भाषा

ENहिગુ
ग्रंथ पाठ

लक्ष्मीतन्त्रम् · अध्याय 18

18.1

अष्टादशोऽध्यायः - 18
शक्रः---
नमस्ते पद्मनिलये नमस्ते पद्मसंभवे।
विदितं वेदितव्यं मे वेदान्तेष्वपि दुर्लभम्

18.2

ब्रूहि मन्त्रमयं मार्गमिदानीं विष्णुवल्लभे।
यं विज्ञायार्चयेयं ते दिव्यां मन्त्रमयीं तनुम्

18.3

कुतो मन्त्रसमुत्पत्तिः व्क च मन्त्रः प्रलीयते।
मन्त्रस्य किं फलं पद्मे केन मध्ये प्रपूर्यते

18.4

कियत्यश्च विधा अस्य परिमाणं कियत् किल।
क्षेत्रक्षेत्रज्ञभावश्च कीदृशः परमोऽम्बुजे

18.5

मन्त्रश्च केन संग्राह्य उपदेष्टा च कीदृशः।
उपासनप्रकारश्च कथमस्याब्जसंभवे

18.6

उपासनोपयोगी च यावानर्थोऽम्बुजासने।
सिद्धिसाधनयोगश्च प्रत्ययाश्च तथा तथा

18.7

योगः स्वाध्याययोगश्च रक्षायोगस्तथैव च।
प्रायश्चित्तविधिश्चैव श्राद्धकल्पस्तथैव च

18.8

दीक्षाप्रतिष्ठयोः कल्पो यन्त्रकल्पस्तथैव च।
एतच्च निखिलं यच्चाप्यदृष्टमुपयुज्यते

18.9

प्रब्रूहि तदशेषेण नमस्ते पद्मसंभवे।
तवैष शिरसा पादौ नतोऽस्मि कमलारूणौ

18.10

शरणं च प्रपन्नोऽस्मि पङ्कजे त्वमधीहि भो।
श्रीः---
प्रशभारोऽयमतुलस्त्वयोद्दिष्टः पुरंदर

18.11

वाच्यस्ते प्रीतिसंयोगाच्छृणु वक्ष्याम्यशेषतः।
अहमित्येव यः पूर्णः पुरुषः पुष्करेक्षणः

18.12

स्वभावः सर्वभावानामभावानां च वासव।
इदंतयावलीढं यत् सदसज्जगति स्थितम्

18.13

12. इदंतयेति। इदमिति प्रतीतिविषयतयेत्यर्थः। पराक्त्वेनेति यावत्। युष्मदस्मत्प्रत्ययगोचरत्वं हि क्रमेण पराक्त्वप्रत्यक्त्वयोर्लक्षणमामनन्ति।
तत्तल्लक्षणवन्तो ये तदहंत्वे विलीयते।
विलीनेदंपदद्वीपः प्राप्तैकध्यश्चिदम्बुधिः

18.14

13. विलीनेत्यादि; इदंपदार्थभूताः सर्वेऽपि अचित्पदार्थाः; त एव द्वीपाः चिदम्बुधौ वासुदेवे विलीय तेन सहैकत्वं प्राप्ता इत्यर्थः।
निस्तरङ्गोदयोऽनन्तो वासुदेवः प्रकाशते।
पूर्णाहंतास्मि तस्यैका शक्तिरीश्वरतामयी

18.15

नित्योदिता सदानन्दा सर्वतः समतां गता।
सर्वभावसमुद्भूतिः सर्वप्रत्यक्षसंमता

18.16

15. नित्योदितेति। उदयो द्विविधः---शान्तोदयः नित्योदयश्चेति। अवतारावस्थायामाद्यः। परावस्थायां द्वितीयः।
या ह्येषा प्रतिभा तत्तत्पदार्थक्रमरूषिता।
उद्धृतेषु पदार्थेषु साहमक्रमशालिनी

18.17

अवबोधात्मिकाया मे या प्रत्यगवमर्शिता।
सा स्फुरत्ता महानन्दा शब्दब्रह्मेति गीयते

18.18

17. प्रत्यगवमर्शिता; अहंप्रत्ययगम्यता।
प्रकाशानन्दसाराहं सर्वमन्त्रप्रसूः परा।
शब्दानां जननी शक्तिरुदयास्तमयोज्झिता

18.19

व्यापकं यत्परं ब्रह्म नारायणमनामयम्।
शान्तता नाम यावस्था साहं शान्ताखिलप्रसूः

18.20

तस्या मे य उदेति स्म सिसृक्षाक्योऽल्प उद्यमः।
स शब्दार्थविभेदेन शान्त उन्मेष उच्यते

18.21

शब्दोदयपुरस्कारः सर्वत्रार्थोदय स्मृतः।
अर्थशब्दप्रवृत्त्यात्मा शब्दस्य स्थूलता हि सा

18.22

21. शब्दस्योदयः प्रथमम्; अनन्तरमर्थस्येति तान्त्रिकसिद्धान्तः। श्रुतावपि "नामरूपे व्याकरवाणि" इति नामव्याकरणं पूर्वं, ततो रूपव्याकरणमुक्तं वेदितव्यम्।
बोधोन्मेषः स्मृतः शब्दः शब्दोन्मेषोऽर्थ उच्यते।
उद्यच्छब्दोदयः शक्तोः प्रथमः शान्ततात्मनः

18.23

स नाद इति विख्यातो वाच्यतामसृणस्तदा।
नादेन सह शक्तिः सा सूक्ष्मेति परिगीयते

18.24

23. एवं च शब्दब्रह्म, परा वाक्, नाद इति पर्यायाः
नादात् परो य उन्मोषो द्वितीयः शक्तिसंभवः।
बिन्दुरित्युच्यते सोऽत्र वाच्योऽपि मसृणः स्थितः

18.25

पश्यन्ती नाम सावस्था मम दिव्या महोदया।
ततः परो य उन्मेषस्तृतीयः शक्तिसंभवः

18.26

25. बिन्दोरनन्तरं शक्त्युन्मेषस्य मध्यमेति नाम।
मध्यमा सा दशा तत्र संस्कारयति संगतिम्।
वाच्यवाचकभेदस्तु तदा संस्कारतामयः

18.27

चतुर्थस्तु य उन्मेषः शक्तेर्माध्यमिकात् परः।
वैखरी नाम सावस्था वर्णवाक्यस्फुटोदया

18.28

अस्ति शक्तिः क्रियात्मा मे बोधरूपानुयायिनी।
सा प्राणयति नादादिं शक्त्युन्मेषपरंपराम्

18.29

शान्तरूपाथ पश्यन्ती मध्यमा वैखरी तथा।
चतूरूपा चतूरूपं वच्मि वाच्यं स्वनिर्मितम्

18.30

वासुदेवादयः सूक्ष्मा वाच्याः शान्तादयः क्रमात्।
अहमेकपदी ज्ञेया प्रकाशानन्दरूपिणी

18.31

वाच्यवाचकभेदेन पुनः सा द्विपदी स्मृता।
ऊष्मान्तःस्थस्वरस्पर्शभेदाच्चाहं चतुष्पदी

18.32

31. शषसहा ऊष्माणः। यरलवा अन्तःस्थाः। अचः स्वराः। कादयो मावसानाः स्पर्शाः।
अष्टवर्गविभेदाच्च साहमष्टपदी स्मृता।
अघोषरूपेणान्येन युक्ता नवपदी स्मृता

18.33

32. अष्ट वर्गाः---स्वरवर्गः, कादिपान्तवर्गाः पञ्च, ऊष्मवर्गः, अन्तःस्थवर्गश्चेति। अघोषाश्च---यमाः, जिह्वामूलीयोपध्मानीयौ विसर्गश्चेति।
अहमेकपदी दिव्या शब्दब्रह्ममयी परा।
घोषवर्णस्वरूपेण वर्तेऽहं द्विपदी पुनः

18.34

33. प्रकारान्तरेणैकध्यादिकमुच्यते। शब्दब्रह्मरूपेणैकरूपा। ध्वनिवर्णात्मना द्विरूपा।
तक्षती सलिलं सर्वं द्रव्यजातिगुणक्रियाः।
चतुर्धाभिदधानाहं चतुष्पद्युदिता बुधैः

18.35

34. तक्षती; तक्षन्ती तनूकुर्वती। सर्वं सलिलं संसरणहेतुं प्राकृततुष्टिम्। सलिलाक्यस्तुष्टिविशेषः सांख्यसमयप्रसिद्धः। अत्र "गौरीर्मिमाय सलिलानि तक्षत्येकपदी द्विपदी सा चतुष्पदी। अष्टापदी नवपदी बभूवुषी सहस्राक्षरा परमे व्योमन्॥" (ऋ. 1-164-41) इति श्रुतिरनुक्रियते। चतुष्पदी; द्रव्यजातिगुणक्रियाशब्दात्मना चतूरूपा।
नामभावद्वयोपेता साहमष्टपदी स्मृता।
अविकल्पविकल्पस्था साहं नवपदी स्मृता

18.36

35. तेषामेव शब्दार्थात्मना प्रत्येकं द्वैविध्ये संकलय्याष्टरूपा।
व्योम्न्यहं परमे दिव्या ह्यनन्ताक्षरमालिनी।
इयद्विततिविस्तीर्णा पूर्णाहंताहमादिमा

18.37

36. एषा च व्यवस्था प्राकृतलोक एव। अप्राकृतलोके तु अनन्ताक्षररूपा।
मन्त्राणां जननी ज्ञेया भुक्तिमुक्तिप्रदायिनी।
उद्यन्ति मन्त्रकल्लोला मत्त एव चिदम्बुधेः

18.38

मामाश्रित्य विवर्तन्ते यान्ति चास्तं मुहुर्मयि।
संविदानन्दसंदोहसुन्दराः शब्ददेहकाः

18.39

38. विवर्तन्ते; परिणमन्ति। नात्रान्यपरिभाषितो विवर्तो विवक्षितः, `त्रैगुण्यं परिणामि तत्ऽ इत्युक्तत्वेन त्रिगुणपरिणामत्वात् शब्दस्य।
सामर्थ्यपूर्णाः फलदा मन्त्रात्मानो हि मन्मयाः।
वर्णाः पदानि वाक्यानि सहप्रकरणाह्निकैः

18.40

अध्यायाश्च परिच्छेदाः सर्गा उछ्वासकास्तथा।
पटलाद्या अवच्छेदाः प्रश्रवाकानुवाककाः

18.41

मण्डलानि च काण्डानि संहिता विविधात्मिकाः।
ऋचो यजूंषि सामानि सूक्तानि च खिलैः समम्

18.42

शास्रतन्त्रात्मकाः शब्दा बाह्याबाह्यागमास्तथा।
भाषाश्च विविधास्तास्ता व्यक्ताव्यक्तगिरः स्मृताः

18.43

मन्त्ररूपभिदं शक्र विद्धि मद्रूपवेदिनाम्।
भावनातारतम्येन मन्त्रमन्त्रिव्यवस्थितिः

18.44

मां त्रायतेऽयमित्येवं योगेन स्वीकृतो ध्वनीः।
गुप्ताशयः सदा यश्च मन्त्रज्ञं त्रायते भयात्

18.45

स मन्त्रः संस्मृतोऽहंताविकासः शब्दजैः क्रमैः।
पूर्णाहंतासमुद्भूतैः शुद्धबोधान्वयो यतः

18.46

सर्वे मन्त्रा मदीयाः स्युः प्रभवाप्ययवेदिनाम्।
मदीयाश्चान्यदीयाश्च भावनातारतम्यतः

18.47

प्रकृत्यन्वयिनो मन्त्रा मदीयाः स्युः प्रधानतः।
भवद्भावात्मकं ब्रह्म स्वारस्येन विशन्ति ये

18.48

प्रकृत्यन्वयिनो मन्त्रास्तारिकोत्तारिकादयः।
मन्त्राः स्वरसतो यान्ति ये भावं भवदुत्तरम्

18.49

तेऽपवर्गप्रदा ज्ञेयास्तारप्रासादकादयः।
भावोत्तरां समां वापि ये भजन्ति भवत्स्थितिम्

18.50

भोगापवर्गदा मन्त्रा ज्ञेयास्ते तारिकादयः।
विशन्ति भावमेवैके यान्त्येके भवदेव च

18.51

भुक्तिदा मुक्तिदाश्चैव द्वितये ते व्यवस्थया।
प्रकृत्यन्वयिनामेवं स्वभावः परिकीर्तितः।
अभिसंधिबलात् सर्वं द्वितये ते वितन्वते

इति श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे मन्त्रस्वरूपकथनं नाम अष्टादशोऽध्यायः
********इत्यष्टादशोऽध्यायः********

मूल पाठ: lakṣmītantram · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc