मध्यमकशास्त्र · अध्याय 23
23 विपर्यासपरीक्षा त्रयोविंशतितमं प्रकरणम् ।
संकल्पप्रभवो रागो द्वेषो मोहश्च कथ्यते ।
शुभाशुभविपर्यासान् संभवन्ति प्रतीत्य हि
शुभाशुभविपर्यासान् संभवन्ति प्रतीत्य ये ।
ते स्वभावान्न विद्यन्ते तस्मात् क्लेशा न तत्त्वतः
आत्मनो ऽस्तित्वनास्तित्वे न कथंचिच्च सिध्यतः ।
तं विनास्तित्वनास्तित्वे क्लेशानां सिध्यतः कथम्
कस्यचिद्धि भवन्तीमे क्लेशाः स च न सिध्यति ।
कश्चिदाहो विना कंचित्सन्ति क्लेशा न कस्यचित्
स्वकायदृष्टिवत् क्लेशाः क्लिष्टे सन्ति न पञ्चधा ।
स्वकायदृष्टिवत् क्लिष्टं क्लेशेष्वपि न पञ्चधा
स्वभावतो न विद्यन्ते शुभाशुभविपर्ययाः ।
प्रतीत्य कतमान् क्लेशाः शुभाशुभविपर्ययान्
रूपशब्दरसस्पर्शा गन्धा धर्माश्च षड्विधम् ।
वस्तु रागस्य द्वेषस्य मोहस्य च विकल्प्यते
रूपशब्दरसस्पर्शा गन्धा धर्माश्च केवलाः ।
गन्धर्वनगराकारा मरीचिस्वप्नसंनिभाः
अशुभं वा शुभं वापि कुतस्तेषु भविष्यति ।
मायापुरुषकल्पेषु प्रतिबिम्बसमेषु च
अनपेक्ष्य शुभं नास्त्यशुभं प्रज्ञपयेमहि ।
यत्प्रतीत्य शुभं तस्माच्छुभं नैवोपपद्यते
अनपेक्ष्याशुभं नास्ति शुभं प्रज्ञपयेमहि ।
यत्प्रतीत्याशुभं तस्मादशुभं नैव विद्यते
अविद्यमाने च शुभे कुतो रागो भविष्यति ।
अशुभे ऽविद्यमाने च कुतो द्वेषो भविष्यति
अनित्ये नित्यमित्येवं यदि ग्राहो विपर्ययः ।
नानित्यं विद्यते शून्ये कुतो ग्राहो विपर्ययः
अनित्ये नित्यमित्येवं यदि ग्राहो विपर्ययः ।
अनित्यमित्यपि ग्राहः शून्ये किं न विपर्ययः
येन गृण्हाति यो ग्राहो ग्रहीता यच्च गृह्यते ।
उपशान्तानि सर्वाणि तस्माद्ग्राहो न विद्यते
अविद्यमाने ग्राहे च मिथ्या वा सम्यगेव वा ।
भवेद्विपर्ययः कस्य भवेत्कस्याविपर्ययः
न चापि विपरीतस्य संभवन्ति विपर्ययाः ।
न चाप्यविपरीतस्य संभवन्ति विपर्ययाः
न विपर्यस्यमानस्य संभवन्ति विपर्ययाः ।
विमृशस्व स्वयं कस्य संभवन्ति विपर्ययाः
अनुत्पन्नाः कथं नाम भविष्यन्ति विपर्ययाः ।
विपर्ययेष्वजातेषु विपर्ययगतः कुतः
न स्वतो जायते भावः परतो नैव जायते ।
न स्वतः परतश्चेति विपर्ययगतः कुतः
आत्मा च शुचि नित्यं च सुखं च यदि विद्यते ।
आत्मा च शुचि नित्यं च सुखं च न विपर्ययः
नात्मा च शुचि नित्यं च सुखं च यदि विद्यते ।
अनात्माशुच्यनित्यं च नैव दुःखं च विद्यते
एवं निरुध्यते ऽविद्या विपर्ययनिरोधनात् ।
अविद्यायां निरुद्धायां संस्काराद्यं निरुध्यते
यदि भूताः स्वभावेन क्लेशाः केचिद्धि कस्यचित् ।
कथं नाम प्रहीयेरन् कः स्वभावं प्रहास्यति
यद्यभूताः स्वभावेन क्लेशाः केचिद्धि कस्यचित् ।
कथं नाम प्रहीयेरन् को ऽसद्भावं प्रहास्यति
मूल पाठ: Madhyamakaśāstra · Edition: P. L. Vaidya: Madhyamakaśāstra of Nāgārjuna. Darbhanga: Mithila Institute, 1960. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0