भाषा

ENहिગુ
ग्रंथ पाठ

Lalitavistara · अध्याय 27

27.1

इति ॥
इति श्रीललितविस्तरे धर्मचक्रप्रवर्तनपरिवर्तो नाम षड्विंशतितमो ऽध्यायः ॥
स्तर्त् परिवर्त 27
निगमपरिवर्तः सप्तविंशः ।
अथ खलु देवपुत्रा यैस्तथागतो ऽधीष्टो ऽभूदस्य धर्मपर्यायस्य संप्रकाशनाय सह महेश्वरनन्दसुनन्दचन्दनमहितशान्तप्रशान्तविनीतेश्वरप्रमुखा अष्टादशः शुद्धावासकायिका देवपुत्रसहस्राणि ये तथागतस्य धर्मचक्रप्रवर्तने ऽपि संनिपतिता अभूवन् । तत्र भगवांस्तान् महेश्वरदेवपुत्रप्रमुखान् शुद्धावासकायिकान् देवपुत्रानामन्त्रयते स्म - अयं स मार्षा ललितविस्तरो नाम धर्मपर्यायसूत्रान्तो महावैपुल्यबोधिसत्त्वविक्रीडितः बुद्धविषये ललितप्रवेश आत्मोपनायिकस्तथागतेन भाषितः । तं यूयमुद्गृह्णीध्वं धारयत वाचयत च । एवमियं धर्मनेत्री वैस्तारिकी भविष्यति । बोधिसत्त्वयानिकाश्च पुद्गला इमं धर्मपर्यायं श्रुत्वा दृढतरं वीर्यमालप्स्यन्ते । अनुत्तरायां सम्यक्संबोधावुदाराधिमुक्तिकाश्च सत्त्वा महाधर्मवर्षवेगं संजानयिष्यन्ति । मारपक्षश्च निगृहीतो भविष्यति । सर्वपरप्रवादिनश्चावतारं न लप्स्यन्ते । युष्माकं च तद्धर्मदेशनाध्येषणा कुशलमूलं महार्थिकं भविष्यति महाफलं महानुशंसम् ॥
यः कश्चिन्मार्षा अस्य ललितविस्तरस्य धर्मपर्यायस्याञ्जलिं संप्रगृहीतं करिष्यति, सो ऽष्टावुत्कृष्टान् धर्मान् प्रतिलप्स्यते । कतमानष्टौ? तद्यथा - उत्कृष्ट रूपं प्रतिलप्स्यते । उत्कृष्टबलं प्रतिलप्स्यते । उत्कृष्टपरिवारं प्रतिलप्स्यते । उत्कृष्टप्रतिभानं प्रतिलप्स्यते । उत्कृष्टनैष्क्रम्यं प्रतिलप्स्यते । उत्कृष्टचित्तपरिशुद्धिं प्रतिलप्स्यते । उत्कृष्टसमाधिपदं प्रतिलप्स्यते । उत्कृष्टप्रज्ञावभासं प्रतिलप्स्यते । इमान्यष्टावुत्कृष्टान् धर्मान् प्रतिलप्स्यते ॥
यः कश्चिन्मार्षा इमं ललितविस्तरं धर्मपर्यायं भाषितुकामस्य धर्मभाणकस्य धर्मासनं प्रज्ञापयिष्यति, तस्याष्टावासनप्रतिलम्भाः प्रतिकाङ्क्षितव्याः सहप्रज्ञप्ते आसने । कतमे ऽष्टौ? तद्यथा - श्रेष्ठ्यासनप्रतिलम्भः । गृहपत्यासनप्रतिलम्भः । चक्रवर्त्यासनप्रतिलम्भः । लोकपालासनप्रतिलम्भः । शक्रासनप्रतिलम्भः । वशवर्त्यासनप्रतिलम्भः । ब्रह्मासनप्रतिलम्भः । बोधिमण्डवराग्रगतस्य बोधिसत्त्वभूतस्याप्रत्युदावर्त्यनिहतमारप्रत्यर्थिकसिंहासनप्रतिलम्भः । अनुत्तरासम्यक्संबोधिमभिसंबुद्धस्य अतो ऽनुत्तरधर्मचक्रप्रवर्तनासनप्रतिलम्भश्च प्रतिकाङ्क्षितव्यः । इमे ऽष्टावासनप्रतिलम्भाः प्रतिकाङ्क्षितव्याः ॥
य कश्चिन्मार्षा इमं ललितविस्तरं धर्मपर्यायं भाषमाणाय साधुकारं दास्यति, सो ऽष्टौ वाक्परिशुद्धीः प्रतिलप्स्यते । कतमा अष्टौ? तद्यथा - यथावादितथाकारितां सत्यानुपरिवर्तिवाक्कर्मपरिशुद्ध्या । आदेयवचनतां पर्षदभिभवनतया । ग्राह्यवचनतां अनुद्धुरतया । श्लक्ष्णमधुरवचनतां अपारुष्यसत्त्वसंग्रहणतया । कलविङ्करुतस्वरतां कायचित्तोद्बिल्यकरणतया । तदुक्तवचनतां सर्वसत्त्वैरनभिभवनतया । ब्रह्मस्वरतां सर्वस्वराभिभवनतया । सिंहघोषाभिगर्जितस्वरतां सर्वपरप्रवादिभिरनभिभवनतया ।
( वैद्य 317 ) बुद्धस्वरतां सर्वसत्त्वेन्द्रियपरितोषणतया । इमा अष्टौ वाक्कर्मपरिशुद्धीः प्रतिलप्स्यते ॥
यः कश्चिन्मार्षा इमं ललितविस्तरं धर्मपर्यायं पुस्तकलिखितं कृत्वा धारयिष्यति सत्करिष्यति गुरुकरिष्यति मानयिष्यति पूजयिष्यति, अमात्सर्यचित्ततया चतुर्दिशमस्य धर्मपर्यायस्य वर्णनां भाषिष्यते वर्णनां चोच्चारयिष्यति - आगच्छतेमं धर्मपर्यायं लिखितं धारयत वाचयत चिन्तयत स्वाध्यायतेति, सो अष्टौ महानिधानानि प्रतिलप्स्यते । कतमान्यष्टौ महानिधानानि? यदुत स्मृतिनिधानं असंमोषणतया । मतिनिधानं बुद्धिप्रभेदनतया । गतिनिधानं सर्वसूत्रान्तार्थगत्यनुरागतया । धारणीनिधानं सर्वश्रुताधारणतया । प्रतिभाननिधानं प्रतिलभते सर्वसत्त्वसुभाषितसंभाषणतया । धर्मनिधानं प्रतिलभते सद्धर्मप्रतिलक्षणतया । बोधिचित्तनिधानं त्रिरत्नवंशानुपच्छेदनतया । प्रतिपत्तिनिधानं चानुत्पत्तिकधर्मक्षान्तिप्रतिलम्भतया । इमान्यष्टौ निधानानि प्रतिलप्स्यते ॥
यः कश्चिन्मार्षा इमं ललितविस्तरं धर्मपर्यायं सुप्रवर्तितं कृत्वा धारयिष्यति, सो ऽष्टौ संभारान् परिपुरयिष्यति । कतमानष्टौ? तद्यथा - यदुत दानसंभारं परिपूरयिष्यति अमात्सर्यचित्ततया । शीलसंभारं परिपूरयिष्यति सर्वकल्याणाभिप्रायपरिपूरणतया । श्रुतसंभारं परिपूरयिष्यति असङ्गप्रज्ञासमुदानयनतया । शमथसंभारं परिपूरयिष्यति सर्वसमाधिसमापत्त्यामुखीकरणतया । विदर्शनासंभारं परिपूरयिष्यति त्रैविद्यविद्याप्रतिपूर्या । पुण्यसंभारं परिपूरयिष्यति लक्षणानुव्यञ्जनबुद्धक्षेत्रालंकारविशुद्ध्या । ज्ञानसंभारं परिपूरयिष्यति सर्वसत्त्वयथाधिमुक्तिसंतोषणतया । महाकरुणा संभारं परिपूरयिष्यति सर्वसत्त्वपरिपाचनापरिखेदतया । इमानष्टौ संभारान् परिपूरयिष्यति ॥
यः कश्चिन्मार्षा इमं ललितविस्तरं धर्मपर्यायं परेभ्यश्च विस्तरेण संप्रकाशयिष्यति, एवंचित्तो यदुत कथममी सत्त्वा एषामेवरूपाणां धर्माणां लाभिनो भवेयुरिति, स तेन कुशलमूलेनाष्टौ महापुण्यताः प्रतिलप्स्यते । कतमा अष्टौ? तद्यथा - राजा भवति चक्रवर्ती, इयं प्रथमा महापुण्यता । चतुर्महाराजकायिकानां देवानामाधिपत्यं कारयिष्यति, इयं द्वितीया महापुण्यता । शक्रो भविष्यति देवेन्द्रः इयं तृतीया महापुण्यता । सुयामो भविष्यति देवपुत्रः, इयं चतुर्थी महापुण्यता संतुषितो भविष्यति, इयं पञ्चमी महापुण्यता । सुनिर्मितो भविष्यति, इयं षष्ठी महापुण्यता । वशवर्ती भविष्यति देवराजः, इयं सप्तमी महापुण्यता । ब्रह्मा भविष्यति महाब्रह्मा, इयं अष्टमी महापुण्यता । अन्ते च तथागतो भविष्यति अर्हन् सम्यक्संबुद्धः सर्वाकुशलधर्मप्रहीनः सर्वकुशलधर्मसमन्वागतः । इमा अष्टौ महापुण्यताः प्रतिलप्स्यते ॥
यः कश्चिन्मार्षा इमं ललितविस्तरं धर्मपर्यायं भाष्यमाणमवहितश्रोतः श्रोष्यति, सो ऽष्टौ चित्तनिर्मलताः प्रतिलप्स्यते । कतमा अष्टौ? तद्यथा - यदुत मैत्रीं प्रतिलप्स्यते सर्वदोषनिर्घाताय । करुणां प्रतिलप्स्यते सर्वविहिंसोत्सर्गाय । मुदितां प्रतिलप्स्यते सर्वारत्यपकर्षणतायै । उपेक्षां प्रतिलप्स्यते अनुनयप्रतिघोत्सर्गाय । चत्वारि ध्यानानि प्रतिलप्स्यते सर्वरूपधातुवशवर्तितायै । चतस्र ( वैद्य 318 ) आरूप्यसमापत्तीः प्रतिलप्स्यते चित्तवशवर्तितायै । पञ्चाभिज्ञाः प्रतिलप्स्यते अन्यबुद्धक्षेत्रगमनतायै । सर्ववासनानुसंधिसमुद्धारं प्रतिलप्स्यते शूरंगमसमाधिप्रतिलम्भाय । इमा अष्टौ चित्तनिर्मलताः प्रतिलप्स्यते ॥

यस्मिंश्च मार्षा ग्रामे वा नगरे वा निगमे वा जनपदे वा जनपदप्रदेशे वा चंक्रमे वा विहारे वा अयं ललितविस्तरो धर्मपर्यायः प्रचरिष्यति, तत्राष्टौ भयानि न प्रभविष्यन्ति स्थापयित्वा पूर्वकर्मविपाकम् । कतमान्यष्टौ? तद्यथा - यदुत राजसंक्षोभभयं न भविष्यति । चौरसंक्षोभभयं न भविष्यति । व्यालसंक्षोभभयं न भविष्यति । दुर्भिक्षकान्तारसंक्षोभभयं न भविष्यति । अन्योन्यकलहविवादविग्रहसंक्षोभभयं न भविष्यति । देवसंक्षोभभयं न भविष्यति । नागसंक्षोभभयं न भविष्यति । यक्षसंक्षोभभयं न भविष्यति । सर्वोपद्रवसंक्षोभभयं न भविष्यति । इमानि मार्षास्तत्राष्टौ भयानि न भविष्यन्ति (स्थापयित्वा पूर्वकर्मविपाकम्) ॥
संक्षेपान्मार्षा यदि तथागतः कल्पस्थितिकेनायुष्प्रमाणेन रात्रिंदिवमधिष्ठमानो ऽस्य धर्मपर्यायस्य वर्णं भाषते, नैवास्य धर्मपर्यायस्य वर्णपर्यन्तो भवेन्न च तथागतप्रतिभानस्य क्षयो भवेत् । अपि तु खलु पुनर्मार्षा यथैव तथागतस्य शीलसमाधिप्रज्ञाविमुक्तिज्ञानदर्शनमप्रमाणमपर्यन्तम्, एवमेव मार्षा य इमं धर्मपर्यायमुद्ग्रहीष्यति धारयिष्यति वाचयिष्यति लिखिष्यति लेखयिष्यति पर्यवाप्स्यति प्रवर्तयिष्यति, पर्षन्मध्ये च विस्तरेण संप्रकाशयिष्यति - अनेन चित्तेन कथममी सत्त्वा एवमुदारस्य धर्मस्य लाभिनः स्युरिति, तेषामपि नास्ति पुण्यपर्यन्तः ॥
ततः खलु भगवानायुष्मन्तं महाकाश्यपमामन्त्रयते स्म आयुष्मन्तं चानन्दं मैत्रेयं च बोधिसत्त्वं महासत्त्वम् - इमामहं मार्षा असंख्येयकल्पकोटिनयुतशतसहस्रसमुदानीतामनुत्तरां सम्यक्संबोधिं युष्माकं हस्ते परिदाम्यनुपरिन्दामि परमया परिन्दनया, स्वयं चैवमिमं धर्मपर्यायं धारयत, परेभ्यश्च विस्तरेण संप्रकाशयत ॥
इत्युक्त्वा च भगवानस्यैव धर्मपर्यायस्य भूयस्या मात्रयानुपरिन्दनार्थं तस्यां वेलायामिमां गाथामभाषत -
सत्त्वा दृष्टा ये मया बुद्धदृष्ट्या स्युस्ते ऽर्हन्तः शरिपुत्रेण तुल्याः ।
तांश्चेत्कश्चित्पूजयेत्कल्पकोटी तुल्यां गङ्गावालिकाभियथैव

27.2

प्रत्येकबुद्धाय तु यश्च पूजां कुयादहोरात्रमपि प्रहृष्टः ।
माल्यैः प्रकारैश्च तथापरैश्च तस्मादयं पुण्यकृतो विशिष्यते

27.3

स्युः सर्वसत्त्वा यदि प्रत्ययैर्जिना तां पूजयेत्कश्चिदिहाप्रमत्तः ।
पुष्पैश्च गन्धैश्च विलेपनैश्च कल्पाननेकां सततं हि तत्परम्

27.4

एकस्य यश्चैव तथागतस्य कुर्यात्प्रणामं अपि चैकशो ऽपि ।
प्रसन्नाचित्तो ऽथ वदेन्नमो ऽर्हते तस्मादिदं श्रेष्ठतरं च पुण्यम्

27.5

बुद्धा भवेयुर्यदि सर्वसत्त्वा तां पूजयेद्यश्च यथैव पूर्वम् ।
दिव्यैश्च पुष्पैरथ मानुर्षैर्वरैः कल्पाननेकां बहुभिः प्रकारैः

27.6

यश्चैव सद्धर्मविलोपकात्ले त्यक्त्वा स्वकाये च तथैव जीवितम् ।
वद्यादहोरात्रमिदं हि सूत्रं विशिष्यते पुण्यमिदं हि तस्मात्

27.7

यस्येप्सितं पूजयितुं विनायकां प्रत्येकबुद्धांश्च तथैव श्रावकां ।
दृढं समुत्पाद्य स बोधिचित्त इदं सदा सूत्रवरं दधातु

27.8

राजा ह्ययं सर्वसुभाषितानां यो ऽभ्युद्गतः सर्वतथागतानाम् ।
गृहे स्थितस्तस्य तथागतः सदा तिष्ठेदिदं यत्र हि सूत्ररत्नम्

27.9

प्रतिभां स प्राप्नोति शुभामनन्तां एकं पदं वक्ष्यति कल्पकोटी ।
न व्यञ्जना भ्रश्यति नापि चार्था दद्याच्च यः सूत्रमिद परेभ्यः

27.10

अनुत्तरो ऽसौ नरनायकानां सत्त्वो न कश्चित्सदृशो ऽस्य विद्यते ।
भवेत्समुद्रेण समश्च सो ऽक्षयः श्रुत्वा हि यो धर्ममिमं प्रपद्यते

मूल पाठ: Lalitavistara · Edition: P.L. Vaidya, Darbhanga: The Mithila Institute, 1958 (Buddhist Sanskrit Texts, 1) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc