भाषा

ENहिગુ
ग्रंथ पाठ

कुमारसंभव · अध्याय 2

2.1

तस्मिन् विप्रकृताः काले तारकेण दिवौकसः
तुरासाहं पुरोधाय धाम स्वायंभुवं ययुः ॥

2.3

अथ सर्वस्य धातारं ते सर्वे सर्वतोमुखम्
वागीशं वाग्भिर् अर्थ्याभिः प्रणिपत्योपतस्थिरे ॥

2.4

नमस् त्रिमूर्तये तुभ्यं प्राक् सृष्टेः केवलात्मने
गुणत्रयविभागाय पश्चाद् भेदम् उपेयुषे ॥

2.5

यद् अमोघम् अपाम् अन्तर् उप्तं बीजम् अज त्वया
अतश् चराचरं विश्वं प्रभवस् तस्य गीयसे ॥

2.6

तिसृभिस् त्वम् अवस्थाभिर् महिमानम् उदीरयन्
प्रलयस्थितिसर्गाणाम् एकः कारणतां गतः ॥

2.7

स्त्रीपुंसाव् आत्मभागौ ते भिन्नमूर्तेः सिसृक्षया
प्रसूतिभाजः सर्गस्य ताव् एव पितरौ स्मृतौ ॥

2.8

स्वकालपरिमाणेन व्यस्तरात्रिंदिवस्य ते
यौ तु स्वप्नावबोधौ तौ भूतानां प्रलयोदयौ ॥

2.9

जगद्योनिर् अयोनिस् त्वं जगदन्तो निरन्तकः
जगदादिर् अनादिस् त्वं जगदीशो निरीश्वरः ॥

2.10

आत्मानम् आत्मना वेत्सि सृजस्य् आत्मानम् आत्मना
आत्मना कृतिना च त्वम् आत्मन्य् एव प्रलीयसे ॥

2.11

द्रवः संघातकठिनः स्थूलः सूक्ष्मो लघुर् गुरुः
व्यक्तो व्यक्तेतरश् चासि प्राकाम्यं ते विभूतिषु ॥

2.12

उद्घातः प्रणवो यासां न्यायैस् त्रिभिर् उदीरणम्
कर्म यज्ञः फलं स्वर्गस् तासां त्वं प्रभवो गिराम् ॥

2.13

त्वाम् आमनन्ति प्रकृतिं पुरुषार्थप्रवर्तिनीम्
तद्दर्शिनम् उदासीनं त्वाम् एव पुरुषं विदुः ॥

2.14

त्वं पितॄणाम् अपि पिता देवानाम् अपि देवता
परतो ऽपि परश् चासि विधाता वेधसाम् अपि ॥

2.15

त्वम् एव हव्यं होता च भोज्यं भोक्ता च शाश्वतः
वेद्यं च वेदिता चासि ध्याता ध्येयं च यत् परम् ॥

2.16

इति तेभ्यः स्तुतीः श्रुत्वा यथार्था हृदयंगमाः
प्रसादाभिमुखो वेधाः प्रत्युवाच दिवौकसः ॥

2.17

पुराणस्य कवेस् तस्य चतुर्मुखसमीरिता
प्रवृत्तिर् आसीच् छब्दानां चरितार्था चतुष्टयी ॥

2.18

स्वागतं स्वान् अधीकारान् प्रभावैर् अवलम्ब्य वः
युगपद् युगबाहुभ्यः प्राप्तेभ्यः प्राज्यविक्रमाः ॥

2.19

किम् इदं द्युतिम् आत्मीयां न बिभ्रति यथा पुरा
हिमक्लिष्टप्रकाशानि ज्योतींषीव मुखानि वः ॥

2.20

प्रशमाद् अर्चिषाम् एतद् अनुद्गीर्णसुरायुधम्
वृत्रस्य हन्तुः कुलिशं कुण्ठिताश्रीव लक्ष्यते ॥

2.21

किं चायम् अरिदुर्वारः पाणौ पाशः प्रचेतसः
मन्त्रेण हतवीर्यस्य फणिनो दैन्यम् आश्रितः ॥

2.22

कुबेरस्य मनःशल्यं शंसतीव पराभवम्
अपविद्धगदो बाहुर् भग्नशाख इव द्रुमः ॥

2.23

यमो ऽपि विलिखन् भूमिं दण्डेनास्तमितत्विषा
कुरुते ऽस्मिन्न् अमोघे ऽपि निर्वाणालातलाघवम् ॥

2.24

अमी च कथम् आदित्याः प्रतापक्षतिशीतलाः
चित्रन्यस्ता इव गताः प्रकामालोकनीयताम् ॥

2.25

पर्याकुलत्वान् मरुतां वेगभङ्गो ऽनुमीयते
अम्भसाम् ओघसंरोधः प्रतीपगमनाद् इव ॥

2.26

आवर्जितजटामौलि विलम्बिशशिकोटयः
रुद्राणाम् अपि मूर्धानः क्षतहुंकारशंसिनः ॥

2.27

लब्धप्रतिष्ठाः प्रथमं यूयं किं बलवत्तरैः
अपवादैर् इवोत्सर्गाः कृतव्यावृत्तयः परैः ॥

2.28

तद् ब्रूत वत्साः किम् इतः प्रार्थयध्वे समागताः
मयि सृष्टिर् हि लोकानां रक्षा युष्मास्व् अवस्थिता ॥

2.29

ततो मन्दानिलोद्धूत कमलाकरशोभिना
गुरुं नेत्रसहस्रेण चोदयाम् आस वासवः ॥

2.30

स द्विनेत्रो हरेश् चक्षुः सहस्रनयनाधिकम्
वाचस्पतिर् उवाचेदं प्राञ्जलिर् जलजासनम् ॥

2.31

एवं यद् आत्थ भगवन्न् आमृष्टं नः परैः पदम्
प्रत्येकं विनियुक्तात्मा कथं न ज्ञास्यसि प्रभो ॥

2.32

भवल्लब्धवरोदीर्णस् तारकाख्यो महासुरः
उपप्लवाय लोकानां धूमकेतुर् इवोत्थितः ॥

2.33

पुरे तावन्तम् एवास्य तनोति रविर् आतपम्
दीर्घिकाकमलोन्मेषो यावन्मात्रेण साध्यते ॥

2.34

सर्वाभिः सर्वदा चन्द्रस् तं कलाभिर् निषेवते
नादत्ते केवलां लेखां हरचूडामणीकृताम् ॥

2.35

व्यावृत्तगतिर् उद्याने कुसुमस्तेयसाध्वसात्
न वाति वायुस् तत्पार्श्वे तालवृन्तानिलाधिकम् ॥

2.36

पर्यायसेवाम् उत्सृज्य पुष्पसंभारतत्पराः
उद्यानपालसामान्यम् ऋतवस् तम् उपासते ॥

2.37

तस्योपायनयोग्यानि रत्नानि सरितां पतिः
कथम् अप्य् अम्भसाम् अन्तर् आ निष्पत्तेः प्रतीक्षते ॥

2.38

ज्वलन्मणिशिखाश् चैनं वासुकिप्रमुखा निशि
स्थिरप्रदीपताम् एत्य भुजंगाः पर्युपासते ॥

2.39

तत्कृतानुग्रहापेक्षी तं मुहुर् दूतहारितैः
अनुकूलयतीन्द्रो ऽपि कल्पद्रुमविभूषणैः ॥

2.40

इत्थम् आराध्यमानो ऽपि क्लिश्नाति भुवनत्रयम्
शाम्येत् प्रत्यपकारेण नोपकारेण दुर्जनः ॥

2.41

तेनामरवधूहस्तैः सदयालूनपल्लवाः
अभिज्ञाश् छेदपातानां क्रियन्ते नन्दनद्रुमाः ॥

2.42

वीज्यते स हि संसुप्तः श्वाससाधारणानिलैः
चामरैः सुरबन्दीनां बाष्पशीकरवर्षिभिः ॥

2.43

उत्पाट्य मेरुशृङ्गाणि क्षुण्णानि हरितां खुरैः
आक्रीडपर्वतास् तेन कल्पिताः स्वेषु वेश्मसु ॥

2.44

मन्दाकिन्याः पयःशेषं दिग्वारणमदाविलम्
हेमाम्भोरुहसस्यानां तद्वाप्यो धाम सांप्रतम् ॥

2.45

भुवनालोकनप्रीतिः स्वर्गिभिर् नानुभूयते
खिलीभूते विमानानां तदापातभयात् पथि ॥

2.46

यज्वभिः संभृतं हव्यं विततेष्व् अध्वरेषु सः
जातवेदोमुखान् मायी मिषताम् आच्छिनत्ति नः ॥

2.47

उच्चैर् उच्चैःश्रवास् तेन हयरत्नम् अहारि च
देहबद्धम् इवेन्द्रस्य चिरकालार्जितं यशः ॥

2.48

तस्मिन्न् उपायाः सर्वे नः क्रूरे प्रतिहतक्रियाः
वीर्यवत्य् औषधानीव विकारे सांनिपातिके ॥

2.49

जयाशा यत्र चास्माकं प्रतिघातोत्थितार्चिषा
हरिचक्रेण तेनास्य कण्ठे निष्क इवार्पितः ॥

2.50

तदीयास् तोयदेष्व् अद्य पुष्करावर्तकादिषु
अभ्यस्यन्ति तटाघातं निर्जितैरावता गजाः ॥

2.51

तद् इच्छामो विभो सृष्टं सेनान्यं तस्य शान्तये
कर्मबन्धच्छिदं धर्मं भवस्येव मुमुक्षवः ॥

2.52

गोप्तारं सुरसैन्यानां यं पुरस्कृत्य गोत्रभित्
प्रत्यानेष्यति शत्रुभ्यो बन्दीम् इव जयश्रियम् ॥

2.53

वचस्य् अवसिते तस्मिन् ससर्ज गिरम् आत्मभूः
गर्जितानन्तरां वृष्टिं सौभाग्येन जिगाय या ॥

2.54

संपत्स्यते वः कामो यं कालः कश्चित् प्रतीक्ष्यताम्
न त्व् अस्य सिद्धौ यास्यामि सर्गव्यापारम् आत्मना ॥

2.55

इतः स दैत्यः प्राप्तश्रीर् नेत एवार्हति क्षयम्
विषवृक्षो ऽपि संवर्ध्य स्वयं छेत्तुम् असांप्रतम् ॥

2.56

वृतं तेनेदम् एव प्राङ् मया चास्मै प्रतिश्रुतम्
वरेण शमितं लोकान् अलं दग्धुं हि तत्तपः ॥

2.57

संयुगे सांयुगीनं तम् उद्यतं प्रसहेत कः
अंशाद् ऋते निषिक्तस्य नीललोहितरेतसः ॥

2.58

स हि देवः परं ज्योतिस् तमःपारे व्यवस्थितम्
परिच्छिन्नप्रभावर्द्धिर् न मया न च विष्णुना ॥

2.59

उमारूपेण ते यूयं संयमस्तिमितं मनः
शंभोर् यतध्वम् आक्रष्टुम् अयस्कान्तेन लोहवत् ॥

2.60

उभे एव क्षमे वोढुम् उभयोर् वीर्यम् आहितम्
सा वा शंभोस् तदीया वा मूर्तिर् जलमयी मम ॥

2.61

तस्यात्मा शितिकण्ठस्य सैनापत्यम् उपेत्य वः
मोक्ष्यते सुरबन्दीनां वेणीर् वीर्यविभूतिभिः ॥

2.62

इति व्याहृत्य विबुधान् विश्वयोनिस् तिरोदधे
मनस्य् आहितकर्तव्यास् ते ऽपि प्रतिययुर् दिवम् ॥

2.63

तत्र निश्चित्य कन्दर्पम् अगमत् पाकशासनः
मनसा कार्यसंसिद्धि त्वराद्विगुणरंहसा ॥

2.64

अथ स ललितयोषिद्भ्रूलताचारुशृङ्गं रतिवलयपदाङ्के चापम् आसज्य कण्ठे
सहचरमधुहस्तन्यस्तचूताङ्कुरास्त्रः शतमखम् उपतस्थे प्राञ्जलिः पुष्पधन्वा ॥

मूल पाठ: Kumārasaṃbhava · Data entry Utz Podzeit · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc