भाषा

ENहिગુ
ग्रंथ पाठ

लक्ष्मीतन्त्रम् · अध्याय 1

1.1

श्रीः
लक्ष्मीतन्त्रम्
प्रथमोऽध्यायः - 1
नमो नित्यानवद्याय जगतः सर्वहेतवे।
ज्ञानाय निस्तरङ्गाय लक्ष्मीनारायणात्मने

1.2

1. नम इति विशिष्टोपायस्य, लक्ष्मीनारायणात्मन इति विशिष्टोपेयस्य च निर्देशः। नित्यानवद्यायेति नारायणस्य जगदुपादानत्वशङ्कितसविकारत्वनिरासः बद्धमुक्तजीववैलक्षण्यं चोक्तम्। जगतः सर्वहेतवे इत्यौपनिषदमभिन्ननिमित्तोपादानत्वं नित्यजीववैलक्षण्यं चोक्तम्। ज्ञानायेति जगत्कारणत्वौपयिकगुणगणपूर्तिः स्वरूपनिरूपकधर्मश्चोक्तः। निस्तरङ्गायेति षडूर्मिराहित्यं सततपरिणाम्यचिद्वैलक्षण्यं चोक्तम्।
[1. ब् अन्द् च् अद्द् थे fओल्लोwइन्ग् वेर्सेस् इन् थे बेगिन्निन्ग्:
तुषाराद्रिसमच्छायं तुलसीदामभूषणम्।
तुरंगममुखं वन्दे तुङ्गसारस्वतप्रदम्॥
ज्ञानानन्दमयं देवं निर्मलस्फटिकाकृतिम्।
आधारं सर्वविद्यानां हयग्रीवमुपास्महे॥ ]
खगासनं घृणाधारमीदृशं सोमभूषितम्।
अकलङ्केन्दुसूर्याग्निं लक्ष्मीरूपमुपास्महे

1.3

2. ईदृशमित्यादि। ईकाररूपमित्यर्थः। अकलङ्केत्यादि। स्वरस्पर्शव्यापकाक्षररूपमिति देव्या वाक्स्वरूपत्वमुक्तं भवति। यथोक्तं प्रपञ्चसारे-- "स्वराख्याः षोडश प्रोक्ताः स्पर्शाख्याः पञ्चविंशतिः। व्यापकाश्च दशैते स्युः सोमेनाग्न्यात्मकाः क्रमात्॥" इति।
वेदवेदान्ततत्त्वज्ञं सर्वशास्रविशारदम्।
सर्वसिद्धान्ततत्त्वज्ञं धर्माणामागतागमम्

1.4

जितेन्द्रियं जिताधारं रागद्वेषावशीकृतम्।
चतुर्दशाङ्गयोगस्थं प्रसंख्यानपरायणम्

1.5

4. चतुर्दशेति। भक्तिन्यासयोगेत्यर्थः।
टिप्पणी
नमस्यामः श्रियं देवीं देवो दीव्यति यत्सखः।
त्रैगुण्यफलके चित्रे क्षिप्तैर्ब्रह्मादिपाशकैः॥
लक्ष्मीतन्त्रमहाम्भोधौ तत्त्वरत्नानि चिन्वताम्।
तत्त्वप्रकाशनी टीका साहाय्यं कर्तुमीहते॥
विद्धे स्वर्भानुना भानौ पुरा तपनतां गतम्।
निदानं तपसामाद्यं तेजोराशिमनामयम्

1.6

5. विद्ध इति। अत्र महाभारतानुशासनिके 260 अध्यायोक्तमनुसंधेयम्।
अत्रिमत्रिगुणोपेतमत्रिवर्गस्थमव्ययम्।
प्रातः संध्यामुपासीनमृषिं हुतहुताशनम्

1.7

6. अत्रिगुणेत्यादिना महर्षेरत्रिनाम्नोऽन्वर्थत्वं व्यज्यते।
पतिव्रतानां परमा धर्मपत्नी यशस्विनी।
ब्रह्मविष्णुमहेशानां जननी कारणान्तरे

1.8

7. ब्रह्मेत्यादि। पुरा त्रिमूर्तयोऽनसूयायाः पातिव्रत्यं परीक्षितुमयतन्त। तेन क्रुद्धया तया ते द्विहायनाः शिशवोऽक्रियन्त। ततस्तन्महिषीभिः प्रसादिता सा तान् यथापुरमकरोदिति पौराणिकी कथात्रानुसंधेया।
देवैरभिष्टुता शश्वच्छान्तिनित्या तपस्विनी।
विदुषी सर्वधर्मज्ञा नित्यं पतिमनुव्रता

1.9

पत्युः श्रुतवती तास्ता विविधा धर्मसंहिताः।
प्रणिपातपुरस्कारमनसूया वचोऽब्रवीत्

1.10

अनसूया---
भगवन् सर्वधर्मज्ञ मम नाथ जगत्पते।
त्वत्त एव श्रुता धर्मास्ते ते बहुविधात्मकाः

1.11

ज्ञानानि च विचित्राणि फलरूपादिभेदतः।
एतेभ्यो भगवद्धर्मो विशिष्टो विधृतो मया

1.12

11. भगवद्धर्मः। भगवत्प्राप्तिफलो निवृत्तिधर्मः।
त्वया कथयता तास्ता भगवद्धर्मसंहिताः।
सूचितं तत्र तत्रैव लक्ष्मीमाहात्म्यमुत्तमम्

1.13

रहस्यत्वादपृष्टत्वान्न त्वया प्रकटीकृतम्।
तदहं श्रोतुमिच्छामि लक्ष्मीमाहात्म्यमुत्तमम्

1.14

13. अप्टष्टत्वादिति। "नाप्टष्टः कस्यचिद् ब्रूयात्" इति विधिरत्राभिप्रेतः।
यत्स्वभावा हि सा देवी यत्स्वरूपा यदुद्भवा।
यत्प्रमाणा यदाधारा यदुपायाथ यत्फला

1.15

तदहं श्रोतुमिच्छामि त्वत्तो ब्रह्मविदां वर।
भवेयं कृतकृत्याहं यस्य विज्ञानयोगतः

1.16

तं मे दर्शय पन्थानमुपसन्नास्म्यधीहि भो।
इति तस्या वचः श्रुत्वा भगवानत्रिरब्रवीत्

1.17

16. उपसन्नेति। "तस्मै स विद्वानुपसन्नाय सम्यक् प्रोवाच तां तत्त्वतो ब्रह्मविद्याम्" इति श्रुत्यर्थोऽभिप्रेतः। पन्थानमिति। सदुपायमित्यर्थः। "महाजनो येन गतः स पन्थाः" इतिवत्।
अत्रिः---
साधु संबोधितोऽस्म्यद्य धर्मज्ञे धर्मचारिणि।
मया प्टष्टेन वक्तव्यमिति नोद्धाटितं पुरा

1.18

अर्हा त्वमसि कल्याणि लक्ष्मीमाहात्म्यमुत्तमम्।
श्रोतुं श्रुतिशिरःश्रेणिहृदयस्थं सनातनम्

1.19

पुरा मलयशैलस्था मुनयो धर्मतत्पराः।
श्रुतसात्त्वतविज्ञाना नारदाद्देवदर्शनात्

1.20

अप्टच्छन्नेतमेवार्थं भगवन्तं सनातनम्।
नारदं ब्रह्मसंकाशं भगवद्धर्मवेदिनम्

1.21

ऋषयः---
भगवंस्त्वच्छ्रुतोऽस्माभिः सात्त्वतः सत्त्वसंश्रयः।
शुद्धो भागवतो धर्मो मोक्षैकफललक्षणः

1.22

21. सात्त्वतः सत्त्वसंश्रयः। सत्त्वगुणैकप्रधानो धर्म इत्यर्थः। अनेन सात्त्वतशब्दनिर्वचनमपि सूचितम्। यथा--सत्त्वं सत्त्वगुणः अस्यास्तीति सत्त्वतः। पर्वतादिवत् मत्वर्थे तप्‌प्रत्ययः। सत्त्वत एव सात्त्वत इति। तस्यैव विवरणं शुद्धो भागवतो धर्म इति।
तत्र तत्त्वार्थकथने लक्ष्मीमाहात्म्यमुत्तमम्।
सूचितं तत्र तत्रैव नाप्टष्टत्वात्प्रकाशितम्

1.23

इच्छामस्तदिदं श्रोतुं भवसागरतारकम्।
पद्मिनीवैभवं सर्वं प्रज्ञापयुत नो भवान्

1.24

नताः स्म शिरसा पादौ तव संसारतारकौ।
अधीहि भो मुने दिव्यं प्रपन्नास्त्वां चिरं वयम्

1.25

24. चिरमिति। "नासंवत्सरवासिने ब्रूयात्" इति विधिरभिप्रेतः।
नारदः---
साधु संबोधितोऽस्म्यद्य मुनयः संशितव्रताः।
प्रसन्नः कथयाम्यद्य लक्ष्मीतन्त्रं सनातनम्

1.26

25. लक्ष्मीतन्त्रमिति ग्रन्थनाम। इदं च तन्त्रं शतकोटिग्रन्थपरिमितात् मूलभूतलक्ष्मीतन्त्रात् सारमुद्धृत्य कथितमिति वक्ष्यतेऽत्रैव (44-52)।
यत्र सा दृश्यते देवी स्वरूपगुणवैभवैः।
पद्मिनी पद्मनाभस्य महिषी पद्मसंभवा

1.27

पुरा दुर्वाससः शापादभिभूते पुरंदरे।
निःस्वाध्यायवषट्‌कारे भ्रष्टश्रीके जगत्त्रये

1.28

27. पुरेत्यादि। इयमाख्यायिका विष्णुपुराणे प्रथमांशे द्रष्टव्या। निःस्वाध्यायवषट्‌कारत्व भ्रष्टश्रीकत्वे हेतुः।
दरिद्रे देववर्गे च कृशे धर्मे निसंतते।
पितामहे सुरैः सार्धं क्षीरोदार्णवमेयुषि

1.29

28. निसंतते। विच्छिन्न इत्यर्थः।
बहून वर्षगणान् दिव्यांस्तप्त्वा तीव्रं महत्तपः।
संबोधिते जगन्नाथे देवदेवे जनार्धने

1.30

पितामहेन देवाय कार्ये च विनिवेदिते।
क्षीरोदे मथिते देवैस्तदादिष्टेन वर्त्मना

1.31

पारिजाते हयश्रेष्ठे गजेन्द्रेऽप्सरसां गणे।
कालकूटे समुद्‌भूते वारुण्याममृते तथा

1.32

सह चन्द्रमसा देव्यामुत्थितायां महार्णवात्।
पद्मिन्यां पद्मनाभस्य वक्षःस्थायामनन्तरम्

1.33

तयावलोकिते देववर्गे श्रियमुपेयुषि।
तयानवेक्षिते दैत्यवर्गे चैव पराजिते

1.34

33. अनेनान्वयव्यतिरेकाभ्यां लक्ष्मीकटाक्षपातस्य सर्वसंपन्निदानत्वं निरूप्यते। यत्सत्त्वे यत्सत्त्वमित्यन्वये यथा देवेषु इति दृष्टान्तः। यदभावे यदभाव इति व्यतिरेके यथा दैत्येषु इति दृष्टान्तः। इममेव विषयमनन्तरमेव 35 तमश्लोके वक्ष्यति।
स्वाराज्यमखिलं प्राप्य मोदमाने पुरंदरे।
बृहस्पतिरुपागम्य रहसीदं वचोऽब्रवीत्

1.35

बृहस्पतिः---
काले संबोधयाम्येतच्छृणु वाक्यं पुरंदर।
अन्वयव्यतिरेकाभ्यां लक्ष्म्यास्ते कथिता पुरा

1.36

महत्ता महतां नाथ तस्यामायतते स्थितिः।
न भ्रश्येत यथैवैषा तव राज्यस्थितेः परा

1.37

तथा यतस्व देवेश शरणं गच्छ पद्मिनीम्।
एषा हि श्रेयसो मूलमेषा हि परमा गतिः

1.38

श्रुतीनामभिसंधिश्च सैव देवी सनातनी।
एषैव जगतां प्राणा एषैव जगतां क्रिया

1.39

38. श्रुतीनामिति। "वेदैश्च सर्वैरहमेव वेद्यः" इत्युक्तरीत्या सर्ववेदतात्पर्यपर्यवसानभूमिरित्यर्थः। उभयोरपृथग्भावान्न वचनविरोधः।
एषैव जगतामिच्छा ज्ञानमेषा परावरा।
एषैव सृजते काले सैषा पाति जगत्त्रयम्

1.40

39. जगत्कारणत्वस्य ब्रह्मासाधारणत्वसिद्धान्तेऽपि तच्छक्तिरूपत्वेन तदपृथक्सिद्धत्वात् शक्तिकृतस्यापि शक्तिमत्कृतत्वव्यपदेशो युज्यत एव। वक्ष्यते चैतत् सुस्पष्टं देव्यैव (11-6, 7).
जगत्संहरते चान्ते तत्तत्कारणसंस्थिता।
मातरं जगतामेनामनाराध्य महत् कुतः

1.41

एतत्तु वैष्णवं धाम यते नावर्तते यतिः।
एषा सा परमा निष्ठा सांख्यानां विदितात्मनाम्

1.42

एषा सा योगिनां निष्ठा यत्र गत्वा न शोचति।
एषा पाशुपती निष्ठा सैषा वेदविदां गतिः

1.43

पञ्चरात्रस्य कृत्स्नस्य सैषा निष्ठा सनातनी।
सैषा नारायणी देवी स्थिता नारायणात्मना

1.44

पृथग्भूतापृथग्भूता ज्योत्स्नेव हिमदीधितेः।
तैस्तैर्ज्ञानैः पृथग्भूतैरागमैश्च पृथग्विधैः

1.45

44. नारायण्या नारायणात्मनावस्थानं पूर्वश्लोकोक्तमेवोपपादयति---पृथग्भूतेति अपृथग्भूतेति च। धर्मधर्मिणोरपृथक्‌सिद्धयोः निष्कर्षविवक्षायां धर्मस्य पृथग्व्यपदेशः। अनिष्कर्षे तु धर्मितया। यथा `शुक्लं रूपम्, शुक्लः पटःऽ इति।
एकैवैषा परा देवी बहुधा समुपास्यते।
तामुपेहि महाभागां शरणं पद्मसंभवाम्

1.46

तपोविशेषै र्विविधैस्तैस्तैश्च नियमैः शुभैः।
आराध्य महिषीं विष्णोः स्थिरीकुरु निजश्रियम्

1.47

एषा प्रसादसुमुखी स्वं पदं प्रापयिष्यति।
अभीप्सितार्थदा देवी कामिनामपि कामदा

1.48

47. देवीप्रसादे परमपदरूपमोक्षप्राप्तिः, आनुषङ्गिकत्रिवर्गफलप्राप्तिश्चानेनोच्यते।
नारदः---
इति संबोधितः शक्रो गुरुणा गुरुणा स्वयम्।
आराधयितुकामस्तां क्षीरोदस्योत्तरं ययौ

1.49

तत्र दिव्यं तपस्तेपे बिल्वमूलनिकेतनः।
एकपादस्थितो मौनी काष्ठभूतोऽनिलाशनः

1.50

ऊर्ध्वदृग्बाहुवक्त्रश्च नियतो नियतात्मवान्।
दिव्यं वर्षसहस्रं वै तपस्तेपे सुदुश्चरम्

1.51

तपसोऽवभृथे तस्य सा देवी पद्मसंभवा।
प्रसन्नवदना विष्णोर्महिषी दर्शनं ययौ

1.52

अग्रतः संस्थितां देवीं जगतां मातरं पराम्।
तां शक्रश्चक्षुषा वीक्ष्य विस्मयं परमं ययौ

1.53

विह्वलः प्रणिपत्याथ पाञ्जलिर्बलसूदनः।
श्रियं सूक्तेन तुष्टाव पद्मिनीं पाकशासनः

1.54

एकान्तभावमापन्नमव्याजां भक्तिमास्थितम्।
तं वीक्ष्य जगतां माता वाक्यमेतदुवाच ह

1.55

श्रीः---
वत्स शक्र परसन्नास्मि तपसा तव सुव्रत।
वरं वृणु महाभाग किमिष्टं करवाणिते

1.56

शक्रः---
अद्य मे तपसो देवि यमस्य नियमस्य च।
सद्यः फलमवाप्तं यद् दृष्टा भगवती मया

1.57

यदि वापि वरो देयस्त्वया मे परमेश्वरि।
तत्त्वं कथय देवेशि यासि त्वं यत्प्रकारिका

1.58

यत्प्रमाणा यदाधारा यदुपाया सनातनी।
यस्य त्वं तेन वा देवि संबन्धस्तव यद्विधः

1.59

यच्चान्यद्वेदितव्यं ते नानाशास्रोपबृंहितम्।
कथयेश्वरि तत्सर्वमुपसन्नोऽस्म्यधीहि भो

1.60

इति प्रसादिता तेन वत्सेनेव पयस्विनी।
स्निह्यता मनसा पद्मा पाकशासनमब्रवीत्

1.61

श्रीः---
शृणु शक्र महाभाग या ह्यहं यत्प्रकारिका।
यस्याहं तेन वा यादृक् संबन्धो मम वृत्रहन्

इति श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे शास्रावतारो नाम प्रथमोऽध्यायः
********इति प्रथमोऽध्यायः********

मूल पाठ: lakṣmītantram · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc