भाषा

ENहिગુ
ग्रंथ पाठ

लक्ष्मीतन्त्रम् · अध्याय 3

3.1

तृतीयोऽध्यायः - 3
श्रीरुवाच---
नित्यनिर्दोषनिःसीमकल्याणगुणशालिनी।
अहं नारायणी नाम सा सत्ता वैष्णवी परा

3.2

देशात्कालात्तथा रूपात्परिच्छेदो न मे स्मृतः।
संवित्तिरेव मे रूपं सर्वैश्वर्यादिको गुणः

3.3

2. स्वरूपनिरूपको धर्मः ज्ञानम्। अन्ये पञ्चापि गुणाः निरूपितस्वरूपगुणभूता इत्यर्थः।
स्वस्वातन्त्र्यवशेनैव विभागस्तत्र वर्तते।
विज्ञानैश्वर्यशक्त्यात्मा विभागो यः स ईरितः

3.4

3. इत्थं विभागोऽपि मदिच्छाकृत एवेत्याह---स्वस्वातन्त्र्येति।
विज्ञानैश्वर्यशक्तीनामुन्मेषस्त्वपरोऽधुना।
अतर्क्याया ममोद्यत्या नियोगानर्हया सदा

3.5

4. अपर इति। पूर्वं शुद्धसृष्टौ एक उन्मेष उक्तः। अधुना अशुद्धात्मकत्रैगुण्यसृष्टावन्य उन्मेष इत्यर्थः।
इच्छयान्यत्कृतं रूपमासीज्ज्ञानादिके त्रिके।
यथैवेक्षुरसः स्वच्छो गुडत्वं प्रतिपद्यते

3.6

5. ज्ञानादित्रिकरूपं सत्त्वादित्रिकात्मना अन्यथा कृतमासीदित्यर्थः।
तद्वत्स्वच्छमयं ज्ञानं सत्त्वतां प्रतिपद्यते।
रजस्त्वं च ममैश्वर्यं तमस्त्वं शक्तिरप्युत

3.7

6. तदेवाह---तद्वदिति। ज्ञानं सत्त्वतया, ऐश्वर्यं रजस्तया, शक्तिश्च तमस्तया जातमिति भावः।
एते त्रयो गुणाः शक्र त्रैगुण्यमिति शब्द्यते।
रजःप्रधानं तत्सृष्टौ त्रैगुण्यं परिवर्तते

3.8

7. त्रैगुण्यमिति चातुर्वर्ण्यमितिवत् स्वार्थे ष्यञ्‌।
स्थितौ सत्त्वप्रधानं तत् संहृतौ तु तमोमुखम्।
अहं संविन्मयी पूर्वा व्यापिन्यपि पुरंदर

3.9

अधिष्ठाय गुणान् सृष्टिस्थितिसंहृतिकारिणी।
निर्गुणापि गुणानेतानधिष्ठायात्मवाञ्छया

3.10

9. निर्गुणापीति। पूर्वं षाडुगुण्यस्योक्तत्वात् अत्र निर्गुणपदस्य सत्त्वरजस्तमोरूपमिश्रगुणरहितेत्यर्थः। आत्मवाञ्छयेत्यनेन जगत्सृष्ट्यादौ लीलैव प्रयोजनमित्युक्तं भवति। यथाह भगवान् बादरायणः---"लोकवत्तु लीलाकैवल्यम्" इति।
चक्रं प्रवर्तयाम्येका सृष्टिस्थित्यन्तरूपकम्।
शक्रः---
विधाद्वयं समास्थाय ज्ञानाद्ये तु युगत्रये

3.11

शुद्धेतरविभागेन किमर्थं त्वं प्रवर्तसे।
विधयोरनयोः पद्मे संबन्धः कः परस्परम्

3.12

एतत्पृष्टा मया ब्रूहि नमस्ते पद्मसंभवे।
श्रीः---
अनियोज्यं ममैश्वर्यमिच्छैव मम कारणम्

3.13

मुह्यन्त्यत्र महान्तोऽपि तत्त्वं श्रृणु तथापि मे।
ईशेशितव्यभावेन परिवर्ते सदा ह्यहम्

3.14

13. शुद्धेतरसृष्ट्योः संबन्ध उच्यते---ईशेशितव्येति। रक्ष्यरक्षकभाव इत्यर्थः।
ईशो नारायणो ज्ञेय ईशता तस्य चाप्यहम्।
ईशितव्यं तु विज्ञेयं चिदचिच्च पुरंदर

3.15

चिच्छक्तिस्तु परा तत्र भोक्तृतां प्रतिपद्यते।
भोग्योपकरणस्थानरूपं तस्या अचित्पदम्

3.16

अनाद्यया समाविद्धा सा चिच्छक्तिरविद्यया।
मत्प्रवर्तितया नित्यं चिच्छक्तिर्भोक्तृतां गता

3.17

अहंममत्वसंबन्धाद्ध्यचित्स्वेनाभिमन्यते।
अविद्या सा तिरोभावं विद्यया याति वै यदा

3.18

चिच्छक्तिर्निरभीमाना तदा मद्भावमेष्यति।
तां विद्यां शुद्धमार्गस्थां परव्यूहादिरूपिणी

3.19

प्रवर्तयामि कारुण्याज्ज्ञानसद्भावदर्शिनी।
रक्ष्यरक्षकभावोऽयं संबन्धो विधयोर्द्वयोः

3.20

विधा रक्षति शुद्धाद्या रक्ष्यते च विधापरा।
एतत्ते कथितं शक्र किं भूयः श्रोतुमिच्छसि

3.21

शक्रः---
ईशेशितव्यभावेन किमर्थं त्वं प्रवर्तसे।
ईशितव्यं कियद्भेदं किंरूपं तत्र मे वद

3.22

श्रीः---
स्वभावो नानुयोज्योऽयं मम नारायणस्य च।
ईशोऽहमीशितव्यो न स च देवः सनातनः

3.23

ईशितव्यं द्विधा प्रोक्तं चिदचिव्द्यतिरेकतः।
चिच्छक्तिर्भोक्तृरूपात्र सा च चिद्रूपधारिणी

3.24

भोग्योपकरणस्थानैरचिच्छक्तिस्त्रिधा स्थिता।
प्रसरन्त्यास्तृतीयं मे सा च पर्व स्मृतं बुधैः

3.25

विभक्ते अपि ते एते शक्ती चिदचिदात्मिके।
मत्स्वाच्छन्द्यवशेनैव मम रूपे सनातने

3.26

चिच्छक्तिर्विमला शुद्धा चिन्मय्यानन्दरूपिणी।
अनाद्यविद्याविद्धेयमित्थं संसरति ध्रुवम्

3.27

अचिच्छक्तिर्जडाप्येवमशुद्धा परिणामिनी।
त्रिगुणआपि ममैवेदं स्वाच्छन्द्यात् प्रविजृम्भितम्

3.28

धूमकेतुर्यथा धूमं दीप्यमानो भजेत् स्वयम्।
शुद्धसंवित्स्वरूपापि भजे साहमचिद्गतिम्

3.29

28. ज्वलनस्वभावोऽपि धूमकेतुर्यथा मलिनधूमरूपतां प्रतिपद्यते, तथा ज्ञानस्वरूपाप्यहमचिद्भावमापद्य इत्यर्थः।
अनाक्रान्ता विकल्पेन शब्दैरप्यकदर्थिता।
आद्यानोपधिनाप्येवं वर्तेऽहमचिदात्मना

3.30

29. आध्यानोपधिनेति। मदिच्छारूपोपादिनेत्यर्थः। ध्यानालम्बनार्थमिति वार्थः। यथा वक्ष्यति---`ध्यानविश्रामभूमयःऽ (4-24) इति।
बहिरन्तःपदार्थे हि चित्स्वरूपमखण्डितम्।
विशिनष्टि तथाप्येतच्चित्रयोपाधिसंपदा

3.31

स्वातन्त्र्यमेव मे हेतुर्नानुयोज्यास्मि किंचन।
इत्थंप्रभावामेवं मां विदन्‌ भुद्धो भविष्यसि

3.32

शक्रः---
कथं सृजसि वै लोकान् सुखदुःखसमन्वितान्।
असृष्टिर्हि वरं यद्वा सृष्टिरस्तु सुखात्मिका

3.33

32. असृष्टिरिति। अत्र "सृजेच्च सुखमेवैकमनुकम्पाप्रचोदितः" इति श्लोकवार्त्तिकवचनं स्मर्तव्यम्।
श्रीः---
अनाद्यविद्याविद्धानां जीवानां सदसन्मयम्।
संचितं कर्म संप्रेक्ष्य मिश्रां सृष्टिं करोम्यहम्

3.34

शक्रः---
क्षीरोदसंभवे देवि स्वाच्छन्द्यं ते कथं भवेत्।
कर्म चेत्समवेक्ष्य त्वं विदधासि सुखासुखे

3.35

श्रीः---
कुर्वत्या मम कार्याणि कर्म तत्करणं स्मृतम्।
कर्तुश्च करणापेक्षा न स्वातन्त्र्यविघातिनी

3.36

निरवद्या स्वतन्त्राहं नानुयोगपदे स्थिता।
विभजे बहुधात्मानं कर्तृकर्मक्रियादिना

3.37

शक्रः---
यद्वा तद्वास्तु तद्देवि स्वातन्त्र्यं ते यदीदृशम्।
सृष्टिप्रकारमाख्याहि नमस्ते पद्मसंभवे

इति श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे त्रैगुण्यप्रकाशो नाम तृतीयोऽध्यायः
********इति तृतीयोऽध्यायः********

मूल पाठ: lakṣmītantram · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc