मध्यमकालोक · भाग 2125
पुनश्च,
यथा मया यथा स्वप्नो गन्धर्वनगरं यथा ।
तथोत्पादस्तथा स्थानं तथा भङ्ग उदाहतम् ॥
अपि च, आर्यसागरनागराजपरिपृच्छासूत्रे ऽपि -
आदावन्ते हि शून्यत्वं जातिर्भङ्गस्तथा स्थितिः ।
सर्वे धर्माः स्वभावेन शून्या नासन्न सत् पुनः ॥
इत्यादिकमुदाहतम् ।
यच्च तावत् संस्काराणां क्षणिकत्वम्, तदपि नैवोपपन्नमिति निर्दिष्टम् । आर्यसुबाहुपरिपृच्छासूत्रे चोक्तम् -
"यदुत त्रयाणामतीतानागतप्रत्युत्पन्नानां कालानां परिज्ञानं जायते । तत्रातीताः संस्कराः, ये तावन्निरुद्धास्ते भूतकाल इत्युच्युन्ते । ये ह्यनागता अनुत्पनास्ते भविष्यकाल इति । ये च प्रत्युत्पन्ने पृथगुत्पन्नास्ते वर्तमानकाल इत्युभिधीयन्ते । वर्तमानकालोत्पन्नानि स्कन्धधात्वायतनानि न स्थितानि नाप्यस्थितानीति परिज्ञायन्ते । कथमिति चेत्? लोको ऽयं क्षणमात्रमपि नावतिष्ठति । ये तावत् क्षणिकास्तेषामुत्पदो ऽप्यन्यः, स्थितिरप्यन्या, व्ययो ऽप्यन्यो भवती, तेषां क्षणिकत्वात् स्थितास्थितत्वाभावाच्च ।" इत्यादिकमभिहितम्
अतश्च क्षणिकता तावत् कल्पनास्वभावात्मिकैव, तदादिमध्यान्तानां भिन्नस्वभाअत्वादित्युपदिदेश । तथैवाचार्येणाप्युक्तम् -
यथान्तो ऽस्ति क्षणस्यैवमादिर्मध्यं च कल्प्यताम् ।
त्रयात्मकत्वात् क्षणस्यैवं न लोकस्य क्षणं स्थितिः ॥
[57] यच्च भगवता "धूमेन ज्ञायते वह्निः" इत्यदिकमुक्तम्, तदपि सूत्रान्तरेषु सकलसामग्रीसमवधानात् समुत्पद्यमानानामग्निधूमादीनां सामान्येन निषेधपरकमेव । अतो नैव तत् परमार्थमधिकृत्योक्तमिति निर्दिष्टमेव पूर्वम् ।
आर्यलङ्कावतारे ऽप्युक्तम् -
समवायाद् विनिर्मुक्तो बुद्धया भावो न गृह्यते ।
तस्माच्छून्यमनुत्पन्नं निःस्वभावं वदाम्यहम् ॥
अन्यच्च तत्रैव -
एकत्वं वा ह्यनेकत्वं यथा बार्लैर्विकल्प्यते ।
समवायात् पृथङ् नास्ति न चान्यस्य पृथक् स्थितिः ॥
आर्यघनव्यूहसूत्रे चोक्तम् -
न स्कन्धा धातवो नैव सर्वे धर्मा अलक्षणाः ।
चिन्त्यमानो ऽपि नैवास्ति परमाणुस्तथा स्थितः ॥
पुनश्च,
पृथिव्यबादिवस्तूनि कल्पितानि सुकल्पकैः ।
अपि च,
विचारे सति नैवास्ति परमाणोश्च वस्तुता ।
इत्याद्यक्तम् ।
अतः पृथिव्यादीनां कल्पितस्वभावत्वात् तत्स्वभावसंगृहीतास्तावदग्निधूमादयो ऽपि कल्पितस्वभावा एव । अतो ऽग्निधूमादीनां कल्पनाकल्पितस्वभावत्वेन निर्देशः संवृतिमत्रात्मक एव, न तु परमार्थात्मकः ।
[58] अभिधर्मादौ यः खलु हेतुप्रत्ययादीनां निर्देशः, सो ऽपि संवृतिरेव, न तु पारमार्थिकः । परमार्थस्तु यदा न कस्यचनोत्पादस्तदाहेतुकत्वं तावदनुपपन्नमेवेति पूर्वमेव निर्दिष्टम् । यतावत् स्कन्धादीनां निर्देशः, सो ऽपि व्यवहारसत्याश्रित एवेत्यपि पूर्वमेव निर्दिष्टम् ।
[59-60] आर्यधर्मसंगीतौ तवदुक्तम् - बोधिसत्त्वेन तथागतार्हत्सम्यक्संबुद्धानां यो व्यावहारिकत्वेन निर्देशः कृतः, स खलु दशाध बोदितव्यः । कथं दशधा? तद्यथास्कन्धनिर्देशः धातुनिर्देशः, आयतननिर्देशः, सत्त्वनिर्देशः कर्मनिर्देशः, जातिनिर्देशः, जरानिर्देशः, मरणनिर्देशः प्रतिसन्धिनिर्देशस्तथैवैतेषामुपशमार्थं निर्वाणनिर्देश इति । सर्व ऽपीमे व्यवहारमात्रत्वेन निर्दिष्टा इति तत्रोक्तम् । स्वपरमतस्थितैस्तत्त्वार्थत्वेनोपकल्पितानां स्कन्धादीनां परमार्थतो ऽनुत्पन्नत्वेन साधनात् सिद्धसाधनमेव ।
[61] यच्च तदा वस्त्वेव स्वीकृतं स्यादित्युक्तं तत्पूर्वं कृतोत्तरमेव ।
[62-64] का नाम संवृतिर्यदि सर्वमेवासदिति यदुक्तं तदपि नैव युक्तिसंङ्गतम्, परस्परविरोधात् । संवृतिर्हि नास्ति शशशृङ्गवदभावस्वभावा । तदा कथमिति चेत्? यच्च सम्यङ् निःस्वभावं वस्तु तस्य तन्निवृत्तकारे या समारोपिका भ्रान्तबुद्धिः, सैव संवृतिरिति । अथवा यया तत्त्वमाव्रियते [यया वा तत्त्वबोधः] बाध्यते, सा संवृतिरिति । सूत्रे ऽपि तवदुतम् -
भावा विद्यन्ति संवृत्या परमार्थे न भावकाः ।
निःस्वभावेषु या भ्रान्तिस्तत्सत्यं संवृतिर्भवेत् ॥
तन्निर्वृतत्वात्तदुपदर्शितं सर्वं खलु वस्तु संवृतिमात्रमेवेत्युक्तम् । साप्यनादिकलीनभ्रान्तवासनापरिपाकजरूपैव । तया सर्वेषु सत्त्वेषु पारमर्थिकवस्तुस्वभाव इवोपदर्श्यते, अतस्तद्बुद्धयधिकारेन सर्वं हि मिथ्यावस्तु संवृतिसन्मात्रमेवेति । तच्च नैव परमार्थतो वस्तुस्वभावम्, यथाभासमनवस्थितत्वात् । नैव च शशशृङ्गवत् तदत्यन्ताभावस्वभावमपि, अविचारतो रमणीयत्वेनावभासमानत्वात् । यथोक्ता संवृतिस्तावन्नैव वस्तुस्वभावापि, विपरीताकारोपग्राहेणाभासितत्वात् । तत्त्वान्यत्वयोस्तावत् परस्परपरिहारस्थितलक्षणत्वात् तत्त्वान्यत्वविरोध इति पूर्वमेव निर्दिष्टम् ।
न च ते अत्यन्तमभावस्वभावे, अवभासमानत्वात् । अतः सर्वं खलु वस्तु सदसत्स्वभावातीतम् । अतो भावमभावं वा स्वभावमाश्रित यत्तावच्चोद्यं तत्सर्वं निराधारमेव । वस्तुन्येव तावद् विधिर्वा प्रतिषेधो वा सम्भवी । विधिप्रतिषेधाभावे त्वसदेव । अत उभयं खल्लसत्स्वभावविरुद्धम्, नैव तदसद्वस्तुनि [सम्भवति] ।
कस्यचिदेकस्यापि स्वभावस्य तत्रासिद्धेः उभयासत्स्वभावत्वेन व्यवस्थाप्यते । अतो नास्त्युभयासत्स्वभावे कश्चन विरोधः । अपेक्षाविशेषेण सामर्थ्यासामर्थ्यदिविरोधो ऽपि नैव सम्भवी, असामर्थादिनां परमार्थसत्याश्रितत्वेन सामर्थ्यादीनां च संवृतिसत्याश्रितत्वेन व्यवस्थीयमानत्वात् ।
मायापुरुषादिवत् सर्ववस्तुषु भ्रान्ताभ्रान्तज्ञानाभ्यां व्यवस्थापनात् क्र्मशः सत्यद्वयभेदो व्यवस्थाप्यते । मायापुरुषादौ भ्रान्तैर्यथा व्यवस्थीयते, तथा सर्ववस्तुषु मिथ्याकारेन ज्ञानेन यदारोपितं तत् संवृतिसत्यमिति व्यवह्रियते । मायापुरुषादौ अभ्रान्तैर्यथा व्यवस्थीयते तथैव सर्ववस्तुषु यः स्वभावः सम्यक्प्रमाणैः सम्प्रतिपाद्यते, स परमार्थसत्यम् । अतो मायादिव्यवहार इवापेक्षाविशेषेन सत्यद्वयश्रिता इमे सर्वव्यवहारा अविरुद्धा एवेत्यवश्यमभ्युपेतव्यम् ।
यद्येवं नास्ति तदा तैमिरिकाद्यालम्बितेषु केशादिषु विज्ञानवादिनां च द्वयाभासेषु किमिवेमानि चोद्यानि न स्युः । इत्थं यदीमे केशादयः परमार्थतो ऽसन्त एव तदा कथमिव ते सद्रूपेणावभासन्ते, कथमिव च देशकालावस्थानां पृथङ् निश्चयः परिगृह्यते । उत्पादानुत्पादादयः सदसती च परस्परमेकस्मिन् नैव युज्यते, यतो हि तत्र यथा केशादिषु द्वयाभासेषु च भ्रान्ताभ्रान्तज्ञानाभ्यां व्यवस्थितस्वभावस्य संवृतिपरमार्थसत्यमाश्रित्य संवृतौ सत्त्वं परमार्थे चासत्त्वं व्यवस्थाप्यते, यथा च तत्रापेक्षाविशेषस्तावदविरुद्ध एव, तथैव सर्ववस्तूनां सादृश्येन नेदं चोद्यं युज्यत एव ।
ये च संवृतावुत्पाद इत्यभिदधते, तेषामयमाशयः - येन हेतुना यथोक्तभ्रान्तनां संवृतस्वभावानां वस्तूनां नैव सम्यगुत्पादो जायते तथाप्युत्पत्तिसादृश्यमुपदृश्यते, अतस्तेषां बुद्धिमधिकृत्य संवृतावुत्पादो भवतीत्यभिधीयते । अत एव भगवता चाप्युक्तम् - "भावा विद्यन्ति संवृत्या" इति ।
परमार्थतो ऽनुत्पन्नत्वादिकं यदुक्तं तस्यायमर्थः सम्यक् श्रवणचिन्तनभावनोत्पन्नानि सर्वज्ञानान्यविपर्यस्तविषयित्वात्परमानि, तेषामर्थः परमार्थ इति । प्रत्यक्षेण व परम्परया वा कृत भेदा अपि सन्ति । ताभ्यां सर्वाणि वस्तूनि अनुत्पन्नत्वेनैव ज्ञायन्ते । इत्थं परमार्थतो ऽनुत्पद इति सम्यग्ज्ञानेन असिद्धोत्पाद इत्येव वक्ष्यते । अत उभे अपि न स्तो ऽसम्बद्धाभिधाने यद्येवं नास्ति तदा भवद्भिरपि ऽसर्वाणि वस्तूनि परमार्थतो ऽनुत्पन्नानिऽ इत्यादीनामर्थः कथमुपनीयते, कथं वा भवतां सत्यद्वयाश्रितो व्यवहारः प्रवर्तते । यदि नियतं शब्दार्थमतिरिच्य मिथ्यैव परे दूष्यन्ते तदा स्पष्टमसम्बद्धामेवाभिधानं परिलक्ष्यते ।
अपरीक्ष्यैव अविकल्पमात्रमित्यादि यदुक्तं तदप्यसम्बद्दमेव, यतो हि चिन्तनोत्पन्नस्य प्रज्ञातत्त्वस्याविपरीतत्वेन नियतचिन्तनगतसम्यक्प्रमाणबलोत्पन्नं तथैव भावनाबलोत्पन्नमपि कल्पितमेवोच्यते, यतो हि तत्त्वार्थप्रत्यक्षस्तावत् सम्यग्विचारहेतुकस्तन्निष्यन्दभूतश्च भवति ।
यानि खलु तत्त्वर्थपराङ्मुखनि मिथ्याकारोपगृहीतानि ज्ञानानि, तानि सर्वाणि तद्विपरीतत्वाद् अकल्पितानीत्युच्यन्ते, तानि नैव निर्विकल्पानि, नैव व कल्पनामात्ररहितानि । अतस्तत्प्रसिद्धस्वभावत्वात् सर्वाणि मिथ्याकारस्वभावानि वस्तूनि संवृतिरित्यभिधीयन्ते । फलतो ऽकल्पितत्वे ऽपि न तावन्निर्विकल्पज्ञानम्, न चानुमानप्रसिद्धार्थस्य परिहारः, नैव च वस्तुतत्त्वस्वीकारः । नैवात्र तावदसन्निषेधाभिलाषो ऽपि । इत्थं दूषणमिदं सर्वबालपृथग्जनान् संक्लेशयितुं शब्दप्रयोगमात्रमेव । अतो नैव तद् विदुषां सन्तोषकरमिति ।
[65] ऽसंवृतिर्लोकप्रसिद्धाऽ इत्यादिकं यदुक्तं तच्च दोषरहितमेव, सर्वेषां लोकप्रसिधार्थानां संवृतित्वेनाभ्युपगमात् । नापि सर्वे ऽर्थाः सर्वेन्द्रियगोचराः, केनचित् कस्यचिदेव ग्रहणात् । अतः कर्मफलादीनां पृथक्शो नियतव्यवस्था या अत्यन्तपरोक्षा, सा सर्वथा सर्वज्ञज्ञानस्यैव गोचरा, न तु सामान्यज्ञानविषया । केचन शास्त्ररचयितारः प्रसिद्धिमतीत्य कल्पनादिस्वभावत्वेनिपकल्पितं वस्तु मिथ्यासंवृतिसदिति कथयन्ति, तत्तु प्रसिद्धावप्यसदिति । यत्तु प्रतीत्यसमुत्पदानुकूलत्वेन परिकल्पितं तत्तु" नास्तीह सत्त्व आत्मा वा धर्मास्त्वेते सहेतुकाः" इत्यतः संवृतिसदेवेत्युक्तम् । अतो वस्तूनमनेकत्वे ऽपि प्रणेतृभिर्यद्यप्यनेकस्वभवत्वेन कल्पितानि, तथापि तेषां स्वभावे नैव परस्परविरोधः । [66] यच्च ऽमायार्थः संवृत्यर्थःऽ इत्युक्तं तदप्यसत्यार्थे मायार्थस्य स्वीकाराद् दोषहितमेव, अत्यन्ताभावस्वभावाभावात् । अतो नास्त्यस्मिन् पूर्वोक्तो दोषो ऽपि । नापि चात्र संक्लेश्व्यवदानापवाददोषो ऽपि, तस्य पूर्वं निराकृतत्वात् ।
मायार्थस्य मिथ्याज्ञानार्थस्वे ज्ञानवस्तुनि नैव प्रसङ्गः, मिथ्याकारोपगृहीतत्वेनावभासनात्, सत्यासत्ययोः परस्परविरुद्धत्वाच्च । मिथ्यास्वरूपस्यापि सत्यत्वेनावभासे सति नैव ज्ञानं भ्रान्तं स्यात्, तस्मिन्नेकस्वभावो ऽपि नैव युक्तुरूपः, एकस्मिन्नेकस्वभावस्य विरुद्धत्वात् । असत्यस्वभावस्य मिथ्यात्वाद् भ्रान्ते सति नैव ज्ञानं स्यात्, तयोः सर्वात्मना परस्परविरुद्धत्वात्, एकस्मिन्नवयवावयविभावस्यासम्भवाच्च । अतो मिथ्यास्वभावत्वाज्ज्ञानस्वरूपे ऽन्तर्ज्ञेयवादिनां मते महान् विशेषो [भेदः] जायते ।
[67] संवृतिः शब्दमात्रात्मिकेत्यादि यदुक्तं तदपि पूर्वपक्षरूपेण स्वमतोपकल्पित्मेव । अतस्तन्नैव युज्यते । सुगतमतेष्वपि जगदिदं शब्दमात्रमेवेत्युक्तम् । यथोक्तम् सूत्रे -
सूत्रे सूत्रे विकल्पोक्तं संज्ञानामान्तरेण च ।
अभिधनविर्निमुक्तभिधेयं न लक्ष्यते ॥
ये तावदभिधानं वस्तुभूतम्, अभिधेयं च तदतिरिक्तमिति कल्पयन्ति, तेषामेवं कल्पयतां मतनिषेधार्यमेवाभिधेयं कल्पनायां प्रतिष्ठितमित्युपदर्शितं संज्ञामात्रे प्रतिष्ठितमित्यादिना । संज्ञा तावदत्र कल्पनामात्रात्मिकैव, तस्यामवभास्यमानं नामैवाभिधानम्, अर्थस्त्वभिधेयः ।
अतो ऽभिधानादतिरिक्तभिधेयं नास्तीत्युक्तम् ।
कल्पनाज्ञाने ऽवभास्यमानमभिधानमत्र नामशब्देनाभिप्रेतं, न तु श्रोत्रविज्ञानविज्ञेयः शब्दः तस्याभिधानत्वाभावात् । एतावन्मात्रत्वे सति रूपदीनां सर्वे विविधाभासा न सेत्स्यन्ति, न च स्कन्धादीनां व्यवस्थापि सेत्स्यति । सूत्रे ऽपि परमार्थसत्यनिर्देशसामर्थ्येन सर्वेषां ज्ञानज्ञेयाभिधानादीनां संवृतिसत्यत्वेन निर्दिष्टत्वान्नैव ते शब्दमात्रत्वेन निर्दिष्टा इति । आर्यसत्यद्वयनिर्देशसूत्रे ऽप्युक्तम् -
"यदुत देवपुत्र, परमार्थस्तावत् सर्वव्यवहारातीतः, यतो हि निर्विशेषः अनुत्पन्नः अनिरुद्धः अभिधानाभिधेयज्ञानज्ञेयादिरहितः स इति ।"
एतत्सामर्थ्येन ज्ञानज्ञेयाभिधानदयः सर्वे संवृतिसत्यत्वेनोपदर्शिताः ऽसंवृतिसत्यस्य परमार्थस्वभावनिवृत्तत्वात् । अत एवार्याक्षयमतिनिर्देशसूत्रे ऽप्युक्तम् -
"एतदानुकूल्येन लोकव्यवहारस्तावज्ज्ञानज्ञेयात्मकः अक्षरशब्दैर्निर्दिष्टो ऽभिधानात्मक एव संवृतिसत्यमिति वेदितव्यम्, न तु अभिधानाबिधेयमात्रात्मकमिति" । अन्यथा यत्र चित्तस्य प्रवृत्तिरपि नास्ति, एवंविधः परमार्थः संवृतिसत्यनिवृत्तस्वभाव इति निर्देशो ऽपि कथमुपपन्नः स्यात् । तत्र परमार्थत्वेन निर्दिष्टानामार्थानमवस्तुभूतानां सुभाषितादिविभागो ऽपि नैव सुशक इति चोद्यं तावत् सिद्धसाधनमेव । सर्वे धर्मास्तथातात्वेनैकरसा एव । तथातायां नास्ति कश्चनपि विभागः । अतः सुभाषितदुर्भाषितत्वेन यदि तथतास्वभावो नैव विभागार्हस्तदा नैवायं कश्चनापि दोष इति ।
इत्येवं ये ताथागतागमाः प्रत्यक्षपरोक्षतया परमार्तथाभिधायका देहवतां च हितसुखजनकास्ते सुभाषितानीत्युच्यन्ते, तद्विपरीतानि न सुभाषितानीति तेषां भेदः सिध्यति । भवन्मतानुसारं तवन्नाम्नः परिकल्पितस्वभावतयोपादानात् सुभाषितासुभाषितरुपेण कथं व्यवस्था क्रियते? अस्मिन् भवतां यदुत्तरम्, अस्माकमपि तथैवेति गौणमेवैतत् । यत्तावच्छब्दार्थेत्यादिकमुक्तम्, तदपि नैव युज्यते, शब्दार्थयोः संवृतिमात्रत्वाभावात् ।
[68] शब्दार्थो ऽप्यस्तीति निर्दिश्यते, यतो हि अभिधेयादिसमस्तवस्तूनि परमार्थतो निःस्वभावत्वेन मायादिवत् परिकल्पितस्वभावानि । यथा अनेके पुरुषाः पुरुषेतिशब्दार्थसामान्याकारस्वभावेन व्यवस्थाप्यन्ते, तथैव परमार्थतो निःस्वभावानि वस्तूनि कथं न व्यवस्थापयितुं शक्यन्ते? विशेषतः केवलं वस्तुस्वभाव एव शब्दार्थसामान्यस्वरूपो भवतीति यदुक्तं तत्र किमपि कारणं नैव पश्यामः । अनादीति यद् विशेषणं नास्ति वस्तुभूतं तस्याप्यसदिति सामान्यव्यवहारो दृश्यते । सुखादीनि स्वसंवेद्यां - नित्त्यादिकं यदुक्तं तदपि नैव युज्यते, तेषां सर्वेषां सुखादीनां संवृत्यन्तर्गतत्वादिति पूर्वं कृत एव निर्देशः । वस्तूनि केवलमनिदर्शनस्वभावानि एव भविष्यन्तीति यदुक्तं तत्रापि नास्ति काचन युक्तिः, केशोण्डुकद्विचन्द्रादिमिथ्यास्वभावानामप्यनिर्वचनीयस्वभावेन दृश्यमानत्वात् । सूत्रे ऽप्यभिधानाभिधेयादयः संवृतिकाः, न तु सत्स्वभावा निर्दिष्टा इति पूर्वमुक्तमेव ।
अस्य स्त्रोतोभूतं सूत्रं पूर्वं निर्दिष्टमेव ।
ये केचन परमार्थं यद्यपि प्रसज्यमात्रमित्यभिदधते, [किन्तु] स तथा प्रसज्यमात्रो न भवति । अनिश्चितमेव तस्य लक्षणम् । यतावत् परमार्थे ह्यारोपितस्वभावः स संवृतिरेव स [परमार्थस्तु] सर्वप्रपञ्चातीतः । सूत्रे ऽप्युक्तम् - "मञ्जुश्रीः, किं तावत् परमार्थसत्यम्? मञ्जुश्री - राहदेवपुत्र, यदि परमार्थतः परमार्थसत्यं कायवाक्चित्तनिषेधमात्रस्वभावः स्यात्तदा स परमार्थसत्यमिति संख्यां न गच्छेत्, तदा स संवृतिरेव स्यात् । अपि च, देवपुत्र, परमार्थतः परमर्थसत्यं सर्वव्यवहारातीतमिति" ।
तेषु वस्तुवासनाया अपि पूर्वं कृतनिषेधात् केवलं संवृत्यन्तर्गताब्येव तान्योतो ऽन्यतः पूर्तिर्नैवावश्यकी । यदि प्रमाणैरभावो नैव मायादिभिर्भिन्नस्तथापि परमार्थतः स्वतः सदिति नाम क्रियते तदा सहर्षं क्रियतां स्वैरमुत्सवो ऽप्यनुभूयताम्, किन्तु स्वमतानकूल्येन कृतां व्यवस्थां वस्तूनि नैवानुविदधते । प्रतीत्यसमुत्पन्नता स्वसंवेद्यता च नैव वस्तूनो हेतुर्भवति, मायाकेशोण्डुकादीनां भ्रान्तत्वात् कुत्रापि सम्बन्धस्यासिद्धत्वाच्च । यद्यप्रतीत्यसमुत्पन्नत्वे वस्तूनि नैव दृश्यते तदा तददर्शनमन्यत्रापि तथैव स्यादिति कथनसम्बद्धमेव, सत्यपि व्यापके वृक्षे शिंशापासत्त्वस्याननिर्वार्यत्वात् । अतः सुखादीनि तावदविपरीत्तत्वेनासिद्धत्वान्नैव निर्विवादभूतानि ।
[69] क्षणमात्रातिरिक्तत्वेनास्थितत्वादित्यादिकं यदुक्तं तदपि नास्त्यस्वीकार्यम्, स्वभावतो ऽनित्यत्वस्यानुपपन्नत्वात् । वस्तूनां यदि सम्यक्त्वं तदा स्थितत्वास्थितत्वतोः परस्परविरोधो ऽप्यनुपपन्न एवेति पूर्वं कृतनिर्देशादिति । अतश्चलस्वभावत्वाद् वस्तूनि तावन्निःस्वभावत्वेन प्रदर्श्यन्ते, अत एव च तानि संवृतिस्वभावान्युच्यन्ते ।
यदि चलस्वभावार्थः संवृत्यर्थस्तदा नास्त्यनिष्टापत्तिः । तानि सर्वाणि चलस्वभावानि वस्तूनि मायादिवत् प्रकृत्या निःस्वभावलक्षणरहितानि, परमार्थस्वभावानि चेति । सो ऽपि [स्वभाव] तथागतः स्यान्नवा स्यात् सर्वदा स्थितत्वान्नित्यः, अतो नास्ति सिद्धसाधनम् ।
[70] यदपि असत्यार्थेत्यादिकमुक्तं तदपि सत्यशब्दस्यार्थानभिज्ञतयैवोक्तम्, भ्रान्तबुद्धित्वात् संवृतेरिति पूर्वं निर्देशात् । मिथ्याकारतयोपगृहीतत्वेन स असत्य इत्युक्तः । सम्यक्तया असत्ये ऽपि तस्मिन्,सत्य इव प्रसिद्धत्वात् तच्चिन्तनाधिकरेण सत्येति नाम्ना व्यवह्रियते । यदा सर्वाणि ज्ञानज्ञेयादीनि संवृतिरिच्युच्यन्ते, तदापि लोकप्रस्सिद्धयैव सत्यानीत्यभिधीयन्ते, न तु सम्यग्ज्ञानाधिकारेण, शब्दमात्रस्य अपेक्षाविशेषवशेन प्रयुक्तत्वात् सत्यासत्ययोः परस्परविरोधाभावात् ।
विपरीताकारेणावभासितस्त्वात् संवृतिस्तावद् वस्तुत्वेन नैवाभ्युपेयते, अन्यत्वाभावादिति पूर्वमेवावेदितम् । तया व्यवस्थितं जगत् तदधिकारेण यतः सत्यमित्युच्यते, अतः संवृतिरवश्यं वस्तुतया स्वीकर्तव्येति यदुक्तं तस्याप्ययुक्तत्वात् प्रतिज्ञा नैव हापयितुं शक्या ।
[71] संवृतिः प्रमाणम् अप्रमाणं वा? यदि प्रमाणं तदा कथं सा संवृतिः? यद्यप्रमाणं तदा कथं तया नैरात्म्यं साधयितुं शक्यम्? - इति यदुक्तं तदपि नैव युक्तम् । यतो हि यथा अनुमानज्ञानस्य मिथ्याकारग्रहणप्रवृतत्वात् संवृतिस्वभावत्वे ऽपि अभीष्टर्थक्रियाप्रापकत्वात् प्रमाणत्वमभ्युपगन्यते तथैव संवृतिस्वभावस्य मिथ्यात्वे ऽपि यथानुरूपश्रवणमननादिहेतुपरम्परागतत्वाल्लोकिकलोकोत्तराथैः सहाविसंवादात् प्रमाणत्वमभीधीयते, तद्विपरीतत्वे त्वप्रमाणम् । प्रमाणादिसर्वव्यावस्थास्तवद् व्यवहारेणैवेति पूर्वं प्रसाधितमेव, अतस्ता गौणा एव ।
[72] यानि विज्ञानादीनि संवृतिबीजानि तानि परमार्थतो ऽङ्गीकर्त्तव्यानीति यदुक्तं तन्न यक्तियुक्तम् । यदीमानि कारणमात्राणीति साध्यन्ते तदा सिद्धसाधनमेव, यतो ह्येतेषां स्वानुरूपहेतवस्तावदनादिसंवृतिरूपा इति स्वीक्रियन्त एव, नेमान्यहेतुकत्वेन प्रतिज्ञायन्ते ।
यदि तद् बीजं परमार्थसिद्धमेकं चेति तदा कुत्रापि तदन्वयाभावादनैकान्तिकमेव । वृक्षाद्यशेषसंवृतिओइनां यद्युत्तरोपादानहेत्वानुकूल्यं न परिक्षिष्यन्ते तदा रमणीयतामात्रमेव दृष्टं दृष्टं स्यात् । नापि विरुद्धो हेतुः, यक्षानुरूपबलेः सद्भावात् सर्वास्ताः संवृतयो ऽसत्स्वभावाः प्रसाधिता एव । अन्यथा [यद्येवं न स्यात्] कथ ताः संवृतय इति । यद्यसत्स्वभावास्तदा वीजान्यपि तदनुरूपावस्तुभूतन्येव, न ते वस्तुभूतानि, तद्विरुद्धत्वाद् असिद्धत्वात् प्रमाणबाधितत्वाच्चेति ता गौणा एव ।
[73] वस्तुस्वभावस्तावत् स्वीक्रियत इति यदुक्तं तत्तु येन कारणेन वस्तुस्वभावः स्वीक्रियते तेन सत्यद्वयभेदानुधानं कुत्रापि नैव सिध्यति । असत्यपि वस्तुस्वभावे अपरीक्ष्यमाणानि रूपदीनि सिद्धान्येव । तेषु ये उत्पादादयः समारोप्यन्ते ते संवृतिसत्यत्वेन व्यावस्थाप्यन्ते । प्रमाणैः सम्यङ् निरुप्य अनारोपिता ये तावदनुत्पादादयस्ते परमार्थसत्यतया व्याह्रियन्ते । अतः परमार्थतो ऽसत्यपि वस्तुस्वभावे सत्यद्वयं व्यावस्थाप्यत एवेति गौणा एव ।
[74] यत्तावदिदं गौणां परमार्थमित्युक्तं तदप्यसम्बद्धमेव, धर्मपुद्गलनैरात्म्यलक्षणायास्तथाताया युक्तिसङ्गतत्वात् । परमो ऽपि सा, आवरणपरिहारार्थिभिरर्थ्यत्वादर्थो ऽपि सा । अविपरीतस्य ज्ञानस्य अर्थ इति विषय इति कृत्वा सा परमार्थ इत्युच्यते । यत्खलु विषयि लोकोत्तरं ज्ञानं तदन्यश्ब्दार्थप्रयोगैरपि व्यवह्रियते । श्रवणमननभावनोपजातायाः प्रज्ञाया अनुकूलत्वाद् व्यवहारेणैव सा एवमभिधीयते ।
तत्र येन कारणेन परमार्थतत्त्वलक्षणभावनया योगिभिरशेषसंक्लेशान् परिहत्य उत्तरोत्तरप्रज्ञादिविशेगुणांश्चधिगम्य महार्थत्वं प्रसाध्यते, तेन ऽपरमऽ श्ब्दप्रयोगः सर्वथा युज्यत एव । तदपि लोकोत्तरं परमं ज्ञानं सर्वकल्पनाविगतत्वात् सर्वधर्मनिराभासत्वाच्च स्वसंवेद्यमनुपलम्भात्मकं च, न तूपलम्भस्वरूपम् । यथोक्तम् -
ऽदेवपुत्र, परमार्थसत्यं तावत् सर्वाकारपरमगोचरसर्वज्ञस्ताप्यतीतम् ।"
अनेन वस्तुविषयतः सम्यगतीतत्वेन निर्देशादालम्बनदर्शनस्य निषेध एव कृतः । परमार्थलक्षणे यज्ज्ञानात्मकमित्युक्तं तदप्यशेषसम्पदाधारभूतमेव । अतो महार्थसाधकत्वात् परमार्थस्तावन्नास्ति गौणः ।
अपि च, यद्यस्ति तावदेकः तावदेकः कश्चन गौणः परमार्थस्तदा निर्वाणं तावत् कीदृशः परमार्थः? तत्र कस्यापि वस्तुनः सम्यक्तया अर्थस्वभावसम्भवाभावात् तदपि कथमेभिश्चोद्यैरनवमर्दनीयं स्यात् । अतस्तत्र यद् भवतामुत्तरं तदस्माकमपि समानमेव । परमार्थे वस्तूनि तावन्न सन्तीति यदुक्तं तदपि परमार्थमधिकृत्य ज्ञानात्मकत्वं सम्यगविपरीतत्वेनासदेवेत्युक्तम् । एकेन खलु प्रकारेण परमार्थस्तावदसन्निति यदुक्तं तत्तत्त्वतो विचारेणासदेवेत्यर्थः ।
[75] संवृतिपरमार्थयोरेकत्वमिति यदुक्तं तत्र भगवान् परमार्थलक्षणं संस्कारलक्षणेन सह तत्त्वतो नान्यं नानन्यमिति स्वयमेवोक्तवान् । यथोक्तमार्यसन्धिनिर्मोचनसूत्रे -
"यदुत यदि परमार्थलक्षणम् संस्कारेभ्यो नान्यं [अभिन्न] स्यात्तदा सर्वे बालपृथग्जनाः सत्यदर्शिनः स्युः । ततश्च सर्वे प्राप्तनिर्वाणाः सर्वज्ञाश्च भवेयुः । यथा च संस्काराः संक्लेशलक्षणास्तथैव परमार्थो ऽपि संक्लेशलक्षणः स्यात् । तथा च यथा परमार्थः सर्वसंस्कारेष्वभिन्नस्तथा संस्कारलक्षणन्यपि[अभिन्नानि] स्युः, किन्तु संस्कारलक्षणानि भिन्नानि, फलतः परमार्थो नैवानन्यः । भूतार्थप्राप्तेरनन्तरं योगिभिः परमार्थगवेषणं नैव युज्यत इति परमार्थस्तावत् संस्कारेभ्यो नास्त्यन्यो नान्यो ऽपीति । अन्यथा सत्यदर्शिनां संस्कारनिमित्तमनभिभूतमेव स्यात् । संस्कारनिमित्तस्यानभिभावाद् योगिनस्तावन्नैव निमित्तबन्धनान्मुक्ताः स्युः । निमित्तबन्धनैरमुक्तत्वान्न च ते दोष्ठुल्यबन्धनादपि मुक्ताः स्युः । तस्मादमुक्तत्वान्नैव स्यात् निर्वाणसद्धिर्न वानुत्तरसुखानुभूतिरपि । अपि च, परमार्थलक्षणं यदि संस्कारलक्षणेभ्यो भिन्नं स्यात्तदा न स्यात् परमार्थः संस्काराणां सामान्यलक्षणम् न च परमार्थलक्षणं संस्काराणां नैरात्म्यं निःस्वभावता वा स्यात्, नापि संक्लेशव्यवदानयोः पृथग्लक्षणं सिध्येत् । फलतः शखस्यं शुक्लत्वमिव परमार्थलक्षणम् संस्कारेभ्यस्तत्त्वान्यत्वभ्यामनिर्वचनीयमेवेति" ।
वस्तुतायामेव तावत्तत्त्वान्यत्वकल्पनं सम्भवति । परमार्थलक्षणे तु निःस्वभावत्वेन तत्त्वान्यत्वाभ्यं वस्तु नाभिधातुं शक्यते । वस्तुसत्त्वे हि तत्त्वान्यत्वबोधस्य सम्भवान्न तु निःस्वभावे वस्तुनि तत्सम्भवः, अतो नास्ति विरोधः । ज्ञानात्मकपरमर्थो ऽपि संवृत्या सह तथतालक्षणे परमार्थाकारे एकत्वेन स्वीक्रियत एव । यथोक्तमार्यप्रज्ञापारमितायाम् -
ऽकिं भगवन्, अस्ति लोकसंवृतिरन्या, परमार्थो ऽप्यन्यः? भगवानाहसुभूते, नैव लोकसंवृतिरन्या, परमार्थो ऽप्यन्यः । यत्तावल्लोकसंवृतेस्तत्त्वं तदेव परमार्थस्यापि तत्त्वमिति" । ज्ञानात्मकस्तु परमार्थो मायादिभिरभिन्नत्वात् सम्यक्संवृतिस्वभावश्च तत्त्वावबोधानुकूलत्वात् परमार्थस्वभावश्च । अतो ऽपेक्षाविशेषवशेन एकस्मिन्नुभयस्वभावो नैव विरुद्धः ।
[76] यत्तवद् भवद्भिः पुण्यज्ञानसम्भारपारिपूरिर्दुष्करेत्यादिकमुक्तं तदपि नैव युज्यते, अनेनैव तावद् दर्शनेन सम्भारपरिपूर्णताया युज्यमानत्वात् । इत्थं सम्यग्दृष्टिसमुत्थिता एव दानादयः परिसुद्दहेतुसमुत्थितत्वादिष्टफलं विशेषफलं चाभिनिर्हरन्ति, न तु विपरीतसमुत्थिताः, मिथ्यादृष्टिसमुत्थितशीलाङ्गादिवत् ।
परमार्थतो दानादिवस्तूनामभावात् तदुपलम्भो विपरीत एव, मरीच्यादिषु जलोपलम्भवत् । अतस्तत्समुत्थितपारमितानं सर्वो ऽपि प्रयासो मिथ्यात्मात्मीयसमुत्थितदानादिवद् अविशुद्धहेतुसमुत्थितत्वेनात्यन्तं निर्बल एव । उपलब्धिलक्षनप्राप्तानां दानादीनामनुपलब्धिस्तावत् सम्यगर्थत्वेन मरीच्यादिषु जलानुपलम्भैवाविपरीतैव । अतस्तत्समुत्थितदानादयो महाफलाः, सूपचितहेतुसमुत्थितत्वेन स्वस्थबीजाभिनिर्हताङ्कुर इव । अतो ऽनुपलम्भसमाश्रितेसु दानादिषु सम्यदृष्टिसमुत्थिततया विद्वज्जनेषु श्रद्धैवोत्पद्यते, न त्वन्येषु । येन कारणेन दानादिष्वप्रवृतेः पुण्याभावस्तानि दातव्यादीनि नैवात्यन्तमसद्भूतानि, संवृतौ तेषां सद्भावात् । नैव च सर्वदानुपलम्भ एव, असमाहितावस्थायां मायादिवत् तेषामुपलम्भो ऽपि । तदाधिमुक्तिसमुद्भूतानुपलब्धु तानि व्यवस्थाप्यन्त एव । यथोक्तं भगवता
कथं भगवन्, उपाकुशला बोधिसत्त्वा महासत्त्वा दानं दत्वा प्रज्ञापारमितां परिसम्पदयन्ति? भगवानाह - सुभूते, बोधिसत्त्वा महासत्त्वा दानं दत्वा परित्यजन्ति तदा मायाबुद्धिरेव टेषां दाने सूपतिष्ठतीति" विस्तरः ।
अत एव भगवन् ये बोधिसत्त्वा भवन्ति, मायादिवदधिमुक्त्या अर्थिजनेभ्यः पुत्रादीनां परित्यागो रोचते । समापत्त्यवस्थायं तु दानादीनामत्यन्तमनुपलम्भ एव । तदा ते तत्प्रवृत्तिं नैवाश्रयन्ते, समाहितावस्थायां दानादीनामुपेक्ष्यमाणत्वात् । किन्तु पृष्ठलब्धावस्थायां तावत् ते प्रवर्तन्त एव । आर्यरत्नकूटसूत्रे ऽप्युक्तम् -
"भिक्षवः, बोधिसत्त्वैर्दानादीनां स्वभावोपलम्भो नैव कर्त्तव्यः, अदानमपि नैवाचरितव्यम्" इति विस्तरः ।
अत एव प्रज्ञापारमितादिष्वपि शून्यताधिमुक्तस्य अनुपलम्भाश्रितानि दानादीनि बृहत्फलानि परिपूर्णानि चेत्युक्तानि । यथोक्तं तत्रैव -
"तत्किं मन्यते सुभूते, सुकरं पूर्वस्यां दिशि आकाशस्य प्रमाणमुद्गृहीतुम्? सुभूतिराह नो हीदं भगवन् । एवमेव सुभूते, यो बोधिसत्त्वो ऽप्रतिष्ठितो दानं ददाति, तस्य सुभूते, पुण्यस्कन्धस्य न सुकरं प्रमाणमुद्गृहीतुम् ।"
दानशब्दो ऽत्र षट्पारमितावाचकः, षट्दानपारमिता इत्युक्तत्वात् । आर्यरत्नाकरसूत्रे ऽप्युक्तम् - "बोध्यर्थमनुतिष्ठद्भिः सर्वे धर्मा निःस्वभावा ज्ञेयाः । तत्र दानमपि निःस्वभावत्वेन ज्ञायते । उपादाता च निःस्वभावत्वेन ज्ञेय, देयमपि निःस्वभावमिति ज्ञेयम्, परिणामनापि निःस्वभावेति ज्ञेया, यस्य खलु परिणामना क्रियते, तदपि निःस्वभावत्वेन ज्ञेयम् । यदर्थं हि परिणामना विधीयते तदपि निःस्वभावत्वेनैव ज्ञेयम् । तत् किमर्थम्? दानं तावद् दानस्वभावेन शून्यम् । तथैव उपादाता देयं दानफलं परिणामना बोधिश्चेति तत्तस्वभावेन शून्या इति योगः करणीयः । एवं हि शून्यताधिमुक्तस्याप्रमेयैश्चिन्तनैर्दानपारमिता परिशुद्धा भवति, तद् दानं च दानपारमितेति संज्ञां प्रतिलभते, न तु कदापि मलिना भविष्यति" इति विस्तरः ।
इत्येवमनुपलम्भसमाश्रितानि दानादीनि बृहत्फलानि विशुद्धानि च भान्ति । ततश्च अनुत्तरसम्यक्संबोधिस्तावत् करतलस्थितेव भवति, उपलम्भावकाशो ऽपि दूरत एव स्थितः ।
[77] सर्वे धर्मा निःस्वभावा इति यदुच्यते, तस्य तावत्को ऽर्थः? यद्यात्मनासत्त्वान्निःस्वभावास्तदा सिद्धसाधनमेवेति यदुक्तं तदपि यद्यात्मना ऽसत्त्वान्निऽ स्वभावत्वेन व्यवस्ताप्यते तदा न च विरुद्धत्वं नापि सिद्धसाधनमिति । यतो हि यदि वस्तुनः स्वभावो ऽविपोअरीततदा परापेक्षया तत्सत्त्वम् तत्सत्त्वम् आदितश्चासत्त्वं नैवोपपद्यते, एकस्मिन् सदसत्त्वयोः क्रमेणापि विरोधात् । फलतस्तावदिमानि वस्तूनि परमार्थतः स्वभावेन परापेक्षितानीत्यतो निःस्वभावन्येव । न हि स्वभावस्य कृतकत्वं नाम युज्यत इति पूर्वं कृतनिर्देशात् । न चैसां परमार्थतः परापेक्षयापि सत्त्वमिति पूर्वमेव प्रसाधितम् । अतः कथमिव सिद्धसाधनम् । व्यवहारे तावदिमानि परमाश्रित्य प्रवर्तन्ते, अतो नित्यसत्त्वादीनामपि नस्ति प्रसङ्गः । एवमेव यदि वस्त्वादीनि प्रकृतितः सस्वभावानि तदा स्वात्मनासत्त्वं स्वभावेन च सत्त्वं नैवोपपद्यते, विरुद्धत्वात् । एकस्मिन् वतूनि सत्त्वासत्त्वस्थितास्थिओतत्वादयः परस्परविरुद्धधर्मा नैव युज्यते । अतः स्वात्मनासत्त्वान् स्वभावतश्चास्थितत्वात्तानि [वस्तूनि] निःस्वभावत्वेनैव सुस्पष्टतयाभिव्यज्यन्ते । फलतः कथमिव सिद्धसाधनं स्यात् । परिकल्पितात्मना स्वभावतो ऽसत्त्वं तदा नैव सिद्धसाधनमिति पूर्वमेव प्रसाधितम्, प्रमानबाधितत्वात् परिकल्पितस्वभावस्येति ।
वस्तूनामुत्पत्तिरपि परमार्थतः प्रमाणबाधितैव । सा च संवृत्य युज्यते, न तु ग्रह्यग्राहकस्वभावतया । यच्चार्याणां परमज्ञानगोचरं वस्तूनामविपरीतं स्वलक्षणं तदपि नैव सदिति युक्त्यगमाभ्यां पूर्वं प्रतिपदितमेव । या च संक्लेशव्यवदानव्यव्स्था, सापि नैवाविपरीतस्वलक्षणसमाश्रिता । भगवतापि व्यवहारसत्याश्रितत्वेनैवास्याः व्यवस्थाया निर्दिष्टत्वादित्यपि पूर्वमेवावेदितम् ।
[78] सर्वाणि तावद् वस्तून्यादित एव् नोत्पन्नानित्यतो ऽनुपन्नानीति यदुक्तं तत्र नैव सिद्धसाधनादयो दोषाः प्रवर्तन्ते, यतो हि सर्वे धर्माः परमार्थतो ऽनादिकालदेव प्रशान्तत्वादनुत्पन्ना इत्यभ्युपगम्यन्ते, न तु संसारस्यानादिमात्रतया, न चापि पूर्वनिरुद्धस्य अनुत्पत्तिकतया । अपि च, भगवता बालपृथग्जनानां सन्त्रासपरिवर्जनार्थमेभिरपि प्रकारैर्वस्तूनामनुत्पत्तिः सन्दर्शिता, न तु इयन्मात्रेणैवेत्यवधार्यते, स्वपरादिभिरनुत्पादस्य पूर्वमेव निर्दिष्टत्वादिति ।
परिकल्पितात्मना स्वात्मना वनुत्पादे ऽपि नैव सिद्धसाधनमिति निर्दिश्यते । मायादिवद् व्यवहारतयोत्पत्तेरभ्युपगमो ऽपि सर्वथानुत्पन्नत्वेन, नैवानुत्पत्तेरभ्युपगमो न वा परमार्थतो ऽनुत्पतेरभ्युपगमः । अतो नास्ति दर्शनादिविरोधो ऽपि । सर्वे तावद् धर्मा धर्मधातुलक्षणायां निःस्वभावतायां समरसत्वेन तथाताकारतया नैव विशेषोत्पत्तिरित्यतो ऽनुत्पत्तिरभ्युपगम्यते, तथापि नैव तत्र सिद्धसाधनमिति । लोकप्रसिद्धमपि स्वभावमालोच्य विशेषोत्पत्तिर्नास्तित्यपि नैवोच्यते, अतो नास्ति दर्शनादिविरोधो ऽपि । यद्यप्युत्पत्तिक्रियालक्षणरहितत्वाद् ईश्वरादितो ऽनुत्पन्नात्वाद् वानुत्पत्तिः स्वीक्रियन्ते, तथापि नैव तन्मात्रतयैवेति, अपि तु यथा पूर्वमुक्तं तथात्वेनैवास्वीक्रियन्ते । ये तावदनेकसूत्रविरोध इति कथयन्ति, तेभ्यः पूर्वमेव दत्तमुतरम् ।
[त्रियानसाधनम्] यदपि साधनविशेण यानत्रयसिद्धयनुमानं श्रद्धाविशेषेण च गोत्रविशेषानुमानं निर्दिष्टं तेनापि यनत्रयं साधयितुं न शक्यते । अनेन तावदपरिमिता यानभेदाः स्युः । पुनश्चनेन यानत्रयसाधनानुमितस्य गोत्रत्रयस्यापि निश्चितावबोधो नैव कर्तुं शक्यः, अपरिमितगोत्रभेदावबोधात् । सूत्रे ऽपि - "एवं हि सति अपरिमितस्य यानभेदस्य यनभेदस्यप्रसङ्गः स्यात्" - इत्युक्यम् ।
येन खलु कारणेन सत्त्वेषु गोत्रभेदानुमानस्य नियता सिद्धिः नियतश्च श्रद्धभेदाबोधः प्रतीयते, ते ऽप्यकल्याणमित्रसंसर्गेण अकारणमेव परदुःखमभिनन्दन्तो दृश्यन्ते । एवमेव ये ऽकारणमेव परदुःखमभिनन्दनार्थामालम्बन्ते, ते ऽपि कल्याणमित्रसम्पर्कादिना केवलं परहितचिन्तने प्रवर्तमाना अवलोक्यन्ते । ये कल्याणमित्रसम्पर्कादिना केवलं परहितचिन्तने प्रवर्तमाना अवलोक्यन्ते । ये खल्वल्पमात्रके स्वसुखे हिते चासज्यमानाः परेषु दौर्मनस्यं धारयन्ति, ते ऽपि परेषु दौर्मनस्यविपरीतत्वेनाप्यवलोक्यन्ते । ये तावत् भवसुखभिलाषेण पुण्यानि सम्पादयन्ति, ते ऽपि भवसुखेच्छविपरीत्त्वेन सम्यक्कार्याण्यनुतिष्ठमाना अपि दृश्यन्ते । इत्थं साधनानामनियतत्वावबोधात् श्रद्धाया अनैयत्यमनुमीयते । फलततस्तत्रानुमानेन गोत्रभेदस्याप्यनियतस्वभावो ऽवबुध्यते । अतो गोत्रभेदस्याप्यनियततया कथं तावद् यानत्रयनिश्चयः साधयितुं शक्यः ।
सत्त्वनां विवुइधाशयवशेनापि गोत्रभेदो निश्चेतुं न शक्यते । यानि तावत् पञ्चाभिसमयगोत्राणि तान्यपि एकनिश्चयाभिप्रायेणैव निर्दिष्टानि, न त्वात्यन्तिकताया । तस्मिन्नेव हि सूत्रे गोत्राण्यनात्यन्तिकतयैव निर्दिष्टानि । तथा हि -
ऽसर्वकुशलमूलोत्सर्गेच्छन्तिको हि महामते, पुनरपि तथागताधिष्ठानात् कदाचित् कर्हिचित् कुशलमूलान् व्युत्थापयति । तत्कस्य हेतोः? यदुत अपरित्यक्ता हि महामते, तथागतानां सर्वसत्त्वाः" इति ।
फलतस्तथागताध्ष्ठानेन तावदपरे ऽप्यनुत्तरबोधौ प्रणिदधत इति ज्ञातव्यम् । यस्तावद् अक्षयमतिनिर्देशसूत्रे यान्त्रयनिर्देशः, सो ऽपि नैवाधारभूतः, यतो हि तथागता लोकस्य विविधाशयवशेन विविधानि यानानि निर्दिशन्तो धर्मोपदेशे प्रवर्तन्ते, न तु यनत्रयमात्रतया । एवमेव आर्यगण्डव्यूहेसूत्रे ऽप्युक्तम् -
"श्रीवैरोचनख्ये लोकधातौ तथाअतसमन्तज्ञानरत्नार्चिश्रीगुणकेतुराजेन अभिसम्बोधिरधिगता, तदनन्तदमेव तेन अप्रमेयाः सत्त्वाः श्रावकभूमौ प्रतिष्ठापिताः । अप्रमेयाः सत्त्वाः निर्याणायां भूमौ प्रतिष्ठापिताः । अप्रमेयाः सत्त्वाः इन्द्रियपरिशुद्धिप्रभावनानिर्यणायं बौधौ प्रतिष्ठापिताः । अप्रमेयाः सत्त्वाः विमलपराक्रमध्वजायां बोधौ परिपाचिताः । अप्रमेयाः सत्त्वाः बुद्धभूमौ प्रतिष्ठापिताः । अप्रमेयाः सत्त्वाः बलसमतासमुदाचारानुगमनिर्याणायां बौधौ प्रतिष्ठापिताः । अप्रमेयाः सत्त्वाः सर्वत्रानुतद्धर्यभिसम्भिन्ननययाननिर्याणायां बौधौ प्रतिष्ठापितः । अप्रमेयाः सत्त्वाः चर्याप्रयोगसमवसरणनयनिर्याणायां बौधौ प्रतिष्ठापिताः । अप्रेमेयः सत्त्वाः समाधिप्रस्थाननयनिर्यानायां बौधौ प्रतिष्ठापिताः । अप्रमेयाः सत्त्वाः सर्वारम्बणविषयपरिशुद्धिमण्डलनयनिर्याणायां बौधौ प्रतिष्ठापिताः । अप्रमेयाः सत्त्वाः बोधिसत्त्वबौधौ चित्तमुत्पादिताः । अप्रमेयाः सत्त्वाः बोधिसत्त्वमार्गे प्रतिष्ठापिताः" इति विस्तरः ।
भगवतापि बालजनप्रवेशार्थं यानभेदो व्यवस्थापितः, न तु नीतार्थतया निदिष्टः । अत एव अर्यलङ्कावतारे ऽप्युक्तम् -
"देवयानं ब्रह्मयानं श्रावकीयं तथैव च ।
तथागतं च प्रत्येकं यनानेतान् वदाम्यहम् ॥
यानानां नास्ति वै निष्ठा यावच्चित्तं प्रवर्तते ।
चित्ते तु वै परावृत्ते न यानं न च यानिनः ।
यानव्यवस्थानं नैवास्ति यानभेदं वदाम्यहम् ।
परिकर्षणार्थं बालाना यानभेदं वदाम्यहम्" ॥
अत एव आर्यसद्धर्मपुण्डरीकसूत्रादौ एकयाननिर्देशो नैव नेयार्थ इति प्रतिपादितम् तथा हि -
"एवं रूपेषु शारिपुत्र, कल्पसंक्षोभकषायेषु बहुसत्त्वेषु लुब्धेष्वल्पकुशलमूलेषु तदा शारिपुतर्, तथागता अर्हन्तः सम्यक्संबुद्धां उपायजौशल्येन तदैवैकं बुद्धयनं त्रियाननिर्देशेन निर्दिशन्ति" ।
पुनश्च
"इमेषु बुद्धधर्मेषु श्रद्दधाध्वं मे शारिपुत्र, पत्तीयतावकल्पयत । न हि शारिपुत्र, तथागतानां मृषावादः संविद्यते । एकमेवेदं शारिपुत्र, यानं यदिदं बुद्धायानम्" ।
पुनश्च
ये भुन्ति हीनाभिरता अविद्वसू अचीर्णचर्या बहुबुद्धकोटिषु ।
संसारलग्नश्च सुदुःखिताश्च निर्वाण तेषामुपर्दर्शयामि ॥
उपायमेतं कुरुते स्वयम्भू बौद्धस्य ज्ञानस्य प्रबोधनार्थम् ।
न चापि तेषां प्रवदे कदाचिद् युष्मे ऽपि बुद्धा इह लोकि भेष्यथ ॥
किं कारणं कालमवेक्ष्य तायी क्षणं च दृष्ट्वा ततु पश्च भाषते ।
सो ऽयं क्षणो अद्य कथञ्चि लब्धो वदामि येनेह च भूतश्चयम् ॥
बौद्धस्य ज्ञानस्य प्रकाशनार्थं लोके समुत्पद्यति लोकनाथः ।
एकं हि यानं द्वितियं न विद्यते न हीनयानेन नयन्ति बुद्धाः ॥
प्रतोष्ठितो यत्र स्वयं स्वयम्भूर्यच्चैव बुद्धं यथ यादृशं च ।
बलाश्च ये ध्यानविमोक्ष इन्द्रियास्तत्रैव सत्त्वा पि प्रतिष्ठापेति ॥
मार्त्सर्यदोषो हि भवेत मह्यं स्पृशित्व बोधिं विरजां विशिष्टाम् ।
यदि हीनयानस्मि प्रतिष्ठपेयमेकं पि सत्त्व न ममेतु साधु ॥
एकं हि यानं द्वितियं न विद्यते तृतीयं हि नैवास्ति कदाचि लोके ।
अन्यत्रुपाया पुरुषोत्तमानां यद्याननात्वुपदर्शयन्ति ॥
तत्र प्रज्वलितगृहान्तःस्थितान् बालजनान् बहिर्निष्कासयितुमुपायभूतस्य वाहनविशेषस्य दृष्टान्तद्वारा, तद्वदेव रत्नद्वीपस्थितं नायकपुरुषं निवर्तयितुमुपायभूतस्य मध्ये ऽरण्यं नगरनिर्माणस्य च दृष्टान्तद्वारा भगवान् उपायभूतानि यानि त्रीणि यानान्युपदिष्टवान्, स तावन्नेयार्थ एव । आर्यबोधिसत्त्वगोचरोपायविषयविकुर्वणनिर्देशे नाम महायानसूत्रे ऽप्युक्तम् -
"मञ्जुश्रीः, तस्मिन् बुद्धक्षेत्रे यानेनैकेन निर्यास्तीति तद् यानं तावत् सारवत् स्यादिति । नास्मासु श्रावकप्रत्येकबुद्धयानव्यवस्था । कथमिति चेत्? तथागता हि नानात्वसंज्ञाविराहिता इति हेतोः ।
यदि मञ्जुश्रीः, तथागताः कस्मैचिन्मयानं निर्दिशेयुः, कस्मैचित् प्रत्येकबुद्धयानम्, कस्मैचिच्च श्रावकयानं निर्दिशेयुस्तदा तथागतस्य तावच्चित्तम् अपरिशुद्धमभिनिवेशजुष्टं च स्यात् । प्रादेशिकी च तस्य महाकरुणा स्यान्नानात्वसंज्ञा च । धर्ममुष्टिश्चाचार्यस्य स्यात् । अपि च, मञ्जुशीः, येभ्यश्च सत्त्वेभ्यो ऽहं धर्ममुपदिशामि ते सर्वे बोधिनियता महायानपरायणाः सर्वज्ञताभिनिर्हताः पक्षैकनिष्ठाश्च भवन्ति । तदित्थं सर्वज्ञतमनुप्राप्नुवन्तीति । अतो नास्मासु यानव्यवस्थेति । मञ्जुश्रीः, या हि यानव्यवस्थाभिधीयते, तया सर्वज्ञेन भूमेर्व्यवस्था कृता, पुद्गलानां व्यवस्था कृता, अल्पसत्त्वसमूहस्य अप्रमेयसत्त्वसमूहस्य च व्यवस्था कृता । धर्मधातोरसम्भेदाद् यानभेदो ऽपि तावन्नास्ति । अनेन हि प्रस्थानद्वारं प्रदर्शितम् । प्रस्थाननिर्देशो ऽपि तावत् संवृतिरेव, न तु परमार्थः । अत एकमेव यानम्, न द्वितीयमिति ।"
आर्यश्रीमालासूत्रे ऽप्युक्तम् -
"यच्च परिनिर्वाणं यानि च त्रीणि यानान्युपदिष्टानि तत्सर्वं तथागतानामुपायमात्रम्, एकयानावबोधेन अनुत्तरसम्यक्संबोधेरधिगमात् ।" अत एव एकयाननिर्देशस्तावदाभिप्रायिक इति वचनस्य धर्मधातुलक्षणे सर्वयानानां समत्वादेकयानमिति कथनं तावन्नास्त्यार्यसद्धर्मपुण्डरीकाद्यनुकूलमिति नियतं विद्वद्भिरवधार्यम्, नैव तदभिप्रायवशादुक्तमिति ज्ञेयम् । आर्यदशधर्मादौ यानत्रयनिर्देशस्तु उपायस्वरूपत्वाद् विनेयजनेभ्यः स एकयाननिर्देशाभिप्रायेणैव विहित इत्येव निश्चेयम् । अतो यानत्रयनिर्देशस्तावद् बुद्धनामुपायमात्रम्, न तु वास्तविक इत्यतो विनेयजना नैव तेषु प्रवर्तन्ते । महायानसूत्राकङ्कारे हि - एकस्य यानस्य च या हि देशना तदानुकूल्येन प्रयोजनेन सा । इति यदुक्तं तच्छ्रावकाणां यद्यनुशयसमुच्छेदो जायेत तदा जातेरपि सर्वथोपच्छेदाद् अनेकजन्मपरम्परासमुदागतं बुद्धात्वं कथं नाम साध्यं स्यादिति कथनं तु तेषां जातेः सर्वथोपच्छेदस्यासिद्धत्वान्नैव युक्तम् । आर्यश्रीमालासिंहनादसूत्रे चोक्तम् -
"अर्हतो ऽपि विनाशसद्भावात्तत्संत्रासेन तावदर्हन्तः प्रत्येकबुद्धा अपि भगवतः शरणं प्रतिपद्यन्ते, सोपधिशेषधर्मित्वाद् भगवन् श्रावकार्हतां प्रत्येकबुद्धानाम्, जन्मक्षयाभावाच्च भगवन्, तेषाम् । अतो भवत्येव तेषां जन्म । भवन्त्येव ते सोपधिपेषाः, नैव जन्मता, अपितु कर्मणां पारिपूरेरभावाद् बहुकरणीयावशेषाच्च । यदि नैव ते तेषां परिहारं कुर्वीरन् तदा सन्त्यनेके निर्वाणधातोरपसारकास्तेषु प्रहातव्यधर्मा..." इति विस्तरः ।
यश्च जातिक्षय इत्यादिना क्षयानुत्पादज्ञानयोः समुद्भवस्तस्य नेयार्थत्वं तु तमिन्नेव सूत्रे निर्दिष्टम् । तथा हि -
"भगवन्, अर्हन्तां प्रत्येकबुद्धानां विमुक्तिं यावद् यत् प्रत्येक्षणाज्ञानं याश्चाश्वासाधायिकाश्चतस्त्रो ऽनुस्मृतयस्तत् सर्वमाभिप्रायिकम्, यानानां नेयार्थत्वेन विभागं कृत्वा व्याकरणात् । भगवत्, तत्किमर्थमिति चेत्? द्विधा भवति च्युतिःसमुच्छेदिका च अचित्यपरिणामिनी चेति । तत्र समुच्छेदिका च अचिन्त्यपरिणामिनी चेति । तत्रसमुच्छेदिका तावच्च्युतिः प्रतिसन्दधतां सत्त्वानामेव । भगवन्, अर्हतां प्रत्येकबुद्धानां वशिताप्राप्तबोधिसत्त्वानां च मनोमयकायस्य च्युतिस्तु बोधिमण्डपर्यन्तम् अचिन्त्यपरिणामिन्येव भवति । भगवन्, अनयोर्दयोश्च्युत्योः समुच्छेदच्युतेरधिकारे तावदर्हतां प्रत्येकबुद्धानां जातिक्षयो जायत इति प्रतीयते........ इतिऽ विस्तरः ।
अनयोस्तावच्च्युत्योरविद्यावासभूमिप्रत्ययैरनास्त्रवकर्महेतुभिः समुद्भूता जातिस्तु भवत्येवेति निर्दिष्टम् । तथा हि -
"भगवन्, यदुत उपादानप्रत्ययाः सास्त्रवकर्महेतुकास्त्रयो भवाः सम्भवन्ति । एवमेव भगवन्, अविद्यावासभूमिप्रत्यया अनास्त्रवकर्महेतुका अर्हतां प्रत्येकबुद्धानां वशिताप्राप्तानां बोधिसत्त्वानां च मनोमयास्त्रयः कायाः सम्भवन्ति.....इति" विस्तरः ।
आर्यलङ्कावतारसूत्रे चापि निर्दिष्टं यद् धातुत्रयातिक्रान्त अपि ते ऽनास्त्रवधातौ अवस्थिता भवन्ति । अतस्तथागताधिष्ठानेन जातिवशितां प्राप्य सम्भारद्वयं च परिपूर्य ते बुद्धत्वमवाप्नुवन्तीति । तथा हि -
"प्रहीणा भवन्ति धर्मनैरात्म्यावबोधात्, तदा ते वासनादोषसमाधिमदाभावादनास्त्रवधातौ प्रतिविबुध्यन्ते । पुनरपि लोकोत्तरानास्त्रवधातुपर्यापन्नान् सम्भारान् परिपूर्य अचिन्त्यधर्मकायवशवर्तीतां प्रतिलप्स्यन्ते ।
यथा हि काष्ठमुदधेस्तरङ्गैर्विप्रवाह्यते ।
तथा हि श्रवको मूढो लक्षणेन प्रवाह्यते ॥
वासनाक्लेशसम्बद्धाः पर्युत्थानैर्विसंयुताः ।
समाधिमदमत्तास्ते धातौ तिष्ठन्त्यनास्त्रवे ॥
निष्ठागतिर्न तस्यास्ति न च भूयो निर्वर्तते ।
समाधिकायं सम्प्राप्य आकल्पान्न प्रबुध्यते ॥
यथा हि मत्तपुरुषो मद्याभावाद् विबुध्यते ।
तथा ते बुद्धधर्माख्यं कायं प्राप्स्यन्ति मामकम् ॥
अत्र खलु काष्ठोदध्युपमया भवसागरे प्रवहमानत्वं निर्दिष्टम् । तरङ्गोपमया तावद् धर्मलक्षणं प्रति अभिनिवेशवशात् परिनिर्वाणं न प्राप्यत इति सङ्केतितम् । ऽवासनाक्लेशसम्बद्धाःऽ इत्यादिना तु अविद्यावासनाभूमिबन्धनेनाविमुक्ताः, क्लेशपर्यत्थानैश्च विसंयुक्ता इति । ऽनिष्ठागतिर्न तस्यास्तिऽ इत्यादिना तावन्निर्वाणनगरे ऽप्रविष्टास्तथा भवसागरे ऽपि न भ्रमन्तीति । अनास्त्रवसमाधिसम्प्रयुक्तत्वाद् अनेककल्पपर्यन्तमनास्त्रवधातौ स्थितिः, तदन्तरं ततो व्यत्थाय सम्भारान् परिपूर्य बुद्धत्वावाप्तिरित्यादिकं स्पष्टतया निर्दिष्टम् ।
यच्चाप्यार्यलङ्कावतारादिसूत्रेषु निर्मितश्रावकानधिकृत्य श्रावकव्याकरनं कृतं तद्धीनाधिमुक्तसत्त्वानां भयपरिहारार्थं यानत्रयनिर्देशोपायप्रदर्शनार्थं चेति ज्ञातव्यम् । अवैवर्तचक्रसूत्रे ऽप्युक्तम् -
"सर्वेषु लोकधातुषु सर्वबुद्धानां धर्मोपदेशस्तावदवैवर्तचक्रसमानतया समान इति । मर्त्यलोकधातुसत्त्वास्तु पञ्चकषायकाले समुत्पद्यमाना हीनाधिमुक्ता एव । अतस्ते एकयानोद्देश्यं नैव परिपालयन्ति, न च तस्मिन्नधिमुच्यन्ते । अतो ऽनया युक्त्या ते सत्त्वा बुद्धत्वं प्रत्यभिमुखीक्रियन्त इति ।"
आस्त्रवाणां क्षयादर्हन्तो यदि न प्रतिसन्दधते, अतो ऽनेकजन्मपरमपरासाध्यं बुद्धत्वं न प्रतिलभन्त इति तदा बोधिपरिणामितानामप्यर्हतां न प्रतिसन्धिर्न च तेषु बुद्धात्वाधिगम इति । यदि प्रणिधानबलेन तथागताधिष्ठानेन च तेषां प्रतिसन्धिरभ्युपगम्यते, तदा कथं नापरेष्वपि तथा? यथोक्तमार्यप्रज्ञापारमितायाम् -
"अपि च, यदि ते ऽनुत्तरसम्यक्संबोधौ चित्तमुत्पादयन्ति, तदा अनुमोदयिष्यामि, नाहं तेषां कुशलमूलनां विघ्नं करिष्यामि । शुद्धधर्मविशेषैः शुद्धधर्मविशेषाध्युपालम्भः करणीय इति ।"
यदि ते सर्वेण सर्वमनुत्तरसम्यक्संबोधेये अभव्या इति तदा कथं नाहं तेषां कुशलमूलानां विघ्नं न करिष्यामीत्युक्तम् । अत्यन्ताभावेषु नैव विध्नसम्भवः । अवस्थाविशेषाभिप्रायेणैव शान्तस्यैकायनस्य कथनं नियतम्, न तु सर्वदैव नियताभिप्रायेणेति ज्ञेयम् । आर्यसद्धर्मपुण्डरीकसूत्रे ऽयुक्तम् -
"भिक्षुर्वा भिक्षुणी वार्हत्त्वं प्रतिजानीयादनुत्तरायां सम्यक्संबोधौ प्रणिधानं परिगृह्योच्छिन्नो ऽस्मि बुद्धायानादिति वदेदेतावन्मे समुच्छ्रयस्य पश्चिमकं परिनिर्वाणं वदेदाभिमानिकं तं शारिपुत्र, प्रतिजानीयाः ।"
अर्हन्तस्तावत् क्लेशक्षयहेतोः सर्वथा नैव प्रतिसन्दधते, तथात्वात् । ये खलु सत्यदर्शिनः श्रावकाः, ये च कामधातुरागरहिता अनागामिनस्ते बुद्धगोत्रका इति । द्विविधा अपि ते ऽनुत्तरसम्यक्संबोधौ व्याकृताः अचिन्त्यपरिणामिन्या जात्या युक्तत्वात्तेषामिति यत् कथनं तदप्यार्यश्रीमालासिंहनादआर्यप्रज्ञापारिमिताआर्यदशधर्मकसूत्रादिविरुद्धम् । तेषु केवलमर्हत एव प्रतिसम्धिरुपदिष्टा, न त्वनागामिनामिति । तत्रार्यमालासिंहनादसूत्रं तु पूर्वमेवोद्धृतम् । आर्यप्रज्ञापारमिताशुत्रे चोक्तम् -
"अर्हत्त्वं समधिगम्य यदि स सम्यक्संबोधिमभिलषते तदा कथं नाम अजातिं लब्धुं शक्नोति, परिजनता खलु भगवता तस्य जातेर्व्याकृतत्वात् । भगवानाह - मैत्रेय, नाहं कर्मक्लेशवशाज्जातिं प्रज्ञपयामि, अपितु अचित्यपरिनिर्वाणे परिणामनया तस्य जातिं प्रज्ञपयामिति" ।
आर्यदशधर्मकसूत्रे ऽप्युक्तम् -
"भगवन्, श्रावकाः क्षीणास्त्रवाः, परिक्षीणभवसंयोजनगोत्रकास्तथापि कथं ते ऽनुत्तरसम्यक्सम्बोधिमभिसम्बोद्धुं शक्ष्यन्ते? भगवानह - शृणु कुलपुत्र, तस्य दृष्टान्तम् । तथैवास्ति यथा कुलपुइत्र, क्षत्रियकुले ऽभिषिकः कश्चन राजकुमारो यदि सर्वासां शिल्पविद्यानामध्ययनं करोति । स नास्ति तीक्ष्णेन्द्रियो ऽपि तु मन्देन्द्रियः सन् पश्चादध्येयस्य पाठयस्य प्रथमम्, पूर्वमध्येयस्य पाठयस्य पश्चादध्ययनं करोति, तदा किं विचारयसि कुलपुत्र, किमेतावता स नास्ति राजकुमार इति कथयिष्यते? अवोचत् - नैव भगवन्, नैव सुगत, राजकुमार एव स कथयिष्यते । भगवानाहकुलपुत्र, तथैव बोधिसत्त्वगोत्रका अपि ये मन्देन्द्रियास्ते पूर्वं भावनामार्गेण क्लेशक्षयं कृत्वा पश्चादनुत्तरसम्यक्संबोधौ अभिसम्बुद्धा भविष्यन्तीति ।" विस्तरः ।
यच्च "सार्वगतिका बुद्धा भविष्यन्ति" इत्युक्तम्, तदर्थस्तावत् सर्वेषां बुद्धत्वसामीप्यापेक्षाभिप्रायेणेति - यदुक्तं तदपि स्वेच्छामात्रोपकल्पितत्वादयुक्तमेव । सार्वगतिकानां भव्यतां दृष्ट्वा तथोक्तमित्यत्र को विरोधः । तथैव चार्यरत्नमेघादिसूत्रेष्वपि भगवतः शाक्यमुनेर्नामश्रवणमात्रेण अवैवर्तिकबीजारोपणाद् अभेदेन सर्वे सत्त्वा अवैवर्तिकत्वे व्याक्रियन्ते, न तु सामीप्यापेक्षया । अतो येन श्रावणं येन वा श्रवणं यश्च श्रोता तेषवपि अवैवर्तिकबीजानि विद्यन्त एव, यतो हि भवतां मते ऽपि मलानामागन्तुकत्वाच्चित्तं प्रकृत्या प्रभास्वरमभ्युपगम्यते । अतः सार्वगतिकास्तदर्शं भव्या एव । अस्तदभिप्रायेण तथाभिधानं युज्यत एव ।
सर्वे सत्त्वास्तथागतगर्भा इति यदुक्तं तेन सर्वे ऽप्यनुत्तरसम्यक्संबोधिपदप्राप्तियोग्या एवोपदर्शिताः, यतो हि तथागतश्ब्दो धर्मधातुः पुद्गलधर्मनैरात्म्यलक्षणः प्रकृत्या प्रभास्वरश्चेत्येतेष्वर्थेष्वभ्युपगम्यते । तथा च निर्देशेन सर्वे ऽनुत्तरसम्यक्संबोधिस्वभावा एव निर्दिष्टाः ।
अपि च, ऽयानम्ऽ इति यदुक्तं तदपि निर्वाणगरप्रापको ज्ञानात्मको मार्ग एवेत्युक्तम्, यायते ऽनेनेति कृत्वा । तत्त्वज्ञानादेव हि मोक्षमधिगन्तुं शक्यते, नान्यस्मात् । तत्त्वमप्येकमेव, अन्यथानवस्थाप्रसङ्गः । दृष्टिभेदे ऽपि वस्तुतत्त्वं नानेकरूपेषु विभाजयितुं शक्यते । एकस्वभावत्वात्तत्त्वस्य, तद्विषयि ज्ञानमप्येकस्वभावमेव । अधिगततत्त्वनां बुद्धबोधिसत्त्वानां यज्ज्ञानं तदपि तत्त्वविषयकाभिज्ञानस्वरूपमेव, सर्वसंक्लेशप्रतिपक्षत्वात्तस्य । न हि प्रादेशिकैर्ज्ञानैस्तत्त्वबोधो ऽतिप्रसङ्गात् । तथा सति सर्वे तत्त्वदर्शिनः स्युः । अतो यत्तावत् पुद्गलधर्मनैरात्म्यतत्त्वसाक्षात्कारि ज्ञानं तदेव निर्वाणप्रापकः सम्यङ् मार्गो नान्यः । अत एकमेव यानमिति ।
एत एव भगवता नान्येन तावन्मार्गेण मोक्ष इति निर्दिष्टम् । आर्यलङ्कावतारसूत्रे चोक्तम् -
"यदुत अन्ये पुनर्महामते, कारणाधिनान् सर्वधर्मान् दृष्ट्वा निर्वाणगतिबुद्धयो भवन्ति, धर्मनैरात्म्यदर्श्नाभावान्नास्ति मोक्षो महामते । एषा महामते, श्रावकयानाभिसमयगोत्रकस्यानिर्यणनिर्याणबुद्धिः । अत्र ते महामते, कुदृष्टिव्यावृत्त्यर्थं योगः करणीयः" इति ।
आर्यप्रज्ञापारमितासूत्रे ऽपि भगवता प्रोक्तम् -
"यद् द्वयं तद् वस्तु, अद्वयं तु अवस्तु । अवोचत् - भगवन्, किं तावद् द्वयम्? भगवानाह - सूभूते, रूपसंज्ञैव द्वयम्, तथैव स्कन्धधातुस्पर्शवेदनाधातुषट्कप्रतीत्यसमुत्पादध्यानारूप्यदुःखनैरात्म्यसुखसत्त्वादीनां संज्ञा" इति । इत्यादिकं विस्तरेण तावन्निर्दिश्य -
"यावद्धि संज्ञा तावद् द्वयम् । यावद् द्वयं तावद् वस्तु । यावद् वस्तु तावत् संसारः । यवाच्च संसारस्तावन्नास्ति सत्त्वानां मोक्षः" इति ।
इत्यनेन प्रक्रारेण द्वयसंज्ञानुकूला क्षान्तिरपि तावदसत्त्वेन ज्ञानव्येति प्रकटितम् । आर्यसत्यद्वयावतारसूत्रे ऽपि प्रज्ञप्तं यत् सर्वक्लेशानां मूलं भावाभिनिवेश एव । अत एव सर्वधर्मनिःस्वभावभावनयैव तावत् क्लेशाः परिहर्तुं शक्यन्ते, नान्येन केनचिन्मार्गेणेति कृतो निर्देशः । तथा हि -
"कथं मञ्जुश्रीः, क्लेशा विनयं गच्छन्ति, कथं क्लेशाः परिज्ञाता भवन्ति? मञ्जुश्रीराहपरमार्थतो ऽत्यान्ताजातानुत्पन्नाभावेषु सर्वधर्मेषु संवृत्यासद्विपर्यासः । तस्माद् असदविपर्यासात् संकल्पविकल्पः । तस्मात् संकल्पविकल्पाद् अयोनिशोमनसिकाराअद् आत्मसमारोपः । तस्माद् आत्मसमारोपाद् दृष्टिपत्युत्थानम् । तस्माद् दृष्टिपर्युत्थानात् क्लेशाः प्रवर्तन्ते । यः पुनर्देवपुत्र, परमार्थतो ऽत्यन्ताजातानुत्पन्नाभावान् सर्वधर्मान् प्रजानाति, स परमार्थतो ऽविपर्यस्तः । यश्च परमार्थतो ऽविर्यस्तः सो ऽविकल्पः । यश्चविकल्पः स योनिशः प्रयुक्तः । यश्च योनिशः प्रयुक्तः, तस्यात्मसमारोपो न भवति । यस्यात्मसमारोपो न भवति तस्य दृष्टिपर्युत्थानं न भवन्ति । यावत् परमार्थतो निर्वाणदृष्टिसर्वदृष्टिपर्युत्थानमपि न भवन्ति । तस्यैवम् अनुत्पादविहारिणः क्लेशा अत्यन्तंं विनीता द्रष्टव्या । अयमुच्यते क्लेशविनयः । यदा देवपुत्र, क्लेशान् निराभासेन ज्ञानेन परमार्थतो ऽत्यन्तशून्यान् अत्यन्ताभावान् अत्यन्तनिर्निमित्तान् प्रजानाति, तदा देवपुत्र, क्लेशाः परिज्ञाता भवन्ति । तत्र यथापि नाम देवपुत्र, य आशीविषस्य गोत्रं प्रजानाति , स तस्याशीविषयस्य विषं शमयति । एवमेव देवपुत्र, यः क्लेशानां गोत्रं प्रजानाति, तस्य क्लेशाः प्रशाम्यन्ति । देवपुत्र आहकतमन् मञ्जुश्रीः, क्लेशानां गोत्रम्? आह - यावदेषा परमार्थतो ऽत्यन्ताजातानुत्पन्नाभावेषु सर्वधर्मेषु कल्पना, इदं क्लेशानां गोत्रम्" इति विस्तरः ।
फलतः सर्वधर्मशून्यताभावनयैव तावन्निःश्रेयसनगरप्रवेशः । अतस्तदर्थिनो ये कल्याणमिच्छन्ति, तैः कुमार्गविचारान् दूरत एव परित्यज्य महात्मभिर्यो हि युक्त्यागमप्रदीपः प्रकाशीकृतः सद्भिश्च पुरुषैः [यः] मुहुर्मुहुरावेदितः स सादरं निरन्तरं च सदा सेवनीयः । अतश्च एकमेव यानम्, सर्वे च धर्माः परमार्थतो निः स्वाभावा इति सिध्यति ।
॥ आचार्यकमलशीलप्रणीतं मध्यमालोकाख्यं शास्त्रं समाप्तम् ॥
भारतीयोपाध्याशीलेन्द्रबोधिना भोटदेशीयानुवादकेन द्पल ब्र्चेगस् महाभागेन चानूदितम् ।
शुभमस्तु
मूल पाठ: Madhyamakāloka · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0