भाषा

ENहिગુ
ग्रंथ पाठ

लक्ष्मीतन्त्रम् · अध्याय 8

8.1

अष्टमोऽध्यायः - 8
शक्रः---
नमस्ते सिन्धुसंभूते नमस्ते पद्मसंभवे।
नमः सरोरुहावासे नारायणकुटुम्बिनि

8.2

अवतारास्तु ये प्रोक्तास्त्वदीयाः कोशपञ्चके।
तान्मे विस्तरतः पद्मे पृच्छते वक्तुमर्हसि

8.3

2. प्रथमः शक्तिकोशो भगवतः पररूपस्य चतुर्व्यूहानां च संबद्ध इति सुविदितमिति कृत्वा तमुपेक्ष्य मायादिपञ्चकोशविषयः प्रश्नः क्रियतेऽत्र---कोशपञ्चक इति।
किमर्थाः किंप्रकारास्ते कियन्तः किंस्वरूपकाः।
तत्त्वं कथय मे देवि सर्वज्ञा ह्यसि शाश्वती

8.4

श्रीः---
अतरङ्गमनिर्देश्यमप्रकम्प्यमनूपमम्।
अप्रकारमसंभेद्यमविकल्पमनाकुलम्

8.5

4. प्रसङ्गाद्भगवतः पररूपस्य शक्तिकोशावस्थितिमाह---अतरङ्गमित्यादि। अत्र षष्ठाध्यायसप्तदशस्लोकोक्तमनुसंधेयम्।
एकं नारायणं ब्रह्म शून्यं शुद्धं निरामयम्।
यदिदं दृश्यते किंचिच्छ्रूयते वानुमीयते

8.6

5. नारायण इत्याख्यातं नारायणम्।
प्रमाणत्रयसंबोध्यं भावाबावस्वलक्षणम्।
चराचरणमु स्थूलं चेतनाचेतनं जगत्

8.7

6. प्रमाणत्रयं प्रत्यक्षानुमानशब्दाः।
तदिदं सकलं ब्रह्म नारायणमनुत्तरम्।
अविद्याविधुरानन्दस्वच्छस्वच्छन्दिचद्धनम्

8.8

भवद्भावात्मकं दिव्यमध्वनः पारमुत्तमम्।
शक्तिमच्छक्तिभावेन तद्‌ द्विधा व्यवतिष्ठते

8.9

शक्तिमत्तत् परं ब्र्हन नारायणमहं भवत्।
शक्तिर्नारायणी साहमहंता भावरूपिणी

8.10

9. अहम्; अहंप्रतीतिविषयः।
स प्रदेशो न तस्यास्ति येन भूतं मया विना।
स प्रदेशो न मे कश्चिद्विना तद्येन भूयते

8.11

10. विना तत्; तत् ब्रह्म विनेत्यर्थः।
एकधा च द्विधा चैव तैस्तैस्तत्त्वाब्धिपारगैः।
व्यपदिश्यावहे शास्रैस्तावावां सर्वकारणम्

8.12

भावोत्तरा व्कचित्सृष्टिः व्कचित्सा भवदुत्तरा।
भवद्भावोत्तरा व्कापि विद्वास्तत्र न मुह्यति

8.13

एक एवावतीर्णो हि देवानां कार्यवत्तया।
नारायणो यदा साहं तत्र तद्भावभाविनी

8.14

एकैव चावतीर्णाहं यदा देवहितेप्सया।
अहंतायां मयि व्यक्तः स देवोऽहंपदार्थवान्

8.15

अवतीर्णौ यदा तुल्यं देवकार्यचिकीर्षया।
अन्योन्ययोः स्थितावावां भवद्भावात्मकौ द्वयोः

8.16

इत्थं व्यवस्थिते तत्त्वे ह्यवतारगतिं शृणु।
अनिरुद्धो विभुर्देवो देवदेवः सनातनः

8.17

महाविद्यासमुद्भूतस्तदाहमपि वासव।
मत्त एव महालक्ष्म्या अभूवं कमलाख्यया

8.18

17. मायाकोशावतारमाह---मत्त एव महालक्ष्म्या इति। अत्र षष्ठाध्यायाष्टादशश्लोकोक्तमनुसंधेयम्।
ताविमौ दम्पती दिव्यौ पितरौ जगतां मतौ।
पद्मनाभावतारे तु तावेतौ द्वावयोनिजौ

8.19

18. प्रसूतिकोशावतारमाह---पद्मनाभावतार इत्यादिना। महालक्ष्मीमहाविद्यामहामायानामवतारोऽत्र षष्ठाध्याये विंशश्लोके पूर्वमुक्तः
नारायणावतारो यः शक्तीशो नाम नामतः।
प्रकारा बहवस्तस्य सर्वत्राहमनुव्रता

8.20

एकधा द्विचतुर्धा च षोढा चैव तथाष्टधा।
पुनर्द्वादशधा चैव तत्र नामानि मे शृणु

8.21

श्रीर्नाम द्विभुजस्याहमङ्कस्था वरवर्णिनी।
तस्यैवोभयतोरूपे श्रीश्च पुष्टिश्च वासव

8.22

चतुर्दिशं तु तस्यैव श्रीः कीर्तिश्च जया तथा।
मायेति कृत्वा रूपाणि भुज्येऽहं तेन विष्णुना

8.23

तस्यैव कोणषट्‌कस्था षोढाहं शृणु नाम च।
शुद्धिर्निरञ्जना नित्या ज्ञानशक्तिश्च वासव

8.24

तथापराजिता चैव षष्ठी तु प्रकृतिः परा।
तस्यैव चाष्टधा दिक्षु साहं रूपैर्व्यवस्थिता

8.25

लक्ष्मीः सरस्वती सर्वकामदा प्रीतिवर्धनी।
यशस्करी शान्तिदा च तुष्टिदा पुष्टिरष्टमी

8.26

कोणद्विषट्‌के तस्यैव स्थिता द्वादशधारम्यहम्।
श्रीश्च कामेश्वरी कान्तिः क्रियाशक्तिविभूतयः

8.27

इच्छा प्रीती रतिश्चैव माया धीर्महिमेति च।
एवं चतुर्भुजस्यापि षोढाहं क्रमशः स्थिता

8.28

तस्यैव षड्‌भुजस्याहमष्टबाहोश्च वासव।
द्विषड्‌बाहोस्तथा साहं द्विसप्तकभुजस्य च

8.29

तथा षोडशहस्तस्य भुजद्विनवकस्य च।
विभज्य बहुधात्मानमियद्भेदा व्यवस्थिता

8.30

अवतारो हि यो विष्णोः सिन्धुशायीति संज्ञितः।
स्थिताहं परितस्तस्य चतुर्धा रूपमेयुषी

8.31

30. प्रकृतिकोशावतारमाह---सिन्धुशायीति। अत्र पञ्चमाध्यायैकविंशश्लोकोक्तमनुसंधेयम्।
लक्ष्मीर्निद्रा तथा प्रीतिर्विद्या चेति विभेदिनी।
अवतारो हि यो विष्णोः श्रीपतिर्नाम नामतः

8.32

श्रीरित्येवाख्यया तत्र तस्याहं वामतः स्थिता।
अवतारो हि यो विष्णोर्नामतः पारिजातजित्

8.33

तदंसस्थकरा तस्य वामोत्सङ्गे हरेः स्थिता।
अवतारो हि यो विष्णोर्नाम्ना मीनधरः शुभः

8.34

33. ब्रह्माण्डकोशावतारमाह---नाम्ना मीनधर इत्यादि।
अनुभ्रमामि तं तत्र साहं नौरूपधारिणी।
त्रैविक्रमोदयो विष्णोरवतारः परः स्मृतः

8.36

आह्लादजननी गङ्गा तत्पादात्प्रभवाम्यहम्।
अनन्तशयनो नाम योऽवतारो हरेरहम् । 35 ॥
स्थिता चतुर्दिशं तस्य चातुरात्म्यमुपेयुषी।
लक्ष्मीश्चिन्ता तथा निद्रा पुष्टिश्चेत्याख्यया युता

8.37

इत्येषु सह सिद्धाहमवतीर्णाण्डमध्यतः।
अवताराः पृथग्भूता यदा ब्रह्माण्डमध्यतः

8.38

अनुव्रता तथैवाहमवतीर्णा पृथक् पृथक्।
अवतारो हि यो नाम वराहो वेदविश्रुतः

8.39

तदाहमपि भूर्नाम पृथग्भूता भजाम्यहम्।
अवतारो हि यो नाम धर्मो विष्णुः पुरातनः

8.40

तदाहं भार्गवी नाम ख्यातिजा श्रीः प्रकीर्तिता।
अवतारो हि यो नाम दत्तात्रेयोऽत्रिनन्दनः

8.41

तदा हि तस्य भोगाय सरसोऽहं समुत्थिता।
अवतारो हि यो नाम वामनो वैष्णवः शुभः

8.42

पद्मादहं समुत्पन्ना तदा पद्मेति विश्रुता।
अवतारो यदा विष्णोर्भार्गवो रामसंज्ञितः

8.43

तदाहं धरणी नाम शक्तिरासमयोनिजा।
अवतारो हि यो नाम रामो दाशरथिः शुभः

8.44

जाता जनकयज्ञेऽहं क्षेत्राद्धलमुखक्षतात्।
नाम्ना सीतेति विख्याता दशाननविनाशनी

8.45

अवतारो हि यो विष्णोश्चतुर्धा संभविष्यति।
मधुरायामहं व्यक्तिं चतुर्धैष्यामि वै तथा

8.46

रेवती रुक्मिणी चैव रतिर्नाम्ना तथा ह्युषा।
अवतारान्तरं यत्तु मोहनं बुद्धसंज्ञकम्

8.47

ताराहं तत्र नाम्ना वै धारा चैव प्रकीतिता।
ध्रुवादयोऽवतारा ये केवला वैष्णवाः स्मृताः

8.48

47. जीवदेहकोशावतारमाह---ध्रुवादय इति।
तत्तच्छरीरभूताहं तेषां भोग्या व्यवस्थिता।
यत्तु मे मोहनं रूपं श्रूयतेऽमृतधारकम्

8.49

भवद्भावौ तदा तत्र रूपे तुल्योपलक्षितौ।
देवैः पुरुषरूपेण स्रीरूपेण तथेतरैः

8.50

सह सिद्धं पृथक्सिद्धमित्येतज्जन्म मेऽद्भुतम्।
कीर्तितं तव देवेश केवलं जन्म मे श्रृणु

इति श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे लक्ष्म्यवतारप्रकाशो नामाष्टमोऽध्यायः
********इत्यष्टमोऽध्यायः********

मूल पाठ: lakṣmītantram · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc