।
छन्दोवृत्तैश्च विविधैरन्वितं विदुषाम्प्रियम् ॥

1.1.38

तपसा ब्रह्मचर्येण व्यस्य वेदं सनातनम् ।
इतिहासमिमं चक्रे पुण्यं सत्यवतीसुतः ॥

1.1.39

पुण्ये हिमवतः पादे मेध्ये गिरिगुहालये ।
विशोध्य देहं धर्मात्मा दर्भसंस्तरमाश्रितः ॥

1.1.40

शुचिः सनियमो व्यासः शान्तात्मातपसि स्थितः भारतस्येतिहासस्य धर्मेणान्वीक्ष्य तां गतिम् ॥

1.1.41

प्रविश्य योगं ज्ञानेन सोऽपश्यत्सर्वमन्ततः ॥

1.1.42

निष्प्रभेऽस्मिन्निरालोके सर्वतस्तमसा वृते ।
बृहदण्डमभूदेकं प्रजानां बीजमव्ययम् ॥

1.1.43

युगस्यादिनिमित्तं तन्महद्दिव्यं प्रचक्षत ।
व्यस्मिंस्तच्छ्रूयते सत्यञ्ज्योतिर्ब्रह्म सनातनम् ॥

1.1.44

अद्भुतं चाप्यचिन्त्यं च सर्वत्र समतां मतम् ।
अव्यक्तं कारणं सूक्ष्मं यत्तत्सदसदात्मकम् ॥

1.1.45

यस्मिन्पितामहो जज्ञे प्रभुरेकः प्रजापतिः ।
ब्रह्मा सुरगुरुः स्थाणुर्मनुः कः परमेष्ठ्यथ ॥

1.1.46

प्राचेतसस्तथा दक्षो दक्षपुत्राश्च सप्तवै ।
ततः प्रजानां पतयः प्राभवन्नेकविंशतिः ॥

1.1.47

पुरुषश्चाप्रमेयात्मा यं सर्वऋषयो विदु ।
विश्वेदेवास्तथाऽदित्या वसवोऽथाश्विनावपि ॥

1.1.48

यक्षाः साध्याः पिशाचाश्च गुह्यकाः पितरस्तथा ।
ततः प्रसूता विद्वांसः शिष्टा ब्रह्मर्षिसत्तमाः ॥

1.1.49

महर्षयश्च बहवः सर्वैः समुदिता गुणैः ।
आतो द्यौः पृथिवी वायुरन्तरिक्षं दिशस्तया ॥

1.1.50

संवत्सरर्तवो मासाः पक्षाहोरात्रयः क्रमात् ।
यच्चान्यदपि तत्सर्वं सम्भूतं लोकसाक्षिकम् ॥

1.1.51

यदिदं दृश्यते किञ्चिद्बूतं स्थावरजङ्गमम् ।
पुनःसन्क्षिप्यते सर्वं जगत्प्राप्ते युगक्षये ॥

1.1.52

यथर्तुष्वृतुलिङ्गानि नानारूपाणि पर्यये ।
दृश्यन्ते तानि तान्येव तथा भावा युगादिषु ॥

1.1.53

एवमेतदनाद्यन्तं भूतसन्घातकारकम् ।
अनादिनिधनं लोके चक्रं सम्परिवर्तते ॥

1.1.54

त्रयस्त्रिंशत्सहस्राणि त्रयस्त्रिंशच्छतानि च ।
त्रयस्त्रिंशच्च देवनां सृष्टिः सन्क्षेपलक्षणा ॥

1.1.55

दिवः पुत्रो बृहद्भानुश्चक्षुरात्मा विभावसुः ।
सविता स ऋचीकोऽर्को भानुराशावहो रविः ॥

1.1.56

पुत्रा विवस्वतः सर्वे मनुस्तेषां तथाऽवरः ।
देवभ्राट् तनयस्तस्य सुभ्राडिति ततः स्मृतः ॥

1.1.57

सुभ्राजस्तु त्रयः पुत्राः प्रजावन्तो बहुश्रुताः ।
दशज्योतिः शतज्योतिः सहस्रज्योतिरेव च ॥

1.1.58

दशपुत्रसहस्राणि दशज्योतेर्महात्मनः ।
ततो दशगुणाश्चान्ये शतज्योतेरिहात्मजाः ॥

1.1.59

भूयस्ततो दशगुणाः सहस्रज्योतिषः सुताः ।
तेभ्योऽयं कुरुवंशश्च यदूनां भरतस्य च ॥

1.1.60

ययातीक्ष्वाकृवंशश्च राजर्षीणां च सर्वशः ।
सम्भूता बहवो वंशा भूतसर्गाः सुविस्तराः ॥

1.1.61

भूतस्थानानि सर्वाणि रहस्यं त्रिविधं च यत् ।
वेदा योगः सविज्ञानो धर्मोऽर्थः काम एव च ॥

1.1.62

धर्मार्थकामयुक्तानि शास्त्राणि विविधानि च ।
लोकयात्राविधान च सर्व तद्दृष्टवानृषिः ॥

1.1.63

नीतिर्भरतवंशस्य विस्तारश्चैव सर्वशः । इतिहासाः सहव्याख्या विविधाश्रुतयोऽपि च ॥

1.1.64

इह सर्वमनुक्रान्तमुक्तं ग्रन्थस्य लक्षणम् । सन्क्षेपेणेतिहासस्य ततो वक्ष्यति विस्तरम् ॥

1.1.65

विस्तीर्यैतन्महज्ज्ञानमृषिः सन्क्षिप्य चाब्रवीत् ।
इष्टं हि विदुषां लोके समासव्यासधारणम् ॥

1.1.66

मन्वादि भारतं केचिदास्तीकादि तथाऽपरे ।
तथोपरिचराद्यन्ये विप्राः सम्यगधीयिरे ॥

1.1.67

विविधं संहिताज्ञानं दीपयन्ति मनीषिणः ।
व्याख्यातुं कुशलाः केचिद्ग्रन्थान्धारयितुं परे ॥

1.1.68

तपसा ब्रह्मचर्येण व्यस्य वेदं सनातनम् ।
इतिहासमिमं चक्रे पुण्यं सत्यवतीत्सुतः ॥

1.1.69

पराशरात्मजो विद्वान्ब्रह्मर्षिः संशितव्रतः ।
मातुर्नियोगाद्धर्मात्मा गाङ्गेयस्य च धीमतः ॥

1.1.70

क्षेत्रे विचित्रवीर्यस्य कृष्णद्वैपायनः पुरा ।
त्रीनग्नीनिव कौरव्याञ्जनयामास वीर्यवान् ॥

1.1.71

उत्पाद्य धृतराष्ट्रं च पाण्डुं विदुरमेव च ।
जगाम तपसे धीमान्पुनरेवाश्रमं प्रति ॥

1.1.72

तेषु जातेषु वृद्धेषु गतेषु परमां गतिम् ।
अब्रवीद्भारतं लोके मानुषेऽस्मिन्महानृषिः ॥

1.1.73

जनमेजयेन पृष्टः सन्ब्राह्मणैश्च सहस्रशः ।
शशास शिष्यमासीनं वैशम्पायनमन्तिके ॥

1.1.74

स सदस्यैः सहासीनं श्रावयामास भारतम् ।
कर्मान्तरेषु यज्ञस्य चोद्यमानः पुनः पुनः ॥

1.1.75

विस्तारं कुरुवंशस्य गान्धार्या धर्मशीलताम् ।
क्षत्तुः प्रज्ञां धृतिं कुन्त्याः सम्यग्द्वैपायनोब्रवीत् ॥

1.1.76

वासुदेवस्य माहात्म्यं पाण्डवानां च सत्यताम् ।
दुर्वृत्तं धार्तराष्ट्राणामुक्तवान्भगवानृषिः ॥

1.1.77

इदं शतसहस्रं तु श्लोकानां पुण्यकर्मणाम् ।
उपाख्यानैः सह ज्ञेयं श्राव्यं भारतमुत्तमम् ॥

1.1.78

चतुर्विंशतिसाहस्रीं चक्रे भारतसंहिताम् ।
उपाख्यानैर्विना तावद्भारतं प्रोच्यते बुधैः ॥

1.1.79

ततोऽध्यर्धशतं भूयः सन्क्षेपं कृतवानृषिः ।
अनुक्रमणिकाध्यायं वृत्तान्तं सर्वपर्वणाम् ॥

1.1.80

तस्याख्यानवरिष्ठस्य कृत्वा द्वैपायनः प्रभुः ।
कथमध्यापयानीह शिष्यानित्यन्वचिन्तयत् ॥

1.1.81

तस्य तच्चिन्तितं ज्ञात्वा ऋषेर्द्वैपायनस्य च ।
तत्राजगाम भगवान्ब्रह्मा लोकगुरुः स्वयम् ॥

1.1.82

प्रीत्यर्थं तस्य चैवर्षेर्लोकानां हितकाम्यया ।
तं दृष्ट्वा विस्मितो भूत्वा प्राञ्जलिः प्रणतः स्थितः ॥

1.1.83

आसनं कल्पयामास सर्वैर्मुनिगणैर्वृतः ॥

1.1.84

हिरण्यमर्भमासीनं तस्मिंस्तु परमासने ।
परिवृत्यासनभ्याशे वासवेयः स्थितोऽभवत् ॥

1.1.85

अनुज्ञातोऽथ कृष्णस्तु ब्रह्मणा परमेष्ठिना ।
निषसादासनाभ्याशे प्रीयमाणः शुचिस्मितः ॥

1.1.86

उवाच स महातेजा ब्रह्माणं परमेष्ठिनम् ।
कृतं मयेदं भगवन्काव्यं परमपूजितम् ॥

1.1.87

ब्रह्मन्वेदरहस्य च यच्चान्यत्स्थापितं मया ।
साङ्गोपनिषदां चैव वेदानां विस्तरक्रिया ॥

1.1.88

इतिहासपुरापानामुन्मेषं निमिषं च यत् ।
भूतं भव्यं भविष्यच्च त्रिविधं कालसञ्ज्ञितम् ॥

1.1.89

जरामृत्युभयव्याधिभावाभावविनिश्चयः ।
विविधस्य च धर्मस्य ह्याश्रमाणां च लक्षणम् ॥

1.1.90

चातुर्वर्ण्यविधानं च पुराणानां च कृत्स्नशः ।
तपसो ब्रह्मचर्यस्य पृथिव्याश्चन्द्रसूर्ययोः ॥

1.1.91

ग्रहनक्षत्रताराणां प्रमाणं च युगैः सह ।
ऋचो यजूषि सामानि वेदाध्यात्मं तथैव च ॥

1.1.92

न्यायशिक्षा चिकित्सा च दानं पाशुपतं तथा ।
इति नैकाश्रयं जन्म दिव्यमानुषसञ्ज्ञितम् ॥

1.1.93

तीर्थानां चैव पुण्यानां देशानां चैव कीर्तनम् ।
नदीनां पर्वतानां च वनानां सागरस्य च ॥

1.1.94

पुराणां चैव दिव्यानां कल्पानां युद्धकौशलम् ।
वाक्यजातिविशेषाश्च लोकयात्राक्रमश्च यः ॥

1.1.95

यच्चापि सर्वगं वस्तु तच्चैव प्रतिपादितम् ।
परं न लेखकः कश्चिदेतस्य भुवि विद्यते ॥
ब्रह्मोवाच ।

1.1.96

तपोविशिष्टदपि वै वसिष्ठान्मुनिपुन्गवात् ।
मन्ये श्रेष्ठव्यं त्वां वै रहस्यज्ञानवेदनात् ॥

1.1.97

जन्मप्रभृति सत्यां ते वेद्मि गां ब्रह्मवादिनीम् ।
त्वयाच काव्यमित्युक्तं तस्मात्काव्यं भविष्यति ॥

1.1.98

अस्य काव्यस्य कवयो न समर्था विशेषणे ।
विशेषणे गृहस्थस्य शेषास्त्रय इवाश्रमाः ॥

1.1.99

जडान्धबधिरोन्मत्तं तमोभूतं जगद्भवेत् ।
यदि ज्ञानहुताशेन त्वया नोज्ज्वलियं भवेत् ॥

1.1.100

तमसान्धस्य लोकस्य वेष्टितस्य स्वकर्मभिः ।
ज्ञानाञ्जनशलाकाभिर्बुद्धिनेत्रोत्सवः कृतः ॥

1.1.101

धर्मार्थकाममोक्षार्थैः समासव्यासकीर्तनैः ।
त्वया भारतसूर्येण नृणां विनिहतं तमः ॥

1.1.102

पुराणपूर्णचन्द्रेण श्रुतिज्योत्स्नाप्रकाशिना ।
नृणां कुमुदसौम्यानां कृतं बुद्धिप्रसादनम् ॥

1.1.103

इतिहासप्रदीपेन मोहावरणघातिना ।
लोकगर्भगृहं कृत्स्नं यथावत्सम्प्रकाशितम् ॥

1.1.104

सन्ग्रहाध्यायबीजो वै पौलोमास्तीकमूलवान् ।
सम्भवस्कन्धविस्तारः सभापर्वविटङ्कवान् ॥

1.1.105

आरण्यपर्वरूपाढ्यो विराटोद्योगसारवान् ।
भीष्मपर्वमहाशाखो द्रोणपर्वपलाशवान् ॥

1.1.106

कर्णपर्वसितैः पुष्पैः शल्यपर्वसुगन्धिभिः ।
स्त्रीपर्वैषीकविश्रामः शान्तिपर्वमहाफलः ॥

1.1.107

अश्वमेधामृतसस्त्वाश्रमस्थानसंश्रयः ।
मौसलश्रुतिसन्क्षेपः शिष्टद्विजनिषेवितः ॥

1.1.108

सर्वेषां कविमुख्यानामुपजीव्यो भविष्यति ।
पर्जन्यैव भूतानामक्षयो भारद्रुमः ॥

1.1.109

काव्यस्य लेखनार्थाय गणेशः स्मर्यतां मुने ।
सौतिरुवाच ।

1.1.110

एवमाभाष्य तं ब्रह्मा जगाम स्वं निवेशनम् ।
भगवान्स जगत्स्रष्टा ऋषिदेवगणैः सह ॥

1.1.111

ततः सस्मार हेरम्बं व्यासः सत्यवतीसुतः ॥

1.1.112

स्मृतमात्रो गणेशानो भक्तचिन्तितपूरकः ।
तत्राजगाम विघ्नेशो वेदव्यासो यतः स्थितः ॥

1.1.113

पूजितश्चोपविष्टश्च व्यासेनोक्तस्तदानघ ।
लेखको भारतस्यास्य भव त्वं गणनायक ॥
मयैव प्रोच्यमानस्य मनसा कल्पितस्य च ॥

1.1.114

श्रुत्वैतत्प्राह विघ्नेशो यदि मे लेखनी क्षणम् ।
लिखतो नावतिष्ठेत तदा स्यां लेखको ह्यहम् ॥

1.1.115

व्यासोऽप्युवाच तं देवमबुद्ध्वा मा लिख क्वचित् ।
ओमित्युक्त्वा गणेशोपि बभूव किल लेखकः ॥

1.1.116

ग्रन्थग्रन्थिं तदा चक्रे मुनिर्गूढं कुतूहलात् ।
यस्मिन्प्रतिज्ञया प्राह मुनिर्द्वैपायनस्त्विदम् ॥

1.1.117

अष्टौ श्लोकसहस्राणि अष्टौ श्लोकशतानि च ।
अहं वेद्मि शुको वेत्ति सञ्जयो वेत्ति वा न वा ॥

1.1.118

तच्छ्लोककूटमद्यापि ग्रथितं सुदृढं मुने ।
भेत्तुं न शक्यतेऽर्थस्यं गूढत्वात्प्रश्रितस्य च ॥

1.1.119

सर्वज्ञोपि गणेशो यत्क्षणमास्ते विचारयन् ।
तावच्चकार व्यासोपि श्लोकानन्यान्बहूनपि ॥

1.1.120

तस्य वृक्षस्य वक्ष्यामि शाखापुष्पफलोदयम् ।
स्वादुमेध्यरसोपेतमच्छेद्यममरैरपि ॥

1.1.121

अनुक्रमणिकाध्यायं वृत्तान्तं सर्वपर्वणाम् ।
इदं द्वैपायनः पूर्वं पुत्रमध्यापयच्छुकम् ॥

1.1.122

ततोऽन्येभ्योऽनुरूपेभ्यः शिष्येभ्यः प्रददौ प्रभु षष्टिं शतसहस्राणि चकारान्यां स संहिताम् ।
त्रिंशच्छतसहस्रं च देवलोके प्रतिष्ठितम् ॥

1.1.123

पित्र्ये पञ्चदश प्रोक्तं रक्षोयक्षे चतुर्दश ।
एकं शतसहस्रं तु मानुषेषु प्रतिष्ठितम् ॥

1.1.124

नारदोऽश्रावयद्देवानसितो देवलः पितृन् ।
गन्धर्वयक्षरक्षांसि श्रावयामास वै शुकः ॥

1.1.125

वैशम्पायनविप्रर्षिः श्रावयामास पार्थिवम् ।
पारिक्षितं महात्मानं नाम्ना तु जनमेजयम् ॥

1.1.126

अस्मिंस्तु मानुषे लोके वैशम्पायन उक्तवान् ।
शिष्यो व्यासस्य धर्मात्मा सर्ववेदविदां वरः ॥

1.1.127

एकं शतसहस्रं तु मयोक्तं वै निबोधत ॥

1.1.128

दुर्योधनो मन्युमयो महाद्रुमः कर्णः स्कन्धः शकुनिस्तस्य शाखाः ।
दुश्शासनः पुष्पफले समृद्धे मूलं राजा धृतराष्ट्रोऽमनीषि ।

1.1.129

युधिष्ठिरे धर्ममयो महाद्रुमः स्कन्धोऽर्जुनो भीमसेनोऽस्य शाखाः ।
माद्रीसुतौ पुष्पफले समृद्धे मूलं कृष्णो ब्रह्म च ब्राह्मणाश्च ॥

1.1.130

पाण्डुर्जित्वा बहून्देशान्युधा विक्रमणेन च ।
अरण्ये मृगयाशीलो न्यवसत्सजनस्तथा ॥

1.1.131

मृगव्यवायनिधनात्कृच्छ्रां प्राप स आपदम् ।
जन्मप्रभृति पार्थानां तत्राचारविधिक्रमः ॥

1.1.132

मात्रोरभ्युपपत्तिश्च धर्मोपनिषदं प्रति ।
धर्मानिलेन्द्रांस्ताभिः साऽजुहाव सुतवाञ्छया ॥

1.1.133

ततो धर्मोपनिषदं भूत्वा भर्तुः प्रिया पृथा ।
धर्मानिलेन्द्रांस्ताभिः साऽजुहाव सुतवाञ्छया ॥

1.1.134

तद्दत्तोपनिषन्माद्री चाश्विनावाजुहाव च । जाताः पार्थास्ततः सर्वे कुन्त्या माद्र्याश्च मन्त्रतः ।
तापसैः सह संवृद्धा मातृभ्यां परिरक्षिताः ॥

1.1.135

मेध्यारण्येषु पुण्येषु महतामाश्रमेषु च ।
तेषु जातेषु सर्वेषु पाण्डवेषु महात्मसु ॥

1.1.136

माद्र्या तु सह सन्गम्य ऋषिशापप्रभावतः । मृतः पाण्डुर्महापुण्ये शतशृङ्गे महागिरौ ॥

1.1.137

ऋषिभिश्च समानीता धार्तराष्ट्रान्प्रति स्वयम् ।
शिशवश्चाभिरूपाश्च जटिला ब्रह्मचारिणः ॥

1.1.138

पुत्राश्च भ्रातरश्चेमे शिष्याश्च सुहृदश्च वः ।
पाण्डवा एत इत्युक्त्वा मुनयोऽन्तर्हितास्ततः ॥

1.1.139

तांस्तैर्निवेदितान्दृष्ट्वा पाण्डवान्कौरवास्तदा ।
शिष्टाश्च वर्णाः पौरा ये ते हर्षाच्चुक्रुशुर्भृशम् ॥

1.1.140

आहुः केचिन्न तस्यैते तस्यैत इति चापरे ।
यदा चिरमृतः पाण्डुः कथं तस्येतदि चापरे ॥

1.1.141

स्वागतं सर्वथा दिष्ट्या पाण्डोः पश्याम सन्ततिम् ।
उच्यतां स्वागतमिति वाचोऽश्रूयन्त सर्वशः ॥

1.1.142

तस्मिन्नुपरते शब्दे दिशः सर्वा निनादयन् ।
अन्तर्हितानां भूतानां निःस्वनस्तुमुलीऽभवत् ॥

1.1.143

पुष्पवृष्टिः शुभा गन्धाः शङ्खदुन्दुभिनिःस्वनाः ।
आसन्प्रवेशे पार्थानां तदद्भुतमिवाभवत् ॥

1.1.144

तत्प्रीत्या चैव सर्वेषां पौराणां हर्षसम्भवः ।
शब्द आसीन्महांस्तत्र दिवस्पृक्कीर्तिवर्धनः ॥

1.1.145

तेऽधीत्य निखिलान्वेदाञ्शास्त्राणि विविधानि च ।
न्यवसन्पाण्डवास्तत्र पूजिता अकुतोभयाः ॥

1.1.146

युधिष्ठिरस्य शौचेन प्रीताः प्रकृतयोऽभवन् ।
धृत्या च भीमसेनस्य विक्रमेणार्जुनस्य च ॥

1.1.147

गुरुशुश्रूषया कुन्त्या यमयोर्विनयेन च ।
तुतोष लोकः सकलस्तेषां शौर्यगुणेन च ॥

1.1.148

समवाये ततो राज्ञां कन्यां भर्तृस्वयंवराम् ।
प्राप्तवानर्जुनः कृष्णां कृत्वा कर्म सुदुष्करम् ॥

1.1.149

ततः प्रभृति लोकेऽस्मिन्पूज्यः सर्वधनुष्मताम् ।
आदित्य इव दुष्प्रेक्ष्यः समरेष्वपि चाभवत् ॥

1.1.150

स सर्वान्पार्थिवाञ्जित्वा सर्वांश्च महतो गणान् ।
आजहारार्जुनो राज्ञो राजसूयं महाक्रतुम् ॥

1.1.151

अन्नवान्दक्षिणावांश्च सर्वैः समुदितो गुणैः ।
युधिष्ठिरेण सम्प्राप्तो राजसूयो महाक्रतुः ॥

1.1.152

सुनयाद्वासुदेवस्य भीमार्जुनबलेन च ।
घातयित्वा जरासन्धं चैद्यं च बलगर्वितम् ॥

1.1.153

दुर्योधनं समागच्छन्नर्हणानि ततस्ततः ।
मणिकाञ्चनरत्नानि गोहस्त्यश्वधनानि च ॥

1.1.154

विचित्राणि च वासांसि प्रावारावरणानि च ।
कम्बलाजिनरत्नानि राङ्कवास्तरणानि च ॥

1.1.155

समृद्धां तां तथा दृष्ट्वा पाण्डवानां तदा श्रियम् ।
ईर्ष्यासमुत्थः सुमहांस्तस्य मन्युरजायत ॥

1.1.156

विमानप्रतिमां तत्र मयेन सुकृतां सभाम् ।
पाण्डवानामुपहृतां स दृष्ट्वा पर्यतप्यत ॥

1.1.157

तत्रावहसितश्चासीत्प्रस्कन्दन्निव सम्भ्रमात् ।
प्रत्यक्षं वासुदेवस्य भीमेनानभिजातवत् ॥

1.1.158

स भोगान्विविधान्भुञ्जन्रत्नानि विविधानि च ।
कथितो धृतराष्ट्रस्य विवर्णो हरिणः कृशः ॥

1.1.159

अन्वजानात्ततो द्यूतं धृतराष्ट्रः सुतप्रियः ।
तच्छ्रुत्वा वासुदेवस्य कोपः समभवन्महान् ॥

1.1.160

नातिप्रीतमनाश्चासीद्विवादांश्चान्वमोदत ।
द्यूतादीननयान्घोरान्विविधांश्चाप्युपैक्षत ॥

1.1.161

निरस्य विदुरं भीष्मं द्रोणं शारद्वतं कृपम् ।
विग्रहे तुमुले तस्मिन्दहन्क्षत्रं परस्परम् ॥

1.1.162

जयत्सु पाण्डुपुत्रेषु श्रुत्वा सुमहदप्रियम् ।
दुर्योधनमतं ज्ञात्वा कर्णस्य शकुनेस्तथा ॥

1.1.163

धृतराष्ट्रश्चिरं ध्यात्वा सञ्जयं वाक्यमब्रवीत् ।
शृणु सञ्जय सर्वं मे नचासूयितुमर्हसि ॥

1.1.164

श्रुतवानसि मेधावी बुद्धिमान्प्राज्ञसम्मतः ।
न विग्रहे मम मतिर्न च प्रीये कुलक्षये ॥

1.1.165

न मे विशेषः पुत्रेषु स्वेषु पाम्डुसुतेषु वा ।
वृद्धं मामभ्यसूयन्ति पुत्रा मन्युपरायणाः ॥

1.1.166

अहं त्वचक्षुः कार्पण्यात्पुत्रप्रीत्या सहामि तत् ।
मुह्यन्तं चानुमुह्यामि दुर्योधनमचेतनम् ॥

1.1.167

राजसूये श्रियं दृष्ट्वा पाण्डवस्य महौजसः ।
तच्चावहसनं प्राप्य सभारोहणदर्शने ॥

1.1.168

अमर्षितः स्वयं जेतुमशक्तः पाण्डवान्रणे ।
निरुत्साहश्च सम्प्राप्तुं सुश्रियं क्षत्रियोऽपि सन् ॥

1.1.169

गान्धारराजसहितश्छद्मद्यूतममन्त्रयत् ।
तत्र यद्यद्यथा ज्ञातं मयां सञ्जय तच्छृणु ॥

1.1.170

श्रुत्वा तु मम वाक्यानि बुद्धियुक्तानि तत्त्वतः ।
ततो ज्ञास्यसि मां सौते प्रज्ञाटचक्षुषमित्युत ॥

1.1.171

यदाऽश्रौषं धनुरायम्य चित्रं विद्धं लक्ष्यं पातितं वै पृथिव्याम् ।
कृष्णां हृतां प्रेक्षतां सर्वराज्ञां तदा नाशंसे विजयाय सञ्जय ॥

1.1.172

यदाऽश्रौषं द्वारकायां सुभद्रां प्रसह्योढां माधवीमर्जुनेन ।
इन्द्रप्रस्थं वृष्णिवीरौ च यातौ तदा नाशंसे विजयाय सञ्जय ॥

1.1.173

यदाऽश्रौषं देवराजं प्रवृष्टं शरैर्दिव्यैर्वारितं चार्जुनेन ।
अग्निं तथा तर्पितं खाण्डवे च तदा नाशंसे विजयाय सञ्जय ॥

1.1.174

यदाऽश्रौषं जातुषाद्वेश्मनस्ता- न्मुक्तान्पार्थान्पञ्च कुन्त्या समेतान् ।
युक्तं चैषां विदुरं स्वार्थसिद्ध्यै तदा नाशंसे विजयाय सञ्जय ॥

1.1.175

यदाऽश्रौषं द्रौपदीं रङ्गमध्ये लक्ष्यं भित्त्वा निर्जितामर्जुनेन ।
शूरान्पञ्चालान्पाण्डवेयांश्च युक्तां- स्तदा नाशंसे विजयाय सञ्जय ॥

1.1.176

यदाऽश्रौषं मागधानां वरिष्ठं जरासन्धं क्ष्वमध्ये ज्वलन्तम् ।
दोर्भ्यां हतं भीमसेनेन गत्वा तदा नाशंसे विजयाय सञ्जय ॥

1.1.177

यदाऽश्रौषं दिग्जये पाण्डुपुत्रै- र्वशीकृतान्भूमिपालान्प्रसह्य ।
महाक्रतुं राजसूयं कृतं च तदा नाशंसे विजयाय सञ्जय ॥

1.1.178

यदाऽश्रौषं द्रौपदीमश्रुकण्ठीं सभां नीतां दुःखितामेकवस्त्राम् ।
रजस्वलां नाथवतीमनाथव- त्तदा नाशंसे विजयाय सञ्जय ॥

1.1.179

यदाऽश्रौषं वाससां तत्र राशिं समाक्षिपत्कितवो मन्दबुद्धिः ।
दुःशासनो गतवान्नैवं चान्तं तदा नाशंसे विजयाय सञ्जय ॥

1.1.180

यदाऽश्रौषं हृतराज्यं युधिष्ठिरं पराजितं सौबलेनाक्षवत्याम् ।
अन्वागतं भ्रातृभिरप्रमेयै- स्तदा नाशंसे विजयाय सञ्जय ॥

1.1.181

यदाश्रौषं विविधास्तत्र चेष्टा धर्मात्मनां प्रस्थितानां वनाय ।
ज्येष्ठप्रीत्या क्लिश्यतां पाण्डवानां तदा नाशंसे विजयाय सञ्जय ॥

1.1.182

यदाऽश्रौषं स्नातकानां सहस्रै- रन्वागतं धर्मराजं वनस्थम् ।
भिक्षाभुजां ब्राह्मणानां महात्मनां तदा नाशंसे विजयाय सञ्जय ॥

1.1.184

यदाऽश्रौषं वनवासेन पार्था- न्समागतान्महर्षिभिः पुराणैः ।
उपास्यमानान्सगणैर्जातसख्यां- स्तदा नाशंसे विजयाय सञ्जर्य ॥

1.1.185

यदाश्रौषं त्रिदिवस्थं धनञ्जयं शक्रात्साक्षाद्दिव्यमस्त्रं यथावत् ।
अधीयानं शंसितं सत्यसन्धं तदा नाशंसे विजयाय सञ्जय ॥

1.1.186

यदाऽश्रोषं कालकेयास्ततस्ते पौलोमानो वरदानाच्च दृप्ताः ।
देवैरजेया निर्जिताश्चार्जुनेन तदा नाशंसे विजयाय सञ्जय ॥

1.1.187

यदाऽश्रौषमसुराणां वधार्थे किरीटिनं यान्तममित्रकर्शनम् ।
कृतार्थं चाप्यागतं शक्रलोका- त्तदा नाशंसे विजयाय सञ्जय ॥

1.1.188

यदाऽश्रौषं तीर्थयात्राप्रवृत्तं पाण्डोः सुतं सहितं लोमशेन ।
बृहदश्वादक्षहृदयं च प्राप्तं तदा नाशंसे विजयाय सञ्जय ॥

1.1.189

यदाऽश्रौषं वैश्रवणेन सार्धं समागतं भीमन्यांश्च पार्थान् ।
तस्मिन्देशे मानुषाणामगम्ये तदा नाशंसि विजयाय सञ्जया ॥

1.1.190

यदाऽश्रौषं घोषयात्रागतानां बन्धं गन्धर्वैर्मोक्षणं चार्जुनेन ।
स्वेषां सुतानां कर्णबुद्धौ रतानां तदा नाशंसे विजयाय सञ्जय ॥

1.1.191

यदाऽश्रौषं यक्षरूपेण धर्मं समागतं धर्मराजेन सूत ।
प्रश्नान्कांश्चिद्विब्रुवाणं च सम्यक् तदा नाशंसे विजयाय सञ्जय ॥

1.1.192

यदाऽश्रौषं न विदुर्मामकास्तान् प्रच्छन्नरूपान्वसतः पाण्डवेयान् ।
विराटराष्ट्रे सह कृष्णया च तदा नाशंसे विजयाय सञ्जय ॥

1.1.193

यदाऽश्रौषं कीचकानां वरिष्ठं निषूदितं भ्रातृशतेन सार्धम् ।
द्रौपद्यर्थे भीमसेनेन सङ्ख्ये तदा नाशंसे विजयाय सञ्जय ॥

1.1.194

यदाऽश्रौषं मामकानां वरिष्ठा- न्धनञ्जयेनैकरथेन भग्नान् ।
विराटराष्ट्रे वसता महात्मना तदा नाशंसे विजयाय सञ्जय ॥

1.1.195

यदाऽश्रौषं सत्कृतं मत्स्यराज्ञा सुतां दत्तामुत्तरामर्जुनाय ।
तां चार्जुनः प्रत्यगृह्णात्सुतार्थे तदा नाशंसे विजयाय सञ्जय ॥

1.1.196

यदाऽश्रौषं निर्जितस्याधनस्य प्रव्राजितस्य स्वजनात्प्रच्युतस्य ।
अक्षौहिणीः सप्त युधिष्ठिरस्य तदा नाशंसे विजयाय सञ्जय ॥ 196 ॥

1.1.197

यदाऽश्रौषं माधवं वासुदेवं सर्वात्मना पाण्डवार्थे निविष्टम् ।
यस्येमां गां विक्रममेकमाहु- स्तदा नाशंसे विजयाय सञ्जय ॥

1.1.198

यदाऽश्रौषं नरनारायणौ तौ कृष्णार्जुनौ वदतो नारदस्य ।
अहं द्रष्टा ब्रह्मलोके च सम्यक् तदा नाशंसे विजयाय सञ्जय ॥

1.1.199

यदाऽश्रौषं लोकहिताय कृष्णं शमार्थिनमुपयातं कुरूणाम् ।
शमं कुर्वाणमकृतार्थं च यातं तदा नाशंसे विजयाय सञ्जय ॥ 199 ॥

1.1.200

यदाऽश्रौषं कर्णदुर्योधनाभ्यां बुद्धिं कृतां निग्रहे केशवस्य ।
तं चात्मानं बहुधा दर्शयानं तदा नाशंसे विजयाय सञ्जय ॥

1.1.201

यदाऽश्रौषं वासुदेवे प्रयाते रथस्यैकामग्रतस्तिष्ठमानाम् ।
आर्तां पृथां सान्त्वितां केशवेन तदा नाशंसे विजयाय सञ्जय ॥

1.1.202

यदाऽश्रौषं मन्त्रिणं वासुदेवं तथा भीष्मं शान्तनवं च तेषाम् ।
भारद्वाजं चाशिषोऽनुब्रुवाणं तदा नाशंसे विजयाय सञ्जय ॥

1.1.203

यदा कर्णो भीष्ममुवाच वाक्यं नाहं योत्स्ये युध्यमाने त्वयीति ।
हित्वा सेनामपचक्राम चापि तदा नाशंसे विजयाय सञ्जय ॥

1.1.204

यदाऽश्रौषं वासुदेवार्जुनौ तौ तथा धनुर्गाण्डिवमप्रमेयम् ।
त्रीण्युग्रवीर्याणि समागतानि तदा नाशंसे विजयाय सञ्जय ॥

1.1.205

यदाऽश्रौषं कश्ललेनाभिपन्ने रथोपस्थे सीदमानेऽर्जुने वै ।
कृष्णं लोकान्दर्शयानं शरीरे तदा नाशंसे विजयाय सञ्जय ॥

1.1.206

यदाऽश्रौषं भीष्ममित्रकर्शनं निघ्नन्तमाजावयुतं रथानाम् ।
नैषां कश्चिद्वध्यते ख्यातरूप- स्तदा नाशंसे विजयाय सञ्जय ॥

1.1.207

यदाऽश्रौषं चापगेयेन सङ्ख्ये स्वयं मृत्युं विहितं धार्मिकेण ।
तच्चाकार्षुः पाण्डवेयाः प्रहृष्टा- स्तदा नाशंसे विजयाय सञ्जय ॥

1.1.208

यदाऽश्रौषं भीष्ममत्यन्तशूरं हतं पार्थेनाहवेष्वप्रधृष्यम् ।
शिखण्डिनं पुरतः स्थापयित्वा तदा नाशंसे विजयाय सञ्जय ॥

1.1.209

यदाऽश्रौषं शरतल्पे शयानं वृद्धं वीरं सादितं चित्रपुङ्खैः ।
भीष्मं कृत्वा सोमकानल्पशेषां- स्तदा नाशंसे विजयाय सञ्जय ॥

1.1.210

यदाऽश्रौषं शान्तनवे शयाने पानीयार्थे चोदितेनार्जुनेन ।
भूमिं भित्त्वा तर्पितं तत्र भीष्मं तदा नाशंसे विजयाय सञ्जय ॥

1.1.211

यदाश्रौषं शुक्रसूर्यौ च युक्तौ कौन्तेयानामनुलोमौ जयाय ।
नित्यं चास्माञ्श्वापदा भीषयन्ति तदा नाशंसे विजयाय सञ्जय ॥

1.1.212

यदा द्रोणो विविधानस्त्रमार्गा- न्निदर्शयन्समरे चित्रयोधी ।
न पाण्डवाञ्श्रेष्ठतरान्निहन्ति तदा नाशंसे विजयायं सञ्जय ॥

1.1.213

यदाऽश्रौषं चास्मदीयान्महारथा- न्व्यवस्थितानर्जुनस्यान्तकाय ।
संशप्तकान्निहतानर्जुनेन तदा नाशंसे विजयाय सञ्जय ॥

1.1.214

यदाऽश्रौषं व्यूहमभेद्यमन्यै- र्भारद्वाजेनात्तशस्त्रेण गुप्तम् ।
भित्त्वा सौभद्रं वीरमेकं प्रविष्टं तदा नाशंसे विजयाय सञ्जय ॥

1.1.215

यदाऽभिमन्युं परिवार्य बालं सर्वे हत्त्वा हृष्टरूपा बभूवुः ।
महारथाः पार्थमशक्नुवन्त- स्तदा नाशंसे विजयाय सञ्जय ॥

1.1.216

यदाऽश्रौषमभिमन्युं निहत्य हर्षान्मूढान्क्रोशतो धार्तराष्ट्रान् ।
क्रोधादुक्तं सैन्धवे चार्जुनेन तदा नाशंसे विजयाय सञ्जय ॥

1.1.217

यदाऽश्रौषं सैन्धवार्थे प्रतिज्ञां प्रतिज्ञातां तद्वधायार्जुनेन ।
सत्यां तीर्णां शत्रुमध्ये च तेन तदा नाशंसे विजयाय सञ्जय ॥

1.1.218

यदाऽश्रौषं श्रान्तहये धनञ्जये मुक्त्वा हयान्पाययित्वोपवृत्तान् ।
पुनर्युक्त्वा वासुदेवं प्रयातं तदा नाशंसे विजयाय सञ्जय ॥

1.1.219

यदाऽश्रौषं वाहनेष्वक्षमेषु रथोपस्थे तिष्ठता पाण्डवेन ।
सर्वान्योधान्वारितानर्जुनेन तदा नाशंसे विजयाय सञ्जय ॥

1.1.220

यदाऽश्रौषं नागबलैः सुदुःसहं द्रोणानीकं युयुधानं प्रमथ्य ।
यातं वार्ष्णेयं यत्र तौ कृष्णपार्थौ तदा नाशंसे विजयाय सञ्जय ॥

1.1.221

यदाऽश्रौषं कर्णमासाद्य मुक्तं वधाद्भीमं कुत्सयित्वा वचोभिः ।
धनुष्कोट्याऽतुद्य कर्णेन वीरं तदा नाशंसे विजयाय सञ्जय ॥

1.1.222

यदा द्रोणः कृतवर्मा कृपश्च कर्णो द्रौणिर्मद्रराजश्च शूरः ।
अमर्षयन्सैन्धवं वध्यमानं तदा नाशंसे विजयाय सञ्जय ॥

1.1.223

यदाऽश्रौषं देवराजेन दत्तां दिव्यां शक्तिं व्यंसितां माधवेन ।
घटोत्कचे राक्षसे घोररूपे तदा नाशंसे विजयाय सञ्जय ॥

1.1.224

यदाऽश्रौषं कर्णघटोत्कचाभ्यां युद्धे मुक्तां सूतपुत्रेण शक्तिम् ।
यया वध्यः समरे सव्यसाची तदा नाशंसे विजयाय सञ्जय ॥

1.1.225

यदाऽश्रौषं द्रोणमाचार्यमेकं धृष्टद्युम्नेनाभ्यतिक्रम्य धर्मम् ।
रथोपस्थे प्रायगतं विशस्तं तदा नाशंसे विजयाय सञ्जय ॥

1.1.226

यदाऽश्रौषं द्रौणिना द्वैरथस्थं माद्रीसुतं नकुलं लोकमध्ये ।
समं युद्धे मण्डलेभ्यश्चरन्तं तदा नाशंसे विजयाय सञ्जय ॥

1.1.227

यदा द्रोणे निहते द्रोणपुत्रो नारायणं दिव्यमस्त्रं विकुर्वन् ।
नैषामन्तं गतवान्पाण्डवानां तदा नाशंसे विजयाय सञ्जय ॥

1.1.228

यदाऽश्रौषं भीमसेनेन पीतं रक्तं भ्रातुर्युधि दुःशासनस्य ।
निवारितं नान्यतमेन भीमं तदा नाशंसे विजयाय सञ्जय ॥

1.1.229

यदाऽश्रौषं कर्णमत्यन्तशूरं हतं पार्थेनाहवेष्वप्रधृष्यम् ।
तस्मिन्भ्रातृणां विग्रहे देवगुह्ये तदा नाशंसे विजयाय सञ्जय ॥

1.1.230

यदाऽश्रौषं द्रोणपुत्रं च शूरं दुःशासनं कृतवर्माणमुग्रम् ।
युधिष्टिरं धर्मराजं जयन्तं तदा नाशंसे विजयाय सञ्जय ॥

1.1.231

यदाऽश्रौषं निहतं मद्रराजं रणे शूरं धर्मराजेन सूत ।
सदा सङ्ग्रामे स्प्रधते यस्तु कृष्णं तदा नाशंसे विजयाय सञ्जय ॥

1.1.232

यदाऽश्रौषं कलहद्यूतमूलं मायाबलं सौबलं पाण्डवेन ।
हतं सङ्ग्रामे सहदेवेन पापं तदा नाशंसे विजयाय सञ्जय ॥

1.1.233

यदाऽश्रौषं श्रान्तमेकं शयानं ह्रदं गत्वा स्तम्भयित्वा तदम्भः ।
दुर्योधनं विरथं भग्नशक्तिं तदा नाशंसे विजयाय सञ्जय ॥

1.1.234

यदाऽश्रौषं पाण्डवांस्तिष्ठमानान् गत्वा ह्रदे वासुदेवेन सार्धम् ।
अमर्षणं धर्षयतः सुतं मे तदा नाशंसे विजयाय सञ्जय ॥

1.1.235

यदाऽश्रौषं विविधांश्चित्रमार्गान् गदायुद्धे मण्डलशश्चरन्तम् ।
मिथ्या हतं वासुदेवस्य बुद्ध्या तदा नाशंसे विजयाय सञ्जय ॥

1.1.236

यदाऽश्रौषं द्रोणपुत्रादिभिस्तै- र्हतान्पञ्चालान्द्रौपदेयांश्च सुप्तान् ।
कृतं बीभत्समयशस्यं च कर्म तदा नाशंसे विजयाय सञ्जय ॥

1.1.237

यदाऽश्रौषं भीमसेनानुयाते- नाश्वत्थाम्ना परमास्त्रं प्रयुक्तम् ।
क्रुद्धेनैषीकमवधीद्येन गर्भं तदा नाशंसे विजयाय सञ्जय ॥

1.1.238

यदाऽश्रौषं ब्रह्मशिरोऽर्जुनेन स्वस्तीत्युक्त्वाऽस्त्रमस्त्रेण शान्तम् ।
अश्वत्थाम्ना मणिरत्नं च दत्तं तदा नाशंसे विजयाय सञ्जय ॥

1.1.239

यदाऽश्रौषं द्रोणपुत्रेण गर्भे वैराट्या वै पात्यमाने महास्त्रैः ।
सञ्जीवयामीति हरेः प्रतिज्ञां तदा नाशंसे विजयाय सञ्जय ॥

1.1.240

द्वैपायनः केशवो द्रोणपुत्रं परस्पेरणाभिशापैः शशाप ।
बुद्ध्वा चाहं बुद्धिहीनोऽद्य सूत सन्तप्ये वै पुत्रपौत्रैश्च हीनः ॥

1.1.241

शोच्या गान्धारी पुत्रपौत्रैर्विहीना तथा वध्वा पितृभिर्भ्रातृभिश्च ।
कृतं कार्यं दुष्करं पाण्डवेयैः प्राप्तं राज्यमसपत्नं पुनस्तैः ॥

1.1.242

कष्टं युद्धे दश शेषाः श्रुता मे त्रयोऽस्माकं पाण्डवानां च सप्त ।
द्व्यूना विंशतिराहताऽक्षौहिणीनां तस्मिन्सङ्ग्रामे भैरवे क्षत्रियाणाम् ॥

1.1.243

तमस्त्वतीव विस्तीर्णं मोह आविशतीव माम् ।
सञ्ज्ञां नोपलभे सूत मनो विह्वलतीव मे ॥
सौतिरुवाच ।

1.1.244

इत्युक्त्वा धृतराष्ट्रोऽथ विलप्य बहु दुःखितः ।
मूर्च्छितः पुनराश्वस्तः सञ्जयं वाक्यमब्रवीत् ॥
धृतराष्ट्र उवाच ।

1.1.245

सञ्जयैवं गते प्राणांस्त्यक्तुमिच्छामि मा चिरम् ।
स्तोकं ह्यपि न पश्यामि फलं जीवितधारणे ॥
सौतिरुवाच ।

1.1.246

तं तथा वादिनं दीनं विलपन्तं महीपतिम् ।
निःश्वसन्तं यथा नागं मुह्यमानं पुनः पुनः ॥

1.1.247

गावल्गणिरिदं धीमान्महार्थं वाक्यमब्रवीत् ।
सञ्जय उवाच ।
श्रुतवानसि वै राजन्महोत्साहान्महाबलान् ॥

1.1.248

द्वैपायनस्य वदतो नारदस्य च धीमतः ।
महत्सु राजवंशेषु गुणैः समुदितेषु च ॥

1.1.249

जातान्दिव्यास्त्रविदुषः शक्रप्रतिमतेजसः ।
धर्मेण पृथिवीं जित्वा यज्ञैरिष्ट्वाप्तदक्षिणैः ॥

1.1.250

अस्मिँल्लोके यशः प्राप्य ततः कालवशं गतान् ।
शैब्यं महारथं वीरं सृञ्जयं जयतां वरम् ॥

1.1.251

सुहोत्रं रन्तिदेवं च काक्षीवन्तमतौशिजम् ।
बाह्लीकं दमनं चैद्यं शर्यातिमजितं नलम् ॥

1.1.252

विश्वामित्रममित्रघ्नमम्बरीषं महाबलम् ।
मरुत्तं मनुमिक्ष्वाकुं गयं भरतमेव च ॥

1.1.253

रामं दाशरथिं चैव शशबिन्दुं भगीरथम् ।
कृतवीर्यं महाभागं तथैव जनमेजयम् ॥

1.1.254

ययातिं शुभकर्माणं देवैर्यो याजितः स्वयम् ।
चैत्ययूपाङ्किता भूमिर्यस्येयं सवनाकरा ॥

1.1.255

इति राज्ञां चतुर्विंशन्नारदेन सुरर्षिणा ।
पुत्रशोकाभितप्ताय पुरा श्वैत्याय कीर्तितम् ॥

1.1.256

तेभ्यश्चान्ये गताः पूर्वं राजानो बलवत्तराः ।
महारथा महात्मानः सर्वैः समुदिता गुणैः ॥

1.1.257

पूरुः कुरुर्यदुः शूरो विष्वगश्वो महाद्युतिः ।
अणुहो युवनाश्वश्च ककुत्स्थो विक्रमी रघुः ॥

1.1.258

विजयो वीतिहोत्रोऽह्गो भवः श्वेतो बृहद्गुरुः ।
उशीनरः शतरथः कङ्को दुलिदुहो द्रुमः ॥

1.1.259

दम्भोद्भवः परो वेनः सगरः सन्कृतिर्निमिः ।
अजेयः परशुः पुण्ड्रः शम्भुर्देवावृधोऽनघः ॥

1.1.260

देवाह्वयः सुप्रतिमः सुप्रतीको बृहद्रथः ।
महोत्साहो विनीतात्मा सुक्रतुर्नैषधो नलः ॥

1.1.261

सत्यव्रतः शान्तभयः सुमित्रः सुबलः प्रभुः ।
जानुजङ्घोऽनरण्योऽर्कः प्रियभृत्यः शुचिव्रतः ॥

1.1.262

बलबन्धुर्निरामर्दः केतुशृङ्गो बृहद्बलः ।
धृष्टकेतुर्बृहत्केतुर्दीप्तकेतुर्निरामयः ॥

1.1.263

अविक्षिच्चपलो धूर्तः कृतबन्धुर्दृढेषुधिः ।
महापुराणसम्भाव्यः प्रत्यङ्गः परहा श्रुतिः ॥

1.1.264

एते चान्ये च राजानः शतशोऽथ सहस्रशः ।
श्रूयन्ते शतशश्चान्ये सङ्ख्याताश्चैव पद्मशः ॥

1.1.265

हित्वा सुविपुलान्भोगान्बुद्धिमन्तो महाबलाः ।
राजानो निधनं प्राप्तास्तव पुत्रैर्महत्तरः ॥

1.1.266

येषां दिव्यानि कर्माणि विक्रमस्त्याग एव च ।
माहात्म्यमपि चास्तिक्यं सत्यं शौचं दयाऽर्जवम् ॥

1.1.267

विद्वद्भिः कथ्यते लोके पुराणैः कविसत्तमैः ।
सर्वर्द्धिगुणसम्पन्नास्ते चापि निधनं गताः ॥

1.1.268

तव पुत्रा दुरात्मानः प्रतप्ताश्चैव मन्युना ।
लुब्धा दुर्वृत्तभूयिष्ठा न ताञ्छोचितुमर्हसि ॥

1.1.269

श्रुतवानसि मेधावी बुद्धिमान्प्राज्ञसम्मतः ।
येषां शास्त्रानुगा बुद्धिर्न ते मुह्यन्ति भारत ॥

1.1.270

निग्रहानुग्रहौ चापि विदितौ ते नराधिप ।
नात्यन्तमेवानुवृत्तिः कार्या ते पुत्ररक्षणे ॥

1.1.271

भवितव्यं तथा तच्च नानुशोचितुमर्हसि ।
दैवं पुरुषकारेण को निवर्तितुमर्हति ॥

1.1.272

विधातृविहितं मार्गं न कश्चिदतिवर्तते ।
कालमूलमिदं सर्वं भावाभावौ सुखासुखे ॥

1.1.273

कालः सृजति भूतानि कालः संहरते प्रजाः ।
संहरन्तं प्रजाः कालं कालः शमयते पुनः ॥

1.1.274

कालो विकुरुते भावान्सर्वांल्लोके शुभाशुभान् ।
कालः सन्क्षिपते सर्वाः प्रजा विसृजते पुनः ॥

1.1.275

कालः सुप्तेषु जागर्ति कालो हि दुरतिक्रमः ।
कालः सर्वेषु भूतेषु चरत्यविधतः समः ॥

1.1.276

अतीतानागता भावा ये च वर्तन्ति साम्प्रतम् ।
तान्कालनिर्मितान्बुद्ध्वा न सञ्ज्ञां हातुमर्हसि ॥
सौतिरुवाच ।

1.1.277

इत्येवं पुत्रशोकार्तं धृतराष्ट्रं जनेश्वरम् ।
आश्वास्य स्वस्थमकरोत्सूतो गावल्गणिस्तदा ॥

1.1.278

धृतराष्ट्रोऽपि तच्छ्रुत्वा धृतिमेव समाश्रयत् ।
दिष्ट्येदमागतमिति मत्त्वा स प्राज्ञसत्तमः ॥

1.1.279

लोकानां च हितार्थाय कारुण्यान्मुनिसत्तमः ।
अत्रोपनिषदं पुण्यां कृष्णद्वैपायनोऽब्रवीत् ॥

1.1.280

विद्वद्भिः कथ्यते लोके पुराणे कविसत्तमैः । भारताध्ययनं पुण्यमपि पादमधीयतः ।
श्रद्दधानस्य पूयन्ते सर्वपापान्यशेषतः ॥

1.1.281

देवा देवर्षयो ह्यत्र तथा ब्रह्मर्षयोऽमलाः ।
कीर्त्यन्ते शुमकर्माणस्तथा यक्षा महोरगाः ॥

1.1.282

भगवान्वासुदेवश्च कीर्त्यतेऽत्र सनातनः ।
स हि सत्यमृतं चैव पवित्रं पुण्यमेव च ॥

1.1.283

शाश्वतं ब्रह्म परमं ध्रुवं ज्योतिः सनातनम् ।
यस्य दिव्यानि कर्माणि कथन्ति मनीषिणः ॥

1.1.284

असत्सत्सदसच्चैव यस्माद्विश्वं प्रवर्तते ।
सन्ततिश्च प्रवृत्तिश्च जन्ममृत्युपुनर्भवाः ॥

1.1.285

अध्यात्मं श्रूयतें यत्र पञ्चभूतगुणात्मकम् ।
अव्यक्तादि परं यच्च स एव परिगीयते ॥

1.1.286

यं ध्यायन्ति सदा मुक्ता ध्यानयोगबलान्विताः ।
प्रतिबिम्बमिवादर्शे पश्यन्त्यात्मन्यवस्थितम् ॥

1.1.287

श्रद्दधानः सदा युक्तः सदा धर्मपरायणः ।
आसेवन्निममध्यायं नरः पापात्प्रमुच्यते ॥

1.1.288

अनुक्रमणिकाध्यायं भारतस्येममादितः ।
आस्तिकः सततं शृण्वन्न कृच्छ्रेष्ववसीदति ॥

1.1.289

उभे सन्ध्ये जपन्किञ्चित्सद्यो मुच्येत किल्बिषात् ।
अनुक्रमण्या यावत्स्यादह्नारात्र्या च सञ्चितम् ॥

1.1.290

भारतस्य वपुर्ह्येतत्सत्यं चामृतमेव च ।
नवनीतं यथा दध्नो द्विपदां ब्राह्मणो यथा ॥

1.1.291

आरण्यकं च वेदेभ्य ओषधिभ्योऽमृतं यथा ।
ह्रदानामुदधिः श्रेष्ठो गौर्वरिष्ठा चतुष्पदाम् ॥

1.1.292

यथैतानीतिहासानां तथा भारतमुच्यते ।
यश्चैनं श्रावयेच्छ्राद्धे ब्राह्मणान्पादमन्ततः ॥

1.1.293

अक्षय्यमन्नपानं वै पितृंस्तस्योपतिष्ठते ।
इतिहासपुराणाभ्यां वेदं समुपबृंहयेत् ॥

1.1.294

बिभेत्यल्पश्रुताद्वेदो मामयं प्रतरिष्यति ।
कार्ष्णं वेदमिमं विद्वाञ्श्रावयित्वार्थमश्नुते ॥

1.1.295

भ्रूणहत्यादिकं चापि पापं जह्यादसंशयम् ।
य इमं शुचिरध्यायं पठेत्पर्वणि पर्वणि ॥

1.1.296

अधीतं भारतं तेन कृत्स्नं स्यादिति मे मतिः ।
यश्चैनं शृणुयान्नित्यमार्षं श्रद्धासमन्वितः ॥

1.1.297

स दीर्घमायुः कीर्तिं च स्वर्गतिं चाप्नुयान्नरः ।
एकतश्चतुरो वेदा भारतं चैतदेकतः ॥

1.1.298

पुरा किल सुरैः सर्वैः समेत्य तुलया धृतम् ।
चतुर्भ्यः सरहस्येभ्यो वेदेभ्यो ह्यधिकं यदा ॥

1.1.299

तदाप्रभृति लोकेऽस्मिन्महाभारतमुच्यते ।
महत्त्वे च गुरुत्वे च ध्रियमाणं यतोऽधिकम् ॥

1.1.300

महत्त्वाद्भारवत्त्वाच्च महाभारतमुच्यते ।
निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते ॥

1.1.301

तपो नकल्कोऽध्ययनं नकल्कः स्वाभाविको वेदविधिर्नकल्कः ।
प्रसह्य वित्ताहरणं नकल्क- स्तान्येव भावोपहतानि कल्कः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc