भाषा

ENहिગુ
ग्रंथ पाठ

मधुसूदनस्तोत्रम् · अध्याय 1

1

श्री गणेशाय नमः ॥
ओमिति ज्ञानमात्रेण रोगाजीर्णेन निर्जिता ।
कालनिद्रां प्रपन्नोऽस्मि त्राहि मां मधुसूदन

2

न गतिर्विद्यते चान्या त्वमेव शरणं मम ।
पापपङ्के निमग्नोस्मि त्राहि मां मधुसूदन

3

मोहितो मोहजालेन पुत्रदारगृहादिषु ।
तृष्णया पीड्यमानोऽस्मि त्राहि मां मधुसूदन

4

भक्तिहीनं च दीनं च दुःखशोकातुरं प्रभो ।
अनाश्रयमनाथं च त्राहि मां मधुसूदन

5

गतागतेनश्रान्तोस्मि दीर्घसंसारवत्मर्स्तु ।
येन भूयो न गच्छामि त्राहि मां मधुसूदन

6

वहवो हि मया दृष्टाः क्लेशाश्चैव पृथक् पृथक् ।
गर्भवासे महद्दुःखं त्राहि मां मधुसूदन

7

तेन देव प्रपन्नोस्मि त्राणार्थं त्वत्परायणः ।
दुःखार्णवपरित्राणात् त्राहि मां मधुसूदन

8

वाचा यच्च प्रतिज्ञातं कर्मणा तोपपादितम् ।
तत्पापार्जितमग्नोस्मि त्राहि मां मधुसूदन

9

सुकृतं न कृतं किञ्चिद्दुष्कृतं च कृतं मया ।
संसारघोरे मग्नोस्मि त्राहि मां मधुसूदन

10

देहान्तरसहस्त्रेषु चान्योन्यभ्रामितो मया ।
तिर्यक्त्वं मानुष्त्वं च त्राहि मां मधुसूदन

11

वाचयामि यथोन्मत्तः प्रलपामि तवाग्रतः ।
जरामरणभीतोस्मि त्राहि मां मधुसूदन

12

यत्र यत्र च यातोस्मि स्त्रीषु वा पुरुषेषु च ।
तत्र तत्राचला भक्तिस्त्राहि मां मधुसूदन

13

गत्वा गत्वा निवर्तन्ते चन्द्रसूर्यादयो ग्रहाः ।
अद्यापि न निबर्त्तन्ते द्वादशाक्षरचिन्तकाः

14

ऊर्ध्वपातालमर्त्येषु व्याप्तं लोकं जगत्त्रयम् ।
द्वादशाक्षरात्परं नास्ति वासुदेवेन भाषितम्

15

द्वादशाक्षरं महामन्त्रं सर्वकामफलप्रदम् ।
गर्भवासनिवासेन शुकेन परिभाषितम्

16

द्वादशाक्षरं निराहारो यः यः पठेधरिवासरे ।
स गच्छेद्वैष्णवस्थानं यत्र योगेश्वरो हरिः

इति श्रीशुकदेवविरचितं मधुसूदनस्तोत्रं संपूर्णम् ॥

मूल पाठ: madhusūdanastotram · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc