लक्ष्मीतन्त्रम् · अध्याय 11
एकादशोऽध्याः - 11
श्रीः---
निर्दोषो निरधिष्ठेयो निरवद्यः सनातनः।
विष्णुर्नारायणः श्रीमान् परमात्मा सनातनः
षाड्गुण्यविग्रहो नित्यं परं ब्रह्माक्षरं परम्।
तस्य मां परमां शक्तिं नित्यं तद्धर्मधर्मिणीम्
2.ब्रह्माक्षरशब्दयोः प्रकृतिजीवयोरपि प्रयोगात् तद्व्युदासाय परमिति विशेषणम्।
सर्वभावानुगां विद्धि निर्दोषामनपायिनीम्।
सर्वकार्यकरी साहं विष्णोरव्ययरूपिणः
शुद्धाशुद्धमयैर्भावैर्वितत्यात्मानमात्मना।
परव्यूहादिसंभेदं व्यूहयन्ती हरेः सदा
शुद्धषाड्गुण्यमादाय कलपयन्ती तथा तथा।
तेन नानाविधं रूपंव्यूहाद्युचितमञ्जसा
उन्मेषयामि देवस्य प्रकारं भवदुत्तरम्।
व्यापारस्तस्य देवस्य साहमस्मि न संशयः
मया कृतं हि यत् कर्म तेन तत् कृतमुच्यते।
अहं हि तस्य देवस्य स्मृता व्याप्रियमाणता
इति शक्र परं रूपं व्यूहरूपं च दर्शितम्।
तृतीयं विभवाख्यं तु रूपमद्य निशामय
तुर्यादिजाग्रदन्तं यत् प्रोक्तं पदचतुष्टयम्।
वासुदेवादिना व्याप्तमनिरुद्धान्तिमेन तु
तत्र तत्र पदे चैव चातुरात्म्यं तथा तथा।
अव्यक्तव्यक्तरूपैः स्वैरुदितं ते यथोदितम्
व्यूहाद् व्यूहसमुत्पत्तौ पदाद्यावत्पदान्तरम्।
अन्तरं सकलं देशं संपूरयति तेजसा
पूजितस्तेजसां राशिरव्यक्तो मूर्तिवर्जितः।
विशाखयूप इत्युक्तस्तत्तज्ज्ञानादिबृंहितः
12. विशाखयूपो नामाप्राकृते दिव्यलोके भ्राजमानो ज्योतिर्मयः स्तम्भाकारो भगवद्रूपविशेषः। तत्राधोभागमारभ्य ऊर्ध्वभागपर्यन्तं चत्वारि पर्वाणि क्रमेणानिरुद्धप्रद्युम्नसंकर्षणवासुदेवाधिष्ठितानि स्पष्टतरस्पष्टकिंचित्स्पष्टास्पष्टशङ्खचक्रादिलक्ष्माणि। प्रतिपर्व प्रागादिक्रमेण चतुर्ष्वपि पार्श्वेषु क्रमेण वासुदेवादयो व्यूहा भ्राजन्ते। एवं विभागश्च योगिना ध्यानालम्बनार्थं भगवतैव कल्पितः। अस्य च विस्तरः सात्त्वतसंहितायां द्रष्टव्यः।
तस्मिंस्तस्मिन् पदे तस्मान्मूर्तिशाखाचतुष्टयम्।
वासुदेवादिकं शक्र प्रादुर्भवति वै क्रमात्
एवं स्वप्नपदाज्जाग्रत्पदव्यूहविभावने।
स्वप्रात्पदाज्जाग्रदन्ते तैजसः पूज्यते महान्
विशाखयूपो भगवान् स देवस्तेजसां निधिः।
तुर्याद्ये स्वप्नपर्यन्ते चातुरात्म्यत्रिके हि यत्
तत्तदैश्वर्यसंपन्ने षाड्गुण्यं सुव्यवस्थितम्।
तदादायाखिलं दिव्यं शुद्धसंवित्पुरःसरम्
विभजन्नात्मनात्मानं वासुदेवादिरूपतः।
पुनविभववेलायां विना मूर्तिचतुष्टयम्
विशाखयूप एवैष विभवान् भावयत्युत।
ते देवा विभवात्मानः पद्मनाभादयो मताः
पद्मनाभो ध्रुवोऽनन्तः शक्रीशो मधुसूदनः।
विद्याधिदेवः कपिलो विश्वरूपो विहंगमः
19. एत एव देवा व्यञ्जनाधिष्ठातृतया तत्तन्महिषीभिः सहात्रैव विंशाध्याये वक्ष्यन्ते।
क्रोडात्मा बडवावक्त्रो धर्मो वागीश्वरस्तथा।
एकार्णवान्तःशायी च तथैव कमठाकृतिः
वराहो नरसिंहश्चाप्यमृताहरणस्तथा।
श्रीपतिर्दिव्यदेहोऽथ कान्तात्मामृतधारकः
राहुजित् कालनेमिघ्नः पारिजातहरस्तथा।
लोकनाथस्तु शान्तात्मा दत्तात्रेयो महाप्रभुः
न्यग्रोधशायी भगवानेकशृङ्गतनुस्तथा।
देवो वामनदेहस्तु सर्वव्यापी त्रिविक्रमः
नरो नारायणश्चैव हरिः कृष्णस्तथैव च।
ज्वलत्परशुभृद्रामो रामश्चान्यो धनुर्धरः
वेदविद्भगवान् कल्की पातालशयनः प्रभुः।
त्रिंशच्चाष्टाविमे देवाः पद्मनाभादयो मताः
विभोर्विशाखयूपस्य तत्तत्कार्यवशादिमे।
स्फूर्तयो विभवाः ख्याताः कार्यं चैषामसंकरम्
शुद्धाशुद्धाध्वनोर्मध्ये पद्मनाभो व्यवस्थितः।
ध्रुवादयोऽपरे देवा विवृता विश्वमन्दिरे
रूपाण्यस्त्राणि चैतेषां शक्तयश्चापरा विधाः।
सर्वं तत् सात्त्वते सिद्धं संज्ञामात्रं प्रदर्शितम्
शाखास्तु वासुदेवाद्या विभोर्देवस्य कीर्तिताः।
विशाखयूपो भगवान् वितताभिः करोति तत्
चतसृभ्योऽथ शाखाभ्यः केशवाद्यं त्रयं त्रयम्।
दामोदरान्तमुद्भूतं तद् व्यूहान्तरमुच्यते
ताभ्य एव हि शाखाभ्यः श्रियादीनां त्रयं त्रयम्।
पूर्वत्रयानुरूपेण शक्तीनां च समुद्गतम्
परादिविभवान्तानां सर्वेषां देवतात्मनाम्।
शुद्धषाड्गुण्यरूपाणि वपूंषि त्रिदशेश्वर
यावन्त्यस्त्राणि देवानां चक्रशङ्खादिकानि वै।
भूषणानि विचित्राणि वासांसि विविधानि च
ध्वजाश्च विविधाकाराः कान्तयश्च सितादिकाः।
वाहनानि विचित्राणि सत्याद्यानि सुरेश्वर
शक्तयो भोगदाश्चैव विविधाकारसंस्थिताः।
आन्तःकरणिको वर्गस्तदीया वृत्तयोऽखैलाः
यच्च यच्चोपकरणं सामान्यं पुरुषान्तरैः।
षाड्गुण्यनिर्मितं विद्धि तत्सर्वं बलसूदन
शुद्धसंविन्मयी साहं षाड्गुण्यपरिपूरिता।
तथा तथा भवाम्येषामिष्टं यद्धि यथा यथा
न विना देवेदेवेन स्थितिर्मम हि विद्यते।
मया विना न देवस्य स्थितिर्विष्णोर्हि विद्यते
तावावामेकतां प्राप्तौ द्विधा भूतौ च संस्थितौ।
विधां भजावहे तां तां यद्दद्यत्र ह्यपेक्षितम्
शक्रः---
सिन्धुकन्ये नमस्तुभ्यं नमस्ते सरसीरुहे।
परव्यूहादिभेदेन किं प्रयोजनमीशितुः
श्रीः---
अनुग्रहाय जीवानां भक्तानामनुकम्पया।
परव्यूहादिभेदेन देवदेवप्रवृत्तयः
शक्रः---
देवदेवप्रिये देवि नमस्ते कमलोद्भवे।
अनुग्रहाय भक्तानामेकैवास्तु विधा हरेः
श्रीः---
जीवानां विविधाः शक्र संचिताः पुण्यसंचयाः।
संचिन्वन्ति न ते जीवास्तुल्यकालं कथंचन
कश्चिद्धि सुकृतोन्मेषात् कदाचित् पुरुषो नृषु।
श्रीमता कमलाक्षेण जायमानो निरीक्ष्यते
अन्यदा पुरुषोऽन्यश्चेत्येवं भिन्नाः शुभाशयाः।
भेदोऽधिकारिणां पुण्यतारतम्येन जायते
विवेकः कस्यचिन्मन्दो भगवत्तत्ववेदने।
मद्यमस्तु परस्याथ दिव्योऽन्यस्य तु जायते
ईशानुग्रहवैषम्यादेवं भेदे व्यवस्थिते।
तत्तत्कार्यानुरोधेन परव्यूहादिभावना
क्रियते देवदेवेन शक्तिं मामधितिष्ठता।
संसिद्धयोगतत्त्वानामधिकारः परात्मनि
व्यामिश्रयोगयुक्तानां मध्यानां व्यूहभावने।
वैभवीयादिरूपेषु विवेकविधुरात्मनाम्
अहंताममातार्तानां भक्तानां परमेश्वरे।
अधिकारस्य वैषम्यं भक्तानामनुदृश्य सः
भजते विविधं भावं परव्यूहादिशब्दितम्।
इति ते लेशतः शक्र दर्शिता उभयात्मकाः
भवद्भावोत्तरा व्यूहा मम नारायणस्य च।
शुद्धे शुद्धेतरस्मिंश्च कोशवर्गे मदुद्भवे
स्थितिर्नौ दर्शिता तेऽद्य पृथक् सह च केवला।
एवंप्रकारां मां ज्ञात्वा प्रत्यक्षां सर्वसंमताम्
उपायैर्विविधैः शश्वदुपास्य विविधात्मिकाम्।
क्लेशकर्माशयातीतो मद्भावं प्रतिपद्यते
54. क्लेशकर्माशया अनन्तराध्याये वक्ष्यन्ते।
इति श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे विभवप्रकाशो नाम एकादशोऽध्यायः
********इत्येकादशोऽध्यायः********
मूल पाठ: lakṣmītantram · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0