लक्ष्मीतन्त्रम् · अध्याय 9
नवमोऽध्यायः - 9
श्रीः---
अहं नारायणी देवी नारायणमनुव्रता।
ज्ञानानन्दक्रियात्मानं ज्ञानानन्दक्रियामयी
तस्या मे न विनाभावस्तेन वा तस्य वा मया।
प्रकर्तुं शक्यते काले कस्मिंश्चिद्देश एव वा
तत्तत्कार्यवशाच्चैवान्यद्भूताद्भुतरूपकौ।
आत्मयोगबलात्तौ स्वः सहैव च विनैव च
ब्रह्मादिर्दत्तवान् यादृक्तपोयोगबलात्कृतः।
दैत्यादिभ्यो जगद्ध्वंसकरेब्यो वरमुत्तमम्
तादृशं तादृशं रूपमास्थायावां सनातनौ।
तत्तत्प्रीतिचिकीर्षायै चरावौ देवकार्यतः
मायया भावमाच्छाद्य परमार्थं स्वतेजसा।
अहमेवावतीर्णा हि तत्तद्ध्वंसिजिघांसया
आदौ देवी महालक्ष्मीः स्मृताहं परमेश्वरी।
अभूवं च पुनर्द्वेधा कृष्णा ब्राह्नीति रूपतः
गुणत्रयविभागेन रूपमेतत्परं मम।
महालक्ष्मीरहं शक्र पुनः स्वायंभुवेऽन्तरे
हिताय सर्वलोकानां जाता महिषमर्दनी।
मदीया शक्तिलेशा ये तत्तद्देवशरीरगाः
संभूय ते ममाभूवन् रूपं परमशोभनम्।
आयुधानि च देवानां यानि यानि सुरेश्वर
तच्छक्तयस्तदाकारा आयुधानि ममाभवन्।
अभिष्टुता सुरैः साहं महिषं जघ्नुषी क्षणात्
महिषान्तकरीसूक्तं सर्वसिद्धिप्रदं तदा।
`देव्या ययाऽ दिकं दृष्टं सेन्द्रैर्देवैः सहर्षिभिः
12. इदं च सूक्तं मार्कण्डेयपुराणे देवीमाहात्म्ये चतुर्थाध्याये पठितं द्रष्टव्यम्।
उत्पत्तिं युद्धविक्रान्तिं स्तोत्रं चेति सुरेश्वर।
कथयन्ति सुविस्तीर्णं ब्राह्नणा वेदपारगाः
एवंप्रभावां देवीं तां स्तुवन् ध्यायन्नमन्नपि।
लभते च फलं शश्वदाधिपत्यमनश्वरम्
योगनिद्रा हरेरुक्ता या सा देवी दुरत्यया।
महाकालीतनुं विद्धि तां मां देवीं सनातनीम्
मधुकैटभनाशे हि मोहितौ तौ तया तदा।
जघ्नाते वरलाभेन देवदेवेन विष्णुना
विश्वेस्वर्यादिकं सूक्तं दृष्टं तद् ब्रह्मणा सदा।
स्तुतये योगनिद्राया मम देव्याः पुरंदर
17. इदं चोपाख्यानं मार्कण्डेयपुराणे देवीमाहात्म्ये प्रथमाध्याये पठितम्।
एषा सा वैष्णवी माया महाकाली दुरत्यया।
स्तुत्या वशीकृता कुर्याद्वशे स्तोतुश्चराचरम्
अस्या देव्याः समुत्पत्तिश्चरितं स्तोत्रमित्यपि।
हिताय सर्वभूतानां धार्यन्ते ब्रह्मवादिभिः
तामसे त्वन्तरे शक्र महाविद्या हि या परा।
गौरीदेहात्समुद्भूता कौशिकीति तदा ह्यहम्
वधाय दुष्टदैत्यानां तथा सुम्भनिसुम्भयोः।
रक्षणाय च लोकानां देवानामुपकारिणी
मदीयाः शक्तयो यास्ता देवश्रेष्ठशरीरगाः।
तास्तास्तद्रूपधारिण्यः साहाय्यं विदधुर्हि मे
ताभिर्निहत्य दैत्येन्द्रान् हन्तव्या ये तथा तथा।
संहृत्यात्मनि ताः सर्वा मदीया विप्रुषोऽखिलाः
अहं निजघ्नुषी पश्चात्तयोः सुम्भनिसुम्भयोः।
`देवि प्रपन्नादिहरे प्रसीदेऽ त्यादिकं तथा
24. नारायणीस्तुतिः मार्कण्डेयपुराणे देवीमाहात्म्ये एकादशाद्याये पठीता।
नारायणीस्तुतिर्नाम सूक्तं परमशोभनम्।
स्तुतयो मे तदा दृष्टा देवैर्वह्निपुरोगमैः
एषा संपूजिता भक्त्या सर्वज्ञत्वं प्रयच्छति।
कौशिकी सर्वदेवेश बहुकामप्रदा ह्यहम्
उत्पत्तिर्युद्धविक्रान्तिः स्तुतिश्चेति पुरातनैः।
पठ्यते त्रितयं विप्रैर्वेदवेदाङ्गपारगैः
वैवस्वतेऽन्तरे चैतौ पुनः सुम्भनिसुम्भकौ।
उत्पत्स्येते वरोन्मत्तौ देवोपद्रवकारिणौ
नन्दगोपकुले जाता यशोदागर्भसंभवा।
तावहं नाशयिष्यामि सुनन्दा विन्ध्यवासिनी
पुनश्चाप्यतिरौद्रेण रूपेण पृथिवीतले।
अवतीर्य हनिष्यामि वै प्रचित्तान् महासुरान्
भक्षयन्त्याश्च तानुग्रान् वैप्रचित्तान् महासुरान्।
रक्ता दन्ता भविष्यन्ति दाडिमीकुसुमोपमाः
ततो मां देवताः सर्वे मर्त्यलोके च मानवाः।
स्तुवन्तो व्याहरिष्यन्ति सततं रक्तदन्तिकाम्
तस्मिन्नेवान्तरे शक्र चत्वारिंशत्तमे युगे।
सर्वतः शतवार्षिक्यामनावृष्ट्यामनम्भसि
मुनिभिः संस्मृता भूमौ संभविष्याम्ययोनिजा।
ततः शतेन नेत्राणां निरीक्षिष्याम्यहं मुनीन्
कीर्तयिष्यन्ति मां शक्र शताक्षीमिति मानवाः।
तदाहमखिलं लोकमात्मदेहसमुद्भवैः
भरिष्यामि शुभैः शाकैराविष्टैः प्राणधारकैः।
शाकंभरीति मां देवास्तदा स्तोष्यन्ति वासव
तत्रैव च हनिष्यामि दुर्गमाख्यं महासुरम्।
दुर्गादेवीति विख्यातिं ततो यास्याम्यहं भुवि
शाकंभरीं स्तुवन् ध्यायन् शक्र संपूजयन्नमन्।
अक्षय्यामश्नुते शीघ्रमन्नपानोद्भवां रतिम्
चतुर्युगे च पञ्चाशत्तमे मुनिभिरर्थिता।
सुन्दरं चातिभीमं च रूपं कृत्वा हिमाचरे
रक्षांसि भक्षयिष्यामि मुनीनां त्राणकारणात्।
ततो मां मुनयः सर्वे स्तोष्यन्त्यानम्रमूर्तयः
`भीमे देवि प्रसीदेऽ ति भीमामभयदायिनीम्।
युगे षष्टितमे कश्चिदरुणो नाम दानवः
मनुजानां मुनीनां च महाबाधां करिष्यति।
तत्राहं भ्रामरं रूपं कृत्वासंख्येयषट्पदा
त्रैलोक्यस्य हितार्थाय वधिष्यामि महासुरम्।
भ्रामरीति च मां लोकास्तदा स्तोष्यन्ति सर्वदा
28-43. सुनन्दा-रक्तदन्तिका-शताक्षी-शाकंभरी-दुर्गा-भीमा-भ्रामरीणामुपाख्यानानि मार्कण्डेयपुराणे देवी माहात्म्ये एकादशाध्याये द्रष्टव्यानि।
इत्थं यदा यदा बाधा दानवोत्था भविष्यति।
तदा तदावतीर्याहं हनिष्यामि महासुरान्
अमी ते लेशतः शक्र दर्शिताः परमाद्भुताः।
अवतारा निरातङ्का मदीयाः केवलाह्वयाः
एतेषां परमा प्रोक्ता कूटस्था सा महीयसी।
महालक्ष्मीर्महाभागा प्रकृतिः परमेश्वरी
अमुष्याः स्तुतये दृष्टं ब्रह्माद्यैः सकलैः सुरैः।
`नमो देव्याऽदिकं सूक्तं सर्वकामप्रदं वरम्
47. इदं च मार्कण्डेयपुराणे देवीमाहात्म्ये पञ्चमाध्याये पठितम्।
इमां देवीं स्तुवन्नित्यं स्तोत्रेणानेन मामिह।
क्लेशानतीत्य सकलानैश्वर्यं महदश्नुते
अमुष्याः सावताराया महालक्ष्म्या ममानघ।
जन्मानि चरितैः सार्धं स्तोत्रैर्वैभववादिभिः
कथितानि पुरा शक्र वसिष्ठेन महात्मना।
स्वारोचिषेऽन्तरे राज्ञे सुरथाय महात्मने
50. इदं चोपाख्यानं मार्कण्डेयपुराणे देवीमाहात्म्ये प्रथमाध्याये दृस्यते।
समाधये च वैश्याय प्रणतायावसीदते।
भक्तिश्रद्धावता नित्यं वसिष्ठेन कृतेति मे
हृदि स्थिता सदा सेयं जन्मकर्मावलिस्तुतिः।
एतां द्विजमुखाच्छ्रुत्वा ह्यधीयानो नरः सदा
विधूय निखिलां मायां सम्यग्ज्ञानं समश्नुते।
सर्वां संपदमाप्रोति धुनोति सकलापदः
मम प्रभावात् सौभाग्यं कीर्ति चैव समश्नुते।
केवला अपि यद्येते मदीया विष्णुना विना
न मेऽस्ति संभवः सोऽयमहंभूतः स्थितोऽत्र तु।
अन्योन्येनाविनाभावादन्योन्येन समन्वयात्
मय्ययं देवदेवेशस्तत्राहं च सनातनी।
इत्येते लेशतः शक्र दर्शिताः सप्रकारकाः
अवतारा मदीयास्ते संभूताः कोशपञ्चके।
शुद्धे कोशे समुद्भूता भवद्भावात्मकाः परे
तत्राप्येषा स्थितिर्ज्ञेया विष्णोर्मम सह स्थितिः।
एवंप्रकारां मां ज्ञात्वा प्रत्यक्षां सर्वसंमताम्
उपायैर्विविधैः शश्वदुपास्य बहुधात्मिकाम्।
क्लेशकर्माशयातीतो मद्भावं प्रतिपद्यते
इति श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे केवलावतारप्रकाशो नाम नवमोऽध्यायः।
********इति नवमोऽध्यायः********
मूल पाठ: lakṣmītantram · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0