भाषा

ENहिગુ
ग्रंथ पाठ

कुलार्णवतन्त्रम् · अध्याय p1

p1.1

॥ श्रीः ॥
कुलार्णवतन्त्रम्
अथ प्रथमोल्लासः
कैलासशिखरासीनं देवदेवं जगद्गुरुम् ।
पप्रच्छेशं परानन्दं पार्वती परमेश्वरम्

p1.2

श्रीदेव्युवाच
भगवन् देवदेवेश पञ्चक्रतुविधायक ।
सर्वज्ञ भक्तिसुलभ शरणागतवत्सल

p1.3

कुलेश परमेशान करुणामृतवारिधे ।
असारे घोरसंसारे सर्वदुःखमलीमसाः

p1.4

नानाविधशरीरस्था अनन्ता जीवराशयः ।
जायन्ते च मिरयन्ते च तेषां मोक्षो न विद्यते

p1.5

सदा दुःखातुरा देव न सुखी विद्यते क्वचित् ।
केनोपायेन देवेश मुच्यते वद मे प्रभो

p1.6

श्रीईश्वर उवाच
शृणु देवि प्रवक्ष्यामि यन्मां त्वं परिपृच्छसि ।
तस्य श्रवणमात्रेण संसाराद् मुच्यते नरः

p1.7

अस्ति देविं परब्रह्मस्वरूपो निष्कलः शिवः ।
सर्वज्ञः सर्वकर्त्ता च सर्वेशो निर्मलोऽद्वयः

p1.8

स्वयं ज्योतिरनाद्यन्तो निवीकारः परात् परः ।
निर्गुणः सच्चिदानन्दस्तदंशा जीवसंज्ञकाः

p1.9

अनाद्यविद्योपहिता यथाग्नौ विस्फुलिङ्गकाः ।
गर्भाद्युपाधिसंभिन्नाः कर्मभिः करणादिभिः

p1.10

सर्वदुःखप्रदैः स्वीयपुण्यपापैनीयन्त्रिताः ।
तत्तज्जातियुतं देहम् आयुर्भोगञ्च कर्मजम्

p1.11

प्रतिजन्म प्रपद्यन्ते मानुषा मूढचेतसः ।
सूक्ष्मलिङ्गशरीरन्तदामोक्षादक्षयं प्रिये

p1.12

स्थावराः क्रिमयश्चाब्जाः पक्षिणः पशवो नराः।
धामीकास्त्रिदशास्तद्वन्मोक्षिणश्च यथाक्रमम्

p1.13

चतुवीधशरीराणि धृत्वा धृत्वा सहस्रशः ।
सुकृतान्मानवो भूत्वा ज्ञानी चेन्मोक्षमाप्नुयात्

p1.14

चतुरशीतिलक्षेषु शरीरेषु शरीरिणाम् ।
न मानुष्यं विना यत्र तत्त्वज्ञानं तु लभ्यते

p1.15

अत्र जन्मसहस्रेषु सहस्रैरपि पार्वति ।
कदाचिल्लभते जन्तुर्मानुष्यं पुण्यसञ्चयात्

p1.16

सोपानभूतं मोक्षस्य मानुष्यं प्राप्य दुर्लभम् ।
यस्तारयति नात्मानं तस्मात् पापतरोऽत्र कः

p1.17

ततश्चाप्युत्तमं जन्म लब्ध्वा चेन्द्रियसौष्ठवम् ।
न वेत्त्यात्महितं यस्तु स भवेत् आत्मघातकः

p1.18

विना देहेन कस्यापि पुरुषार्थो न विद्यते ।
तस्माद्देहधनं प्राप्य पुण्यकर्माणि साधयेत्

p1.19

रक्षेत् सर्वात्मनात्मानम् आत्मा सर्वस्य भाजनम् ।
रक्षणे यत्नमातिष्ठेत् यावत्तत्त्वं न पश्यति

p1.20

पुनर्ग्रामाः पुनः क्षेत्रं पुनवीत्तं पुनर्गृहम् ।
पुनः शुभाशुभं कर्म न शरीरं पुनः पुनः

p1.21

शरीररक्षणायासः क्रियते सर्वदा जनैः ।
नहीच्छन्ति तनुत्यागमपि कुष्ठादिरोगतः

p1.22

तद्गोपितं स्याद् यत्नेन धर्मो ज्ञानार्थमेव च ।
ज्ञानञ्च ध्यानयोगार्थं सोऽचिरात् परिमुच्यते

p1.23

आत्मैव यदि नात्मानमहितेभ्यो निवारयेत् ।
कोऽन्यो हितकरस्तस्मादात्मानं तारयिष्यति

p1.24

इहैव नरकव्याधेश्चिकित्सां न करोति यः ।
गत्वा निरौषधं स्थानं व्याधिस्थः किं करिष्यति

p1.25

सुदीप्त भवने को वा कूपं खनति दुर्मतिः ।
यावत्तिष्ठति देहोऽयं तावत्तत्त्वं समभ्यसेत्

p1.26

व्याघ्रीवास्ते जरा चायुर्याति भिन्नघटाम्बुवत् ।
निघ्नन्ति रिपुवद्रोगास्तस्माच्छ्रेयः समाचरेत्

p1.27

यावन्नाश्रयते दुःखं यावन्नायान्ति चापदः ।
यावन्नेन्द्रियवैकल्यं तावच्छ्रेयः समाचरेत्

p1.28

कालो न ज्ञायते नानाकार्यैः संसारसम्भवैः ।
सुखदुःखरतो जन्तुर्न वेत्ति हितमात्मनः

p1.29

जडानार्त्तान्मृतानापद्गतान् दृष्ट्वाऽतिदुःखितान् ।
लोको मोहसुरां पीत्वा न विभेति कदाचन

p1.30

सम्पदः स्वप्नसङ्काशा यौवनं कुसुमोपमम् ।
तडिच्चञ्चलमायुश्च कस्य स्याज्जगतो धृतिः

p1.31

शतं जीवितमत्यल्पं निद्रा स्यादर्द्धहारिणी ।
बाल्यरोगजरादुःखैरर्द्धं तदपि निष्फलम्

p1.32

प्रारब्धव्ये निरुद्योगो जागर्त्तव्ये सुषुप्तकः ।
विश्वस्तव्यो भयस्थाने घातकैः किं न हन्यते

p1.33

तोयफेनसमे देहे जीवे शकुनिवत् स्थिते ।
अनित्येऽप्रियसंसारे कथं तिष्ठन्ति निर्भयाः

p1.34

अहिते हितबुद्धिः स्यादध्रुवे ध्रुवचिन्तकः ।
अनर्थं चार्थविज्ञानी स्वमृत्युं यो न वेत्ति च

p1.35

पश्यन्नपि न पश्येत् स शृण्वन्नपि न बुध्यति ।
पठन्नपि न जानाति तव मायाविमोहितः

p1.36

सन्निमज्जज्जगदिदं गम्भीरे कालसागरे ।
मृत्युरोगजराग्राहे न किञ्चिदपि बुध्यति

p1.37

प्रतिक्षणमयं कायो जीर्यमाणो न लक्ष्यते ।
आमकुम्भ इवाम्भःस्थो विशीर्णो नैव भाव्यते

p1.38

युज्यते वेष्टनं वायोराकाशस्य च खण्डनम् ।
ग्रथनञ्च तरङ्गाणामास्था नायुषि युज्यते

p1.39

पृथिवी दह्यते येन मेरुश्चापि विशीर्यते ।
शुष्यते सागरजलं शरीरे देवि का कथा

p1.40

अपत्यं मे कलत्रं मे धनं मे बान्धवश्च मे ।
लपन्तमिति मर्त्त्यं हि हन्ति कालवृको बलात्

p1.41

इदं कृतमिदं कार्यमिदमन्यत् कृताकृतम् ।
एवमीहासमायुक्तं मृत्युरत्ति जनं प्रिये

p1.42

श्वःकार्यमद्य कर्त्तव्यं पूर्वाह्णे चापराह्निकम् ।
न हि प्रतीक्षते मृत्युः कृतं वाऽस्य न वा कृतम्

p1.43

जरादशीतपन्थानं प्रचण्डव्याधिसैनिकम् ।
मृत्युशत्रुमभिज्ञोऽसि आयान्तं किं न पश्यसि

p1.44

आशा सूचीविनिभीन्नं सिक्तं विषयसपीषा ।
रागद्वेषानले पक्वं मृत्युरश्नाति मानवम्

p1.45

बालांश्च यौवनस्थांश्च वृद्धान् गर्भगतानपि ।
सर्वांश्च हिंसते मृत्युरेवम्भूतमिदं जगत्

p1.46

ब्रह्माविष्णुमहेशादिदेवता भूतजातयः ।
नाशमेवानुधावन्ति तस्माच्छ्रेयः समाचरेत्

p1.47

स्वस्ववर्णाश्रमाचारलङ्घनाद् दुष्प्रतिग्रहात् ।
परस्त्रीधनलोभाच्च नॄणामायुःक्षयो भवेत्

p1.48

वेदशास्त्राद्यनभ्यासात्तथैव गुर्वनर्चनात् ।
नॄणामायुःक्षयो भूयादिन्द्रियाणामनिग्रहात्

p1.49

व्याधिराधिवीषं शस्त्रं ना सर्पः पशवो मृगाः ।
मरणं येन निद्र्दष्टं तेन गच्छन्ति जन्तवः

p1.50

जीवस्तृणजलौकेव देहाद्देहान्तरं व्रजेत् ।
सम्प्राप्य परमंशेन देहं त्यजति पूर्वजम्

p1.51

बाल्ययौवनवृद्धत्वं यथा देहान्तरादिकम् ।
तथा देहान्तरप्राप्तिर्गृहाद्गृहमिवागतः

p1.52

जनाः कृत्वेह कर्माणि सुखदुःखानि भुञ्जते ।
परत्राज्ञानिनो देवि यान्त्यायान्ति पुनः पुनः

p1.53

इह यत् क्रियते कर्म तत् परत्रोपभुज्यते ।
सिक्तमूलस्य वृक्षस्य फलं शाखासु दृश्यते

p1.54

दारिद्र्यदुःखरोगाश्च बन्धनव्यसनानि च ।
आत्मापराधवृक्षस्य फलान्येतानि देहिनाम्

p1.55

निःसङ्ग एव मोक्षः स्याद्दोषाः सर्वे च सङ्गजाः ।
तस्मात् सङ्गं परित्यज्य तत्त्वनिष्ठः सुखी भवेत् ।
सङ्गाच्च चलते ज्ञानी चावश्यं किमुताल्पवित्

p1.56

सङ्गः सर्वात्मना त्याज्यः स चेत्त्यक्तुं न शक्यते ।
सद्भः सह स कर्त्तव्यः सतां सङ्गो हि भेषजम्

p1.57

सत्सङ्गश्च विवेकश्च निर्मलं नयनद्वयम् ।
यस्य नास्ति नरः सोऽन्धः कथं न स्यादमार्गगः

p1.58

यावतः कुरुते जन्तुः सम्बन्धान्मनसः प्रियान् ।
तावन्तोऽस्य विशन्त्येते हृदये शोकशङ्कवः

p1.59

स्वदेहमपि जीवोऽयं त्यक्त्वा याति कुलेश्वरि ।
स्त्रीमातृपितृपुत्रादिसम्बन्धः केन हेतुना

p1.60

दुःखमूलो हि संसारः स यस्यास्ति स दुःखितः।
तस्य त्यागः कृतो येन स सुखी नापरः प्रिये

p1.61

प्रभवं सर्वदुःखानामाश्रयं सकलापदाम् ।
आलयं सर्वपापानां संसारं वर्जयेत् प्रिये

p1.62

अबन्धबन्धनं घोरं मिश्रीकृतमहाविषम् ।
अशस्त्रखण्डनं देवि संसारासक्तचेतसाम्

p1.63

आदिमध्यावसानेषु सर्वं दुःखमिदं यतः ।
तस्मात् सन्त्यज्य संसारं तत्त्वनिष्ठः सुखी भवेत्

p1.64

लौहदारुमयैः पाशैर्दृढबन्धोऽपि मुच्यते ।
स्त्रीधनादिषु संसक्तो मुच्यते न कदाचन

p1.65

कुटुम्बचिन्तायुक्तस्य श्रुतशीलादयो गुणाः ।
अपक्वकुम्भजलवत् नश्यन्त्यङ्गेन केवलम्

p1.66

वञ्चिताशेषचित्तैस्तैनीत्यं लोको विनाशितः ।
हा हन्त विषयाहारैर्देहस्थेन्द्रियतस्करैः

p1.67

मांसलुब्धो यथा मत्स्यो लौहशंकुं न पश्यति ।
सुखलुब्धस्तथा देही यमबाधां न पश्यति

p1.68

हिताहितं ना जानन्तो नित्यमुन्मार्गगामिनः ।
कुक्षिपूरणनिष्ठा ये तेऽबुधा नारकाः प्रिये

p1.69

निद्रादिमैथुनाहाराः सर्वेषां प्राणिनां समाः ।
ज्ञानवान् मानवः प्रोक्तो ज्ञानहीनः पशुः प्रिये

p1.70

प्रभाते मलमूत्राभ्यां क्षुत्तृड्भ्यां मध्यगे रवौ ।
रात्रौ मदननिद्राभ्यां बाध्यन्ते मानवाः प्रिये

p1.71

स्वदेहधर्मदारादिनिरताः सर्वजन्तवः ।
जायन्ते च मिरयन्ते च हा हन्ताज्ञानमोहिताः

p1.72

स्वस्ववर्णाश्रमाचारनिरताः सर्वमानवाः ।
न जानन्ति परं तत्त्वं मूढा नश्यन्ति पार्वति

p1.73

क्रियायासपराः केचित् क्रतुचर्यादि संयुताः ।
अज्ञानसंयुतात्मानः सञ्चरन्ति प्रतारकाः

p1.74

नाममात्रेण सन्तुष्टाः कर्मकाण्डरता नराः ।
मन्त्रोच्चारणहोमाद्यैर्भ्रामिताः क्रतुविस्तरैः

p1.75

एकभक्तोपवासाद्यैनीयमैः कायशोषणैः ।
मूढः परोक्षमिच्छन्ति तव मायाविमोहिताः

p1.76

देहदण्डनमात्रेण का मुक्तिरविवेकिनाम् ।
वल्मीकताडनाद्देवि मृतः किन्नु महोरगः

p1.77

धनाहारार्जने युक्ता दाम्भिका वेषधारिणः ।
भ्रमन्ति ज्ञानिवल्लोके भ्रामयन्ति जनानपि

p1.78

सांसारिकसुखासक्तं ब्रह्मज्ञोऽस्मीति वादिनम् ।
कर्मब्रह्मोभयभ्रष्टं तं त्यजेदन्त्यजं यथा

p1.79

गृहारण्यसमा लोके गतव्रीडा दिगम्बराः ।
चरन्ति गर्दभाद्याश्च योगिनस्ते भवन्ति किम्

p1.80

मृद्भस्मम्रक्षणाद् देवि मुक्ताः स्युर्यदि मानवाः ।
मृद्भस्मवासिनो ग्राम्याः किं ते मुक्ता भवन्ति हि

p1.81

तृणपर्णोदकाहाराः सततं वनवासिनः ।
हिरणादिमृगा देवि योगिनस्ते भवन्ति किम्

p1.82

आजन्ममरणान्तञ्च गङ्गादितटिनीस्थिताः ।
मण्डूकमत्स्यप्रमुखा व्रतिनस्ते भवन्ति किम्

p1.83

वदन्ति हृदयानन्दं पठन्ति शुकसारिकाः ।
जनानां पुरतो देवि विबुधाः किं भवन्ति हि

p1.84

पारावताः शिलाहाराः परमेश्वरि चातकाः ।
न पिबन्ति महीतोयं योगिनस्ते भवन्ति किम्

p1.85

शीतवातातपसहा भक्ष्याभक्ष्यसमाः प्रिये ।
तिष्ठन्ति शूकराद्याश्च योगिनस्ते भवन्ति किम्

p1.86

तस्मादित्यादिकं कर्म लोकवञ्चनकारकम् ।
मोक्षस्य कारणं साक्षात्तत्त्वज्ञानं कुलेश्वरि

p1.87

षड्दर्शनमहाकूपे पतिताः पशवः प्रिये ।
परमार्थं न जानन्ति पशुपाशानियन्त्रिताः

p1.88

वेदशास्त्रार्णवे घोरे ताड्यमाना इतस्ततः ।
कालोमीग्राहग्रस्ताश्च तिष्ठन्ति हि कुताकीकाः

p1.89

वेदागमपुराणज्ञः परमार्थं न वेत्ति यः ।
विडम्बकस्य तस्यापि तत् सर्वं काकभाषितम्

p1.90

इदं ज्ञानमिदं ज्ञेयमिति चिन्तासमाकुलाः ।
पठन्त्यहनीशं देवि परतत्त्वपराङ्मुखः

p1.91

वाक्यच्छन्दोनिबन्धेन काव्यालङ्कारशोभिना ।
चिन्तया दुःखिता मूढास्तिष्ठन्ति व्याकुलेन्द्रियाः

p1.92

अन्यथा परमं तत्त्वं जनाः क्लिश्यन्ति चान्यथा ।
अन्यथा शास्त्रसद्भावो व्याख्यां कुर्वन्ति चान्यथा

p1.93

कथयन्त्युन्मनीभावं स्वयं नानुभवन्ति हि ।
अहङ्कारहताः केचिदुपदेशविवजीताः

p1.94

पठन्ति वेदशास्त्राणि विवदन्ति परस्परम् ।
न जानन्ति परं तत्त्वं दर्वी पाकरसं यथा

p1.95

शिरो वहति पुष्पाणि गन्धं जानाति नासिका ।
पठन्ति वेदशास्त्राणि दुर्लभो भाववेदकः

p1.96

तत्त्वमात्मस्थमज्ञात्त्वा मूढः शास्त्रेषु मुह्यति ।
गोपः कक्षगतं छागं कूपे पश्यति दुर्मतिः

p1.97

संसार मोहनाशाय शाब्दबोधो न हि क्षमः ।
न निवर्त्तेत तिमिरं कदाचिद्दीपवार्त्तया

p1.98

प्रज्ञाहीनस्य पठनम् अन्धस्यादर्शदर्शनम् ।
देवि प्रज्ञावतः शास्त्रं तत्त्वज्ञानस्य कारणम्

p1.99

अग्रतः पृष्ठतः केचित् पार्श्वयोरपि केचन ।
तत्त्वमीदृक् तादृगिति विवदन्ति परस्परम् ।
सद्विद्यादानशूराद्यैर्गुणैवीख्यातमानवाः

p1.100

प्रत्यक्षग्रहणं नास्ति वार्त्तया ग्रहणं कुतः ।
एवं ये शास्त्रसम्मूढास्ते दूरस्था न संशयः

p1.101

इदं ज्ञानमिदं ज्ञेयं सर्वतः श्रोतुमिच्छति ।
देवि वर्षसहस्रायुः शास्त्रान्तं नैव गच्छति

p1.102

वेदाद्यनेकशास्त्राणि स्वल्पायुवीघ्नकोटयः ।
तस्मात् सारं विजानीयात् क्षीरं हंस इवाम्भसः

p1.103

अभ्यस्य सर्वशास्त्राणि तत्त्वं ज्ञात्वा हि बुद्धिमान् ।
पलालमिव धान्यार्थी सर्वशास्त्रं परित्यजेत्

p1.104

यथामृतेन तृप्तस्य नाहारेण प्रयोजनम् ।
तत्त्वज्ञस्य तथा देवि न शास्त्रेण प्रयोजनम्

p1.105

न वेदाध्ययनान्मुक्तिर्न शास्त्रपठनादपि ।
ज्ञानादेव हि मुक्तिः स्यान्नान्यथा वीरवन्दिते

p1.106

नाश्रमाः कारणं मुक्तेर्दर्शनानि न कारणम् ।
तथैव सर्वशास्त्राणि ज्ञानमेव हि कारणम्

p1.107

मुक्तिदा गुरुवागेका विद्याः सर्वा विडम्बकाः ।
काष्ठभारश्रमादस्मादेकं सञ्जीवनं परम्

p1.108

अद्वैतन्तु शिवेनोक्तं क्रियायासविवजीतम् ।
गुरुवक्त्रेण लभ्येत नान्यथागमकोटिभिः

p1.109

आगमोत्थं विवेकोत्थं द्विधा ज्ञानं प्रचक्षते ।
शब्दब्रह्मागममयं परं ब्रह्म विवेकजम्

p1.110

अद्वैतं केचिदिच्छन्ति द्वैतमिच्छन्ति चापरे ।
मम तत्त्वं च जानन्ति द्वैताद्वैतविवजीतम्

p1.111

द्वे पदे बन्धमोक्षाय ममेति निर्ममेति च ।
ममेति बाध्यते जन्तुर्न ममेति विमुच्यते

p1.112

तत् कर्म यन्न बन्धाय विद्या सा या विमुक्तये ।
आयासायापरं कर्म विद्यान्या शिल्पनैपुणम्

p1.113

यावत् कामादि दीप्येत यावत् संसारवासना ।
यावदिन्द्रियचापल्यं तावत्तत्त्वकथा कुतः

p1.114

यावत् प्रयत्नवेगोऽस्ति यावत् सङ्कल्पकल्पना ।
यावन्न मनसः स्थैर्यं तावत्तत्त्वकथा कुतः

p1.115

यावद्देहाभिमानश्च ममता यावदस्ति हि ।
यावन्न गुरुकारुण्यं तावत्तत्त्वकथा कुतः

p1.116

तावत्तपो व्रतं तीथर्ं जपहोमार्च्चनादिकम् ।
वेदशास्त्रागमकथा यावत्तत्त्वं न विन्दते

p1.117

तस्मात् सर्वप्रयत्नेन सर्वावस्थासु सर्वदा ।
तत्त्वनिष्ठो भवेद्देवि यदीच्छेन्मोक्षमात्मनः

p1.118

धर्मज्ञानसुपुष्पस्य स्वर्गलोक फलस्य च ।
तापत्रयात्तीसन्तप्तश्छायां मोक्षतरोः श्रयेत्

p1.119

बहुनात्र किंमुक्तेन रहस्यं शृणु पार्वति ।
कुलधर्ममृते मुक्तर्नास्ति सत्यं न संशयः

p1.120

तस्माद्वदामि तत्त्वन्ते विज्ञाय श्रीगुरोर्मुखात् ।
सुखेन मुच्यते देवि घोरसंसारबन्धनात्

p1.121

इति ते कथिता काचिज्जीवजातिस्थितिः प्रिये ।
समासेन कुलेशानि किं भूयः श्रोतुमिच्छसि

p1.1

॥ इति श्रीकुलार्णवे निर्वाणमोक्षद्वारे महारहस्ये सर्वागमोत्तमोत्तमे
सपादलक्षग्रन्थे पञ्चमखण्डे ऊर्ध्वाम्नायतन्त्रे जीव-
स्थितिकथनं नाम प्रथमोल्लासः

p1.1

अथ द्वितीयोल्लासः
श्रीदेव्युवाच
कुलेश श्रोतुमिच्छामि सर्वजीवदयानिधे ।
कुलधर्मस्त्वया देव सूचितो न प्रकाशितः

p1.2

तस्य धर्मस्य माहात्म्यं सर्वधर्मोत्तमस्य च ।
ऊद्र्ध्वाम्नायस्य माहात्म्यं तन्मतं वद मे प्रभो ।
वद मे परमेशान यदि तेऽस्ति कृपा मयि

p1.3

श्री ईश्वर उवाच
शृणु देवि प्रवक्ष्यामि यन्मां त्वं परिपृच्छसि ।
तस्य श्रवणमात्रेण योगिनीनां प्रियो भवेत्

p1.4

ब्रह्माविष्णुगुहादीनां न मया कथितं पुरा ।
कथयामि तव स्नेहात् शृणुष्वैकाग्रमानसा

p1.5

पारम्पर्ययक्रमायातं पञ्चवक्त्रेषु संस्थितम् ।
अकथ्यं परमार्थेन तथापि कथयामि ते

p1.6

त्वयापि गोपितव्यं हि न देयं यस्य कस्यचित् ।
देयं भक्ताय शिष्याय अन्यथा पतनं भवेत्

p1.7

सर्वेभ्यश्चोत्तमा वेदा वेदेभ्यो वैष्णवं परम् ।
वैष्णवादुत्तमं शैवं शैवाद्दक्षिणमुत्तमम्

p1.8

दक्षिणादुत्तमं वामं वामात् सिद्धान्तमुत्तमम् ।
सिद्धान्तादुत्तमं कौलं कौलात् परतरं न हि

p1.9

गुह्याद् गुह्यतरं देवि सारात् सारं परात् परम् ।
साक्षात् शिवप्रदं देवि कर्णाकणीगतं कुलम्

p1.10

मथित्वा ज्ञानदण्डेन वेदागममहार्णवम् ।
सारज्ञेन मया देवि कुलधर्मः समुद्धृतः

p1.11

एकतः सकला धर्मा यज्ञतीर्थव्रतादयः ।
एकतः कुलधर्मश्च तत्र कौलोऽधिकः प्रिये

p1.12

प्रविशन्ति यथा नद्यः समुद्रम् ऋजुवक्रगाः ।
तथैव विविधा धर्माः प्रविष्टाः कुलमेव हि

p1.13

यथा हस्तिपदे लीनं सर्वप्राणीपदं भवेत् ।
दर्शनानि च सर्वाणि कुल एव तथा प्रिये

p1.14

यदा जाम्बुनदानाञ्च सदृशं लौहमस्ति चेत् ।
तदा च कुलधर्मेण समयोऽन्यः समो भवेत्

p1.15

यथामरतरङ्गिण्या न समाः सकलापगाः ।
तथैव समयाः सर्वे कुलधर्मेण नो समाः

p1.16

मेरुसर्षपयोर्यद्वत् सूर्यखद्योतयोर्यथा ।
तथान्यसमयस्यापि कुलस्य महदन्तरम्

p1.17

अस्ति चेत्त्वत्समा नारी मत्समः पुरुषोऽस्ति चेत् ।
कुलेन समधर्मस्तु तथापि न कदाचन

p1.18

कुलधर्मं हि मोहेन योऽन्यधर्मेण दुर्मतिः ।
बद्धः संसारपाशेन सोऽन्त्यजानां प्रियो भवेत्

p1.19

यो वा कुलाधिकं धर्ममज्ञानाद्वदति प्रिये ।
ब्रह्महत्याधिकं पापं स प्राप्नोति न संशयः

p1.20

कुलधर्मप्रवहणं समारुह्य नरोत्तमः ।
स्वर्गादि द्वीपान्तरं गत्वा मोक्षरत्नं समश्नुते

p1.21

दर्शनेषु च सर्वेषु चिराभ्यासेन मानवाः ।
मोक्षं लभन्ते कौले तु सद्य एव न संशयः

p1.22

बहुनात्र किमुक्तेन शृणु मत्प्राणवल्लभे ।
न कौलसमधर्मोऽस्ति त्वां शपे कुलनायिके

p1.23

योगी चेन्नैव भोगी स्याद्भोगी चेन्नैव योगवित् ।
भोगयोगात्मकं कौलं तस्मात् सर्वाधिकं प्रिये

p1.24

भोगो योगायते साक्षात् पातकं सुकृतायते ।
मोक्षायते च संसारः कुलधर्मे कुलेश्वरि

p1.25

ब्रह्मेन्द्राच्युतरुद्रादिदेवतामुनिपुङ्गवाः ।
कुलधर्मपरा देवि मानुषेषु च का कथा

p1.26

विहाय सर्वधर्मांश्च नानागुरुमतानि च ।
कुलमेव विजानीयाद्यदीच्छेत् सिद्धिमात्मनः

p1.27

पूर्वजन्मकृताभ्यासात् कुलज्ञानं प्रकाशते ।
स्वप्नोत्थित प्रत्ययवदुपदेशादिकं विना

p1.28

जन्मान्तरसहस्रेषु या बुद्धिवीहिता नृणाम् ।
तामेव लभते जन्तुरुपदेशो निरर्थकः

p1.29

शैववैष्णवदौर्गार्कगाणपत्येन्दुसम्भवैः ।
मन्त्रैवीशुद्धचित्तस्य कुलज्ञानं प्रकाशते

p1.30

सर्वधर्माश्च देवेशि पुनरावर्त्तकाः स्मृताः ।
कुलधर्मस्थिता ये च ते सर्वेऽप्यनिवर्त्तकाः

p1.31

पुराकृततपोदानयज्ञतीर्थजपव्रतैः ।
क्षीणांहसां नृणां देवि कुलज्ञानं प्रकाशते

p1.32

त्वमहं देवि कल्याणि यस्य तुष्टावुभावपि ।
देवतागुरुभक्त्या च कुलज्ञानं प्रकाशते

p1.33

शुद्धचित्तस्य शान्तस्य कमीणो गुरुसेविनः ।
अतिभक्तस्य गुह्यस्य कुलज्ञानं प्रकाशते

p1.34

श्रीगुरौ कुलशास्त्रेषु कौलिकेषु कुलाश्रये ।
यस्य भक्तिर्दृढा तस्य कुलज्ञानं प्रकाशते

p1.35

श्रद्धा विनयहर्षाद्यैः सदाचारदृढव्रतैः ।
गुर्वाज्ञापालकैर्धर्मैः कुलज्ञानमवाप्यते

p1.36

अनर्हे कुलविज्ञानं न तिष्ठति कदाचन ।
तस्मात् परीक्ष्य वक्तव्यं कुलज्ञानं मयोदितम्

p1.37

न ब्रूयात् कुलधर्मं तमयोग्ये कुलशासनम् ।
आज्ञाभङ्गञ्च यः कुर्याद्देवताशापमाप्नुयात्

p1.38

आराध्य समयाचारं कुलज्ञानं वदेद्यदि ।
स गुरुश्चापि शिष्यश्च योगिनीनां भवेत् पशुः

p1.39

बोधयित्वा गुरुः शिष्यं कुलज्ञानं प्रकाशयेत् ।
लभेते तावुभौ साक्षाद्योगिनीवीरमेलनम्

p1.40

अनायासेन संसारसागरं यस्तितीर्षति ।
कुलधर्ममिमं ज्ञात्वा मुच्यते नात्र संशयः

p1.41

कुलधर्ममहामार्गगन्ता मुक्तिपुरीं व्रजेत् ।
अचिरान्नात्र सन्देहस्तस्मात् कौलं समाश्रयेत्

p1.42

कुलशास्त्रमनादृत्य पशुशास्त्राणि योऽभ्यसेत् ।
स्वगृहे पायसं त्यक्त्वा भिक्षामटति पार्वति

p1.43

विहाय कुलधर्म यः परधर्मपरो भवेत् ।
करस्थं रत्नमुत्सृज्य दूरस्थं काचमीहते

p1.44

संत्यज्य कुलमन्त्राणि पशुमन्त्राणि यो जपेत् ।
स धान्यराशिमुत्सृज्य पांसुराशिं जिघृक्षति

p1.45

कुलान्वयं समुत्सृज्य योऽन्यमन्वयमीक्षते ।
तडागादिव तृष्णार्त्तो मृगतृष्णां प्रधावति

p1.46

यथेन्द्राजालजा मायाः क्षणमेव सुखावहाः ।
श्रीकौलादन्यसमयास्तादृशाः कुलनायिके

p1.47

कुलधर्ममजानन् यः संसारान्मोक्षमिच्छति ।
पारावारमपारं स पाणिभ्यां तर्त्तुमिच्छति

p1.48

यो वान्यदर्शनेभ्यश्च भुक्तिं मुक्तिञ्च काङ्क्षति ।
स्वप्नलब्धधनेनैव धनवान् स भवेत्तदा

p1.49

शुक्तौ रजतविभ्रान्तिर्यथा जायेत पार्वति ।
तथान्यसमयेभ्यश्च भुक्तिर्मुक्तिः प्रकाशते

p1.50

सर्वकर्मविहीनोऽपि वर्णाश्रमविवजीतः ।
कुलनिष्ठः कुलेशानि भुक्तिमुक्त्योः स भाजनम्

p1.51

कुलज्ञानविहीनोऽपि कुलभक्त्याश्रयो भवेत् ।
सोऽपि सद्गतिमाप्नोति किमुतास्य परायणः

p1.52

कुलधर्मो हतो हन्ति रक्षितो रक्षति प्रिये ।
पूजितः पूजयत्याशु तस्मात्तं न परित्यजेत्

p1.53

निन्दन्तु बान्धवाः सर्वे त्यजन्तु स्त्रीसुतादायः ।
जना हसन्तु मां दृष्ट्वा राजानो दण्डयन्तु वा

p1.54

सेवे सेवे पुनःसेवे त्वामेव परदेवते ।
त्वद्धर्म नैव मुञ्चामि मनोवाक्कायकर्मभिः

p1.55

एवमापद्गतस्यापि यस्य भक्तिः सुनिश्चला ।
स तु सम्पूज्यते देवैरमुत्र स शिवो भवेत्

p1.56

रोगदारिद्र्यदुःखाद्यैः पीडितोऽप्यनिशं शिवे ।
यस्त्वामुपास्ते भक्त्या स नरः सद्गतिमाप्नुयात्

p1.57

जनाः स्तुवन्तु निन्दन्तु लक्ष्मीर्गच्छतु तिष्ठतु ।
मृतिरद्य युगान्ते वा कुलं नैव परित्यजेत्

p1.58

नापि लोभान्न च क्रोधान्न द्वेषान्न च मत्सरात् ।
न कामन्न भयाद्वापि कुलधर्मं परित्यजेत्

p1.59

यो जन्तुर्नार्चयेत्त्वान्तु कुलधर्मसमाश्रितः ।
क्लिश्यते जातमात्रेण भूतारिणात्मशत्रुणा

p1.60

पुलाका इव धान्येषु पतंगा इव जन्तुषु ।
बुद्बुदा इव तोयेषु ये कौलविमुखा हि ते

p1.61

तरवोऽपि हि जीवन्ति जीवन्ति मृगपक्षिणः ।
स जीवति मनो यस्य कुलधर्मे व्यवस्थितम्

p1.62

कुलधर्मविहीनस्य दिनान्यायान्ति यान्ति च ।
स लोहकारभस्रेवश्वसन्नपि न जीवति

p1.63

गच्छतस्तिष्ठतो वापि जाग्रतः स्वपतोऽपि वा ।
कुलेश्वरि कुलाज्ञस्य तत् पशोरिव जीवितम्

p1.64

विद्वानपि च मूर्खोऽसौ धामीको वाप्यधामीकः ।
व्रतस्थोऽप्यव्रतस्थो वा यः कौलविमुखो जनः

p1.65

जातास्त एव जगति जन्तवः साधु जीविनः ।
कुलधर्मपरा देवि शेषाश्च द्वारगर्दभाः

p1.66

स पुमानुच्यते सद्भिः कुलधर्मपरायणः ।
अपरस्तु परं सत्यमस्थिकूटत्वचावृतः

p1.67

चतुर्वेदी कुलाज्ञानी श्वपचादधमः प्रिये ।
श्वपचोऽपि कुलज्ञानी ब्राह्मणादतिरिच्यते

p1.68

गुरुकारुण्ययुक्तस्तु दीक्षानिर्धूतपातकः ।
कुलपूजारतो देवि सोऽयं कौलो न चेतरेः

p1.69

यः कौलिकः कुलज्ञानं न पश्यति न विन्दति ।
न पूजयति धिक् तस्य तत् काकस्येव जीवितम्

p1.70

ते धन्याः पुण्यकर्माणस्ते सन्तस्ते च योगिनः ।
येषां भाग्यवशाद्देवि कुलज्ञानं प्रकाशते

p1.71

ते वन्द्यास्ते महात्मानः कृतार्थस्ते नरोत्तमाः ।
येषामुत्पद्यते चित्ते कुलज्ञानं मयोदितम्

p1.72

सर्वप्रकाशगमनं सर्वतीर्थावगाहनम् ।
यत् सर्वयज्ञाचरणं कुलधर्मप्रवेशनम्

p1.73

प्रविशन्ति कुलं धर्म ये वै सुकृतिनो नराः ।
ते पुनर्जननीगर्भ न विशन्ति कदाचन

p1.74

प्रसङ्गेनापि यः कश्चित् कुलं कुलमितीरयेत् ।
कुल तत् पावनं देवि भवति त्वदनुग्रहात् ।
कुलज्ञानस्य कुलेशानि नान्यधर्मैः प्रयोजनम्

p1.75

कुलेशि कुलनिष्ठानां कौलिकानां महात्मनाम् ।
ददामि परमं ज्ञानं चान्तकाले न संशयः

p1.76

चिरायासाल्पफलदं काङ्क्षते समयं जनाः ।
सुखेन सर्वफलदं कुलं कोऽपि त्यजत्यहो

p1.77

कुलज्ञो हि च सर्वज्ञो वेदशास्त्रोज्झितोऽपि वा ।
वेदशास्त्रागमज्ञोऽपि कुलाज्ञस्त्वज्ञ एव हि

p1.78

जानन्ति कुलमाहात्म्यं त्वद्भक्ता एव नापरे ।
चकोरा एव जानन्ति नान्ये चन्द्रगतां रुचिम्

p1.79

कुलज्ञा एव तुष्यन्ति श्रुत्वा कुलकथां प्रिये ।
स्वल्पा नद्यो विवर्द्धन्ते ज्योत्स्नया किं समुद्रवत्

p1.80

नान्यधर्ममवेक्षन्ते कौलिकाः सारवेदिनः ।
भृङ्गाः पुष्पान्तरं लुब्धा मन्दारामोदसेविनः

p1.81

मानयन्ते हि सारज्ञाः कुलधर्म न चेतरे ।
शिवः शिरसि धत्तेऽब्जं सैंहिकेया गिलत्यहो

p1.82

अभिज्ञा एव जानन्ति नाभिज्ञाः कुलर्दशनम् ।
जलमिश्रपयःपानं बकः किं वेत्ति हंसवत्

p1.83

शिवशक्तिमयो लोको लोके कौलं प्रतिष्ठितम् ।
तस्मात् सर्वाधिकं कौलं सर्वसाधारणं कथम्

p1.84

षड्दर्शनानि मेऽङ्गानि पादो कुक्षिः करौ शिरः ।
तेषु भेदन्तु यः कुर्यान्ममाङ्गं च्छेदयेत्तु सः

p1.85

एतान्येव कुलस्यापि षडङ्गानि भवन्ति हि ।
तस्माद्वेदात्मकं शास्त्रं विद्धि कौलात्मकं प्रिये

p1.86

दर्शनेष्वखिलेष्वेव फलदं चैकदैवतम् ।
भुक्तिमुक्तिप्रदं नृणां कुलेऽस्मिन् दैवतं प्रिये

p1.87

लोकधर्मविरुद्धञ्च सिद्धयोगीश्वरि प्रिये ।
कुलं प्रमाणतां याति प्रत्यक्षफलदं यतः

p1.88

प्रत्यक्षञ्च प्रमाणाय सर्वेषां प्राणिनां प्रिये ।
उपलब्धिबलात्तस्य हताः सर्वे कुताकीकाः

p1.89

परोक्षं को नु जानीते कस्य किं वा भविष्यति ।
यद्वा प्रत्यक्षफलदं तदेवोत्तमदर्शनम्

p1.90

कुलधर्ममिमं ज्ञात्वा मुच्यन्ते सर्वमानवाः ।
इति मत्वा महेशानि मया कौलं विगहीतम्

p1.91

त्वत्कारुण्यविहीनानां कुलज्ञानविरोधिनाम् ।
पशुनामनभिज्ञानां कुलधर्मो विगहीतः

p1.92

यस्य जन्मान्तरे पापकर्मबन्धोऽधिको भवेत् ।
न तस्य गुरुकारुण्यं कुलज्ञानञ्च जायते

p1.93

यथान्धो नैव पश्यन्ति सूर्य सर्वप्रकाशकम् ।
तथा कुलं न जानन्ति तव मयाविमोहिताः

p1.94

शैववैष्णवसौरादि दर्शनान्यपि भक्तितः ।
भजन्ते मानवा नित्यं वृथायासफलानि च

p1.95

वेदशास्त्रागमैः प्रोक्तं भोगमोक्षैकसाधनम् ।
मूढा निन्दन्ति हा हन्त मत्प्रियं तव दर्शनम्

p1.96

भ्रामिता हि मया देवि पशवः शास्त्रकोटिषु ।
कुलधर्म न जानन्ति वृथा ज्ञानाभिमानिनः

p1.97

पशुशास्त्राणि सर्वाणि मयैव कथितानि हि ।
मूर्त्त्यन्तरन्तु गत्वैव मोहनाय दुरात्मनाम्

p1.98

महापापवशान्नृणां तेषु वाञ्छाभिजायते ।
तेषाञ्च सदागतिर्नास्ति कल्पकोटिशतैरपि

p1.99

प्रेर्यमाणोऽपि पापात्मा कुले नैव प्रवर्त्तते ।
वार्यमाणोऽपि पुण्यात्मा कुलमेवाभिलम्वते

p1.100

कुलधर्मेण देवत्वं देवाः सम्प्रतिपेदिरे ।
मुनियोगीश्वराद्याश्च सुसिद्धिं परमां गताः

p1.101

पशुव्रतादिनिरताः सुलभा दाम्भिका भुवि ।
ये कौलमेव सेवन्ते ते महान्तोऽति दुर्लभाः

p1.102

मानवा बहवः सन्ति मिथ्यातत्त्वार्थवेदिनः ।
दुर्लभोऽयं महेशानि कुलतत्त्वविशारदः

p1.103

यथा रोगातुराः केचिन्मानवाः कुलनायिके ।
दिव्यौषधं न सेवन्ते महाव्याधिविनाशनम्

p1.104

तद्व्याधिवर्द्धनापथ्यं कुर्वन्ति हि कुभेषजम् ।
तथैव जन्ममरणकृतं सांसारिकीं क्रियाम्

p1.105

समाचरन्ति सततं त्वत्कारुण्यविवजीताः ।
न भजन्ते कुलं धर्म भववन्धविमोचनम्

p1.106

यथा चारण्यजातांस्तु मरीचादीन् वणिग्जनान् ।
मोहतो मानवाः प्रीत्या याचन्ते कुलनायिके

p1.107

अनर्घ्याणि च रत्नानि न याचन्ते हि केचन ।
तथैव पशुशास्त्राणि कर्मपाशफलानि च

p1.108

इति पृच्छन्ति मूर्खास्ते तव मायाविमोहिता ।
कुलधर्म न पृच्छन्ति भुक्तिमुक्तिफलप्रदम्

p1.109

कस्तूरीं कर्दमधिया कर्पूरं लवणेच्छया ।
शार्करं शकराभ्रान्त्या मणिं काचमनीषया

p1.110

यथादृष्टं न मन्यन्ते करस्थमपि पामराः ।
तथा कौलं न जानन्ति त्वत्प्रसादविवजीताः

p1.111

अहो मोहस्य माहात्म्यं त्वन्मायाजनितस्य च ।
किमज्ञानपि देवेशि मोहयेदमरानपि

p1.112

पेयं मद्यं पलं खाद्यं समालोक्य प्रियामुखम् ।
इत्येवाचरणं जाप्यं परिप्राप्यं परम्रपदम्

p1.113

गुरुकारुण्यसंलभ्यमीदृशं कुलदर्शनम् ।
त्वद्भक्ता एव जानन्ति नेतरे भुक्तिमुक्तिदम्

p1.114

गुरूपदेशरहिता महान्त इति केचन ।
मोहयन्ति जनान् सर्वान् स्वयं पूर्वविमोहिताः

p1.115

दुराचारपराः केचिद्वाचयन्ति च पामराः ।
कथंभूतो भवेत् स्वामी सेवकाः स्युस्तथाविधाः

p1.116

बहवः कौलिकं धर्म मिथ्याज्ञानविडम्बकाः ।
स्वबुध्द्या कल्पयन्तीत्थं पारम्पर्यविवजीताः

p1.117

मद्यपानेन मनुजो यदि सिद्धं लभेत वै ।
मद्यपानरताः सर्वे सिद्धिं गच्छन्तु पामराः

p1.118

मांसभक्षणमात्रेण यदि पुण्या गतिर्भवेत् ।
लोके मासाशिनः सर्वे पुण्यभाजो भवन्ति हि

p1.119

शक्तिसम्भोगमात्रेण यदि मोक्षो भवेत वै ।
सर्वेऽपि जन्तवो लोके मुक्ताः स्युः स्त्रीनिषेवनात्

p1.120

कुलमार्गो महादेवि न मया निन्दितः क्वचित् ।
आचाररहिता येऽत्र निन्दितास्ते न चेतरे

p1.121

अन्यथा कौलिके धर्मे आचारः कथितो मया ।
विचरन्त्यन्था देवि मूढाः पण्डितमानिनः

p1.122

कृपाणधारागमनात् व्याघ्रकण्ठावलम्बनात् ।
भुजङ्गधारणान्नूनमशक्यं कुलवर्त्तनम्

p1.123

वृथा पानन्तु देवेशि सुरापानं तदुच्यते ।
तत्महापातकं ज्ञेयं वेदादिषु निरूपितम्

p1.124

अनाघ्रेयमनालोक्यमस्पृश्यञ्चाप्यपेयकम् ।
मद्यं मंसं पशूनान्तु कौलिकानां महाफलम्

p1.125

अमेध्यानि द्विजातीनां मद्यान्येकादशैव तु ।
द्वादशन्तु महामद्यं सर्वेषामुत्तमोत्तमम्

p1.126

सुरा वै मलमन्नानां पाप्मा तु मलमुच्यते ।
तस्माद्ब्राह्मणराजन्यौ वैश्य न सुरां पिबेत्

p1.127

सुरादर्शनमात्रेण कुर्यात् सूर्यावलोकनम् ।
तत्समाघ्राणमात्रेण प्राणायामत्रयं चरेत्

p1.128

आजानुभ्यां भवेन्मग्नो जले चोपवसेदहः ।
ऊद्र्ध्व नाभेस्त्रिरात्रन्तु मद्यस्य स्पर्शने विधिः

p1.129

सुरापाने कामकृते ज्वलन्तीं तां विनिक्षिपेत् ।
मुखे तया विनिर्दग्धे ततः शुद्धिमवाप्नुयात्

p1.130

मद्यस्पर्शादिदोषस्य प्रायश्चित्तविधिः स्मृतः ।
अविधानेन यो हन्यादात्मार्थं प्राणिनः प्रिये

p1.131

निवसेन्नरके घोरे दिनानि पशुरोमभिः ।
स मृतोऽपि दुराचारस्तिर्र्यग्योनिषु जायते

p1.132

अनुमन्ता विश्वसिता निहन्ता क्रयविक्रयी ।
संस्कर्ता चोपहर्त्ता च खादिताऽष्टौ च घातकाः

p1.133

धनैवीक्रयिको हन्ति खादिता चोपभोगतः ।
घातको वध बन्धाभ्यां इत्येष त्रिविधो वधः

p1.134

मांससन्दर्शनं कृत्वा सुरादर्शनवच्चरेत् ।
तस्मादविधिना मांसं मद्यं न सेवते क्वचित्

p1.135

विधिना सेव्यते देवि तरसा त्वं प्रसीदसि ।
नाशयत्यपरिज्ञानात् सत्यमेव वरानने

p1.136

तृणं वाप्यविधानेन छेदयेन्न कदाचन ।
विधिना गां द्विजं वापि हत्या पापैर्न लिप्यते

p1.137

बहुनात्र किमुक्तेन सारमेकं शृणु प्रिये ।
जीवन्मुक्तिसुखोपायं कुलशास्त्रेषु गोपितम्

p1.138

यन्मुमुक्षोः फलं देवि कनकस्येव सौरभम् ।
कुलज्ञेऽप्यूर्ध्वविख्याते ज्ञानं तत्तदनुत्तमम्

p1.139

कुलशास्त्राणि सर्वाणि मयैवोक्तानि पार्वति ।
प्रमाणानि न सन्देहो न हन्तव्यानि हेतुभिः

p1.140

देवताभ्यः पितृभ्यश्च मधु वाता ऋतायते ।
स्वादिष्ठया मदिष्ठया क्षीरं सपीर्मधूदकम्

p1.141

हिरण्यपावाः खादिश्च अबध्नन् पुरुषं पशुम् ।
दीक्षामुपेयादित्याद्याः प्रमाणं श्रुतयः प्रिये

p1.142

इत्येतत् कथितं किञ्चित् कुलमाहात्म्यमम्बिके ।
समासेन कुलशानि किं भूयः श्रोतुमिच्छसि

p1.2

॥ इति श्रीकुलार्णवे निर्वाणमोक्षद्वारे महारहस्ये सर्वागमोत्तमोत्तमे
सपादलक्षग्रन्थे पञ्चमखण्डे ऊर्ध्वाम्नायतन्त्रे
कुलमाहात्म्यकथनं नाम द्वितीयोल्लासः

p1.1

अथ तृतीयोल्लासः
श्रीदेव्युवाच
कुलेश श्रोतुमिच्छामि सर्वधर्मोत्तमोत्तमम् ।
ऊर्ध्वाम्नायञ्च तन्मन्त्रं माहात्म्यं वद मे प्रभो

p1.2

श्रीईश्वर उवाच
शृणु देवि प्रवक्ष्यामि यन्मां त्वं परिपृच्छसि ।
तस्य श्रवणमात्रेण देवता सुप्रसीदति

p1.3

न कदाचिन्मया प्रोक्तमितः पूर्व कुलेश्वरि ।
कथयामि तव स्नेहादूर्ध्वाम्नायं शृणु प्रिये

p1.4

वेदशास्त्रपुराणानि प्रकाश्यानि कुलेश्वरि ।
शैवशाक्तागमाः सर्वे रहस्याः परिकीत्तीताः

p1.5

रहस्यातिरहस्यानि कुलशास्त्राणि पार्वति ।
रहस्यातिरहस्यानां रहस्यमिदमम्बिके

p1.6

ऊद्र्ध्वाम्नायस्य तत्त्वं हि पूर्णब्रह्मात्मकं परम् ।
सुगोपितं मया यत्नादिदानीन्तु प्रकाश्यते

p1.7

मम पञ्चमुखेभ्यश्च पञ्चाम्नायाः समुद्गताः ।
पूर्वश्च पश्चिमश्चैव दक्षिणश्चोत्तरस्तथा ।
ऊर्ध्वाम्नायश्च पञ्चैते मोक्षमार्गाः प्रकीत्तीताः

p1.8

आम्नाया बहवः सन्ति नोर्ध्वाम्नायेन ते समाः ।
सत्यमेतद्वरारोहे नात्र कार्या विचारणा

p1.9

आम्नाया बहवो गुप्तश्चतुराम्नायभेदजाः ।
अस्मिंस्तन्त्रे समाख्याताः पूर्वं ते कुलनायिके

p1.10

चतुराम्नाय वेत्तारो बहवः सन्ति कामिनि ।
ऊर्ध्वाम्नायस्य तत्त्वज्ञा विरला वीरवन्दिते

p1.11

यावन्तः पांसवो भूमेस्तावन्तः समुदीरिताः ।
एकैकाम्नायजा मन्त्रा भुक्तिमुक्तिफलप्रदाः

p1.12

उपमन्त्राश्च तावन्तः सारदाः समुदीरिताः ।
मयैव कथितास्ते तु लोकानुग्रहकाङ्क्षया

p1.13

सर्वेषामपि मन्त्राणां देवतास्तत्फलप्रदाः ।
आवयोरंशसम्भूताः समुद्दिष्टाः शुचिस्मिते

p1.14

सर्वमन्त्रानहं वेद्मि नान्यो जानाति कश्चन ।
मत्प्रसादेन यः कश्चिद्वेत्ति मानवकोटिषु

p1.15

एकाम्नायञ्च यो वेत्ति स मुक्तो नात्र संशयः ।
किं पुनश्चतुराम्नायवेत्ता साक्षाच्छिवो भवेत्

p1.16

चतुराम्नायविज्ञानादूर्ध्वाम्नायः परः प्रिये ।
तस्मात्तदेव जानीयाद् यदीच्छेत् सिद्धिमात्मनः

p1.17

ऊर्ध्वत्वात् सर्वधर्माणामूर्ध्वाम्नायः प्रशस्यते ।
ऊर्ध्वं नयत्यधःस्थञ्च ऊर्ध्वाम्नाय इतीरितः

p1.18

ऊर्ध्वतत्त्वात् कुलेशानि ध्वस्तसंसारसागरात् ।
ऊर्ध्वलोकैकसेव्यत्वादूर्ध्वाम्नाय इति स्मृतः

p1.19

तस्माद्देवेशि जानीहि साक्षान्मोक्षैकसाधनम् ।
सर्वाम्नायाधिकफलमूर्ध्वाम्नायं परात् परम्

p1.20

सर्वलोकेषु सर्वेभ्यो ह्यहं पूज्यो यथा प्रिये ।
अम्नायेषु च सर्वेषु ऊर्ध्वाम्नायस्तथा शिवे

p1.21

देवतानां यथा विष्णुर्ज्योतिषां भास्करो यथा ।
तीर्थानान्तु यथा काशी स्वर्नदी सरितां यथा

p1.22

पर्वतानां यथा मेरुस्तरूणां चन्दनं यथा ।
अश्वमेधः क्रतूनाञ्च पाषाणानां यथा मणिः

p1.23

यथा रसानां माधुर्यं धातूनां काञ्चनं यथा ।
चतुष्पदां यथा धेनुर्यथा हंसस्तु पक्षिणाम्

p1.24

आश्रमाणां यथा भिक्षुर्वर्णानां ब्राह्मणो यथा ।
मनुष्याणां यथा राजाऽवयवानां यथा शिरः

p1.25

आमोदानाञ्च कस्तूरी यथा काञ्चीपुरी पुराम् ।
तथैव सर्वधर्माणामूर्ध्वाम्नायोऽधिकः प्रिये

p1.26

नानाजन्माजीतापारपुण्यकर्मफलोदयात् ।
ऊर्ध्वाम्नायं विजानीयान्नान्यथा वीरवन्दिते

p1.27

धन्यो मनुष्यलक्षेषु जानाति कुलदर्शनम् ।
तेषां लक्षेषु यः कश्चिदूर्ध्वाम्नायं प्रवेत्ति च

p1.28

न वेदैर्नागमैः शास्त्रैर्न पुराणैः सुविस्तरैः ।
न यज्ञैर्न तपोभिर्वा न तीर्थव्रतकोटिभिः

p1.29

नान्यैरुपायैर्द्देवेशि मन्त्रौषधिपुरःसरैः ।
आम्नायो ज्ञायते चोद्र्ध्वः श्रीमद्गुरुमुखं विना

p1.30

तमेवान्वेषयेत्तत्र सर्वज्ञं करुणानिधिम् ।
सर्वलक्षणसम्पन्नं ऊर्ध्वाम्नायार्थकोविदम् ।
तस्माद्देवेशि जानीयादूर्ध्वाम्नायं कुलेश्वरि

p1.31

आम्नायं यो नरो देवि विजानाति च तत्त्वतः ।
लभते काङ्क्षतां सिद्धिं सत्यं सत्यं वरानने

p1.32

ऊर्ध्वाम्नायं विजानाति यः सम्यक् श्रीगुरोर्मुखात् ।
शास्त्रमार्गेण स नरो जीवन्मुक्तो न संशयः

p1.33

आम्नायमीदृशं देवि विजानाति च तत्त्वतः ।
स वन्द्यः सद्गुरुः सोऽर्च्यः स दैवज्ञः स मान्त्रिकः ।
स सेव्यः स च संस्तुत्यः स द्रष्टव्यः स सात्त्विकः

p1.34

स व्रती स तपस्वी च सोऽनुष्ठाता स पूजकः ।
स वेदागमशास्त्रादिसर्वविद्याविशारदः

p1.35

स आचार्यः स मतिमान् स यतिः स च कौलिकः ।
स यज्वा स च पूतात्मा स जापी स च साधकः

p1.36

स योगी स कृतार्थस्तु स वीरः स च उत्तमः ।
स पुण्यात्मा स सर्वज्ञः स मुक्तः स शिवः प्रिये

p1.37

तत्कुलं पावनं देवि धन्या तज्जननी स्मृता ।
तत्पिता च कृतार्थः स्यान्मुक्तास्तत्पितरः प्रिये ।
पुण्यास्तद्वंशजाः सर्वे पूतास्तन्मित्रबान्धवाः

p1.38

बहुनेह किमुक्तेन चोर्ध्वाम्नायपरस्य च ।
स्मरणं कीर्त्तनं वापि दर्शनं वन्दनं तथा ।
सम्भाषणञ्च कुरुते राजसूयाधिकं फलम्

p1.39

स यत्र वसते देवि तत्र श्रीवीजयो भवेत् ।
अनामयं सुभिक्षञ्च सुवृष्टिनीरुपद्रवम्

p1.40

तस्माद् गुरुप्रसादेन ऊर्ध्वाम्नायं नरोत्तमः ।
यो वेत्ति तत्त्वतो देवि स मे प्रियतमो भवेत्

p1.41

पूर्वाम्नायः सृष्टिरूपः स्थितिरूपश्च दक्षिणः ।
संहारः पश्चिमो देवि उत्तरोऽनुग्रहो भवेत्

p1.42

मन्त्रयोगं विदुः पूर्वं भक्तियोगञ्च दक्षिणम् ।
पश्चिमं कर्मयोगञ्च ज्ञानयोगं तथोत्तरम्

p1.43

पूर्वाम्नायस्य सङ्केताश्चतुवींशतिरीरिताः ।
दक्षिणाम्नायसङ्केताः पञ्चवींशतिरीरिताः

p1.44

पश्चिमाम्नायसङ्केताः द्वात्रिंशत् समुदाहृताः ।
विदुः षट्त्रिंशदाम्नाये सङ्केताः श्रीमदुत्तरे

p1.45

ऊद्र्ध्वाम्नायस्य चैतानि न सन्ति कुलनायिके ।
साक्षाच्छिवस्वरूपत्वान्न किञ्चित् कर्म विद्यते

p1.46

ऊर्ध्वाम्नायस्य माहात्म्यमहं वेद्मि न चापरः ।
मत्स्नेहात्त्वञ्च जानासि सत्यमेतद्वरानने

p1.47

ऊर्ध्वाम्नायस्य माहात्म्यमिति ते कथितं मया ।
समासेन कुलेशानि मन्त्रमाहात्म्यमुच्यते

p1.48

इतः पूर्वं मया नोक्तं यस्य कस्यापि पार्वति ।
तद्वदामि तव स्नेहाच्छृणु मत्प्राणवल्लभे

p1.49

श्रीप्रासादपरामन्त्रमूर्ध्वाम्नायमधिष्ठितम् ।
आवयोः परमाकारं यो वेत्ति स स्वयं शिवः

p1.50

शिवादिक्रिमिपर्यन्तं प्राणिनां प्राणवर्त्मना ।
निश्वासोच्छ्वासरूपेण मन्त्रोऽयं वर्त्तते प्रिये

p1.51

अनिलेन विना मेघो यथाकाशे न वेष्टते ।
पराप्रसादमन्त्रेण विना लोकस्तथा प्रिये

p1.52

पराप्रासादमन्त्रेण स्यूतमेतच्चराचरम् ।
अभिन्नं तत्त्वतो देवि तालवृन्ते यथानिलः

p1.53

बीजेऽङ्कुरस्तिले तैलमग्नावुष्णं रवौ प्रभा ।
चन्द्रे ज्योत्स्नाऽनलः काष्ठे पुष्पे गन्धे जले द्रवः

p1.54

शब्दे चार्थः शिवे शक्तिः क्षीरे सपीः फले रुचिः ।
शर्करायाञ्च माधुर्यं घनसारे च शीतलम्

p1.55

निग्रहानुग्रहो मन्त्रे प्रतिमायाञ्च देवता ।
दर्पणे प्रतिबिम्बञ्च समीरे चलनं यथा ।
पराप्रसादमन्त्रेऽपि प्रपञ्चोऽयं तथा स्थितः

p1.56

वटबीजे यथा वृक्षः सूक्ष्मरूपेण तिष्ठति ।
पराप्रासादमन्त्रेऽस्मिन् ब्रह्माण्डोऽपि तथा स्थितः

p1.57

सुपक्वेषु पदार्थेषु सुरसेषु कुलेश्वरि ।
लवणेन विना स्वादु यथा भोक्तुर्न जायते

p1.58

पराप्रासादमन्त्रेण ये वा मन्त्रा न सङ्गताः ।
ते फलं न प्रयच्छन्ति मन्त्रं शक्तिविवजीताः

p1.59

श्रीप्रासादपरामन्त्रो गोपनीयः प्रयत्नतः

p1.60

विचार्याहं पुराणार्थान् दर्शनाम्नायभेदजान् ।
ग्रसमान् वेद्म्यहं मन्त्रान् शास्त्राणि विविधानि च

p1.61

सहस्राक्षादयो देवाः शास्त्रेषु विविधेषु च ।
भ्रमन्ति तेषु मूढास्ते तव मायाविमोहिताः

p1.62

जायन्ते च मिरयन्ते च संसारक्लेशभागिनः ।
श्रीप्रासादपरामन्त्रं न गायन्तः कुलेश्वरि ।
न लभन्ते हि मोक्षं ते तव मायाविमोहिताः

p1.63

मद्रूपे श्रीगुरौ यस्य दृढा भक्तिः प्रजायते ।
श्रीप्रासादपरामन्त्रं स ज्ञात्वा परिमुच्यते

p1.64

पूर्वजन्मसहस्रेषु शैवादिसमयोद्यतान् ।
चतुराम्नायजान् मन्त्रान् गुर्वाज्ञां यो भजिष्यति

p1.65

स पापकञ्चुकान्मुक्तः शुद्धात्मा गुरुवत्सलः ।
श्रीप्रासादपरामन्त्रं विजानाति न चान्यथा

p1.66

सब्रह्माविष्णुरुद्राश्च शक्रादिसुरपुङ्गवाः ।
वसुरुद्रार्कदिक्पाला मनुचन्द्रादयः प्रिये

p1.67

मार्कण्डेयादिमुनयो वसिष्ठादिमुनीश्वराः ।
सनकाद्याश्च योगीशा जीवन्मुक्ताः शुकादयः

p1.68

यक्षकिन्नरगन्धर्वाः सिद्धविद्याधरादयः ।
श्रीप्रासादपरामन्त्रप्रभवञ्चामितं फलम् ।
प्राप्य मन्त्रमिमं पुण्यं जपन्त्यद्यापि पार्वति

p1.69

सामर्थ्यं पूज्यता विद्या तेजः सौख्यमरोगिता ।
राज्यं स्वर्गञ्च मोक्षञ्च पराप्रासादजापिनः

p1.70

ब्रह्मेन्द्ररुद्रविष्णूनामपि दूरायते पदम् ।
सर्वकर्मविहीनोऽपि पराप्रासादमन्त्रवित् ।
सुखेन यां गतिं याति न तां सर्वेऽपि धामीकाः

p1.71

तस्य चिन्तामणिः कामधेनुः कल्पतरुर्गृहे ।
कुबेरः किङ्करः साक्षात् पराप्रासादजापिनः

p1.72

यथा दिव्यमणि स्पर्शाल्लौहो भवति काञ्चनम् ।
पराप्रासादजापाच्च पशुः पशुपतिर्भवेत्

p1.73

श्रीप्रासादपरामन्त्रं यो विजानाति तत्त्वतः ।
स मां त्वाञ्च विजानाति चावयोरप्यतिप्रियः

p1.74

पराप्रासादमन्त्रज्ञः श्वपचोऽपि हि पार्वति ।
देवतास्थापने शक्तः प्रतिमादौ न संशयः

p1.75

मन्त्रमात्रन्तु यो वेत्ति पराप्रासादसंज्ञकम् ।
श्वपचोऽपि हि मुच्येत किं पुनस्तद्विधानवित्

p1.76

पराप्रासादमन्त्रज्ञो यत् करोति यदिच्छति ।
यद्ब्रूते तन्महेशानि तपो ध्यानं जपो भवेत्

p1.77

दीक्षापूर्वं महेशानि पारम्पर्यसमन्वितम् ।
पराप्रासादमन्त्रं यो वेत्ति सोऽहं न संशयः

p1.78

चराचरसमेतानि भुवनानि चतुर्दश ।
पराप्रासादमन्त्रज्ञदेहे तिष्ठन्ति नित्यशः

p1.79

पराप्रासादमन्त्रज्ञो यत्र तिष्ठति भामिनि ।
दिव्यक्षेत्रं समुद्दिष्टं समन्ताद्दशयोजनम्

p1.80

पराप्रासादमन्त्रार्थतत्त्वज्ञं कुलनायिके ।
सुरासुराश्च वन्दन्ते किं पुनर्मानवादयः

p1.81

पराप्रासादमन्त्रज्ञो यत्र तिष्ठति पार्वति ।
सिद्धक्षेत्रं मदीयं वा मुनिदेवगणैः सह

p1.82

शैव वैष्णवदौर्गार्कगाणपत्येन्दुसम्भवान् ।
सर्वमन्त्रान् स जानाति पराप्रासादमन्त्रवित्

p1.83

श्रीप्रासादपरामन्त्रो जिह्वाग्रे यस्य वर्त्तते ।
तस्य दर्शनमात्रेण श्वपचोऽपि विमुच्यते

p1.84

ब्राह्मणो वाऽन्त्यजो वापि शुचिर्वाप्यशुचिः प्रिये ।
पराप्रासादजापी यः स मुक्तो नात्र संशयः

p1.85

गच्छतस्तिष्ठतो वापि जाग्रतः स्वपतोऽपि वा ।
पराप्रासादमन्त्रोऽयं देवेशि न च निष्फलः

p1.86

चिरेणैकैकफलदा मन्त्राः सन्ति सहस्रशः ।
कुलेशि मन्त्रराजोऽयं शीघ्रं सर्वफलप्रदः

p1.87

पराप्रासादमन्त्रोऽयं सर्वमन्त्रोत्तमोत्तमः ।
ज्ञानतोऽज्ञानतो वापि भजतां कामदो मनुः

p1.88

शचीन्द्रौ रोहिणीचन्द्रौ स्वाहाग्नी च प्रभारवी ।
लक्ष्मीनारायणौ वाणीधातारौ रात्रिवासरौ

p1.89

अग्नीषोमौ बिन्दुनादौ देवि प्रकृतिपूरुषौ ।
आधाराधेयनामानौ भोगमोक्षौ कुलेश्वरि

p1.90

प्राणापानौ च वागर्थौ प्रिये विधिनिषेधकौ ।
सुखदुःखादि यद् द्वन्द्वं दृश्यते श्रूयते मया ।
सर्वलोकेषु तत् सर्वमावामेव न संशयः

p1.91

पुंस्त्रीरूपाणि सर्वाणि चावयोरंशकानि हि ।
पराप्रासादमन्त्रोऽयं तस्मात् सर्वात्मको भवेत्

p1.92

अरूपं भावनागम्यं परं ब्रह्म कुलेश्वरि ।
निष्कलं निर्मलं नित्यं निर्गुणं व्योमसन्निभम्

p1.93

अनन्तमव्ययं तत्त्वं मनोवाचामगोचरम् ।
पराप्रासादमन्त्रार्थसन्धानात् सम्प्रकाशते

p1.94

तस्मान्मन्त्रमिदं देवि पराप्रासादसंज्ञकम् ।
परतत्त्वस्वरूपत्वात् सच्चिदानन्दलक्षणात्

p1.95

शिवशक्तिमयत्वाच्च भुक्तिमुक्तिप्रदानतः ।
सकर्मापि च निष्कर्म सगुणञ्चापि निर्गुणम्

p1.96

श्रीप्रासादपरामन्त्रं सर्वमन्त्रशिरोमणि ।
जपन् भुक्तिञ्च मुक्तिञ्च लभते नात्र संशयः

p1.97

बहुनात्र किमुक्तेन सर्वसारं शृणु प्रिये ।
श्रीप्रासादपरामन्त्रसमं मन्त्रं न विद्यते

p1.98

इदमेव परं ज्ञानमिदमेव परं तपः ।
इदमेव परं ध्यानमिदमेव परार्चनम्

p1.99

इदमेव परा दीक्षा इदमेव परो जपः ।
इदमेव परं तत्त्वमिदमेव परं व्रतम्

p1.100

इदमेव परो यज्ञ इदमेव परात् परम् ।
इदमेव परं श्रेय इदमेव परं फलम्

p1.101

इदमेव परं ब्रह्म इदमेव परा गतिः ।
इदमेव परं गुह्यं सत्यं सत्यं न संशयः ।
इति मत्वा मनुवरं तन्निष्ठः स्यात् सदा प्रिये

p1.102

आगमोक्तेन विधिना क्रमपूजापुरःसरम् ।
श्रीप्रसादपरामन्त्रं शतमष्टोत्तरं जपेत् ।
मुच्यते ब्रह्महत्यादिमहापापैश्च पञ्चभिः

p1.103

द्विशतं यो जपेद्देवि श्रीप्रासादपरामनुम् ।
चतुरशीतिलक्षांशधारणाचरितैरपि

p1.104

स्वयोनिजाङ्गवरितैरसंख्यजननाजीतैः ।
वार्द्धके यौवने बाल्ये जाग्रत्स्वप्नसुषुप्तिषु

p1.105

कर्मणा मनसा वाचा ज्ञानाज्ञानकृतैरपि ।
महापातकसंघैश्च ह्युपपातककोटिभिः ।
मुच्यते नात्र सन्देहः सत्यमेतद्वरानने

p1.106

त्रिशतं यो जपेद्देवि श्रीप्रासादपरामनुम् ।
सर्वक्रतुषु यत् पुण्यं सर्वदानेषु यत् फलम्

p1.107

सर्वव्रतेषु यत् पुण्यं सर्वतीर्थेषु यत् फलम् ।
तत् फलं लभते देवि नात्र कार्या विचारणा

p1.108

चतुःशतं जपेद् यस्तु श्रीप्रासादपरामनुम् ।
सदा तस्य गृहद्वारे ह्यणिमाद्यष्टसिद्धयः ।
सेवन्ते नात्र सन्देहः सर्वसिद्धिसमन्विताः

p1.109

यद् यन्मनोऽभिलषितं तत्तत् प्राप्नोत्यसंशयः ।
धर्मार्थकाममोक्षाश्च साक्षात्तस्य करे स्थिताः

p1.110

सालोक्यप्रमुखां देवि लभेन्मुक्तिं चतुवीधाम् ।
सत्यमेतन्न सन्देहः साधकः कुलनायिके

p1.111

जपेत् पञ्चशतं यस्तु श्रीप्रासादपरामनुम् ।
तत्फलं नैव शक्नोमि कथितुं कुलनायिके

p1.112

तस्मात् सर्वप्रयत्नेन सर्वावस्थासु सर्वदा ।
श्रीप्रासादपरामन्त्रं जपेद् भुक्तिविमुक्तये

p1.113

नास्ति गुर्वधिकं तत्त्वं न शिवाधिकदैवतम् ।
न हि वेदाधिका विद्या न कौलसमदर्शनम्

p1.114

न कुलादधिकं ज्ञानं न ज्ञानादधिकं सुखम् ।
नाष्टाङ्गादधिका पूजा न हि मोक्षाधिकं फलम् ।
इदं सत्यमिदं सत्यं सत्यं सत्यं न संशयः

p1.115

श्रीप्रासादपरामन्त्रमाहात्म्यमिह वणीतुम् ।
न शक्नोमि वरारोहे कल्पकोटिशतैरपि

p1.116

गिरौ सर्षपमात्रन्तु सागरे वालुका यथा ।
तथा च मन्त्रमाहात्म्यं किञ्चित्ते कथितं मया

p1.117

ऊर्ध्वाम्नायस्य माहात्म्यं श्रीप्रासादपरामनोः ।
इति ते कथितं देवि किं भूयः श्रोतुमिच्छसि

p1.3

॥ इति श्रीकुलार्णवे निर्वाणमोक्षद्वारे महारहस्ये सर्वागमोत्तमोत्तमे
सपादलक्षग्रन्थे पञ्चमखण्डे ऊर्ध्वाम्नायतन्त्रे
श्रीप्रासादपरामन्त्रकथनं नाम तृतीयोल्लासः

p1.1

अथ चतुर्थोल्लासः
श्रीदेव्युवाच
कुलेश श्रोतुमिच्छामि श्रीप्रासादपरामनुम् ।
मन्त्रराजं वदेशान न्यासध्यानादिभिः सह

p1.2

श्रीईश्वर उवाच
शृणु देवि प्रवक्ष्यामि यन्मां त्वं परिपृच्छसि ।
तस्य श्रवणमात्रेण शिवाकारः प्रजायते

p1.3

इतः पूर्व मया नोक्तो मन्त्रोऽयं यस्य कस्यचित् ।
तव स्नेहाद्वदाम्यद्य शृणु मत्प्राणवल्लभे

p1.4

अनन्तचन्द्रभुवनमिन्दुबिन्दुयुगान्वितः ।
श्रीप्रासादपरामन्त्रो भुक्तिमुक्तिफलप्रदः

p1.5

पराप्रासादमन्त्रस्तु सादिरुक्तः कुलेश्वरि ।
प्रकाशानन्दरूपत्वात् प्रत्यक्षफलदानतः

p1.6

प्रसन्नचित्तवश्यत्वात् प्रसिद्धार्थनिरूपणात् ।
प्राक्तनाघप्रशमनात् प्रपन्नात्तीविनाशनात् ।
प्रसादकरणाच्छीघ्रं प्रासादमनुरीरितः

p1.7

परतत्त्वस्वरूपत्वात् परमात्मप्रकाशनात् ।
परमानन्दजननात् परधर्मनिदर्शनात्

p1.8

परोक्षफलदानाच्च परमैश्वर्यकारणात् ।
परत्वात् सर्वमन्त्राणां परामन्त्र इतीरितः

p1.9

कुलमन्त्रमिदं देवि न्यासं शृणु वदामि ते ।
आदौ प्रातः समुत्थाय गुरुदेवानुचिन्तनम्

p1.10

कन्दमूले मनः कृत्वा कुर्याद्विण्मूत्रमोचनम् ।
शौचास्यशोधनं स्नानं सन्ध्यातर्पणमाचरेत्

p1.11

एकान्ते द्वारयजनं विघ्नत्रयनिवारणम् ।
पूजास्थानप्रवेशश्च तथासनोपवेशनम्

p1.12

देवीपूजागृहध्यानं शिवादिगुरुवन्दनम् ।
आसनं गणपक्षेत्रपालवन्दनमीश्वरि

p1.13

पादुकास्मरणञ्चैव दिननाथार्चनं प्रिये ।
कराङ्गशोधनं प्राणायामः स्वब्रह्मरन्ध्रके

p1.14

दिग्बन्धनञ्चाङ्गयुग्म विधियुक्ताञ्च मातृकाम् ।
दशप्रकारभूताख्यां लिपिं कमठसंज्ञकाम्

p1.15

ऋषिरस्य परः शम्भुश्छन्दश्चाव्यक्तपूवीका ।
गायत्री देवता चात्र सर्वमन्त्रेश्वरी परा

p1.16

दीर्घत्रययुतं मूलं बीजं शक्तिश्च कीलकम् ।
षड्दीर्घयुक्तमूलबीजेन षडङ्गानि च पार्वति

p1.17

ईशतत्पुरुषाघोरसद्योजातात्मनस्तथा ।
पञ्चाङ्गुलिषु विन्यस्य मूत्तीं वक्त्रेषु विन्यसेत्

p1.18

पञ्चसु ब्रह्मणि तथैवाङ्गविन्यासमाचरेत् ।
आधारशक्तिमारभ्य पीठमन्त्रान्तमम्बिके

p1.19

अल्पषोढां कुलेशानि कुर्यात् पूर्वोक्तवर्त्मना ।
महाषोढाह्वयं न्यासं ततः कुर्यात् समाहितः ।
वक्ष्यमाणेन विधिना देवताभावसिद्धये

p1.20

यस्य कस्यापि नैवोक्तं तव स्नेहाद्वदाम्यहम् ।
प्रपञ्चो भुवनं मूतीर्मन्त्रदेवतमातरः ।
महाषोढाह्वयो न्यासः सर्वन्यासोत्तमोत्तमः

p1.21

तत्रादौ परमेशानि प्रपञ्चन्यास उच्यते ।
प्रपञ्चद्वीपजलधिगिरिपत्तनपीठकाः

p1.22

क्षेत्रं वनाश्रमगुहानदीचत्वरकोद्भिदः ।
स्वेदाण्डजजरायुजा इत्युक्तास्ते हि षोडश

p1.23

श्रीर्माया कमला विष्णुवल्लभा पद्मधारिणी ।
समुद्रतनया लोकमाता कमलवासिनी

p1.24

इन्दिरा मा रमा पद्मा तथा नारायणप्रिया ।
सिद्धलक्ष्मी राजलक्ष्मीर्महालक्ष्मीरितीरिताः ।
शक्तयस्तु प्रपञ्चानां स्वराणामधिदेवताः

p1.25

लवस्त्रुटिः कला काष्ठा निमेषः श्वास एव हि ।
घटिका च मुहूर्त्तश्च प्रहरो दिवसस्तथा

p1.26

सन्ध्या रात्रिस्तिथिश्चैव वारो नक्षत्रमेव च ।
योगश्च करणं पक्षौ मासो राशिरृतुस्तथा

p1.27

अयनं वत्सरयुगप्रलयाः पञ्चविंशतिः ।
एतेषां स्थाननियमो हृदयान्तः समीरितः

p1.28

आर्योमा चण्डिका दुर्गा शिवाऽपर्णाऽम्बिका सती ।
ईश्वरी शाम्भवीशानी पार्वती सर्वमङ्गला

p1.29

दाक्षायणी हैमवती महामाया महेश्वरी ।
मृडानी चैव रुद्राणी सर्वाणी परमेश्वरी

p1.30

काली कात्यायनी गौरी भवानीति समीरिता ।
शक्तयः स्युर्लवादीनां स्पर्शानामधिदेवताः ।
एतासां स्थाननियमो हृदयान्तः समीरितः

p1.31

पञ्चभूतानि तन्मात्रं ज्ञानकर्मेन्द्रियाणि च ।
गुणान्तःकरणावस्था ध्यायेद्दोषान् दशानिलान्

p1.32

ब्राह्मी वागीश्वरी वाणी सावित्री च सरस्वती ।
गायत्री वाक्प्रदा पश्चात् शारदा भारती प्रिये ।
विद्यात्मिका पञ्चभूतव्यापकानामधीश्वराः

p1.33

वाग्भवं भुवनेशीञ्च लक्ष्मीबीजं त्रितारकम् ।
त्रितारमूलीविद्यान्त मातृकाक्षरतः परम्

p1.34

वदेत् प्रपञ्चरूपायै श्रियै नम इति क्रमात् ।
प्रपञ्चादिभिरायोज्य वर्णान शक्तीनीयोजयेत् ।
मातृकान्याससंप्रोक्तस्थानेष्वेवं न्यसेत् प्रिये

p1.35

त्रितारमूलसकलप्रपञ्चादि स्वरूपतः ।
आयै पराम्बादेव्यैनम उक्त्वा व्यापकं न्यसेत्

p1.36

प्रपञ्चन्यास एव स्याद् भुवनन्यास उच्यते ।
त्रितारमूलमन्त्रान्ते अ आं इं अतलं वदेत्

p1.37

लोकञ्च निलयञ्चैव शतकोटिपदं ततः ।
गुह्याद्या योगिनी मूलङेयुतन्तु वदेत् प्रिये

p1.38

वदेदाधारशक्त्यम्बादेव्यै च पादयोर्न्यसेत् ।
ई उं ऊं वितलं गुह्यतरं चानन्तसंज्ञकम् ।
शेषञ्च पूर्ववत् प्रोच्य गुल्फयोर्देवि विन्यसेत्

p1.39

ऋं ऋं ऌं सुतलञ्चातिगुह्यं चाविन्त्यसंज्ञकम् ।
शेषच्च पूर्ववत् प्रोच्य जङ्घयोवीन्यसेत् प्रिये

p1.40

ऌं एं एं महातलञ्च महागुह्यं पदं ततः ।
शेषञ्च पूर्ववत् प्रोच्य देवि जान्वोः प्रविन्यसेत्

p1.41

ओं औं तलातलं देवि परं गुह्याभिधानकम् ।
शेषञ्च पूर्ववत् प्रोच्य ऊर्वोर्देवेशि विन्यसेत्

p1.42

अं अः रसातलञ्चैव रहस्यं ज्ञानसंज्ञकम् ।
शेषञ्च पूर्ववत् प्रोच्य गुह्यदेशे प्रविन्यसेत्

p1.43

कवर्गणापि पातालं लोकेति निलयेति च ।
शेषञ्च पूर्ववत् प्रोच्य मूलाधारे तु विन्यसेत्

p1.44

चवर्गं भूतलञ्चेति रहस्यं डाकिनीमपि ।
शेषञ्च पूर्ववत् प्रोच्य स्वाधिष्ठाने न्यसेत् प्रिये

p1.45

टवर्गेण भुवो लोकं रहस्यं राकिणीमपि ।
शेषञ्च पूर्ववत् प्रोच्य नाभौ च विन्यसेत् प्रिये

p1.46

तवर्गं स्वश्च परमरहस्य लाकिनीमपि ।
शेषञ्च पूर्ववत् प्रोच्य हृदये विन्यसेत् प्रिये

p1.47

पवर्गञ्च महर्लोकं रहस्यं काकिनीमपि ।
शेषञ्च पूर्ववत् प्रोच्य तालुमूले न्यसेत् प्रिये

p1.48

यवर्गञ्च जनो गुप्ततरञ्च शाकिनीमपि ।
शेषञ्च पूर्ववत् प्रोच्य आज्ञायाञ्च न्यसेत् प्रिये

p1.49

शवर्गञ्च तपश्चातिगुह्यञ्च हाकिनीमपि ।
शेषञ्च पूर्ववत् प्रोच्य ललाटे विन्यसेत् प्रिये

p1.50

लं क्षं सत्यं महागुह्यं यक्षिणीमपि च प्रिये ।
शेषञ्च पूर्ववत् प्रोच्य ब्रह्मरन्ध्रे च विन्यसेत्

p1.51

त्रितारमूलमन्त्रान्ते चतुर्दशभुवं वदेत् ।
नाधिपायै श्रीपरायै देव्यै च व्यापकं न्यसेत्

p1.52

कृत्वैवं भुवनन्यासं मूत्तीन्यासमथाचरेत् ।
केशवनारायणमाधवगोविन्दविष्णवः

p1.53

मधुसूदनसंज्ञश्च स्यात्त्रिविक्रमवामनौ ।
श्रीधरश्च हृषीकेशः पद्मनाभो दामोदरः ।
वासुदेवः सङ्कर्षणः प्रद्युम्नश्चानिरुद्धकः

p1.54

अक्षोरोष्टदा चेशानी चोग्रोद्ध्र्वनयना तथा ।
ऋद्धिश्च रूपिणी लुप्ता लूनदोषैकनायिका

p1.55

एङ्कारिणी चौघवती सर्वकामाञ्जनप्रभा ।
अस्थि मालाधरा चेति सम्प्रोक्ताः स्वरदेवताः

p1.56

भवः शर्वांऽथ रुद्रश्च पशुपतिश्चोग्र एव च ।
महादेवस्तथा भीम ईशस्तत्पुरुषाह्वयः ॥
अघोरसद्योजातौ च वामदेव इतीरिताः

p1.57

करभद्रा खगबला गरिमादिफलप्रदा ।
घण्टाधरोग्रनयना चन्द्रधर्त्री ततः परम् ।
छन्दोमयी जगत्स्थाना ज्वलत्तारा ततः परम्

p1.58

ज्ञानदा च टङ्कधरा धृतिर्द्वादश ईरिताः ।
कभादीनां ठडान्तानां वर्णानां देवतास्त्विमाः

p1.59

ब्रह्मा प्रजापतिर्वेधाः परमेष्ठी पितामहः ।
विधाता च विरिञ्चिश्च स्रष्टा च चतुराननः ॥
हिरण्यगर्भ इत्युक्ताः क्रमाद् ब्रह्मादयो दश

p1.60

यक्षिणी रञ्जिनी लक्ष्मीवज्रिणी शशिधारिणी ।
षडाधारलया सर्वनायिका हसितानना ।
ललिता च क्षमा चेति प्रोक्ता याद्यर्णदेवताः

p1.61

त्रितारमूलमन्त्रान्ते स्वरान् विष्णून् सशक्तिकान् ।
चतुर्थ्या नमसा युक्तान् मस्तके चानने न्यसेत्

p1.62

सस्कन्धपार्श्वकट्यूरु जानुजङ्घापदेषु च ।
दक्षादिवामपर्यन्तं विन्यसेत् परमेश्वरि

p1.63

कभाद्यर्णयुतान् मन्त्री भवादीन शक्तिसंयुतान् ।
पादपार्श्वबाहुकण्ठपञ्चवक्त्रेषु विन्यसेत् ।
दशाधारेषु ब्रह्मादीन् यादि शक्तियुतान्न्यसेत्

p1.64

त्रितारमूलमन्त्रान्ते श्रीत्रिमूर्त्त्यम्बिकां वदेत् ।
आयै पराम्बादेव्यै च नमसा व्यापकं न्यसेत् ।
मूतीन्यासं विधायेत्थं मन्त्रन्यासं समाचरेत्

p1.65

त्रितारमूलं अं आं इं एकलक्षञ्च कोटि च ।
भेदश्च प्रणवाद्येकाक्षरात्माखिलमन्त्रतः

p1.66

ततोऽधिदेवतायै स्यात् सकलञ्च फलप्रदाम् ।
आयै तथैककूटेश्वर्यम्बादेव्यै नमो वदेत्

p1.67

ई उं ऊं आदि हंसादे द्विकूटं पूर्ववत् परम् ।
ऋं ऋं ऌं आदि वह्न्यादि त्रिकूटं पूर्ववत् परम्

p1.68

ॡं एं एं चतुर्लक्षं चन्द्रादि पूर्ववत् परम् ।
ओं औं अं अः पञ्चलक्षं सूर्यादि पूर्ववत् परम्

p1.69

कं खं गं चैव षड्लक्षं स्कन्दादि पूर्ववत् परम् ।
घं ङं चं सप्तलक्षं गणेशादि पूर्ववत् परम्

p1.70

छं जं झं अष्टलक्षं वटुकादि पूर्ववत् परम् ।
ञं टं ठं नवलक्षञ्च ब्रह्मादि पूर्ववत् परम्

p1.71

डं ढं णं दशलक्षञ्च विष्ण्वादि पूर्ववत् परम् ।
तं थं दं एकादशलक्षं रुद्रादि पूर्ववत् परम्

p1.72

धं नं पं द्वादशलक्षं वाण्यादि पूर्ववत् परम् ।
फं बं भं त्रयोदशलक्षं लक्ष्म्यादि पूर्ववत् परम्

p1.73

मं यं रं चतुर्दशलक्षं गौर्ययादि पूर्ववत् परम् ।
लं वं शं पञ्चदशलक्षं दुर्गादि पूर्ववत् परम् ।
षं सं हं लं क्षं षोडशलक्षं त्रिपुरादि च षोडशा

p1.74

अक्षरात्मा खिलमन्त्राधिदेवतायै सकलं ततः ।
तथा फलप्रदायै च षोडश कूटेश्वरी पुनः

p1.75

अम्बादेव्यै नमः प्रोक्तो मन्त्रन्यासो महेश्वरि ।
आधारलिङ्गयोर्नाभिहृत्कण्ठे नेत्रयोरपि

p1.76

निबोधिकायामर्द्धेन्दौ बिन्दौ चैव कलापदे ।
उन्मन्यां विष्णुक्त्रे च नादे नादान्त एव च ।
ध्रुवमण्डलदेशे च विन्यसेत् कुलनायिके

p1.77

त्रितारमूलमन्त्रान्ते सर्वमन्त्रात्मिकापदम् ।
आयै पराम्बादेव्यै च हृदये व्यापकं न्यसेत्

p1.78

मन्त्रन्यासं विधायेत्थं दैवतन्यासमाचरेत् ।
त्रितारमूलमन्त्रान्ते अं आं सहस्रकोटि च

p1.79

योगिनीकुलशब्दान्ते सेवितायै पदं वदेत् ।
निवृत्त्यम्बापदं देव्यै नम इत्युच्चरेत् प्रिये

p1.80

इं ई योगिनीप्रतिष्ठां शेषं पूर्ववदुच्चरेत् ।
उं ऊं तपस्वि विद्याञ्च शेषं पूर्ववदुच्चरेत्

p1.81

ऋं ॠं शान्तं तथा शान्तिं शेषं पूर्ववदुच्चरेत् ।
ऌं ॡं मुनिं शान्त्यतीतां शेषं पूर्ववदुच्चरेत्

p1.82

एं ए देवञ्च हृल्लेखां शेषं पूर्ववदुच्चरेत् ।
ओं औं राक्षसशब्दान्ते गगनां पूर्ववत् परम् ।
अं अः विद्याधरं रक्तां शेषं पूर्ववदुच्चरेत्

p1.83

कं खं सिद्धिमहोच्छ्रुष्मां शेषं पूर्ववदुच्चरेत् ।
गं घं साध्यकरालाञ्च शेषं पूर्ववदुच्चरेत्

p1.84

डं चं साप्सरसं जयां शेषं पूर्ववदुच्चरेत् ।
छं जं गन्धर्वविजयां शेषं पूर्ववदुच्चरेत्

p1.85

झं ञं गुह्यकशब्दान्ते अजितां शेषं पूर्ववत् परम् ।
टं ठं यक्षापराजितां शेषं पूर्ववदुच्चरेत्

p1.86

डं ढं किन्नरवामाञ्च शेषं पूर्ववदुच्चरेत् ।
णं तं पन्नगज्येष्ठाञ्च शेषं पूर्ववदुच्चरेत्

p1.87

थं दं चं पितृरौद्राम्बां शेषं पूर्ववदुच्चरेत् ।
धं नं गणेशमायाञ्च शेषं पूर्ववदुच्चरेत्

p1.88

पं फं भैरवशब्दान्ते कुण्डलीं पूर्ववत् परम् ।
बं भं वटुक कालीञ्च शेषं पूर्ववदुच्चरेत्

p1.89

मं यं क्षेत्रेशशब्दान्ते कालरात्रिञ्च पूर्ववत् ।
रं लं प्रमथभगवतीं शेषं पूर्ववदुच्चरेत्

p1.90

वं शं ब्रह्मसर्वेश्वरीं शेषं पूर्ववदुच्चरेत् ।
षं सं विष्णुञ्च सर्वज्ञां शेषं पूर्ववदुच्चरेत्

p1.91

हं लं रुद्रसर्वकर्त्री शेषं पूर्ववदुच्चरेत् ।
क्षं चराचरशक्तिञ्च शेषं पूर्ववदुच्चरेत्

p1.92

अङ्गुष्ठगुल्फजंघासु जानूरुकटिपार्श्वके ।
स्तनकक्ष करस्कन्धकर्णमूर्द्धस्वपि क्रमात्

p1.93

दक्षभागदिवामान्तं विन्यसेत् कुलनायिके ।
त्रितारमूलमन्त्रान्ते सर्वदेवात्मिकां पदम्

p1.94

आयै पराम्बादेव्यै च हृदये व्यापकं न्यसेत् ।
देवन्यासं विधायेत्थं मातृकान्यासमाचरेत्

p1.95

त्रितारमूलमन्त्रान्ते कवर्गानन्तकोटिभू ।
चरीकुलसेवितायै आं क्षां हि मङ्गलापदम्

p1.96

अम्बादेव्यै नमो ब्रूयादां क्षां ब्रह्माण्यतः परम् ।
अम्बादेव्यै ततोऽनन्तकोटिभूतं कुलं वदेत्

p1.97

सहितायै ततो मङ्गलनाथाय अं क्षं वदेत् ।
अं क्षं असिताङ्गभैरवनाथाय नम उच्चरेत्

p1.98

चवर्गं खेचरीं ई लां चचीकाञ्च महेश्वरीम् ।
वेतालं इं लं चचीकं रुरुं शेषञ्च पूर्ववत्

p1.99

टवंर्ग पातालचरीं ऊं हां योगेश्वरीं वदेत् ।
कौमारीञ्च पिशाचञ्च उं हं योगेशचण्डकौ

p1.100

तवर्गं दिक्चरीं ऋं सां हरसिद्धाञ्च वैष्णवीम् ।
अपस्मारं ऋं सं हरसिद्धक्रोधादिपूर्ववत्

p1.101

पवर्गं सहचरीं ऌं षां भट्टि वाराह्यतः परम् ।
ब्रह्मराक्षसकं ऌं षां भट्टोन्मत्तादि पूर्ववत्

p1.102

यवर्ग स्याद्गिरिचरीं एं शां किलकिलेति च ।
इद्राणीं चेटकं एं शं किलिः कापालिकस्तथा

p1.103

शवर्गं स्यात् वनचरीं औं वां कालादिरात्रि च ।
चामुण्डां प्रेतं ओं वं च कालरात्रिश्च भीषणः

p1.104

लं क्षं जलचरीं अः लां वदेत् वश्चञ्च भीषणाम् ।
महालक्ष्मीं शाकिनीश्च अं लं पश्चाच्च भीषणम्

p1.105

संहारभैरवञ्चैव शेषं पूर्ववदुच्चरेत् ।
मूलाधारलिङ्गनाभिष्वनाहतविशुद्धयोः

p1.106

आज्ञाभाल तलब्रह्मरन्ध्रेष्वेवं प्रविन्यसेत् ।
त्रितारमूलमन्त्रान्ते मातृभैरवशब्दतः

p1.107

अधिपायै पराम्बा देव्यै नमो व्यापकं न्यसेत् ।
मातृन्यास महेशानि कुर्यादेवं समाहितः

p1.108

एवं न्यस्ततनुर्दैवि ध्यायेद्देवमनन्यधीः ।
अमृतार्णवमध्योद्यन्मणिद्वीपे सुशोभिते

p1.109

कल्पवृक्षवनान्तःस्थमणि माणिक्यमण्डपे ।
नवरत्नमय श्रीमत्सिंहासनगतेम्बुजे

p1.110

त्रिकोणान्तःसमासीनं चन्द्रसूर्यायुतप्रभम् ।
अर्द्धाम्बिकासमायुक्तं प्रविभक्तविभूषणम्

p1.111

कोटिकन्दर्पलावण्यं सदा षोडशवाषीकम् ।
मन्दस्मितमुखाम्भोजं त्रिनेत्रं चन्द्रशेखरम्

p1.112

दिव्याम्बरस्रगालेपं दिव्याभरणभूषितम् ।
पानपात्रञ्च चिन्मुदां त्रिशूलं पुस्तकं करैः

p1.113

विद्यासंसिद्धिं बिभ्राणां सदानन्दमुखेक्षणम् ।
महाषोढोदिताशेषदेवतागणसेवितम्

p1.114

एवं चित्ताम्बुजे ध्यायेदर्द्धनारीश्वरं शिवम् ।
पुंरूपं वा स्मरेद्देवि स्त्रीरूपं वा विचिन्तयेत्

p1.115

अथवा निष्कलं ध्यायेत् सच्चिदानन्दलक्षणम् ।
सवतेजोमयं देवि सचराचरविग्रहम्

p1.116

ततः सन्दर्शयेन्मुद्रादशकं परमेश्वरि ।
योनि लिङ्गञ्च सुरभि हेतिमुद्राचतुष्टयम्

p1.117

वनमालां महामुद्रां नभोमुद्रामिति क्रमात् ।
यथाशक्ति मन्त्रमूलं जपेत् श्रीपादुकामपि ।
मूध्नी सञ्चिन्तयेद्देवि श्रीगुरुं शिवरूपिणम्

p1.118

सहस्रदलपङ्कजे सकलशीतरश्मिप्रभम्
वराभयकराम्बुजं विमलगन्धपुष्पाम्बरम् ।
प्रसन्नवदनेक्षणं सकलदेवतारूपिणम्
स्मरेत् शिरसि हंसगं तदभिधानपूर्वं गुरुम्

p1.119

एवं न्यासे कृते देवि साक्षात् परशिवो भवेत् ।
मन्त्री नैवात्र सन्देहो निग्रहानुग्रहक्षमः

p1.120

महाषोढाह्वयं न्यासं यः करोति दिने दिने ।
देवाः सर्वे नमस्यन्ति तं नमामि न संशयः

p1.121

महाषोढाह्वयं न्यासं करोति यत्र पार्वति ।
दिव्यक्षेत्रं समुद्दिष्टं समन्ताद्दशयोजनम्

p1.122

कृत्वा न्यासमिमं देवि यत्र गच्छति मानवः ।
तत्र स्याद्विजयो लाभः सम्मानः पौरुषं प्रिये

p1.123

महाषोढाकृतन्यासस्तेन यो वन्द्यते शिवे ।
षण्मासान्मृत्युमाप्नोति यदि त्राता शिवः स्वयम्

p1.124

वज्रपञ्जरनामानमेतं न्यासं करोति यः ।
दिव्यन्तरीक्षभूशैलजलारण्यनिवासिनः

p1.125

प्रचण्डभूतवेतालदेवरक्षोग्रहादयः ।
भयग्रस्तेन मनसा नेक्षन्ते तं कुलेश्वरि

p1.126

महाषोढाकृतन्यासं ब्रह्माविष्णुशिवादयः ।
देवाः सर्वे नमस्यन्ति ऋषयोऽपि मुनीश्वराः

p1.127

बहुनोक्तेन किं देवि न्यासमेतं मम प्रियम् ।
नापुत्राय वदेद्देवि नाशिष्याय प्रकाशयेत्

p1.128

आज्ञासिद्धिमवाप्नोति तस्मान्न्यासं समाचरेत् ।
अस्मात् परतरा रक्षा देवताभावसिद्धिदा ।
लोके नास्ति न सन्देहः सत्यं सत्यं वरानने

p1.129

ऊर्ध्वाम्नायप्रवेशश्च पराप्रासादचिन्तनम् ।
महाषोढापरिज्ञानं नाल्पस्य तपसः फलम्

p1.130

इति ते कथितं देवि मन्त्रोद्धारादिकं प्रिये ।
समासेन कुलेशानि किं भूयः श्रोतुमिच्छसि

p1.4

॥ इति श्रीकुलार्णवे निर्वाणमोक्षद्वारे महारहस्ये सर्वागमोत्तमोत्तमे
सपादलक्षग्रन्थे पञ्चमखण्डे ऊर्ध्वाम्नायतन्त्रे
माहाषोढाकथनं नाम चतुर्थोल्लासः

p1.1

अथ पञ्चमोल्लासः
श्रीदेव्युवाच
कुलेशाधारपात्राणां पिशितानाञ्च लक्षणम् ।
कुलद्रव्यस्य निर्माणं भेदं माहात्म्यमेव च

p1.2

अविधानेन यत् पापं सविधानेन यत् फलम् ।
तत् सर्वं श्रोतुमिच्छामि वद मे करुणानिधे

p1.3

ईश्वर उवाच
शृणु देवि प्रवक्ष्यामि यन्मां त्वं परिपृच्छसि ।
तस्य श्रवणमात्रेण त्रिदशैः समतां व्रजेत्

p1.4

आधारेण विना भ्रंशो न च तृप्यन्ति मातरः ।
तस्माद्विधिवदाधारं कल्पयेत् कुलनायिके

p1.5

आधारं त्रिपदं प्राहुः षट्पदं वा चतुष्पदम् ।
अथवा वर्तुलाकारं कुर्याद्देवि मनोहरम्

p1.6

स्वर्णरौप्यशिलाकूर्मकपालालाबुमृण्मयम् ।
नारिकेलशङ्खताम्रमुक्ताशुक्तिसमुद्भवम्

p1.7

पुण्यवृक्ष समुद्भूतं पात्रं कुर्याद्विचक्षणः ।
अतिसूक्ष्ममतिस्थूलं छिन्नं भिन्नञ्च वर्जयेत्

p1.8

सुवर्णरौप्यताम्राणि सर्वसिद्धकराणि च ।
शान्तिके च शिलापात्रं स्तम्भने चैव मृण्मयम्

p1.9

नारिकेलञ्च वश्ये स्यादभिचारे च कूर्मजम् ।
शङ्गं ज्ञानप्रदं शुक्तिर्देवीप्रीतिप्रदायिनी

p1.10

कपालालाबुपात्राणि योगसिद्धिकराणि च ।
पुण्यवृक्षज पात्राणि सर्वपापहराणि च ।
उक्तेष्वेतेषु देवेशि पात्रमेकं प्रकल्पयेत्

p1.11

कुलद्रव्यं प्रवक्ष्यामि शृणु देवि समाहिता ।
अम्भसां द्वादशप्रस्थं प्रस्थार्द्धं तक्रमेव च

p1.12

तण्डुलानां चतुःप्रस्थं द्विप्रस्थञ्च तथान्धसाम् ।
मुष्टिमात्राङ्कुरैः सार्द्धम् एकस्मिन् योजयेद् घटे

p1.13

शीतादिरहिते स्थाने स्थापयेद्दिवसद्वयम् ।
तस्मादग्निं समारोप्य जम्बालसदृशं पचेत्

p1.14

अवरोप्य पुनः शीतामवस्थां प्रापयेत्ततः ।
पादोनप्रस्थकैः पिष्ट्वा हस्ताभ्यां मेलयेत् सुधीः

p1.15

प्रस्थार्द्धान् तण्डुलान् वाप्यपरेद्युस्तत् समुद्धरेत् ।
सम्यक् संमद्ये तक्रेण पाकमालोड्य मेलयेत् ।
एषा पैष्टीति विख्याता पूजिता देवदानवैः

p1.16

गौडी च श्वेतबर्बुरजम्बुत्वक्सधिताम्भसाम् ।
दशप्रस्थं कुलेशानि धातकीकुसुमं शुभम्

p1.17

नारिकेलप्रसूनं वा चैकप्रस्थं विनिक्षिपेत् ।
हरीतकी चाक्षफलं वसुनिष्कप्रमाणतः

p1.18

वह्निं त्रिकटुकञ्चापि निष्कमार्धं क्षिपेत् पृथक् ।
अशीतिगुडसम्मिश्रमेकस्मिन् योजयेद् घटे

p1.19

करेण भ्रामयेत् सम्यगनुलोमविलोमतः ।
अष्टोत्तरशतावृत्त्या त्रिसन्ध्यं प्रतिवासरम्

p1.20

द्वादशाहेन पाकः स्यात् पालयेत्तत्त्रयोदशे ।
एषा गौडीति कथिता शिवसायुज्यहेतुकी

p1.21

द्विगुणं मकरन्दस्य वारि संयोजयेद् घटे ।
द्वादशाहेन पाकः स्याच्छेषमन्यत् पुरोक्तवत् ।
एषा माध्वी समुद्दिष्टा देवताप्रीतिकारिणी

p1.22

एका शुण्ठी द्विवह्निश्च मरीचत्रितयं तथा ।
धातकी च चतुष्कं स्यात् पञ्च पुष्पाणि षण्मधु

p1.23

अशीतिगुडसम्मिश्रं शेषमन्यत् पुरोक्तवत् ।
इदं मनोहरं द्रव्यं योगिनीपानमुत्तमम्

p1.24

सार्द्धेन्दुपलकं दघ्नो माहिषं प्रस्थमात्रकम् ।
मोचापक्वशतञ्चापि योगोऽयं मदिरा शुभा

p1.25

तं मेलयित्वा संयोज्य सान्द्गे वंशपुटे पचेत् ।
चत्वारिंशद्दिनान्यष्टौ पङ्के पङ्कजसम्भवे

p1.26

निधायोद्धृत्य किरणैः सौरैः सम्यग् विशोषयेत् ।
यदा च कठिनीभावस्तदा संगृह्य मानवः

p1.27

गुञ्जाफलप्रमाणन्तु जलैः सम्मिलितं शुभम् ।
आत्मेच्छं पूरयेत् पात्रं परमानन्ददं परम्

p1.28

एतादप्युत्तमं द्रव्यं सर्वदेवप्रियं प्रिये ।
एतानि मदहेतूनि मद्यान्यन्यानि कारयेत्

p1.29

पानसं द्राक्षमाधूकं खार्जूरं तालमैक्षवम् ।
मधूत्थं शीधु माध्वीकं मैरेयं नारिकेलजम्

p1.30

मद्यान्येकादशैतानि भुक्तिमुक्तिकराणि च ।
द्वादशन्तु सुरा मद्य सर्वेषामुत्तमं प्रिये

p1.31

पैष्टी गौडी च माध्वी च विज्ञेया त्रिविधा सुरा ।
सर्वसिद्धिकरी पैष्टी गौडी भोगप्रदायिनी

p1.32

माध्वी मुक्तिकरी ज्ञेया सुरा स्याद्देवताप्रिया ।
विद्याप्रदैक्षवी ज्ञेया द्राक्षी राज्यप्रदा भवेत्

p1.33

तालजा स्तम्भने शस्ता खार्जूरी रिपुनाशिना ।
नारिकेलभवा श्रीदा पानसी च शुभप्रदा

p1.34

मधूकजा ज्ञानकरी माध्वीकी रोगनाशिनी ।
मैरेयाख्या कुलेशानि सर्वदा पापहारिणी

p1.35

क्षीरवृक्षसमुद्भूतं मद्यं वल्कलसम्भवम् ।
मधुपुष्पसमुद्भूतम् आसवं तण्डुलोद्रवम्

p1.36

यस्यानन्दो निवीकार आमोदश्च मनोहरः ।
मद्यं तदुत्तमं देवि देवानां प्रीतिदायकम्

p1.37

आत्मेच्छं पूरयेत् पात्रं परमानन्दवर्द्धनम् ।
एतदामोदकं द्रव्यं सर्वदेवप्रियं प्रिये

p1.38

सुरादर्शनमात्रेण सर्वपापैः प्रमुच्यते ।
तद्गन्धाघ्राणमात्रेण शतक्रतुफलं लभेत्

p1.39

मद्यस्पर्शनमात्रेण तीर्थकोटिफलं लभेत् ।
देवि तत्पानतः साक्षाल्लभेन्मुक्तिं चतुवीधाम्

p1.40

इच्छाशक्तिः सुरामोदे ज्ञानशक्तिश्च तद्रसे ।
तत्स्वादे च क्रियाशक्तिस्तदुल्लासे परा स्थिता

p1.41

मदिरा ब्रह्मगाः प्रोक्ताः चित्तशोधनसाधनाः ।
तासामेकां समाहृत्य पूजाकर्म समाचरेत्

p1.42

मत्स्य मांसादिविजयां चाष्टगन्धैः सुमिश्रिताम् ।
संमर्द्य वटिकां कृत्वा संगृह्याथ विचक्षणः ।
मद्याभावे तु वटिकां जले संयुज्य तर्पयेत्

p1.43

गुडमिश्रेण तक्रेण तर्पयेत् मधुभाजिना ।
सौवीरेणाथवा कुर्यादेतत् कर्म न लोपयेत् ।
प्रमादाद् यदि लुप्येत देवताशापमाप्नुयात्

p1.44

मांसन्तु त्रिविधं प्रोक्तं खभूजलचरं प्रिये ।
यथासम्भवमप्येकं तर्पणार्थं प्रकल्पयेत् ।
मांसदर्शनमात्रेण सुरादर्शनवत् फलम्

p1.45

पितृदैवतयज्ञेषु वैधहिंसा विधीयते ।
आत्मार्थं प्राणिनां हिंसा कदाचिन्नोदिता प्रिये

p1.46

अनिमित्तं तृणं वापि छेदयेन्न कदाचन ।
देवतार्थं द्विजार्थ वा हत्वा पापैर्न लिप्यते

p1.47

मामनादृत्य यत् पुण्यं पापं स्यात् प्रतिभाषतः ।
मन्निमित्तं चरेत् पापं पुण्यं भवति शाम्भवि

p1.48

यैरेव पतनं द्रव्यैः सिद्धिस्तैरेव चोदिता ।
श्रीकौलदर्शने चापि भैरवेण महात्मना

p1.49

मत्कर्म कुर्वतां पुंसां कर्मलोपो भवेन्नहि (यदि) ।
तत्कर्म ते प्रकुर्वन्ति सप्तकोटिमुनीश्वराः

p1.50

हन्यान्मन्त्रेण चानेन त्वभिमन्त्र्य पशुं प्रिये ।
गन्धपुष्पाक्षतैः पूज्य चान्यथा नरकं व्रजेत्

p1.51

शिवोत्कृत्तमिदं पिण्डमतस्त्वं शिवतां गतः ।
तद् बुध्यस्य पशो त्वं हि मा शिवस्त्वं शिवोऽसि हि

p1.52

ब्रह्मा स्यात् पलले विष्णुर्गन्धे रुद्रश्च तद्रसे ।
परमात्मा तदानन्दे तस्मात् सेव्यमिदं प्रिये

p1.53

मांसाभावे तु लशुनं सार्द्रकं नागरन्तु वा ।
आदाय पूजयेद्देवि चान्यथा निष्फलं भवेत्

p1.54

मत्स्यमांसविहीनेन मद्येनापि न तर्पयेत् ।
न कुर्यान्मत्स्यमांसाभ्यां विना द्रव्येण पूजनम्

p1.55

पिशितं तिलमात्रन्तु तिलार्द्धमपि बिन्दुना ।
सकृत्तर्पणमात्रेण कोटियज्ञफलं लभेत्

p1.56

कुलपूजासमं नास्ति पुण्यमन्यज्जगत्त्रये ।
तस्माद् यः पूजयेद्भक्त्या भुक्तिमुक्त्योः स भाजनम्

p1.57

अनधीतोऽप्यशास्त्रज्ञो गुरुभक्तो दृढव्रतः ।
कुलपूजारतो यस्तु स मे प्रियतमो भवेत्

p1.58

चतुर्णामपि वर्णानामाश्रमाणामपीश्वरि ।
पुंस्त्रीनपुंसकानान्तु पूजितेष्टफलप्रदा

p1.59

इहामुत्र फलं दद्याः पूजिता सुवधूरिव ।
अपूजिता त्वं देवेशि दुःखदा कुवधूरिव

p1.60

कुलपूजां विना यस्तु करोत्येवं सुदुर्मतिः ।
स याति नरकं घोरमेकविंशतिभिः कुलैः

p1.61

तस्मात् सर्वप्रयत्नेन कुलपूजारतो भवेत् ।
लभते सर्वसिद्धींश्च नात्र कार्या विचारणा

p1.62

आराधनासमर्थश्चेद्दद्यादर्चनसाधनम् ।
यो दातुं नैव शक्नोति कुर्यादर्चनदर्शनम्

p1.63

सम्यक् शतक्रतून् कृत्वा यत् फलं समवाप्नुयात् ।
तत् फलं समवाप्नोति सकृत् कृत्वा क्रमार्चनम्

p1.64

महाषोडशदानानि कृत्वा यच्च फलं लभेत् ।
तत् फलं समवाप्नोति कृत्वा श्रीचक्रदर्शनम्

p1.65

सार्द्धत्रिकोटितीर्थेषु स्नात्वा यत् फलमाप्नुयात् ।
तत् फलं लभते देवि सकृत् कृत्वा क्रमार्चनम्

p1.66

बहुनोक्तेन किं देवि यथाभक्त्या ददाति यः ।
कुलाचार्याय पूजार्थं कुलद्रव्यं स धर्मवित्

p1.67

शैवे वा वैष्णवे शाक्ते सौरे सुगतदर्शने ।
बौद्धे पाशुपते सांख्ये व्रते कुलमुखे तथा

p1.68

सदक्षवामसिद्धान्ते वैदिकादिषु पार्वति ।
विनाऽलिपिशिताभ्यान्तु पूजनं निष्फलं भवेत्

p1.69

कुलद्रव्यैवीना कुर्याज्जपयज्ञ तपोव्रतम् ।
निष्फलं तद्भवेद्देवि भस्मनीव यथा हुतम्

p1.70

यथैवान्तश्चरा राज्ञः प्रियाः स्युर्न बहिश्चराः ।
तथान्तर्यागनिष्ठा ये ते प्रिया देवि नापरे

p1.71

समर्पयन्ति ये भक्त्या आवाभ्यां पिशितासवम् ।
उत्पादयन्ति चानन्दं मत्प्रियाः कौलिकाश्च ते

p1.72

आवयोः परमाकारं सच्चिदानन्दलक्षणम् ।
कुलद्रव्योपभोगेन परिस्फुरति नान्यथा

p1.73

अन्तःस्थानुभवोल्लासो मनोवाचामगोचरः ।
कुलद्रव्योपभोगेन जायते नान्यथा प्रिये

p1.74

सेविते च कुलद्रव्ये कुलतत्त्वार्थदर्शनः ।
जायते भैरवावेशः सर्वत्र समदर्शनः

p1.75

तमःपरिवृतं वेश्म यथा दीपेन दृश्यते ।
तथा मायावृतो ह्यात्मा द्रव्यपानेन दृश्यते

p1.76

मन्त्रपूतं कुलद्रव्यं गुरुदेवापीतं प्रिये ।
ये पिबन्ति जनास्तेषां स्तन्यपानं न विद्यते

p1.77

मद्यन्तु भैरवो देवो मद्यं शक्तिः समीरिता ।
अहो भोक्ता च मद्यस्य मोहयेदमरानपि

p1.78

तन्मैरेयं नरः पीत्वा यो न विकुरुते प्रिये ।
मद्ध्यानैकपरो भूत्वा स मुक्तः स च कौलिकः

p1.79

सुरा शक्तिः शिवो मांसं तद्भोक्ता भैरवः स्वयम् ।
तयोरैक्यसमुत्पन्न आनन्दो मोक्ष उच्यते

p1.80

आनन्दं ब्रह्मणो रूपं तच्च देहे व्यवस्थितम् ।
तस्याभिव्यञ्जकं मद्यं योगिभिस्तेन पीयते

p1.81

कुण्डी कम्बुकपालानि मधुपूर्णानि बिभ्रतः ।
किं न पश्यति लोकोऽयं ब्रह्मविष्णुमहेश्वरान्

p1.82

निःशङ्को निर्भयो वीरो निर्लज्जो निष्कुतूहलः ।
निर्णीतवेदशास्त्रार्थो वरदां वारुणीं पिबेत्

p1.83

मन्त्रसंस्कारसंशुद्धामृतपानेन पार्वति ।
जायते देवताभावो भवबन्धविमोचकः

p1.84

ब्राह्मणस्य सदा पेयं क्षत्रियस्य रणागमे ।
गोलम्भने तु वैश्यस्य शूद्रस्यान्त्येष्टिकर्मणि

p1.85

देवान् पितृन् समभ्यर्च्य देवि शास्त्रोक्तवर्त्मना ।
गुरुं स्मरन् पिबन्मद्यं खादन् मांसंन दोषभाक्

p1.86

तृप्त्यर्थं पितृदेवानां ब्रह्मध्यानस्थिराय च ।
सेवेत मधुमांसानि तृष्णया चेत् स पातकी

p1.87

मन्त्रार्थं स्फुरणार्थाय मनसः स्थैर्यहेतवे ।
भवपाशनिवृत्त्यर्थं मधुपानं समाचरेत्

p1.88

सेवेत स्वसुखार्थं यो मद्यादीनि स पातकी ।
प्राशयेद्देवताप्रीत्यै स्वाभिलाषविवजीतः

p1.89

मत्स्यमांससुरादीनां मादकानां निषेवणम् ।
यागकालं बिनान्यत्र दूषणं कथितं प्रिये

p1.90

यथा क्रतुषु विप्राणां सोमपानं विधीयते ।
मद्यपानं तथा कार्यं समये भोगमोक्षदम्

p1.91

श्रीगुरोः कुलशास्त्रेभ्यः सम्यग्विज्ञाय वासनाम् ।
पञ्चमुद्रा निषेवेत चान्यथा पतितो भवेद्

p1.92

आवृत्तिं गुरुपंक्तिश्च वटुकादीन्न पूज्य यः ।
वीरोऽप्यत्र वृथापानी देवताशापमाप्नुयात्

p1.93

अयष्ट्वा भैरवं देवमकृत्वा मन्त्रतर्पणम् ।
पशुपानविधौ पीत्वा वीरोऽपि नरकं व्रजेत्

p1.94

अज्ञात्वा कौलिकाचारमयष्ट्वा गुरुपादुकाम् ।
योऽस्मिन् शास्त्रे प्रवर्त्तेत तं त्वं पीडयसि ध्रुवम्

p1.95

कौलज्ञाने ह्यसिद्धो यस्तद्द्रव्यं भोक्तुमिच्छति ।
स महापातकी ज्ञेयः सर्वधर्मबहिष्कृतः

p1.96

समयाचारहीनस्य स्वैरवृत्तेर्दुरात्मनः ।
न सिद्धयः कुलभ्रंशस्तत्संसर्गं न कारयेत्

p1.97

यः शास्त्रविधिमुत्सृज्य वर्त्तते कामकारतः ।
स सिद्धिमिह नाप्नोति परत्र न परां गतिम्

p1.98

स्वेच्छया रममाणो यो दीक्षासंस्कारवजीतः ।
न तस्य सद्गतिः क्वापि तपस्तीर्थव्रतादिभिः

p1.99

असंस्कृतं पिबेद्द्रव्यं बलात्कारेण मैथुनम् ।
स्वप्रियेण हतं मांसं रौरवं नरकं व्रजेत्

p1.100

कौलाः पशुव्रतस्याश्चेत् पक्षद्वयविडम्बकाः ।
केशसंख्या स्मृता यावत्तावत्तिष्ठन्ति रौरवे

p1.101

कुलद्रव्याणि सेवेत योऽन्यदर्शनमाश्रितः ।
तदङ्गरोमसंख्यातं भूतयोनिषु जायते

p1.102

मदप्रच्छादितात्मा च न किञ्चिदपि वेत्ति च ।
न ध्यानं न तपो नार्चा न धर्मो न च सत्क्रिया

p1.103

न दैवं न गुरुर्नात्मविचारो न स कौलिकः ।
केवलं विषयासक्तः पतत्येव न संशयः

p1.104

मद्यासक्तो न पूजार्थी मांसाशी स्त्रीनिषेवकः ।
कौलोपदेशहीनो यः सोऽक्षयं नरकं व्रजेत्

p1.105

असंस्कारी तु यो नौ स्यात् पञ्च मुद्रा निषेवते ।
कुलेशि ब्रह्यनिष्ठोऽपि निन्द्यतामधिगच्छति

p1.106

लिङ्गत्रयविशेषज्ञः षडाधारविभेदकः ।
पीठस्थानानि चागत्य महापद्मवनं व्रजेत्

p1.107

आमूलाधारमाब्रह्मरन्ध्रं गत्वा पुनः पुनः ।
चिच्चन्द्रकुण्डलीशक्तिसामरस्य सुखोदयः

p1.108

व्योमपङ्कजनिस्यन्दसुधापानरतो नरः ।
सुधापानमिदं प्रोक्तमितरे मद्यपायिनः

p1.109

पुण्यापुण्यपशुं हत्वा ज्ञानखड्गेन योगवित् ।
परे लयं नयेच्चितं पलाशी स निगद्यते

p1.110

मनसा चेन्द्रियगणं संयम्यात्मनि योजयेत् ।
मत्त्स्याशी स भवेद्देवि शेषाः स्युः प्राणिहिंसकाः

p1.111

अप्रबुद्धा पशोः शक्तिः प्रबुद्धा कौलिकस्य च ।
शक्तिं तां सेवयेत् यस्तु स भवेत् शक्तिसेवकः

p1.112

पराशक्त्यात्ममिथुनसंयोगानन्दनिर्भरः ।
य आस्ते मैथुनं तत् स्यादपरे स्त्रीनिषेवकाः

p1.113

इत्यादि पञ्चमुद्राणां वासनां कुलनायिके ।
ज्ञात्वा गुरुमुखाद्देवि यः सेवेत स मुच्यते

p1.114

इति ते कथितं देवि कुलद्रव्यादिलक्षणम् ।
समासेन कुलेशानि किं भूयः श्रोतुमिच्छसि

p1.5

॥ इति श्रीकुलार्णवे निर्वाणमोक्षद्वारे महारहस्ये सर्वागमोत्तमोत्तमे
सपादलक्षग्रन्थे पञ्चमखण्डे ऊर्ध्वाम्नायतन्त्रे
कुलमाहात्म्यकथनं नाम पञ्चमोल्लासः

p1.1

अथ षष्ठोल्लासः
श्रीदेव्युवाच
कुलेश श्रोतुमिच्छामि पूजकस्य च लक्षणम् ।
कुलद्रव्यादिसंस्कारमर्चनं वद मे प्रभो

p1.2

ईश्वर उवाच
शृणु देवि प्रवक्ष्यामि यन्मां त्वं परिपृच्छसि ।
तस्य श्रवणमात्रेण स्तूयते देवदानवैः

p1.3

निरस्तपातका यत्र मानवाः पुण्यकमीणः ।
कुलज्ञानसुसम्पन्ना भजन्ते ये दृढव्रताः

p1.4

पूर्णाभिषेकसहितो वेदशास्त्रार्थतत्त्ववित्।
देवतागुरुभक्तस्तु नियतात्मार्चयेत् प्रिये

p1.5

कुलागमरहस्यज्ञो देवताराधनोत्सुकः ।
गुरूपदेशसंयुक्तः पूजयेत् कुलनायिके

p1.6

शुद्धात्मा चातिसंहृष्टः क्रोधलौल्यविवजीतः ।
पशुव्रतादिविमुखः सुमुखस्तु यजेत् प्रिये

p1.7

यदा पुंसः कृतार्थस्य कालेन बहुना प्रिये ।
मत्प्रसादेन भूयाच्च दृढभक्तिसमागमः

p1.8

तदर्थं तर्पणं कुर्याद् द्रव्यैः श्रीभैरवोदितेः ।
गुरूपदेशविधिना चान्यथा पतनं भवेत्

p1.9

मन्त्रयोगेन देवेशि कुर्यात् श्रीचक्रपूजनम् ।
तदहन्तु त्वया सार्धं गृह्णामि स्वयमादरात्

p1.10

भैरवोऽहमिति ज्ञानात् सर्वज्ञादिगुणान्वितः ।
इति संचिन्त्य योगीन्द्रः कुलपूजारतो भवेत्

p1.11

इत्यादिलक्षणोपेतः कौलिको नियतव्रतः ।
यस्त्वां समर्चयेद्देवि भुक्तिमुक्त्योः स भाजनम्

p1.12

एकान्ते विजनेऽरण्ये देशे बाधाविवजीते ।
सुखासने समासीनः प्राङ्मुखो वाप्युदङ्मुखः

p1.13

अमृताब्धौ मणिद्वीपे कल्पवृक्षतरोस्तले ।
रत्नप्राकारसन्दीप्तं स्मरेन्माणिक्यमण्डपम्

p1.14

पुष्पमालावितानाढ्यं प्रच्छन्नपटसंवृतम् ।
कर्पूरदीपभास्वन्तं धूपामोदसुगन्धिकम्

p1.15

तन्मण्डपस्थमात्मानं ध्यात्वाऽनाकुलचेतसा ।
श्रीगुरोराज्ञया देवि कुलपूजां समाचरेत्

p1.16

आत्मस्थानमनुद्रव्यदेवशुद्धिस्तु पञ्चमी ।
यावन्न कुरुते मन्त्री तावद्देवार्चनं कुतः

p1.17

सुस्नानभूतसंशुद्धिप्राणायामादिभिः प्रिये ।
षडङ्गाद्यखिलन्यासेरात्मशुद्धिः समीरिता

p1.18

सम्मार्जनानुलेपाद्यैर्दर्पणोदरवत्कृतम् ।
वितानधूपदीपादिपुष्पमालोपशोभितम् ।
पञ्चवर्णरजश्चित्रं स्थानशुद्धिरितीरिता

p1.19

ग्रथित्वा मातृकावर्णैर्मूलमन्त्राक्षराणि च ।
क्रमोत्क्रमाद् द्विरावृत्त्या मन्त्रशुद्धिरितीरिता

p1.20

पूजाद्रव्याणि संप्रोक्ष्य मूलास्त्राद्भिवीधानवित् ।
दर्शयेद्धेनुमुद्राञ्च द्रव्यशुद्धिरितारिता

p1.21

पीठे देवं प्रतिष्ठाप्य सकलीकृत्य मन्त्रवित् ।
मूलमन्त्रेण दीप्तात्मा न्यासद्रव्योदकेन च ।
त्रिवारं प्रोक्षयेद्विद्वान् देवशुद्धिरितीरिता

p1.22

पञ्चशुद्धिं विधायेत्थं पश्चाद् यजनमाचरेत् ।
सा पूजा सफला प्रोक्ता चान्यथा निष्फला भवेत्

p1.23

मण्डलेन विना पूजा निष्फला कथिता प्रिये ।
तस्मान्मण्डलमालिख्य विधिवत्तत्र पूजयेत्

p1.24

अखण्डमण्डलाकारं विश्वं व्याप्य व्यवस्थितम् ।
त्रैलोक्यं मण्डितं येन मण्डलं तत् सदा शिवम्

p1.25

उड्डीयानां चतुरस्रं कामरूपञ्च वर्त्तुलम् ।
जालन्धरञ्च चन्द्रार्धं त्र्यस्रः पूर्णगिरिर्भवेत्

p1.26

अभ्यर्च्य मण्डलं पश्चादाधारान् स्थापयेत् क्रमात् ।
समान्यश्रीगुरुभोगबलिपात्राणि पञ्चधा

p1.27

द्विपात्रं वा त्रिपात्रं वा एकपात्रं न कारयेत् ।
स्वदक्षिणादिवामान्तं स्थाप्याभ्यर्च्यासवेन तु

p1.28

संपूर्य मूलमन्त्रेण कुलेश्वरि विनिधानवित् ।
तत्र माषप्रमाणन्तु मत्स्यं मांसं विनिक्षेपेत्

p1.29

नष्टैः पर्युषितोच्छिष्टैर्दुर्गन्धैर्गन्धवजीतैः ।
हेतुभिः परपात्रस्थैस्तपीतं निष्फलं भवेत्

p1.30

न पूरयेत्तु पात्राणि अप्रियैस्तैः कुलेश्वरि ।
स्वादिष्ठैश्च मदिरौष्ठैश्च द्रव्यैरमृतसन्निभैः ।
मनोहरैर्महेशानि तर्पणं सफलं भवेत्

p1.31

असंस्कृता सुरा पापकलहव्याधिदुःखदा ।
आयुःश्रीकीत्तीसौभाग्यधनधान्यविनाशिनी

p1.32

तस्मात् संस्कृत्य विधिवत् कुलद्रव्यं ततोऽर्चयेत् ।
अन्यथा नरकं याति दाता भोक्ता न संशयः

p1.33

विना द्रव्यादिवासेन न जपेन्न स्मरेत् प्रिये ।
ये स्मरन्ति नरा मूढास्तेषां दुःखं पदे पदे

p1.34

नासवेन विना मन्त्रो न मन्त्रेण विनासवः ।
परस्परविरोधित्वात् कथं पूजा विधीयते

p1.35

तत्संशयनिवृत्तिञ्च ज्ञात्वा गुरुमुखात् प्रिये ।
वीक्षणं प्रोक्षणं ध्यानं मन्त्रमुद्राविशोधनम् ।
द्रव्यं तर्पणयोग्यं स्याद्देवताप्रीतिकारकम्

p1.36

अग्निसूर्येन्दुब्रह्मेन्द्रविष्णुरुद्रसदाशिवैः ।
चतुवींशतिमन्त्रैः स्यान्मद्यञ्चैव परामृतम्

p1.37

अमृता मानदा पूषा तुष्टिः पुष्टी रतिर्धृतिः ।
शशिनी चन्द्रिका कान्तिर्ज्योत्स्ना श्रीः प्रीतिरङ्गदा

p1.38

पूर्णा पूर्णामृता चेति कथिताः कुलनायिके ।
सौम्याः कामप्रदायिन्यः षोडश स्वरजाः कलाः

p1.39

तपनी तापिनी धूम्रा मरीचिर्ज्वालिनी रुचिः ।
सुषुम्ना भोगदा विश्वा रोधिनी धारिणी क्षमा ।
कभाद्या वसुदाः सौराष्ठडान्ता द्वादशेरिताः

p1.40

धूम्राचीरुष्मा ज्वलिनी ज्वालिनी विस्फुलिङ्गिनी ।
सुश्रीः सुरूपा कपिला हव्यकव्यवहे अपि ।
आग्नेया यादिवर्णाद्या दश धर्मप्रदाः कलाः

p1.41

सृष्टिर्मेधा स्मृतिरृद्धिः कान्तिर्लक्ष्मीर्द्युतिः स्थिरा ।
स्थितिः सिद्धिरिति प्रोक्ताः कचवर्गकला दश ।
अकारप्रभवा ब्रह्मजाताः स्युः सृष्टये कलाः

p1.42

जरा च पालिनी शान्तिरीश्वरी रतिकामिके ।
वरदाह्लादिनीप्रीतिदीर्घाः स्युष्टतवर्गजाः ।
उकारप्रभवा विष्णुजाताः स्युः स्थितये कलाः

p1.43

तीक्ष्ण रौद्री भया निद्रा तन्द्रा क्षुत् क्रोधिनी क्रिया ।
उत्कारी मृत्युरित्युक्ता पयवर्गकला दश ।
मकारप्रभवा रुद्रजाताः संहृतये कलाः

p1.44

षवर्गगाश्चतस्रः स्युः पीता श्वेतारुणासिताः ।
कलाश्चेश्वरसञ्जातास्तिरोधानाय बिन्दुजाः

p1.45

निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिस्तथैव च ।
इन्धिका दीपिका चापि रेचिका मोचिका परा

p1.46

सूक्ष्मा सूक्ष्मामृता ज्ञानाऽमृता चाप्यायिनी तथा ।
व्यापिनी व्योमरूपा च षोडश स्वरजाः कलाः ।
सदाशिवभवा नादादनुग्रहकलाः क्रमात्

p1.47

प्रथमं प्रकृतेर्हंसःप्रतद्विष्णुरनन्तरम् ।
त्र्यम्बकन्तु तृतीयं स्याच्चतुर्थस्तत्पदादिकः

p1.48

विष्णुर्योनिं कल्पयतु पञ्चमः कल्पनामनुः ।
चतुर्नवतिमन्त्रात्मदेवताभावसिद्धिदाः

p1.49

मन्त्रजापश्च संप्रोक्त आत्मस्तवश्च पञ्चभिः ।
अत्र ये (ते) पञ्च संप्रोक्ता मन्त्रास्ते कुलनायिके

p1.50

अखण्डैकरसानन्दाकरे परसुधात्मनि ।
स्वच्छन्दस्फुरणामत्र निधेह्यकुलरूपिणि

p1.51

अकुलस्थामृताकारे सिद्धिज्ञानकरे परे ।
अमृतत्वं विधेह्यस्मिन् वस्तुनि क्लिन्नरूपिणि

p1.52

तद्रूपेणैकरस्यञ्च कृत्वार्घ्यं तत्स्वरूपिणि ।
भूत्वा परामृताकारं मयि चित्स्फुरणं कुरु

p1.53

वाग्भवं पार्श्वगं भूमिः पुष्टिरिन्दुसमन्विता ।
स्थितिश्च पावकानुग्रहार्थेन्दुसमलङ्कृता

p1.54

स्थिरेन्धिकेन्दुसंयुक्ता श्वेता बिन्दुयुगान्विता ।
तथामृते पदं ब्रूयात्तत्पश्चादमृतोद्भवे

p1.55

तथामृतेश्वरीत्युक्त्वा पश्चादमृतवषीणि ।
अमृतं स्रावयद् द्वन्द्वं द्विठान्तो द्रव्यशुद्धिकृत् ।
अमृतेशीमनुः प्रोक्तः पञ्चत्रिंशद्भिरक्षरैः

p1.56

वाग्भवं वदयुग्मञ्च वाग्वादिनीति वाग्भवम् ।
कामराजं ततः क्लिन्ने क्लेदिनि क्लेदयेति च

p1.57

महामोक्षं कुरुयुग्मं कामराजमतः परम् ।
तार्त्तीयं मोक्षशब्दान्ते कुरुयुग्मं वदेत्ततः

p1.58

स्यात् प्रासादपरा चान्तेसप्तत्रिंशद्भिरक्षरैः ।
दीपनीमनुरित्युक्तः सर्वसिद्धिकरः प्रिये

p1.59

एताः कला मातृकाञ्चाप्यख(ण्डेन्द्वा)ण्डैकादिकान् मनून् ।
अमृतेशीं दीपनीञ्च मूलामन्त्रमपि क्रमात्

p1.60

एकद्वित्रिचतुःपञ्च द्विचतुर्वारमम्बिके ।
संस्मृत्याभ्यर्च्य पात्रन्तु पूजयेद्धेनुमुद्रया

p1.61

ब्रह्माण्डखण्डसम्भूतमशेषरससम्भृतम् ।
आपूरितं महापात्रं पीयूषरसमावह

p1.62

शुद्धद्रव्येण तेनापि गन्धपुष्पाक्षतैरपि ।
न्यासोक्तसर्वमन्त्रैश्चाप्यात्मानं पूजयेत् प्रिये

p1.63

मूध्नी श्रीगुरुपङ्क्तीश्च मूलाधारे च पादुकाम् ।
दिव्यौघे चादिनाथश्च तच्छक्तिश्च सदाशिवः

p1.64

तत्पत्नी चेश्वरस्तस्य भार्या रुद्रश्च तद्वधूः ।
विष्णुश्च तत्प्रिया ब्रह्मा तत्कान्ता द्वादशेरिताः

p1.65

सिद्धौघे सनकश्चैव सनन्दश्च सनातनः ।
सनत्कुमारश्च सनत्सुजातश्च ऋभुक्षजः

p1.66

दत्तात्रेयो रैवतको वामदेवस्ततः परम् ।
ततो व्यासः शुकश्चैव एकादश समीरिताः

p1.67

मानवौघे नृसिंहश्च महेशो भास्करस्तथा ।
महेन्द्रो माधवो विष्णुः षडेते च प्रकीत्तीताः

p1.68

नमोऽन्ते योजयेद्देवि दिव्यौघे परमं शिवम् ।
महाशिवञ्च सिद्धौघे मानवौघे सदाशिवम्

p1.69

ततः पीठं समभ्यर्च्य देवीमावाहयेत् प्रिये ।
महापद्मवनान्तःस्थे कारणानन्दविग्रहे ।
सर्वभूतहिते मातरेह्येहि परमेश्वरि

p1.70

देवेशि भक्तिसुलभे सर्वावरणसंयुते ।
यावत्त्वां पूजयामीह तावत्त्वं सुस्थिरा भव

p1.71

मन्त्रेणानेन चावाह्य यजेद्देवीमनन्यधीः ।
ध्यात्वा मुद्रां प्रदर्श्यार्चेत् गन्धपुष्पाक्षतादिभिः

p1.72

चिन्मयस्याप्रमेयस्य निर्गुणस्याशरीरिणः ।
साधकानां हितार्थाय ब्रह्मणो रूपकल्पना

p1.73

लिङ्गस्थण्डिलवह्न्यम्बुसूपकुड्यपटेषु च ।
मण्डले फलके मूध्नी हृदि वा दश कीत्तीताः

p1.74

एषु स्थानेषु देवेशि यजन्ति परमां शिवाम् ।
अरूपां रूपिणीं कृत्वा कर्मकाण्डरता नराः

p1.75

गवां सर्वाङ्गजं क्षीरं स्रवेत् स्तनमुखाद् यथा ।
तथा सर्वगतो देवः प्रतिमादिषु राजते

p1.76

आभिरूप्याच्च बिम्बस्य पूजायाश्च विशेषतः ।
साधकस्य च विश्वासात् सन्निधौ देवता भवेत्

p1.77

गवां सपीः शरीरस्थं न करोत्यङ्गपोषणम् ।
स्वकर्मरचितं दत्तं पुनस्तामेव पोषयेत्

p1.78

एवं सर्वशरीरस्था सपीर्वत् परमेश्वरी ।
विना चोपासनां देवि न ददाति फलं नृणाम्

p1.79

सकलीकृत्य तत्प्राणान् समुद्दीप्येन्द्रियाणि च ।
प्रतिष्ठाप्यार्चयेद्देवि चान्यथा निष्फलं भवेत्

p1.80

मन्त्रहीनं क्रियाहीनं विधिहीनञ्च यद् भवेत् ।
क्षमया साधयेत् सर्वं हीनमङ्गं पदं तथा

p1.81

नियमादतिरेकेण यद् यत् कर्म करोति यः ।
न किञ्चिदप्यस्य फलं सिध्यति क्रमदोषतः

p1.82

न्यूनातिरिक्तकर्माणि न फलन्ति कदाचन ।
यथाविधि कृतानीह सत्कर्माणि फलन्ति हि

p1.83

तद्विधानकृतं कर्म जपहोमार्चनादिषु ।
देवताप्रीतिदं भूयाद् भुक्तिमुक्तिफलप्रदम्

p1.84

देवस्य मन्त्ररूपस्य मन्त्रव्याप्तिमजानताम् ।
कृतार्चनादिकां सर्वं व्यर्थं भवति शाम्भवि

p1.85

यन्त्रं मन्त्रमयं प्रोक्तं देवता मन्त्ररूपिणी ।
यन्त्रे सा पूजिता देवि सहसैव प्रसीदति

p1.86

कामक्रोधादिदोषोत्थसर्वदुःखनियन्त्रणात् ।
यन्त्रमित्याहुरेतस्मिन् देवः प्रीणाति पूजितः

p1.87

शरीरमिव जीवस्य दीपस्य स्नेहवत् प्रिये ।
सर्वेषामपि देवानां तथा यन्त्रं प्रतिष्ठितम्

p1.88

तस्माद् यन्त्रं लिखित्वा वा ध्यात्वा सावृतिकं शिवम् ।
ज्ञात्वा गुरुमुखात् सर्वं पूजयेद्विधिना प्रिये

p1.89

एकपीठे पृथक्पूजां विना यन्त्रं करोति यः ।
अङ्गाङ्गित्वं परित्यज्य देवताशापमाप्नुयात्

p1.90

एकपीठे कुलेशानि स्वे स्वे यन्त्रे पृथक्पृथक् ।
यजेदावरणोपेता देवतास्तद्विधानतः

p1.91

आवाह्य देवतामेकां पूजयेदन्यदेवताम् ।
उभाभ्यां लभते पापं मन्त्री चञ्चलमानसः

p1.92

इत्यादिलक्षणं ज्ञात्वा गुरुतः शास्त्रतः प्रिये ।
विधिनाभ्यर्चयेत् सम्यग्देवता सुप्रसीदति

p1.93

षोडशैरुपचारैस्तु साङ्गं सावरणं शिवम् ।
पूजयेन्मूलमन्त्रेण गन्धपुष्पाक्षतादिभिः

p1.94

महाषोढोदिताशेषपरिवारांश्च शाम्भवि ।
प्रणवादिनमोऽन्तेन तत्तन्नाम्ना समर्चयेत्

p1.95

आगमोक्तेन मार्गेण तर्पयेदलिबिन्दुभिः ।
अङ्गुष्ठानामिकाभ्याञ्च नखे निःसृतमूर्ध्वतः ।
स्वपात्रस्पन्दनिस्यन्दं विधिवत् कुलनायिके

p1.96

सकृत्तर्पणमुत्सृज्य जप्त्वा मूलञ्च पादुकाम् ।
अन्तःशक्तिं समुत्थाप्य तर्पयेद्देहदेवताः

p1.97

अङ्गुष्ठो भैरवो देवो अनामा चण्डिका प्रिये ।
अनामाङ्गुष्ठयोगेन तर्पयेत् कुलसन्ततिम्

p1.98

अङ्गुष्ठानामिकाभ्याञ्च वश्यकर्मणि तर्पयेत् ।
तर्जन्यङ्गुष्ठयोगेन तर्पयेदभिचारके ।
कनिष्ठाङ्गुष्ठयोगेन स्तम्भने तर्पयेत् प्रिये

p1.99

एवं सन्तर्प्य देवेशि कुलद्रव्यैर्यथाविधि ।
देवतापुरतो देवि गुरुपङ्क्तीश्च पूजयेत् ।
पङ्क्तित्रयक्रमेणाथ ज्ञात्वा सम्यगनन्यधीः

p1.100

कराभ्यां चिन्मुद्रां समधुनृकपालञ्च दधतीं
द्रुतस्वर्णप्रख्यामरुणकुसुमालेपवसनाम् ।
कृपापूर्णापाङ्गीमरुणनयनामम्बरजटा-
मुपेतां सिद्धौघैर्यजतु गुरुपंक्तिं क्रमगतिम्

p1.101

एवं संपूज्य धूपञ्च दीपं नैवेद्यमेव च ।
आसवं पिशितोपेतं भक्ष्याणि विविधानि च ।
कदल्यादिफलान्येव ताम्बूलञ्च समर्पयेत्

p1.102

इति ते कथितं देवि कुलाचारस्य लक्षणम् ।
द्गव्यसंस्कारशुद्ध्यादि किमन्यत् श्रोतुमिच्छसि

p1.6

॥ इति श्रीकुलार्णवे निर्वाणमोक्षद्वारे महारहस्ये सर्वागमोत्तमोत्तमे
सपादलक्षग्रन्थे पञ्चमखण्डे ऊर्ध्वाम्नायतन्त्रे
द्रव्यसंस्कारविधानकथनं नाम षष्ठोल्लासः

p1.1

अथ सप्तमोल्लासः
श्रीदेव्युवाच
कुलेश बटुकादीनां बलिञ्च शक्तिलक्षणम् ।
तदद्रव्यस्यैव स्वीकारं वद मे करुणानिधे

p1.2

ईश्वर उवाच
शृणु देवि प्रवक्ष्यामि यन्मां त्वं परिपृच्छसि ।
तस्य श्रवणमात्रेण तत्त्वज्ञानं प्रकाशते

p1.3

यावन्नो वटुके दद्यात्तावन्नैव कुलेश्वरि ।
तृप्यन्ति देवताः सर्वाः स्मरणाद् यजनादपि

p1.4

वटुकादीन् यजेत्तस्माद् गन्धपुष्पासवामिषैः ।
तत्तन्मन्त्रविधानेन देवता प्रीतिमाप्नुयात्

p1.5

यत्किञ्चिद्धव्यसंघातं पूजार्थं भोगहेतुना ।
आनीतं दीयते भक्त्या क्षेत्रपेभ्यः कुलेश्वरि

p1.6

वटुकमन्त्रान् वक्ष्यामि शृणुष्व कुलनायिके ।
यैः समचीतमात्रेण सर्वे नश्यन्त्युपद्रवाः

p1.7

तारत्रयं ततो देवीपुत्रेति बटुकेति वा ।
नाथेति कपिलजटाभारभास्वरपिङ्गल

p1.8

त्रिनेत्रेति पदं पश्चाज्ज्वालामुखपदं ततः ।
इमां पूजां बलिं गृह्णद्वयं पावकवल्लभा ।
उक्तो वटुकमन्त्रोऽयं चतुश्चत्वारिंशदक्षरैः

p1.9

बलिदानेन सन्तुष्टो बटुकः सर्वसिद्धिदः ।
शान्तिं करोतु मे नित्यं भूतवेतालसेवितः

p1.10

तारत्रयं ततः सर्वयोगिनीभ्यः पदं वदेत् ।
तत्पश्चात् सवर्भूतेभ्यः सर्वभूताधिवत्ती च

p1.11

पदं ताभ्यो डाकिनीभ्यः शाकिनीभ्यः पदं वदेत् ।
त्रैलोक्येति पदं चैव वासिनीभ्य इमां वदेत्

p1.12

पूजां बलिं गृह्णयुग्मं स्वाहान्तो योगिनीमनुः ।
कथितोऽयं महेशानि मन्त्रः पञ्चादशाक्षरः

p1.13

या काचिद् योगिनी रौद्रा सौम्या घोरतरा परा ।
खेचरी भूचरी व्योमचरी प्रीतास्तु मे सदा

p1.14

तारत्रयं वदेत् सर्वभूतेभ्यः सर्व एव हि ।
पश्चाद् भूतपतिभ्यो हृद्युक्तः सप्तदशाक्षरः

p1.15

भूता ये विविधाकारा दिव्या भौमान्तरिक्षगाः ।
पातालसंस्था मे केविच्छिवयोगेन भाविताः

p1.16

ध्रुवाद्याः सत्यसन्धाश्च इन्द्राद्याः स्वर्व्यवस्थिताः।
तृप्यन्तु प्रीतमनसः प्रतिगृह्णन्त्विमं बलिम्

p1.17

तारत्रयं वदेद्देहियुग्मं देवीपदं वदेत् ।
पुत्राय बटुकनाथाय पश्चादुच्छिष्टहारिणे ।
सर्वविघ्नान् पदं पश्चात् नाशयद्वितयं तथा

p1.18

गृह्णयुग्मं रुरुपदं क्षेत्रपालपदं ततः ।
सर्वोपचारसहितामिमां पूजां बलिं वदेत् ।
गृह्ण गृह्ण द्विठान्तोऽयं क्षेत्रपालमनुः प्रिये

p1.19

चतुःषष्ट्यक्षरैः प्रोक्तः सर्वसिद्धिप्रदायकः ।
योऽस्मिन् क्षेत्रे निवासी च क्षेत्रपालस्य किङ्करः ।
प्रीतोऽयं बलिदानेन सर्वरक्षां करोतु मे

p1.20

तारत्रयं वदेत्तारं श्रीप्रासादपरामनुः ।
ह्रां ह्रीं ह्रूञ्च युगञ्चादौ भैरवाधिष्ठिताय च

p1.21

अक्षोभ्यानन्दतः पश्चाद्धृदयाभीष्टदः परम् ।
सिद्धार्थपदमाभाष्य पश्चादवतरद्वयम्

p1.22

क्षेत्रपालपदं पश्चात् महाशान्त पदं ततः ।
मातृपुत्रपदं पश्चात् कुलपुत्रपदं तथा

p1.23

सिद्धिपुत्रपदं चास्मिन् स्थानाधिपपदं ततः ।
ग्रामाधिपतयेऽस्मिन् स्याद्देशाधिपतये ततः

p1.24

वदेद् बटुकनाथेति देवीपुत्रपदं ततः ।
मेघनादपदं पश्चात् प्रचण्डोग्रपदं वदेत्

p1.25

कपालीति पदं पश्चाद्भीषणेति पदं वदेत् ।
स्यात् सर्वविघ्नाधिपतये इमां पूजां बलिं वदेत्

p1.26

गृह्ण गृह्ण कुरुद्वन्द्वं मम दूरययुग्मकम् ।
ज्वलयुक्प्रज्वलयुगं सर्वविघ्नानीतीरयेत्

p1.27

नाशयद्वितयं क्षां क्षं पश्चाद् बुद्धिमितीरयेत् ।
क्षेत्रपालाय वौषट् ह्रूं षष्ट्युत्तरशताक्षरः

p1.28

तारत्रयं वदेत् पश्चादमुक क्षेत्रपाल च ।
राजराजेश्वर इमां पूजां बलिमतः परम् ।
गृह्णयुग्मं द्विठान्तोऽयमष्टाविंशाक्षरो मनुः

p1.29

अनेन बलिदानेन वटुवंशसमन्वितः ।
राजराजेश्वरो देवो मे प्रसीदतु सर्वदा

p1.30

पश्चिमे वटुकं देवमुत्तरे योगिनीबलिम् ।
पूर्वे भूतबलिं दद्यात् क्षेत्रपालञ्च दक्षिणे ।
राजराजेश्वरं मध्ये पूजयेत् कुलनायिके

p1.31

अङ्गुष्ठानामिकाभ्याञ्च बटुकस्य बलिः स्मृतः ।
तर्जनीमध्यमानामिकाङ्गुष्ठैर्योगिनीबलिः

p1.32

अङ्गुलीभिश्च सर्वाभिरुक्तो भूतबलिः प्रिये ।
अङ्गुष्ठतर्जनीभ्याञ्च क्षेत्रपालबलिर्भवेत् ।
अङ्गुष्ठमध्यमाभ्याञ्च राजराजेश्वरस्य च

p1.33

बटुकादीन् समर्च्यैवं कुलदीपान् प्रदर्शयेत् ।
ईषद्रक्तसुपिष्टेन चतुरङ्गुलिमानतः

p1.34

दीपान् डमरुकाकारान् त्रिकोणानतिशोभनान् ।
कर्षाज्यग्राहिणः कुर्ययान्नव सप्ताथ पञ्च वा

p1.35

अन्तस्तेजो बहिस्तेज एकीकृत्यामितप्रभान् ।
त्रिधा देव्युपरि भ्राम्य कुलदीपान् निवेदयेत्

p1.36

समस्तचक्रचक्रेशि देवेशि सकलात्मिके ।
आरात्रीकमिदं देवि गृहाण मम सिद्धये ।
कुलदीपान् प्रदर्श्याथ शक्तिपूजां समाचरेत्

p1.37

स्वशक्तिं वीरशक्तिं वा दीक्षितां गुरुमार्गतः ।
पाययित्वा चरेत् पानमिति शास्त्रस्य निश्चयः

p1.38

अदीक्षितां स्त्रियं कुर्यात् सद्यः संस्कारमम्बिके ।
मन्त्रदीक्षाविधानेन् शुद्धा भवति नान्यथा

p1.39

तस्मात् सुलक्षणां शक्तिं गन्धपुष्पाक्षतादिभिः ।
अभ्यर्च्य देवताबुद्ध्या भोगपात्रं निवेदयेत्

p1.40

तदन्ते कन्यकाश्चापि प्रमदाश्च मनोहराः ।
सम्पूज्य देवताबुद्ध्या दद्यात् पात्रं पृथक् पृथक्

p1.41

अनिवेद्य तु यः शक्त्यै कुलद्रव्यं निषेवते ।
पूजितं निष्फलं तस्य देवता न प्रसीदति

p1.42

चण्डाली चर्मकारी च मातङ्गी पुक्कसी तथा ।
श्वपची खट्टकी चैव कैवर्त्ती विश्वयोषितः

p1.43

कुलाष्टकमिदं प्रोक्तमकुलाष्टकमुच्यते ।
कन्दुकी शौण्डिकी चैव शस्त्रजीवी च रञ्जकी

p1.44

गायकी रजकी शिल्पी कौलिकी च तथाष्टमी ।
तन्त्रमन्त्रसमायुक्ता समयाचारपालिका

p1.45

कुमारी च व्रतस्था च योगमुद्राधरापि वा ।
पूजाकाले स्वतः प्राप्ता सा ज्ञेया सहजा बुधैः

p1.46

उक्तजात्यङ्गनाभावे चातुर्वर्ण्याङ्गनां यजेत् ।
सुरूपा तरुणी शान्ता कुलाचारयुता शुचिः

p1.47

शङ्काहीना भक्तियुक्ता गूढा शास्त्रोपजीविनी ।
अलोलुपा सुशीला च स्मितास्या प्रियवादिनी

p1.48

गुरुदैवतसम्भक्ता सुचिता कौलिकप्रिया ।
विमत्सरा विशेषज्ञा देवताराधनोत्सुका ।
मनोहरा सदाचारा शक्तिरेषा सुलक्षणा

p1.49

दुष्टोग्रा कर्कशा क्रूरा दुःखिता कुलदूषणी ।
दुराचारा पराधीना भीता लुब्धातुराऽलसा

p1.50

निद्रासक्तातिदुर्म्मेधा हीनाङ्गी व्याधिपीडिता ।
दुर्गन्धा कुत्सिता मूढा वृद्धोन्मत्ता रहस्यभित्

p1.51

कुतर्का कुत्सितालापा निर्लज्जा कलहप्रिया ।
विरूपोन्मार्गगा स्तब्धा पङ्ग्वन्धविकृतानना ।
ईदृशीं मन्त्रयुक्ताञ्च शक्तिं यागे विवर्जयेत्

p1.52

ततोऽर्चनादिकं सर्वं मन्त्रोदकपुरःसरम् ।
इतः पूर्वादिमनुना मन्त्री देव्यै समर्पयेत्

p1.53

तारत्रयमितः पूर्वं प्राणबुद्धी ततः परम् ।
देहधर्माधिकारतो जाग्रत्स्वप्नसुषुप्तिषु

p1.54

मनसा चेतसा वाचा कर्मणा तत्परं वदेत् ।
हस्ताभ्याञ्च ततः पद्भयामुदरेण ततः परम्

p1.55

शिश्ना च यत् स्मृतं पश्चाद् यदुक्तं यत् कृतं वदेत् ।
तत् सर्वं गुरवे चान्ते मत्समपीतमस्त्विति ।
स्वाहान्तो मनुरित्युक्तस्त्रिसप्तत्यक्षरः प्रिये

p1.56

ज्ञानतोऽज्ञानतो वापि यन्मया क्रियते शिवे ।
तव कृत्यमिदं सर्वमिति ज्ञात्वा क्षमस्व मे

p1.57

एवं सम्प्रार्थ्य देवेशि स्तुत्वा नत्वा च भक्तितः ।
प्रधानदेवतामूर्त्तौ परिवारान् समर्चयेत् ।
एवं सावरणां देवीं चिन्तयेत् स्वहृदम्बुजे

p1.58

शेषिकाये समर्प्यात्ममूलमन्त्रेण शोधयेत् ।
स्याद्वाग्भवं हृदुच्छिष्टचाण्डालि तदनन्तरम्

p1.59

वदेन्मातङ्गि सर्वन्ते वश्यंकुरुयुगन्ततः ।
एकविंशतिवर्णैश्च शेषिकामनुरीरितः

p1.60

मन्त्रेणानेन निर्माल्यं शेषिकायै समर्पयेत् ।
देवीमुच्छिष्टमातङ्गीं ध्यायेत् त्रैलोक्यमोहिनीम्

p1.62

वीणावाद्यविनोदगीतनिरतां नीलांशुकोल्लासिनीं
बिम्बोष्ठीं नवयावकार्द्रचरणामाकीर्णकेशालकाम् ।
मृद्वङ्गीं सिंतशङ्खकुण्डलधरां माणिक्यभूषोज्ज्वलां
मातङ्गीं प्रणतोऽस्मि सुस्मितमुखीं देवीं शुकश्यामलाम् ॥६१।
ततः श्रीगुरुरूपाय साक्षात् परशिवाय च ।
कराभ्यां पात्रमुद्धृत्य सद्वितीयं समर्पयेत्

p1.63

स्वसम्प्रदायसंयुक्तैर्वीरैश्च सह पूजयेत् ।
अन्योन्यवन्दनं कृत्वा पिबेत्तत्तदनुज्ञया

p1.64

सव्येनोद्धृत्य पात्रन्तु मुद्रां कृत्वाऽपसव्यतः ।
यथाविधि द्वितीयेन गृह्णीयान्मन्त्रमुच्चरन्

p1.65

पिशितं माषमात्रन्तु द्रव्यं चुल्लुकसम्मितम् ।
आत्मदेहत्रयं तत्त्वं त्रयेणाथ विशोधयेत्

p1.66

तरुणोल्लाससहितः प्रसन्नवदनेक्षणः ।
गुरुः शिष्यान् समाहूय दद्यात्तत्त्वत्रयं प्रिये

p1.67

शिष्योपायनमादाय शुद्धात्मा कुसुमादिकम् ।
यथाशक्ति निवेद्याथ वित्तशाठ्यविवजीतः

p1.68

प्रणम्य बहिरष्टाङ्गं प्रविश्यान्तः शनैः प्रिये ।
समर्प्योपायनं भक्त्या शिवाय गुरुरूपिणे

p1.69

ग्रथिताङ्गुष्ठकौ कृत्वा करौ सक्ताग्रतर्जनी ।
जानुभ्यामवनिं गत्वा पञ्चाङ्गं प्रणमेद् गुरुम्

p1.70

वामाऽङ्गुष्ठानामिकाभ्यां दक्षहस्तप्रसारितम् ।
स्पृष्ट्वा विशुद्धहृदय ईषदानतमस्तकः

p1.71

वामाङ्गुष्ठानामिकाभ्यां शिष्याय श्रीगुरुः प्रिये ।
प्रकृत्याद्यैः पृथिव्यन्तैश्चतुवींशतिभिः प्रिये

p1.72

स्वरैरशुद्धतत्त्वैश्च वाग्भवेन कुलेश्वरि ।
संयुक्तेनात्मतत्त्वेन स्थूलदेहं विशोधयेत्

p1.73

मायादिपुरुषान्तैश्च शुद्धाशुद्धैश्च सप्तभिः ।
तत्त्वैः स्पर्शाह्वयैर्वर्णैः कामराजेन मन्त्रवित् ।
युक्तेन विद्यातत्त्वेन सूक्ष्मदेहं विशोधयेत्

p1.74

शुद्धैः शिवादिविद्यान्तैः पञ्चतत्त्वैश्च व्यापकैः ।
परया शिवतत्त्वेन परं देहं विशोधयेत्

p1.75

षट्त्रिंशत्तत्त्वसहितमालिन्या बालया प्रिये ।
सर्वतत्त्वाश्रयं बीजं सर्वतत्त्वैवीशोधयेत्

p1.76

शोधयेति पदं दद्यात् सद्वितीयमलिं गुरुः ।
चुल्लुकं गुरुणा दत्तं शोधयामीति चोच्चरन् ।
भक्त्या चावनतः शिष्यो निःशब्दं त्रिः पिबेदलिम्

p1.77

पाणिभ्यां संस्पृशेद्देहं सर्वतत्त्वं समुच्चरन् ।
शिरःप्रभृतिपादान्तं शुद्धं देहं विचिन्तयेत्

p1.78

स्थूलान्तमात्मतत्त्वं स्यात् सूक्ष्मं विद्यान्तगोचरम् ।
परान्तं शिवतत्त्वं स्यादिति तत्त्वत्रयं जगत्

p1.79

एवं तत्त्वत्रयज्ञानं गुरोर्ज्ञात्वा य आचरेत् ।
स जीवन्नेव मुक्तः स्यादिति शङ्करभाषितम्

p1.80

ततः स्वीकृत्य च गुरुः शिष्येभ्यः शेषदो भवेत् ।
आदाय गुरुणा दत्तं सद्वितीयासवं पिबेत्

p1.81

श्रीगुरुज्येष्ठपूज्यानां पुरतः कुलनायिके ।
नोपविश्य पिबेन्मद्यं इति शास्त्रस्य निर्णयः

p1.82

प्राणभेदफलोल्लासप्रणामस्थितिलक्षणम् ।
अविज्ञायाचरेद् यस्तु स भवेदापदाम्पदम्

p1.83

निर्मन्त्रं न पिबेन्मद्यं प्रायश्चित्तं विधीयते ।
तस्मान्मन्त्रविधानेन कर्तव्यं कुलनायिके

p1.84

इदं पवित्रममृतं पिबामि भवभेषजम् ।
पशुपाशसमुच्छेदकारणं भैरवोदितम्

p1.85

चित्ते स्वातन्त्र्यसारत्वात्तदानन्दमयात्मनः ।
तन्मयत्वाच्च भावानां भावाश्चान्तहीता रसे

p1.86

सुषुम्नान्तं विकाशाय सुरसस्तेन पीयते ।
तस्मादिमां सुरां देवीं पूर्णोऽहं त्वां पिबाम्यहम्

p1.87

मन्त्रेणानेन देवेशि मूलमन्त्रेण मन्त्रवित् ।
अनाकुलमनाः कुर्यादलिपानं शनैः शनैः

p1.88

स्वात्ममूलत्रिकोणस्थे कोटिसूर्यसमप्रभे ।
कुण्डल्याकृतिचिद्रूपे हुनेद् द्रव्यं समन्त्रकम्

p1.89

महन्तापात्रभरितमिदन्तापरमामृतम् ।
पराहन्तामये वह्नौ होमस्वीकारलक्षणम्

p1.90

गुरुदैवतमन्त्राणामैक्यं सञ्चिन्तयेद्धिया ।
यावदुल्लासपर्यन्तमुपदेशे पिबेन्मधु

p1.91

चुल्लनं सिद्धिदं प्रोक्तं दीपो ज्ञानप्रदायकः ।
पानात् परपदप्राप्तिः कौले त्रयमितीरितम्

p1.92

भोजनान्ते बिषं मद्यं मद्यान्ते भोजनं विषम् ।
अमृतं तद्विजानीयाद् यदन्नं सुरया सह

p1.93

चर्वणेन युतं पानममृतं कथितं प्रिये ।
चर्वणेन बिना पानं केवलं विषवर्द्धनं

p1.94

पानञ्च त्रिविधं प्रोक्तं दिव्यवीरपशुक्रमात् ।
दिव्यं देव्यग्रतः पानं वीरं मुद्रासने कृतम्

p1.95

स्वेच्छया पशुवत्पीतं पशुपानमितीरितम्

p1.96

भुक्तिमुक्तिप्रदं दिव्यं वीरं भुक्तिप्रदं भवेत् ।
पशुपानं नरकदं प्रोक्तं पानफलं प्रिये

p1.97

दृष्टिमानसवाक्काये यावन्नो भवति भ्रमः ।
तावत् पानं प्रकुर्वीत पशुपानमतः परम्

p1.98

यावन्नेन्द्रियवैकल्यं यावन्नो मुखवैकृतम् ।
तावदेव पिबेन्मद्यमन्यथा पतनं भवेत्

p1.99

पूर्णाभिषेकयुक्तानां पानं देवि निगद्यते ।
कराभ्यां पात्रमुद्धृत्य स्मरेन्मूलञ्च पादुकाम् ।
आगलान्तं पिबेद्द्रव्यं स मुक्तो नात्र संशयः

p1.100

पीत्वा पीत्वा पुनः पीत्वा यावत् पतति भूतले ।
उत्थाय च पुनः पीत्वा पुनर्जन्म न विद्यते

p1.101

आनन्दात्तृप्यते देवी मूर्च्छया भैरवः स्वयम् ।
वमनात् सर्वदेवाश्च तस्मात्रिविधमाचरेत्

p1.102

दिव्यपानरतानां वै यत् सुखं कुलयोगिनाम् ।
तत् सुखं सार्वभौमस्य नृपस्यापि न विद्यते

p1.103

यत् सुखं कुलनिष्ठानां कुलद्रव्यनिषेवनात् ।
तत् सौख्यमेव मोक्षः स्यात् सत्यमेव वरानने

p1.104

इति ते कथितं किञ्चित् वटुशक्त्यादिपूजनम् ।
समासेन कुलेशानि किं भूयः श्रोतुमिच्छसि

p1.7

॥ इति श्रीकुलार्णवे निर्वाणमोक्षद्वारे महारहस्ये सर्वागमोत्तमोत्तमे
सपादलक्षग्रन्थे पञ्चमखण्डे ऊर्ध्वाम्नायतन्त्रे
बटुकशक्त्यादिपूजनं नाम सप्तमोल्लासः

p1.1

अथाष्टमोल्लासः
श्रीदेव्युवाच
कुलेश श्रोतुमिच्छामि करुणामृतवारिधे ।
उल्लासभेदं देवेश द्रव्यपात्रादिसङ्गमम्

p1.2

रत्युद्वासनकालञ्च श्रीचक्रस्थितिमेव च ।
चेष्टां कौलिकशक्तीनां वद मे परमेश्वर

p1.3

ईश्वर उवाच
शृणु देवि प्रवक्ष्यामि यन्मां त्वं परिपृच्छसि ।
तस्य श्रवणमात्रेण जायते दिव्यभावना

p1.4

आरम्भस्तरुणश्चैव यौवनं प्रौढमेव च ।
तदन्तश्चोन्मनाश्चैव ततोल्लासश्च सप्तमः

p1.5

तत्त्वत्रयं स्यादारम्भः कथितः कुलनायिके ।
कथितस्तरुणोल्लासस्तरुणं सुखमम्बिके

p1.6

यौवनं मनसः सम्यगुल्लासः सुस्थितिः प्रिये ।
स्खलनं दृङ्मनोवाचां प्रौढमित्यभिधीयते

p1.7

समुल्लासपरे चक्रे य इच्छेत् पात्रमेलनम् ।
अर्वाक् प्रौढसमुल्लासं नैव कुर्यात् कदाचन ।
यथाधिकारं तत्रापि कर्त्तव्यं पात्रमेलनम्

p1.8

अदीक्षितैरनाचारैरतन्त्रज्ञदैवतैः ।
दूषकैः समयभ्रष्टैर्न कुर्याद् द्रव्यसङ्गतिम्

p1.9

अभिज्ञं मन्यमानैश्च प्रपञ्चव्रतधारिभिः ।
पशुभिः क्षुद्रकर्मस्थैर्न कुर्याद् द्रव्यसङ्गतिम्

p1.10

स्त्रीद्विष्टैर्गुरुभिः शप्तैर्भक्तिहीनैर्दुरात्मभिः ।
कुलोपदेशहीनैश्च न कुर्याद् द्रव्यसङ्गतिम्

p1.11

पदवाक्यप्रमाणज्ञाः श्रुतिस्मृत्यर्थवेदिनः ।
कुलधर्मानभिज्ञाश्चेत्तत्सङ्गं परिवर्जयेत्

p1.12

सत्कुले च प्रसूता वा वृद्धाश्चाचारवत्तीनः ।
त्वत्पूजाविमुखाः स्युश्चेत्तत्संसर्गं परित्यजेत्

p1.13

स्त्रीपुत्रमित्रबन्धूनां स्निग्धानामपि पार्वति ।
कुलाचारानभिज्ञानां सङ्गतिं वर्जयेत्प्रिये

p1.14

अदृष्टपौरुषाणाञ्च देशान्तरनिवासिनाम् ।
विना सङ्केतयोगेन न कुर्याद् द्रव्यसङ्गतिम्

p1.15

एकपात्रं न कुर्वीत यदि साक्षात् कुलेश्वरः ।
मन्त्राः पराङ्मुखा यान्ति विघ्नश्चैव पदे पदे

p1.16

स्वपात्रस्थितहेतुञ्च न दद्याद्भैरवाय च ।
यदि दद्यात्कुलेशानि देवताशापमाप्नुयात्

p1.17

आसनं भोजनं पात्रमम्बरं शयनादिकम् ।
अनभिज्ञैरनर्हैश्च सङ्गमं नैव कारयेत्

p1.18

स्रोतोभेदेन वा कुर्यात्कौलिकः पात्रमेलनम् ।
पूर्वदक्षिणयोरैक्यमुदक्पश्चिमयोस्तथा

p1.19

तस्मिन् क्रमार्चनपरैर्वीरैः स्वसदृशैरपि ।
कामिनीभिश्च तत्कुर्यात् स्रोतसाञ्च चतुष्टये

p1.20

योगिभिर्योगिनीभिश्च प्रदत्तं पूर्णपात्रकम् ।
स्वमातृपादुकामूलमन्त्रजप्तं पिबेत्प्रिये

p1.21

क्वचित् यदृच्छया प्राप्तमलिपात्रन्तु भक्तितः ।
आदाय पूर्ववज्जप्त्वा पिबेद्देवि गुरुं स्मरन्

p1.22

गुरुशक्तिसुतानाञ्च गुरुज्येष्ठकनिष्ठयोः ।
स्वज्येष्ठस्यापि चोच्छिष्टं खादेन्नान्यस्य पार्वति

p1.23

शक्त्युच्छिष्टं पिबेद् द्रव्यं वीरोच्छिष्टञ्च चर्वणम् ।
आत्मोच्छिष्टं न दातव्यं परकीयं न भक्षयेत्

p1.24

उच्छिष्टं भक्षयेत् स्त्रीणां ताभ्यो नोच्छिष्टमर्पयेत् ।
चक्रमध्येऽपि देवेशि अन्यथा पतनं भवेत्

p1.25

कनिष्ठानां स्वशिष्याणां दद्यादुच्छिष्टमम्बिके ।
दद्यात् स्नेहेन योऽन्येभ्यः स भवेदापदाम्पदम्

p1.26

आसवोच्छिष्टपात्रन्तु यो वा गृह्णति मोहतः ।
स्नेहाल्लोभात् भयाद्वापि देवताशापमाप्नुयात्

p1.27

प्रौढोल्लासे कुलेशानि कुर्याद्बलिविसर्जनम् ।
पूजागृहाद्बहिः कुर्यात्त्रिकोणे तु गृहान्तरे

p1.28

गन्धपुष्पाक्षतैः पूज्य ध्यायेदुच्छिष्टभैरवम् ।
गदात्रिशूलडमरुपात्रहस्तं त्रिलोचनम् ।
कृष्णाभं भैरवं ध्यायेत् सर्वविघ्ननिवारणम्

p1.29

तारत्रयं समुच्चार्यं पश्चादुच्छिष्टभैरवम् ।
एहियुग्मं बलिं गृह्णयुग्मं फट् च द्विठान्तकः

p1.30

बल्युद्वासनमन्त्रोऽयं द्वाविंशतिभिरक्षरैः ।
शान्तिस्तवं पठेत्पश्चात्तर्पयेदलिबिन्दुभिः

p1.31

यजन्ति देव्यो हरपादपङ्कजम् प्रसन्नधामामृतमोक्षदायकम् ।
अनन्तसिद्धान्तमयप्रबोधकं नमामि चाष्टाष्टकयोगिनीगणम्

p1.32

योगिनीचक्रमध्यस्थं मातृमण्डलवेष्टितम् ।
नमामि शिरसा नाथं भैरवं भैरवीप्रियम्

p1.33

अनादिघोरसंसारध्वान्तैकध्वंसकारिणे ।
नमः श्रीनाथवैद्याय कुलौषधिविधायिने

p1.34

आपदो दुरितं रोगाः समयाचारलंघनात् ।
ये ते सर्वे व्यपोहन्तु दिव्यचक्रस्य मेलनात्

p1.35

आयुरारोग्यमैश्वर्यं कीत्तीर्लाभः सुखं जयः ।
कान्तिर्मनोहरा चास्तु पान्तु सर्वाश्च देवताः

p1.36

सम्पूजकानां प्रतिपालकानां यतीन्द्रयोगीन्द्रतपोधनानाम् ।
देशस्य राष्ट्रस्य कुलस्य राज्ञः करोतु शान्ति भगवान् कुलेशः

p1.37

नन्दन्तु साधककुलाद्वयदर्शका ये सिंहासनाद्युषितशाक्तमहान्वया ये ।
नन्दन्तु सर्वकुलकौलरताः परे ये चान्ये विशेषपदभेदकशाम्भवा ये

p1.38

नन्दन्तु सिद्धगुरवस्तदनुक्रमज्ञा ज्येष्ठान्वया समयिनो वटुकाः कुमार्यः ।
ये योगिनीप्रवरवीरकुले प्रसूता नन्दन्तु भूमिपतिगोद्विजसाधुलोकाः

p1.39

नन्दन्तु नीतिनिपुणा निरवद्यनिष्टा निर्मत्सरा निरुपमा निरुपद्रवाश्च ।
नित्यं निरञ्जनरता गुरवो निरीहाः शान्ताश्च शान्तमनसो हृतशोकशङ्काः

p1.40

नन्दन्तु योगनिरताः कुलयोगयुक्ता ह्याचार्यसामयिकसाधकपुत्रकाश्च ।
गावो द्विजा युवतयो यतयः कुमार्यो धर्मे चरन्तु निरता गुरुभक्तलोकाः

p1.41

नन्दन्तु साधककुला ह्यलमात्मनिष्ठाः शापाः पतन्तु समयद्विषि योगिनीनाम् ।
सा शाम्भवी स्फुरतु कापिं समाप्यवस्था यस्यां गुरोश्चरणपङ्कजमेव सत्यम्

p1.42

याश्चक्रक्रमभूमिकावसतयो नाडीषु याः संस्थिता याः कायोद्गतरोमकूपनिलया याः संस्थिता धातुषु ।
उच्छ्वासोमीमरुत्तरङ्गनिलया निश्वासवासाश्च यास्ता देव्यो रिपुपक्षभक्षणरता नन्दन्तु कौलाचीताः

p1.43

या देव्यः कुलसम्भवाः क्षितिगता या देवतास्तोयगा या नित्यं प्रथितप्रभाः शिखिगता या मातरिश्वालयाः ।
या व्योमाहितमण्डलामृतमया याः सर्वगाः सर्वदास्ताः सर्वाः कुलमार्गपालनपराः शान्ति प्रयच्छन्तु मे

p1.44

ऊर्ध्वे ब्रह्माण्डतो वा दिवि गगनतले भूतले वा तले वा
पाताले वानले वा सलिलपवनयोर्यत्र कुत्र स्थिता वा ।
क्षेत्रे पीठोपपीठादिषु च कृतपदा धूपदीपादिकेन
प्रीता देव्यः सदा नः शुभबलिविधिना पान्तु वीरेन्द्रवन्द्याः

p1.45

ब्रह्मा श्रीः शेषदुर्गागुहवटुकगणा भैरवाः क्षेत्रपाद्या
वेतालादित्यरुद्रग्रहवसुमनुसिद्धाप्सरोगुह्यकाद्याः ।
भूता गन्धर्वविद्याधरऋषिपितृयक्षासुराः किन्नराद्या
योगीशाश्चारणाः किम्पुरुषमुनिवराश्चक्रगाः पान्तु सर्वे

p1.46

देहस्थाखिलदेवता गजमुखाः क्षेत्राधिपा भैरवा
योगिन्यो वटुकाश्च यक्षपितरो भूताः पिशाचा ग्रहाः ।
अन्ये भूचरखेचरा दिशिचरा वेतालकाश्चेटका-
स्तृप्यन्तां कुलपुत्रकस्य पिबतः पानं सदीपञ्चरुम्

p1.47

सत्यञ्चेद् गुरुवाक्यमेव पितरो देवाश्च चेद् योगिनी
प्रीता चेत् परदेवता यदि भवेद्वेदाः प्रमाणं हि चेत् ।
शाक्तेयं यदि दर्शनं भवति चेदाज्ञाप्यमोघापि चेत्
सत्यञ्चापि च कौलधर्मपरमं स्यान्मे जयः सर्वदा

p1.48

नन्दन्तु साधकाः सर्वे नश्यन्तु कुलदूषकाः ।
अन्तःस्था शाम्भवी मेऽस्तु प्रसन्नोऽस्तु गुरुः सदा

p1.49

यद्येषा भैरवी देवी यदि भैरवशासनम् ।
यद्येष कुलधर्मः स्यात्तदा नश्यन्तु दूषकाः

p1.50

यासामाज्ञाप्रभावेण स्थापितं भुवनत्रयम् ।
नमस्ताभ्यः समस्ताभ्यो योगिनीभ्यो निरन्तरम्

p1.51

पिबन्तु मातरः सर्वाः पिबन्तु कुलसत्तमाः ।
पिबन्तु भैरवाः सर्वे मम देहे व्यवस्थिताः

p1.52

तृप्यन्तु मातरः सर्वाः समुद्राः सगणाधिपाः ।
योगिन्यः क्षेत्रपालाश्च मम देहे व्यवस्थिताः

p1.53

शिवाद्यवनिपर्यन्तं ब्रह्मादिस्तम्बसंयुतम् ।
कालाग्न्यादिशिवान्तञ्च जगद् यज्ञेन तृप्यतु

p1.54

द्वारस्था मणिमण्डपस्य परितः श्रीनन्दने कानने
शून्यागारविहारकन्दरमठे व्योम्नि श्मशाने स्थिताः ।
कूपस्थानगताश्चतुष्पथगताः सन्देशसंस्थाश्च ये
पङ्कार्थावहकेतुमानकुसुमात् गृह्णन्तु ते पान्तु च

p1.55

पठित्वाभ्यर्चनापात्रं समुद्धृत्य गुरुः प्रिये ।
ततो दद्यात् स्वशिष्याय प्रसादं कुलनायिके

p1.56

स्वाभीष्टचेष्टाचरणं प्रौढान्तः परिकीत्तीतः ।
प्रौढान्तोल्लासिताद्देवि मुदिते योगिमण्डले ।
योगिनीमण्डले चैव क्रमादानन्दमुच्यते

p1.57

तदारूढेषु वीरेषु कार्याकार्यं न विद्यते ।
इच्छैव शास्त्रसम्पत्तिरित्याज्ञा परमेश्वरि

p1.58

तत्र यद् यत् कृतं कर्म शुभं वा यदि वाऽशुभम् ।
तत्सर्वं देवताप्रीत्यै जायते सुरसुन्दरि

p1.59

जल्पो जपफलं तन्द्रा समाधिरभिजायते ।
विक्रिया पूजनं देवि उदितं भैरवीबलिः

p1.60

मुक्तिः स्याच्छक्तिसंयोगः स्तोत्रं तत्कालभाषितम् ।
न्यासोऽवयवसंस्पर्शो भोजनं हवनक्रिया

p1.61

वीक्षणं ध्यानमीशानि शयनं वन्दनं भवेत् ।
तदुल्लासे कृता नाना या चेष्टा सा च सत्क्रिया ।
कार्याकार्यविचारन्तु यः करोति स पातकी

p1.62

एतच्चक्रगता वीरा विज्ञेयाः परयोगिनः ।
येनाप्नुवन्ति मनुजाः साक्षाद्भैरवरूपताम्

p1.63

सम्मोदः परमानन्दः पतनं ज्ञानवर्द्धनम् ।
वेणुवीणादिवाद्यञ्च कवितारचनादिकम्

p1.64

रोदनं भाषणं पातः समुत्थानं विजृम्भनम् ।
गमनं विक्रिया देवि योग इत्यभिधीयते

p1.65

चक्रेऽस्मिन् योगिनो वीरा योगिन्यो मदमन्थराः ।
समाचरन्ति देवेशि यथोल्लासं मनोगतम्

p1.66

शनैः पृच्छन्ति पार्श्वस्थान् विस्मृत्यात्मविवक्षितम् ।
निधाय वदने पात्रं निवीण्णा निवसन्ति च

p1.67

मत्ता स्वपुरुषं मत्वा कान्तान्यमवलम्बते ।
तथैव पुरुषश्चापि प्रौढान्तोल्लाससंयुतः

p1.68

पुरुषः पुरुषं मोहादालिङ्गत्यनाङ्गनाम् ।
पृच्छति स्वपतिं मुग्धा कस्त्वं काहम् इमे च के

p1.69

किं कार्यं वयमायातः किमर्थमिह संस्थिताः ।
उद्यानं किमिदं हन्त गृहं किं प्राङ्गणं किमु

p1.70

मुखे आपूर्य मदिरां पाययन्ति स्त्रियः प्रियान् ।
उपदंशं मुखे क्षिप्त्वा निक्षिपन्ति प्रियानने

p1.71

गृह्णन्त्यन्योन्यपात्राणि व्यञ्जनानि च शाम्भवि ।
धृत्वा शिरसि नृत्यन्ति मद्यभाण्डानि योगिनः

p1.72

अज्ञानकरतालान्तमस्पष्टाक्षरगीतकम् ।
प्रस्खलत्पदविन्यासं नृत्यन्ति कुलशक्तयः

p1.73

योगिनो मदमत्ताश्च पतन्ति प्रमदोरसि ।
मदाकुलाश्च योगिन्यः पतन्ति पुरुषोपरि

p1.74

मनोरथसुखं पूर्णं कुर्वन्ति च परस्परम् ।
इत्यादिविविधां चेष्टां कुर्वन्ति कुलनायिके

p1.75

विकृतिं मनसो हित्वा यदोल्लासः प्रवर्त्तते ।
तदा तु देवताभावं भजन्ते योगिपुङ्गवाः

p1.76

कौलिकान् भैरवावेशान् यो वा निन्दति मूढधीः ।
तं नाशयन्त्यसन्देहं योगिन्यः कुलनायिके

p1.77

न निन्देन्न हसेत् क्वापि चक्रे मधुमदालसान् ।
एतच्चक्रगतां वार्त्तां बहिर्नैव प्रकाशयेत्

p1.78

तेभ्यो द्रोहं न कुर्वीत नाहितञ्च समाचरेत् ।
भक्त्या सत्कारयेदेतान् गोपयेच्च प्रयत्नतः

p1.79

चक्रे मदाकुलान् दृष्ट्वा चिन्तयेद्देवताधिया ।
मोदते वन्दते भक्त्या स गच्छेत् योगिनीपदम्

p1.80

पश्यतेदेवम्विधं चक्रं यो भक्त्या कौलिकः प्रिये ।
व्रततीर्थतपोदानयज्ञकोटिफलं लभेत्

p1.81

उन्मनाः पतनोत्थाने मूर्च्छना च मुहुर्मुहुः ।
उन्मनाख्यतदुल्लासे चक्रे वीरसमचीते

p1.82

चिरं संविदधाते तौ यौ हि कर्मपराक्षरौ ।
परं ब्रह्मानुसन्धानाकाङ्क्षिणौ कुलनायिके

p1.83

देहेन्द्रियाणामवशः समवस्था निगद्यते ।
समवस्थामिधे तस्मिन् ततोल्लासे समं भवेत्

p1.84

परामन्त्रस्वरूपोऽसौ जायते मूर्च्छना परा ।
मूर्च्छनासन्निकर्षो हि मूलमुक्तेः परं विदुः

p1.85

अन्तर्लक्ष्यो बहिर्दृष्टिनीमेषोन्मेषवजीतः ।
एषा तु शाम्भवी मुद्रा सर्वतन्त्रेषु गोपिता

p1.86

सर्वोत्तीर्णा सदाऽहन्ता सामरस्यसमाकृतिः ।
अनयोल्लासिनो वीराः शिवा एव न संशयः

p1.87

नराः किमपि जानन्ति स्वात्मध्यानपरायणाः ।
तदा यत्परमं सौख्यमिति वक्तुं न शक्यते

p1.88

स्वयमेवानुभूयन्ते शर्कराः क्षीरपानवत् ।
ईदृशं तादृशं सौख्यमिति वक्तुं न शक्यते ।
दृश्यते पुलकाद्येर्यत् तद्ब्रह्मध्यानमुच्यते

p1.89

यत्सुखं विद्यते ध्याने देवावेशकरं परम् ।
कथितुं नैव शक्नोमि प्रबुद्धस्तत्समाहितः

p1.90

ब्रह्मध्यानपरानन्दपराः सुकृतिनो नराः ।
क्षणेऽप्यन्तहीते तस्मिन् शोचयन्ति हतप्रभाः

p1.91

सप्तमोल्लासयुक्तानां त्वद्भक्तानां महाफलम् ।
अष्टौ त्रिकालज्ञानोत्थाः प्रत्ययाश्च कुलेश्वरि ।
अष्टावस्थाश्च कम्पाद्या जायन्ते नात्र संशयः

p1.92

बहुनात्र किमुक्तेन अणिमाद्यष्टसिद्धयः ।
प्रतीहारि पदं प्राप्ताः सेवन्ते मन्दिरं चिरम्

p1.93

ये गुणाः परमेशस्य पञ्चवक्त्रतनोः शुभाः ।
ते गुणाः कुलतत्त्वज्ञे तत्त्वज्ञानसमाहृताः

p1.94

आरम्भस्तरुणश्चैव यौवनं प्रौढमेव च ।
तदन्तो जाग्रदित्युक्तश्चोन्मनाः स्वप्न उच्यते

p1.95

समवस्था सुषुप्तिः स्यादवस्थात्रयसंयुता ।
सप्तोल्लासञ्च यो वेत्ति स मुक्तः स च कौलिकः

p1.96

प्रवृत्ते भैरवीचक्रे सर्वे वर्णा द्विजातयः ।
निवृत्ते भैरवीचक्रे सर्वे वर्णाः पृथक् पृथक्

p1.97

स्त्री वाथ पुरुषः षण्डश्चण्डालो वा द्विजोत्तमः ।
चक्रेऽस्मिन्नैव भेदोऽस्ति सर्वे शिवसमाः स्मृताः

p1.98

नागरि निर्झ्रराद्यम्बु गङ्गां प्राप्य यथैकताम् ।
याति श्रीचक्रमध्येऽपि चैकत्वं सर्वमानवाः

p1.99

क्षीरेण सहितं तोयं क्षीरमेव यथा भवेत् ।
तथा श्रीचक्रमध्ये तु जातिभेदो न विद्यते

p1.100

स्वर्गादिपुण्यलोकेषु देवादन्यद् यथा नहि ।
तथैव चक्रमध्येऽपि देवताः सर्वमानवाः

p1.101

जातिभेदो न चक्रेऽस्मिन् सर्वे शिवसमाः स्मृताः ।
वेदेऽपि स्थितमेवं हि सर्वे हि ब्रह्म चाब्रवीत्

p1.102

बहुनात्र किमुक्तेन चक्रमध्ये कुलेश्वरि ।
मद्रूपा पुरुषाः सर्वे त्वद्रूपाः प्रमदाः प्रिये

p1.103

चक्रमध्ये तु मूढात्मा जातिभेदं करोति यः ।
तं भक्षयन्ति योगिन्यस्त्वां शपे कुलनायिके

p1.104

स्त्रीणामन्यतमं स्थानं पुंसामन्यतमं पृथक् ।
अथवा मिथुनं कृत्वा क्रमात्समुपवेशयेत्

p1.105

पङ्क्त्याकारेण वा सम्यक् चक्राकारेण वा प्रिये ।
शिवशक्तिधिया सर्वे चक्रमध्ये समर्चयेत्

p1.106

अविभक्तौ यथा आवां लक्ष्मीनारायणौ यथा ।
यथा वाणीविधातारौ तथा वीरः सशक्तिकः

p1.107

मधुकुम्भसहस्रैस्तु मांसभारशतैरपि ।
न तुष्यामि वरारोहे भगलिङ्गामृतं विना

p1.108

न चक्राङ्कं न पद्माङ्कं न व्रजाङ्कमिदं जगत् ।
लिङ्गाङ्कञ्च भगाङ्कञ्च तस्माच्छक्तिशिवात्मकम्

p1.109

शिवशक्तिसमायोगो यस्मिन् काले प्रजायते ।
सा सन्ध्या कुलनिष्ठानां समाधिः स विधीयते

p1.110

कामुको न स्त्रियं गच्छेद् यदीच्छन्तीमदीक्षिताम् ।
सद्यः संस्कारसंशुद्धां विहितत्वात् स्त्रियं व्रजेत्

p1.111

इति तत्त्वत्रयोल्लासपानभेदादि चोदितम् ।
समासेन कुलेशानि किं भूयः श्रोतुमिच्छसि

p1.8

॥ इति श्रीकुलार्णवे निर्वाणमोक्षद्वारे महारहस्ये
सर्वागमोत्तमोत्तमे सपादलक्षग्रन्थे पञ्चमखण्डे ऊर्ध्वाम्नायतन्त्रे
तत्त्वत्रितयपानादिभेदकथनं नाम अष्टमोल्लासः

p1.1

अथ नवमोल्लासः
श्री देव्युवाच
कुलेश श्रोतुमिच्छामि योगं योगीशलक्षणम् ।
कुलभक्त्यार्चनफलं वद मे करुणानिधे

p1.2

ईश्वर उवाच
शृणु देवि प्रवक्ष्यामि यन्मां त्वं परिपृच्छसि ।
तस्य श्रवणमात्रेण योगः साक्षात् प्रकाशते

p1.3

ध्यानन्तु द्विविधं प्रोक्तं स्थूलसूक्ष्मप्रभेदतः ।
साकारं स्थूलमित्याहुनिराकारन्तु सूक्ष्मकम्

p1.4

स्थिरार्थमनसः केचित् स्थूलध्यानं प्रचक्षते ।
स्थूलेऽपि निश्चलं चेतो भवेत् सूक्ष्मेऽपि निश्चलम्

p1.5

करपादोदरास्यादिरहितं परमेश्वरम् ।
सर्वतेजोमयं ध्यायेत् सच्चिदानन्दनिष्कलम्

p1.6

नोदेति नास्तमभ्येति न वृद्धिं याति न क्षयम् ।
स्वयं विभात्यथान्यानि भासयन् साधनं विना

p1.7

अनन्तं गतभारूपं सत्तामात्रमगोचरम् ।
मनसा मात्रसम्वेद्यं तज्ज्ञानं ब्रह्मसंज्ञितम्

p1.8

प्रणष्टवायुसञ्चारः पाषाण इव निश्चलः ।
परजीवैकधामज्ञो योगी योगविदुच्यते

p1.9

यदत्र नात्र निर्भासः स्तिमितोदधिवत् स्थितम् ।
स्वरूपशून्यं तद्ध्यानं समाधिरभिधीयते

p1.10

न किञ्चिच्चिन्तनादेव स्वयं तत्त्वं प्रकाशते ।
स्वयं प्रकाशिते तत्त्वे तत्क्षणात्तन्मयो भवेत्

p1.11

स्वप्नजाग्रदवस्थायां सुप्तवत् योऽवतिष्ठते ।
निश्वासोच्छ्वासहीनश्च निश्चितं मुक्त एव सः

p1.12

निष्पन्दकरणग्रामः स्वात्मलीनमनोऽनिलः ।
य आस्ते मृतवत्साक्षात् जीवन्मुक्तः स उच्यते

p1.13

न शृणोति न चाघ्राति न स्पृशति न पश्यति ।
न जानाति सुखं दुःखं न सङ्कल्पयते मनः

p1.14

न चापि किञ्चिज्जानाति न च बुध्यति काष्ठवत् ।
एवं शिवे विलीनात्मा समाधिस्थ इहोच्यते

p1.15

यथा जले जलं क्षिप्तं क्षीरे क्षीरं घृते घृतम् ।
अविशेषो भवेत्तद्वज्जीवात्मपरमात्मनोः

p1.16

यथा ध्यानस्य सामर्थ्यात् कीटोऽपि भ्रमरायते ।
तथा समाधिसामर्थ्याद् ब्रह्मभूतो भवेन्नरः

p1.17

क्षीरोद्धृतं घृतं यद्वत्तत्र क्षिप्तं न पूर्ववत् ।
पृथक्कृतो गुणेभ्यः स्यादात्मा तद्वदिहोच्यते

p1.18

यथा गाढान्धकारस्थो न किञ्चिदिह पश्यति ।
अलक्ष्यञ्च तथा योगी प्रपञ्चं नैव पश्यति

p1.19

यथा निमीलने काले प्रपञ्चं नैव पश्यति ।
तथैवोन्मीलनेऽपि स्यादेतद्ध्यानस्य लक्षणम्

p1.20

जनः स्वदेहकण्डूतिं विजानाति यथा तथा ।
परं ब्रह्मस्वरूपी च वेत्ति विश्वविचेष्टितम्

p1.21

विदिते परमे तत्त्वे वर्णातीते ह्यविक्रिये ।
किङ्करत्वं हि गच्छन्ति मन्त्रा मन्त्राधिपैः सह

p1.22

आत्मैकभावनिष्ठस्य या या चेष्टा तदर्चनम् ।
यो यो जल्पः स सन्मन्त्रस्तद्ध्यानं यन्निरीक्षणम्

p1.23

देहाभिमाने गलिते विज्ञाते परमात्मनि ।
यत्र यत्र मनो याति तत्र तत्र समाधयः

p1.24

भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः ।
क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परात्मनि

p1.25

योगीन्द्रेण यदा प्राप्तं निर्मलं परमं पदम् ।
देवासुरपदं यत्तत्प्राप्तञ्चापि न गृह्यते

p1.26

यः पश्येत् सर्वगं शान्तमानन्दात्मकमव्ययम् ।
तस्य किञ्चिदनालभ्यं ज्ञातव्यं नावशिष्यते

p1.27

सम्प्राप्ते ज्ञानविज्ञाने ज्ञेये च हृदि संस्थिते ।
लब्धे शान्तिपदे देवि न योगो नैव धारणा

p1.28

परे ब्रह्मणि विज्ञाते समस्तैनीयमैरलम् ।
तालवृन्तेन किं कार्यं लब्धे मलयमारुते

p1.29

आसिकाबन्धनं नास्ति नासिकाबन्धनं न हि ।
न यमो नियमो नास्ति स्वयमोमिति पश्यताम्

p1.30

न पद्मासनतो योगो न नासाग्रनिरीक्षणम् ।
एक्यं जीवात्मनोराहुर्योगं योगविशारदाः

p1.31

ध्यायतां क्षणमात्रं हि श्रद्धया परमन्त्विह ।
यद्भवेत् सुमहत् पुण्यं तस्यान्तो नैव गण्यते

p1.32

क्षणं ब्रह्माहमस्मीति यः कुर्यादात्मचिन्तनम् ।
स सर्वं पातकं हन्यात्तमः सूर्योदयो यथा

p1.33

व्रतक्रतुतपस्तीर्थदानदेवार्चनादिषु ।
यत् फलं कोटिगुणितं तदवाप्नोति तत्त्ववित्

p1.34

उत्तमा सहजावस्था मध्यमा ध्यानधारणा ।
जपस्तुतिः स्यादधमा होमपूजाऽधमाधमा

p1.35

उत्तमा तत्त्वचिन्ता स्याज्जपचिन्ता तु मध्यमा ।
शास्त्रचिन्ताऽधमा ज्ञेया लोकचिन्ताऽधमाधमा

p1.36

पूजाकोटिसमं स्तोत्रं स्तोत्रकोटिसमो जपः ।
जपकोटिसमं ध्यानं ध्यानकोटिसमो लयः

p1.37

न हि ध्यानात् परो मन्त्रो न देवस्त्वात्मनः परः ।
नानुसन्धात् परा पूजा न हि तृप्तेः परं फलम्

p1.38

अक्रियैव परा पूजा मौनमेव परो जपः ।
अचिन्तेव परं ध्यानमनिच्छैव परं फलम्

p1.39

मन्त्रोदकैवीना सन्ध्यां पूजाहोमैवीना तपः ।
उपचारैवीना पूजां योगी नित्यं समाचरेत्

p1.40

निःसङ्गश्च विसङ्गश्च निस्तीर्णोपाधिवासनः ।
निजस्वरूपनिर्मग्नः स योगी परतत्त्ववित्

p1.41

देहो देवालयो देवि जीवो देवः सदाशिवः ।
त्यजेदज्ञाननिर्माल्यं सोऽहम्भावेन पूजयेत्

p1.42

जीवः शिवः शिवो जीवः स जीवः केवलः शिवः ।
पाशबद्धः स्मृतो जीवः पाशमुक्तः सदाशिवः

p1.43

तुषेण बद्धो व्रीहिः स्यात्तुषाभावे हि तण्डुलः ।
कर्मबद्धः स्मृतो जीवः कर्ममुक्तः सदाशिवः

p1.44

अग्नी तिष्ठति विप्राणां हृदि देवो मनीषिणाम् ।
प्रतिमास्वप्रबुद्धानां सर्वत्र विदितात्मनाम्

p1.45

यो निन्दास्तुतिशीतोष्णसुखदुःखारिबन्धुषु ।
सम आस्ते स योगीन्द्रो हर्षाहर्षविवजीतः

p1.46

निस्पृहो नित्यसन्तुष्टः समदर्शी जितेन्द्रियः ।
आस्ते देहे प्रवासीव योगी परमतत्त्ववित्

p1.47

निःसङ्कल्पो निवीकल्पो निलीप्तोपाधिवासनः ।
निजस्वरूपनिर्मग्नः स योगी परतत्त्ववित्

p1.48

यथा पङ्ग्वन्धबधिरक्लीबोन्मत्तजडादयः ।
निवसन्ति कुलेशानि तथा योगी च तत्त्ववित्

p1.49

पञ्चमुद्रासमुत्पन्नपरमानन्दनिर्भरः ।
य आस्ते स तु योगीन्द्रः पश्यत्यात्मानमात्मनि

p1.50

अलिमांसाङ्गनासङ्गे यत् सुखं जायते प्रिये ।
तदेव मोक्षो विदुषामबुधानान्तु पातकम्

p1.51

सदा मांसासवोल्लासी सदा चरणचिन्तकः ।
सदासंशयहीनो यः कुलयोगी स उच्यते

p1.52

पिबन्मद्यं पलं खादन् स्वेच्छाचारपरायणः ।
अहं तदनयोरैक्यं भावयन्निवसेत् सुखी

p1.53

आमिषासवसौरभ्यहीनं यस्य मुखं भवेत् ।
प्रायश्चित्ती स वर्ज्यश्च पशुरेव न संशयः

p1.54

यावदासवगन्धः स्यात् पशुः पशुपतिः स्वयम् ।
विनालिमांसगन्धेन साक्षात् पशुपतिः पशुः

p1.55

लोके निकृष्टमुत्कृष्टं लोकोत्कृष्टं निकृष्टकम् ।
कुलमार्ग समुद्दिष्टं भैरवेण महात्मना

p1.56

अनाचारः सदाचारस्त्वकार्य कार्यमुत्तमम् ।
असत्यमपि सत्यं स्यात् कौलिकानां कुलेश्वरि

p1.57

अपेयमपि पेयं स्यादभक्ष्यं भक्ष्यमेव च ।
अगम्यमपि गम्यं स्यात् कौलिकानां कुलेश्वरि

p1.58

न विधिर्न निषेधः स्यान्न पुण्यं न च पातकम् ।
न स्वर्गो नैव नरकं कौलिकानां कुलेश्वरि

p1.59

अनभिज्ञा अभिज्ञन्ति दरिद्रा धनयन्ति च ।
विनष्टा अपि वर्द्धन्ते कौलिकाः कुलनायिके

p1.60

रिपवश्चापि मित्रन्ति साक्षाद्दासन्ति भूमिपाः ।
बान्धवन्ति जनाः सर्वे कौलिकानां कुलेश्वरि

p1.61

विमुखाः सुमुखाः सर्वे गवीताः प्रणयन्ति च ।
बाधकाः साधकायन्ते कौलिकानां कुलेश्वरि

p1.62

निर्गुणाः सगुणायन्ते अकुलं सुकुलायते ।
अधर्माश्चापि धर्मन्ति कौलिकानां कुलेश्वरि

p1.63

मृत्युर्वैद्यायते देवि साक्षात् स्वर्गायते गृहम् ।
पुण्यायन्तेऽङ्गनासङ्गाः कौलिकानां कुलेश्वरि

p1.64

बहुनात्र किमुक्तेन कुलयोगीश्वराः प्रिये ।
सदा सङ्कल्पसिद्धाः स्युर्नात्र कार्या विचारणा

p1.65

येन केनापि वेशेन येन केनाप्यलक्षितः ।
यत्र कुत्राश्रमे तिष्ठेत् कुलयोगी कुलेश्वरि

p1.66

योगिनो विविधैर्वेशैर्नराणां हितकारिणः ।
भ्रमन्ति पृथिवीमेतामविज्ञातस्वरूपिणः

p1.67

सकृन्नैवात्मविज्ञानं क्षपयन्ति कुलेश्वरि ।
उन्मत्तमूकजडवन्निवसेल्लोकमध्यतः

p1.68

अलक्ष्यो हि यथा लोके व्योम्नि चन्द्रार्कयोगतः ।
नक्षत्राणां ग्रहाणाञ्च तथा वृत्तन्तु योगिनाम्

p1.69

आकाशे पक्षिणां देवि जलेऽपि जलचारिणाम् ।
यथा गतिर्न दृश्येत तथा वृत्तं हि योगिनाम्

p1.70

असन्त इव भाषन्ते चरन्त्यज्ञा इव प्रिये ।
पामरा इव दृश्यन्ते कुलयोग विशारदाः

p1.71

जना यथावमन्यन्ते गच्छेयुर्नैव सङ्गतिम् ।
न किञ्चिदपि भाषन्ते तथा योगी प्रवर्त्तते

p1.72

मुक्तोऽपि बालवत् क्रीडेत् कुलेशो जडवच्चरेत् ।
वदेदुन्मत्तवद्विद्वान् कुलयोगी महेश्वरि

p1.73

यथा हसति लोकोऽयं जुगुप्सति च कुत्सति ।
विलोक्य दूरतो याति तथा योगी प्रवर्त्तते

p1.74

क्वचिच्छिष्टः क्वचिद्भ्रष्टः क्वचिद् भूतपिशाचवत् ।
नानावेशधरो योगी विचरेज्जगतीतले

p1.75

योगी लोकोपकाराय भोगान् भुङ्क्ते न कांङ्क्षया ।
अनुगृह्णन् जनान् सर्वान् क्रीडेच्च पृथिवीतले

p1.76

सर्वशोषी यथा सूर्यः सवभोगी यथाऽनलः ।
योगी भुक्त्वाखिलान् भोगान् तथा पापैर्न लिप्यते

p1.77

सर्वस्पर्शी यथा वायुर्यथाकाशश्च सर्वगः ।
सर्वे यथा नदीस्नातास्तथा योगी सदा शुचिः

p1.78

यथा ग्रामगतं तोयं नदीयुक्तं भवेच्छुचि ।
तथा म्लेच्छगृहान्नादि योगिहस्तापीतं शुचि

p1.79

यथाऽऽचरन्ति देवेशि कुलज्ञानविशारदाः ।
तदेव विदुषां मान्यमात्मनो हितकाङ्क्षिणाम्

p1.80

यस्मिंश्चरन्ति योगीशाः सा मार्गः परमो मतः ।
यस्यामुदेति सूर्यो हि पूर्वाशा सा निगद्यते

p1.81

यत्र यत्र गजो याति तत्र मार्गो यथा भवेत् ।
कुलयोगी वरेद् यत्र स स मार्गः कुलेश्वरि

p1.82

नदीं वक्रामृजुं कर्त्तुं निरोद्धुं तत्प्रवाहकम् ।
स्वेच्छाविहारिणं शान्तं को वा वारयितुं क्षमः

p1.83

यद्वन्मन्त्रबलोपेतः क्रीडनीयैर्न दृश्यते ।
तद्वन्न दृश्यते ज्ञानी क्रीडन्निन्द्रियपन्नगैः

p1.84

निवृत्तदुःखसन्तुष्टा निर्द्वन्द्वा गतमत्सराः ।
कुलज्ञानरताः शान्तास्त्वद्भक्तास्ते च कौलिकाः

p1.85

अमदक्रोधदम्भाशाहङ्काराः सत्यवादिनः ।
कौलिकेन्द्रा ह्यचपला ये नेन्द्रियवशानुगाः

p1.86

कीर्त्त्यमाने कुले येषां रोमाञ्चो गद्गदस्वरः ।
आनन्दाश्रु पतेद्देवि कथिताः कौलिकोत्तमाः

p1.87

सर्वधर्माधिको लोके कुलधर्मः शिवोदितः ।
इति ते निश्चितधियः प्रोक्तास्ते कौलिकोत्तमाः

p1.88

यो भवेत् कुलतत्त्वज्ञः कुलशास्त्रविशारदः ।
कुलार्चनरतः स स्यात् कौलिको नापरः प्रिये

p1.89

कुलभक्तान् कुलज्ञानान् कुलाचारकुलव्रतान् ।
प्रीतो भवति यो दृष्ट्वा कौलिकः स च मे प्रियः

p1.90

तत्त्वत्रयश्रीचरणमूलमन्त्रार्थतत्त्ववित् ।
देवतागुरुभक्ताश्च कौलिकः स्याच्च दीक्षया

p1.91

दुर्लभं सर्वलोकेषु कुलाचार्यस्य दर्शनम् ।
सुपाकेनैव पुण्यानां लभ्यते नान्यथा प्रिये

p1.92

संस्मृतः कीत्तीतो दृष्टो वन्दिनो भाषितोऽपि वा ।
पुनाति कुलधमीष्ठश्चाण्डालोऽपि यदृच्छया

p1.93

सर्वज्ञो वापि मूर्खो वाप्युत्तमो वाऽधमोऽपि वा ।
यत्र देवि कुलज्ञानी तत्राहञ्च त्वया सह

p1.94

नाहं वसामि कैलासे न मेरौ न च मन्दिरे ।
कुलज्ञा यत्र तिष्ठन्ति तत्र तिष्ठामि भामिनि

p1.95

सुदूरमपि गन्तव्यं यत्र माहेश्वरो जनः ।
द्रष्टव्यञ्च प्रयत्नेन तत्र सन्निहितो ह्यहम्

p1.96

अतिदूरस्थितो वापि द्रष्टव्यः कुलदेशिकः ।
समीपे वर्त्तमानोऽपि न द्रष्टव्यः पशुः प्रिये

p1.97

कुलज्ञानी वसेद् यत्र स देशः पुण्यभाक् ततः ।
दर्शनादर्चनात्तस्य त्रिसप्तकुलमुद्धरेत्

p1.98

कुलज्ञानिनमालोक्य स्वसन्तानगृहे स्थितम् ।
शंसन्ति पितरस्तस्य यास्यामः परमां गतिम्

p1.99

समाश्वसन्ति पितरः सुवृष्टिमिव कर्षकाः ।
योऽस्मत्कुलेषु पुत्रो वा पौत्रो वा कौलिको भवेत्

p1.100

स धन्यः खलु लोकेऽस्मिन् पुरुषः क्षीणकल्मषः ।
यत्समीपं समायान्ति कुलाचार्या मुदा प्रिये

p1.101

कौलिकेन्द्रे समायाते कौलिकावसथं प्रति ।
समायान्ति मुदा देवि योगिन्यो योगिभिः सह

p1.102

प्रविश्य कुलयोगीन्द्रं भणन्ते पितृदेवताः ।
तस्मात् सम्पूजयेद्भक्त्या कुलज्ञानपरायणान्

p1.103

अभ्यर्चयित्वा त्वां देवि त्वद्भक्तान्नार्चयन्ति ये ।
पापिष्ठास्त्वत्प्रसादस्य भाजनं न भवन्ति ते

p1.104

नैवेद्यं पुरतो न्यस्तं दर्शनात् स्वीकृतं त्वया ।
रसान् भक्तस्य जिह्वाग्रादश्नामि कमलेक्षणे

p1.105

त्वद्भक्तपूजनाद्देवि पूजितोऽहं न संशयः ।
तस्मान्मम प्रियाकाङ्क्षी त्वद्भक्तानेव पूजयेत्

p1.106

यत् कृतं कुलनिष्ठानां तद्देवानां कृतं भवेत् ।
सुराः कुलप्रियाः सर्वे तस्मात् कौलिकमर्चयेत्

p1.107

न तुष्याम्यहमन्यत्र तथा भक्त्या सुपूजितः ।
कौलिकेन्द्रेऽचीते सम्यक् यथा तुष्यामि पार्वति

p1.108

यत् फलं कौलिकेन्द्राणां पूजया लभते प्रिये ।
तत् फलं नाप्नुयात्तीर्थतपोदानमखव्रतैः

p1.109

दत्तमिष्टं हुतं तप्तं पूजितं जप्तमम्बिके ।
कौलिकस्य भवेद्वयर्थं कुलज्ञं योऽवमानयेत्

p1.110

श्मशानं तद् गृहं देवि स पापी श्वपचाधमः ।
यः प्रविश्य कुलं धर्म कुलाचारं न वेत्ति चेत्

p1.111

कुलनिष्ठान् परित्यज्य यच्चान्यस्मै प्रदीयते ।
तद्दानं निष्फलं देवि दाता च नरकं व्रजेत्

p1.112

भिन्नभाण्डे जलं यद्वत् शिलायामुप्तबीजवत् ।
भस्मनीव हुतं हव्यं तद्वद्दानमकौलिके

p1.113

यथाशक्त्या तु यत् किञ्चिद् यो दद्यात् कुलयोगिने ।
विशेषतिथिषु प्रीत्या तत्फलं नैव वर्ण्यते

p1.114

यो देवि स्वयमाहूय कुलज्ञानान् शुभे दिने ।
अभ्यर्च्य देवताबुद्ध्या गन्धपुष्पाक्षतादिभिः

p1.115

मादिभिः पञ्चमुद्राभिः सद्भक्त्या परितोषयेत् ।
तेषु तुष्टेष्वहं तुष्टस्तुष्टाः स्युः सर्वदेवताः

p1.116

भगिनीं वा सुतां भार्यां यो दद्यात् कुलयोगिने ।
मधुमत्ताय देवेशि तस्य पुण्यं न गण्यते

p1.117

अनिखातविनिक्षिप्तमप्रयत्नेन वद्धीतम् ।
परलोकस्य पाथेयं वीरचक्रेऽपीतं मधु

p1.118

पापाचारसमायुक्तं सर्वलोकबहिष्कृतम् ।
जायते हि कुलद्रव्यं कुलयोगीश्वरापीतम्

p1.119

यस्मिन् देशे वसेत् वीरः कुलपूजारतः प्रिये ।
सोऽपि देशो भवेत् पूतः किं पुनस्तत्पुरस्थिताः

p1.120

कौलिकेन्द्रे सकृद्भुक्ते पुण्यं कोटिगुणं भवेत् ।
किं पुनर्बहुभिर्भुक्तैस्तत् पुण्यं नैव गण्यते

p1.121

तस्मात् सर्वप्रयत्नेन सर्वावस्थासु सर्वदा ।
कुलधर्मरतो भूयात् कुलज्ञानिनमर्चयेत्

p1.122

ज्ञानिनोऽज्ञानिनो वापि यावत् देहस्य धारणा ।
तावद्वर्णाश्रमाचारः कर्त्तव्यः कर्ममुक्तये

p1.123

कर्मणोन्मूलितेऽज्ञाने ज्ञानेन शिवतां व्रजेत् ।
शिवे तेनैव मुक्तिः स्यादतः कर्म समाचरेत्

p1.124

कुर्यादनिन्द्यकर्माणि नित्यकर्माणि वा चरेत् ।
कर्ममुक्तः सुखाकाङ्क्षी कर्मनिष्ठः सुखं व्रजेत्

p1.125

सर्वकर्माणि संत्यक्तुं न शक्यं देहधारिणा ।
त्यजेत् कर्मफलं यो वा स त्यागीत्यभिधीयते

p1.126

स्वकार्येषु प्रवर्त्तन्ते करणानीति चिन्तयेत् ।
अहम्भावमपास्यैव यः कुर्यात् स न लिप्यते

p1.127

क्रियमाणानि कर्माणि ज्ञानप्राप्तेरनन्तरम् ।
न च स्पृशन्ति तत्त्वज्ञं जलं पद्मदलं यथा

p1.128

तन्निष्ठस्य च कर्माणि पुण्यापुण्यानि संक्षयम् ।
प्रयान्ति नैव लिप्यन्ते क्रियमाणानि वा पुनः

p1.129

उत्पन्नसहजानन्दतत्त्वज्ञानरतः प्रिये ।
संत्यक्तसर्वसङ्कल्पः स विद्वान् कर्म सन्त्यजेत्

p1.130

वृथैव यैः परित्यक्तं कर्मकाण्डमपण्डितैः ।
पाषण्डाः पण्डितम्मन्यास्ते यान्ति नरकं प्रिये

p1.131

फलं प्राप्य यथा वृक्षः पुष्पं त्यजति निस्पृहः ।
तत्त्वं प्राप्य तथा योगी त्यजेत् कर्मपरिग्रहम्

p1.132

अश्वमेधायुतेनापि ब्रह्महत्यायुतेन च ।
पुण्यपापैर्न लिप्यन्ते येषां ब्रह्म हृदि स्थितम्

p1.133

पृथिव्यां यानि कर्माणि जिह्वोपस्थनिमित्ततः ।
जिह्वोपस्थपरित्यागी कर्मणा किं करिष्यति

p1.134

इति ते कथितं किञ्चित् योगं योगीशलक्षणम् ।
समासेन कुलेशानि किं भूयः श्रोतुमिच्छसि

p1.9

॥ इति श्रीकुलार्णवे निर्वाणमोक्षद्वारे महारहस्ये सर्वागमोत्तमोत्तमे
सपादलक्षग्रन्थे पञ्चमखण्डे ऊर्ध्वाम्नायतन्त्रे
योगसंस्थापनकथनं नाम नवमोल्लासः

p1.1

अथ दशमोल्लासः
श्री देव्युवाच
कुलेश श्रोतुमिच्छामि विशेषदिवसार्चनम् ।
तत्सपर्याफलं देव वद मे परमेश्वर

p1.2

ईश्वर उवाच
शृणु देवि प्रवक्ष्यामि यन्मां त्वं परिपृच्छसि ।
तस्य श्रवणमात्रेण सर्वपापैः प्रमुच्यते

p1.3

उत्तमा नित्यपूजा स्यात् मध्यमं पर्वपूजनम् ।
मासपूजाऽधमा देवि मासादूर्ध्व पशुर्भवेत्

p1.4

विहितैर्मादिभिर्द्रव्यैर्मासादूर्ध्वं समर्चनम् ।
पशोर्भूयः प्रवेशेच्छा यदि स्याद्दीक्षयेत् पुनः

p1.5

मद्यं मांसञ्च मत्स्यश्च मुद्रा मैथुनमेव च ।
मकारपञ्चकं देवि देवताप्रीतिकारकम्

p1.6

मादिपञ्चकमीशानि देवताप्रीतये सुधीः ।
यथाविधि निषेवेत तृष्णया चेत् स पातकी

p1.7

कृष्णाष्टमीचतुर्द्दश्यावमावास्याथ पूणीमा ।
संक्रान्तिः पञ्च पर्वाणि तेषु पुण्यदिनेषु च

p1.8

गुरुजन्मदिने प्राप्ते तद्गुरोस्तद्गुरोरपि ।
मानवौघादिपुंसाञ्च स्वजन्मदिवसे तथा

p1.9

सम्पत्तौ च यजेल्लाभे तपोदीक्षाव्रतोत्सवे ।
पीठोपगमने वीरपीठे स्वजनदर्शने

p1.10

देशिकागमने पुण्यतीर्थदैवतदर्शने ।
एवमादिषु देवेशि विशेषदिवसेषु च

p1.11

यथाधनं यथाश्रद्धं यथाद्रव्यं यथोचितम् ।
यथाकालं यथादेशं तथा पूजां समाचरेत्

p1.12

आचार्येण विधानेन कारयेच्चक्रपूजनम् ।
स्वयं वा पूजयेद्देवि बिन्दुपूजापुरःसरम्

p1.13

स ते लोकमवाप्नोति पुनरावृत्तिवजीतम् ।
अकुर्वन् कौलिको मोहाद्देवताशापमाप्नुयात्

p1.14

मासे वापि त्रिमासे वा षण्मासे वत्सरेऽपि वा ।
श्रीगुरुं पूजयेद्भक्त्याऽप्राप्ते तत्स्त्रीसुतादिकान्

p1.15

तदभावे कुलज्ञञ्च तच्छिष्यं वान्ययोगिनम् ।
सन्तोषयेत् कुलद्रव्यैः कुलपूजापुरःसरम्

p1.16

रोगेष्वापत्सु दोषेषु दुःसङ्गे दुनीमित्तके ।
पूजयेद् योगिनीवृन्दं देवि तद्दोषशान्तये

p1.17

यत्रैकाम्नायतत्त्वज्ञः कुलाचार्यः कुलेश्वरि ।
कौलिकास्त्रिचतुःपञ्च शक्तयश्च तथा प्रिये

p1.18

पृथग्वा पूजयेद्देवि मिथुनाकारतोऽपि वा ।
गन्धपुष्पाक्षताद्यैस्तु देवेशि समलङ्कृताः ।
भक्ष्यभोज्यादिपिशितैः पदार्थैः षड्रसान्वितैः

p1.19

प्रौढोल्लासेन सहिता यदि ता निवसन्ति च ।
तच्छ्रीचक्रमिति प्रोक्तं वृन्दञ्चापि तदुच्यते

p1.20

कुर्यान्नवकुमारीणां पूजामाश्विनमासके ।
प्रातनीमन्त्रयेद्भक्त्या साधकः शुद्धमानसः

p1.21

मनोहरामेकवर्षी बालाञ्च शुभलक्षणाम् ।
मन्त्री स्नात्वाथ शुद्धात्मा कुर्याद्देवि क्रमार्चनम्

p1.22

अभ्यङ्गस्नानशुद्धान्तां पूजासदनमानयेत् ।
देवतासन्निधौ बालामुपवेश्य समर्चयेत्

p1.23

गन्धपुष्पादिभिर्धूपैर्दीपैश्च कुलदीपकैः ।
भोग्यभोज्यान्नपानाद्यैः क्षीराज्यमधुमांसकैः ।
कदलीनारिकेलादिफलैस्तां परितोषयेत्

p1.24

सशक्तिकः स्वयं देवि प्रौढान्तोल्लाससंयुतः ।
यथाशक्ति जपेदेकोत्तरवृद्ध्याऽथवा मनुम्

p1.25

बालामलङ्कृतां पश्यन् चिन्तयेत् स्वेष्टदेवताम् ।
ततस्तां देवताबुद्ध्या नमस्कृत्य विसर्जयेत्

p1.26

द्वितीयायां द्विवर्षान्तामेकवर्षाञ्च पूजयेत् ।
एवं तिथौ कुमारीञ्च यजेत् पूर्वदिनाचीताम्

p1.27

नवम्यामेकवर्षादि-नववर्षान्तकन्यकाः ।
बाला शुद्धा च ललिता मालिनी च वसुन्धरा ।
सरस्वती रमा गौरी दुर्गा च नव कीत्तीताः

p1.28

त्रिताराद्यैर्नमोऽन्तैश्च देवतापदपश्चिमैः ।
नामभिश्च चतुर्थ्यन्तैः पूजयेत्ताः पृथक् पृथक्

p1.29

बटुकं पञ्चवर्षञ्च नववर्षं गणेश्वरम् ।
गन्धपुष्पाम्बराकल्पैर्यथाविभवविस्तरैः

p1.30

अभ्यर्च्य देवताबुद्ध्या पदार्थैः परितोषयेत् ।
स्वकार्यफलसिद्ध्यर्थं वित्तशाठ्यविवजीतः

p1.31

नवरात्रं जपेदेकोत्तरवृद्ध्या क्रमेण च ।
नवरात्रकृतां पूजां देवि देव्यै समर्पयेत्

p1.32

ताम्बूलं दक्षिणां दत्त्वा कुमारीस्ता विसर्जयेत् ।
एवं नवकुमारीणामर्चनं प्रातवत्सरम्

p1.33

यः करोति स पुण्यात्मा देवताप्रीतिमाप्नुयात् ।
मनोऽभिलाषं सम्प्राप्य निवसेत्तव सन्निधौ

p1.34

अथवा यौवनारूढाः प्रमदा नव पार्वति ।
मनोज्ञाः पूजयेद्भक्त्या नवरात्रिषु मन्त्रवित्

p1.35

हृल्लेखां गगनां रक्तां महोच्छुष्मां करालिकाम् ।
इच्छां ज्ञानां क्रियां दुर्गां बटुकञ्च गणेश्वरम् ।
पूर्ववत् पूर्वमद्याद्यैः पदार्थैः परितोषयेत्

p1.36

प्रौढान्तोल्लाससंयुक्ताः सन्तुष्टा यदि ताः प्रिये ।
साधकस्तुष्टिमासाद्य निवसेत्तव सन्निधौ

p1.37

एवं यः पूजयेद्देवि प्रतिवर्षं यतव्रतः ।
षण्मासे वा त्रिमासे वा मासे मासेऽथवा प्रिये

p1.38

तिस्रो वा पञ्च वा सप्त पूजयेद्देवताधिया ।
सर्वैश्वर्यसमृद्धात्मा स भवेदावयोः प्रियः

p1.39

भृगुवारे कुलेशानि कान्तामारूढयौवनाम् ।
सर्वलक्षणसम्पन्नामनुकूलां मनोरमाम्

p1.40

कुलाकुलाष्टकां देवि निमन्त्र्याहूय पुष्पिणीम् ।
अभ्यङ्गस्नानशुद्धाङ्गीमासने चोपवेशयेत्

p1.41

गन्धपुष्पाम्बराकल्पैरलङ्कृत्य विधानवित् ।
आत्मानं गन्धपुष्पाद्यैरलङ्कुर्यात् कुलेश्वरि

p1.42

आवाह्य देवतां तस्यां यजेन्न्यासक्रमेण च ।
कृत्वा क्रमार्चनं धूपदीपाञ्च कुलदीपकान्

p1.43

प्रदर्श्य देवताबुद्ध्या पदार्थैः षड्रसान्वितैः ।
मांसादिभक्ष्यभोज्याद्यैस्तोषयेद्देवि भक्तितः

p1.44

प्रौढान्तोल्लाससहितां तां प्रपश्यन् जपेन्मनुम् ।
यौवनोल्लाससहितः स्वयं तद्ध्यानतत्परः

p1.45

निवीकारेण चित्तेन ह्यष्टोत्तरसहस्रकम् ।
जपादिकं समर्प्याथ तया सह निशां नयेत्

p1.46

त्रिपञ्चसप्तनवसु भृगुवारेषु यः प्रिये ।
पूजयेद्विधिनाऽनेन तस्य पुण्यं न गण्यते

p1.47

चतुः पीठार्चनफलं स प्राप्नोति कुलेश्वरि ।
यद् यत् स्वमनसोऽभीष्टं तत्तदाप्नोत्यसंशयम्

p1.48

नवम्यां वार्चयेदेवं विधानेन विधानवित् ।
स्तोत्रैः संपूजयेत् सर्वैर्महदैश्वर्यमाप्नुयात्

p1.49

कुर्यात् कर्कटके वापि मकरे मिथुनार्चनम् ।
तुलायां सिंहमेषे वा सर्वसंक्रान्तिषु प्रिये

p1.50

गौरीशिवौ रमाविष्णू वाणीसरसिजासनौ ।
शचीन्द्रौ रोहिणीचन्द्रौ स्वाहाग्नी च प्रभारवी

p1.51

भद्रकालीवीरभद्रौ भैरवीभैरवावपि ।
मिथुनानि नवाभ्यर्च्य पूर्वोक्तेनैव वर्त्मना

p1.52

त्रितारादिनमोऽन्तेन तत्तन्नाम्ना विधानवित् ।
गन्धपुष्पादिभिः पूज्य मद्याद्यैः परितोषयेत्

p1.53

प्रौढान्तोल्लासयुक्तानि कुर्वीत मिथुनानि च ।
एवं कृते न सन्देहस्तुष्टा मिथुनदेवताः ।
अनुगृह्णन्ति तं देवि प्रयच्छन्ति मनोरथम्

p1.54

प्रतिवर्षन्तु यः कुर्यात् सभक्त्या मिथुनार्चनम् ।
तव लोके स निवसेत् सर्वैश्वर्यसमन्वितः

p1.55

अथ वैशाखमासस्य शुक्लप्रतिपदीश्वरि ।
ब्राह्मे मुहूर्त्ते उत्थाय स्नानं सन्ध्यामुपास्य च

p1.56

मनोज्ञे रहसि स्थाने पूर्वाशाभिमुखस्थितः ।
आत्मानं गन्धपुष्पाद्यैरलङ्कृत्य विधानवित्

p1.57

कृत्वा पुरोदितन्यासान् देवताभावमास्थितः ।
किञ्चिदभ्युदिते सूर्ये मण्डले स्वेष्टदेवताम्

p1.58

ध्यात्वा सावरणां सम्यक् पूजयेद्विधिना प्रिये ।
षोडशैरुपचारैस्तु चक्रपूजापुरःसरम्

p1.59

कुलदीपान् प्रदर्श्याथ शिवाय गुरुरूपिणे ।
मत्स्यमांसादि विधिवद्भक्ष्य भोज्यसमन्वितम्

p1.60

अर्घ्यं निवेद्य तच्छेषं स्वयं भक्त्या पिबेत् प्रिये ।
यौवनोल्लाससहितो निवीकारेण चेतसा

p1.61

ध्यायंस्तन्मण्डलं देवीमष्टोत्तरसहस्रकम् ।
जप्त्वा समर्प्य तत्पूजां देवताञ्च समुद्धरेत्

p1.62

एवं शुक्लप्रतिपदं समारभ्य दिने दिने ।
कुर्याज्जपार्चनं कृष्णचतुर्द्दश्यन्तमम्बिके

p1.63

अमावस्यादिने देवि पूजयेच्छक्तिकौलिकान् ।
त्रिपञ्चसप्त नव वा वित्तलोभविवजीतः

p1.64

एवं यो मासमात्रन्तु कुर्यात् सूर्योदयार्चनम् ।
देवता तस्य सन्तुष्टा ददाति फलमीप्सितम्

p1.65

माध्याह्ने चार्चयेद्देवं सायाह्ने चार्चयेत् प्रिये ।
स तु तत्फलमाप्नोति योगिनीनां प्रियो भवेत्

p1.66

त्रिसन्धां योऽर्चयेदेवं मासमात्रं विधानवित् ।
काङ्क्षितां लभते सिद्धिं देववद् विचरेद् भुवि

p1.67

माघशुक्लप्रतिपदि दिवाहारविवजीतः ।
स्नात्वा शुक्लाम्बरधरः सायं सन्ध्यामुपास्य च

p1.68

सूर्यार्चनोक्तमार्गेण सर्वद्रव्यसमन्वितः ।
यौवनोल्लाससहितश्चन्द्रस्थां देवतां स्मरन्

p1.69

चन्द्रास्तमयपर्यन्तं जपेन्मन्त्रनन्यधीः ।
एवं प्रतिदिनं शुक्लचतुर्द्दश्यन्तमर्चयेत्

p1.70

पौर्णमास्यां यथाशक्त्या पूजयेच्छक्तिकौलिकान् ।
एवं यः कुरुते भक्त्या शुक्लपक्षार्चनं प्रिये

p1.71

सर्व पापविशुद्धात्मा सर्वैश्वर्यसमन्वितः ।
सर्वलोकैकसंपूज्यः शिववन्निवसेद् भुवि

p1.72

शुक्लपक्षेऽर्चनं यद्वत्तद्वत् पक्षे सितेतरे ।
यः करोति विधानेन सर्वान् कामान् समश्नुते

p1.73

इह भुक्त्वाऽखिलान् भोगान् देववत् प्रियदर्शनः ।
योगिनीवीरमेलनं लभते नात्र संशयः

p1.74

अथ कात्तीकमासस्य शुक्लप्रतिपदीश्वरि ।
स्नात्वाचम्य विशुद्धात्मा न्यासान् कृत्वा पुरोदितान्

p1.75

प्रसुप्ते जीवलोके तु मुदितात्मा महानिशि ।
पूर्वार्चनोक्त विधिना सर्वद्रव्यसमन्वितः

p1.76

आज्येनानामिकास्थूलवत्तीं प्रज्वाल्य पार्वति ।
पञ्चवर्णरजश्चित्रवसुपत्रसरोरुहे

p1.77

मधुपूर्णे च कलसे कांस्यपात्रे मनोहरे ।
दीपं संस्थाप्य पुरत उत्तराभिमुखस्थितः

p1.78

दीपे सावरणां देवीं ध्यात्वा विधिवदर्चयेत् ।
यौवनोल्लाससहितो दीपस्थां देवतां स्मरन्

p1.79

अष्टोत्तरसहस्रन्तु जपेन्मन्त्रमनन्यधीः ।
एवं समर्चयेत् कृष्णचतुर्द्दश्यन्तमम्बिके

p1.80

अमावास्यादिने भक्त्या पूजयेच्छक्तिकौलिकान् ।
एवं कृते कुलेशानि देवता प्रीतिमाप्नुयात्

p1.81

सर्वकामसमृद्धात्मा सर्वैश्वर्यसमन्वितः ।
सर्वलोकैकसम्मान्यः सञ्चरेत् स यथासुखम्

p1.82

अष्टाष्टकार्चनं कुर्यात् शक्तश्चेदेकवासरे ।
अथवाष्टाष्टदिवसेष्वथ द्व्यष्टदिनेषु च ।
द्वात्रिंशद्दिवसेष्वेवं चतुःषष्टिदिनेषु च

p1.83

गुरुणा कारयेद्देवि क्रमज्ञेनापरेण वा ।
क्रमज्ञश्चेत् स्वयं कुर्याद्वित्तशाठ्यविवजीतः

p1.84

मूलाष्टकन्तु ब्रह्माद्याश्चासिताङ्गादिभैरवाः ।
मङ्गलाद्यैश्च मिथुनैरष्टभिः शब्दिताः प्रिये

p1.85

मूलाष्टकोद्भवानीति प्रसिद्धानि कुलागमे ।
अक्षोभ्यादिचतुःषष्टिमिथुनानि समर्चयेत्

p1.86

पूर्वोक्तेन विधानेन यथाविभवविस्तरम् ।
क्रमलोपं न कुर्वीत स्वेष्टकार्यार्थसिद्धये

p1.87

गन्धपुष्पाक्षताद्यैश्च मत्स्यमांसासवादिभिः ।
भक्ष्यभोज्यादिभिर्नानापदार्थैः षड्रसान्वितैः ।
सम्यक् सन्तोषयेद्देवि मिथुनान्यतिभक्तितः

p1.88

प्रौढान्तोल्लासपर्यन्तं कुर्यात् श्रीचक्रमम्बिके ।
एवं यः कुरुते देवि सकृदष्टाष्टकार्चनम्

p1.89

ब्रह्मविष्णुमहेशादिदेवताभिः स पूज्यते ।
किं पुनर्मानवाद्यैश्च साक्षात् शिव इवापरः

p1.90

यदर्चनाच्चतुःषष्टियोगिनीगणसंस्तुतः ।
पुनरावृत्तिरहितो निवसेत्तव सन्निधौ

p1.91

समस्तदेवताप्रीतिकारणं परमेश्वरि ।
अस्मात् परतरा पूजा नास्ति सत्यं न संशयः

p1.92

पश्यदेवंविधं चक्रं यो भक्त्याष्टाष्टकं प्रिये ।
यज्ञदानतपस्तीर्थव्रतकोटिफलं लभेत्

p1.93

राजा यः कारयेद्देवि भक्त्याष्टाष्टकपूजनम् ।
चतुःसागरपर्यन्तां महीं शास्ति न संशयः

p1.94

श्रीकण्ठादीनि पञ्चाशन्मिथुनानि समर्चयेत् ।
पूर्वोक्तेन विधानेन कुलेश्वरि विधानवित्

p1.95

स्वकार्यफलसिद्ध्यर्थं वित्तशाठ्यविवजीतः ।
प्रौढान्तोल्लासयुक्तानि मिथुनानि समर्चयेत्

p1.96

सन्तुष्टानि प्रयच्छन्ति साधकायेप्सितं फलम् ।
अव्याहताज्ञः सर्वत्र पूज्यते देववत् प्रिये ।
तव लोके वसेद्देवि ब्रह्मादिसुरसंस्तुतः

p1.97

केशवादि गणेशादि कामादि मिथुनानि च ।
श्रीकण्ठादि समभ्यर्च्य तत्फलं लभते ध्रुवम्

p1.98

अनुग्रहन्तु यः कुर्यात् डाकिन्यादिसमर्चने ।
मासे मासेऽथवा वर्षे स्वजन्मदिवसे प्रिये

p1.99

पूर्वोक्तेन विधानेन यथाविभवविस्तरम् ।
प्रौढान्तोल्लासपर्यन्तं तोषयेत्तद्विधानवित्

p1.100

कुर्वन्त्यनुग्रहं देवि सन्तुष्टाः सर्वदेवताः ।
सर्वोपद्रव रहितः सर्वैश्वर्यसमन्वितः

p1.101

लोकेऽस्मिन् संस्तुतः सर्वैः स जीवेच्छरदां शतम् ।
देहान्ते समवाप्नोति तव लोकं न संशयः

p1.102

दूतीयागन्तु यः कुर्यात् पूर्वोक्तविधिना प्रिये ।
निवीकल्पेन चित्तेन नवशक्तिसमन्वितः

p1.103

वर्षे वर्षे चतुःषष्टिपीठार्चनफलं लभेत् ।
आज्ञासिद्धिर्भवेत्तस्य देवताप्रीतिमाप्नुयात्

p1.104

त्रिकपूजान्तु यः कुर्यादिच्छाज्ञानक्रियात्मिकाम् ।
आगमोक्तेत विधिना पूर्ववेत्तद्विधानवित्

p1.105

पदार्थैस्तोषयेत् सम्यक् यथाविभवविस्तरम् ।
सन्तुष्टा देवतास्तिस्रः सर्वकर्मफलप्रदाः ।
देवेशि साधकाभीष्टं प्रयच्छन्ति न संशयः

p1.106

इत्यादिदेवतापूजां विशेषदिवसेषु यः ।
करोति शस्त्रविधिना स भवेदावयोः प्रियः

p1.107

श्रीचक्रं कौलिको मोहाद्विशेषदिवसेषु यः ।
न करोति समर्थः सन् स भवेद् योगिनीपशुः

p1.108

कुलपूजां विना चक्रे नाधिकारः कथञ्चन ।
कुलपूजां सुनियतं यः करोति स कौलिकः

p1.109

विना मन्त्रेण पूजा चेद्देवता न प्रसीदति ।
कुलपूजां सुनियतं यः करोति हि कौलिकः ।
कुलेशि सर्वदाप्नोति योगिनीवीरमेलनम्

p1.110

नीचोऽपि वा सकृद्भक्त्या कारयेद् यः कुलार्चनम् ।
स सद्गतिमवाप्नोति किमुतान्ये द्विजातयः

p1.111

तस्मात् सर्वप्रयत्नेन सर्वावस्थासु सर्वदा ।
कुलपूजारतो भूयादभीष्टफलसिद्धये

p1.112

कुलपूजाधिको यज्ञः कुलपूजाधिकं व्रतम् ।
कुलपूजाधिकं तीर्थं कुलपूजाधिकं तपः

p1.113

कुलपूजाधिकं दानं कुलपूजाधिका क्रिया ।
कुलपूजाधिकं ज्ञानं कुलपूजाधिकं सुखम्

p1.114

कुलपूजाधिको धर्मः कुलपूजाधिकं फलम् ।
कुलपूजाधिकं ध्यानं कुलपूजाधिकं महः

p1.115

कुलपूजाधिको योगः कुलपूजाधिका गतिः ।
कुलपूजाधिकं भाग्यं कुलपूजाधिकाऽर्चना

p1.116

नास्ति नास्ति पुनर्नास्ति त्वां शपे कुलनायिके ।
बहुनात्र किमुक्तेन रहस्यं शृणु पार्वति

p1.117

वेदशास्त्रोक्तमार्गेण कुलपूजां करोति यः ।
तत्समीपे स्थितं मां त्वां विद्धि नान्यत्र भामिनी ।
इदं सत्यमिदं सत्यं सत्यं सत्यं न संशयः

p1.118

खभूमिदिग्जलगिरिवनसर्वचराः प्रिये ।
सहस्रकोटियोगिन्यस्तावन्तो भैरवा अपि ।
नियुक्ता हि मया देवि कुलसंरक्षणाय च

p1.119

दिवसे दिवसे सर्वे पार्वति मुदिताननाः ।
साधकानेव वीक्षन्ते स्वस्वपूजनलिप्सया

p1.120

अपूजितास्तु विघ्नन्ति पालयन्ति सुपूजिताः ।
गुरुभक्तान् सदाचारान् गुह्यधर्मान् सदाशिवान्

p1.121

भक्तिहीनान् दुराचारान् नाशयन्ति प्रकाशकान् ।
श्रीचक्रे संस्मरेत्तस्माद् योगिनीभैरवान् प्रिये

p1.122

न स्मरेद् यदि मूढात्मा योगिनीनां भवेत् पशुः ।
तस्मात् श्रीचक्रमध्ये तु संस्मरेत् सर्वदेवताः

p1.123

अनुगृह्णन्ति देवेशि साधकान् नात्र संशयः ।
अनुग्रहन्तु वक्ष्यामि शृणु देवि यथाक्रमम्

p1.124

आत्मनोऽनुग्रहार्थं वा परार्थं श्रेष्ठमुत्तमम् ।
शुचिद्रव्यसमायुक्तं चक्रपूजासमन्वितम्

p1.125

सर्वेषां दक्षिणां दत्त्वा होमपात्रं पृथक पृथक् ।
प्रपूजयेच्च वर्णस्थाः सर्वाभरणभूषिताः

p1.126

हर्षानन्दस्वयंयुक्ताः प्रसन्नाश्च पृथक् पृथक् ।
पायसाज्यौदनैर्युक्तैर्नैवेद्यैर्भक्तिसंयुतैः

p1.127

गन्धपुष्पादिभिः सम्यगर्चयित्वा गणेश्वरम् ।
हसख फ्रें हेसौं(ह्सौं) डां डीं डमलवरयूं ततः

p1.128

श्रीपादुकां हेसौ(ह्सौ)मिति च हसखफ्रें पुटन्ततः ।
सङ्कल्प्य मनसोऽभीष्टं मधुरत्रितयः प्रिये

p1.129

गन्धपुष्पादिभिः सम्यगर्चयित्वा पृथक् पृथक् ।
पूजयित्वेप्सितान् कामान् प्रार्थयेत् कमलानने

p1.130

ईप्सितानि च सर्वाणि साधको लभते वरम् ।
आत्मनश्च परस्यापि रक्षार्थं पूजयेत् प्रिये

p1.131

रोगाणां नाशनार्थञ्च यथात्र पुत्रसिद्धये ।
वश्यार्थं मङ्गलार्थञ्च धर्मकर्मार्थसिद्धये

p1.132

सप्ताहं पूजयेद्देवि चतुर्द्दशदिनानि च ।
एकविंशदिनान्यत्र लभते चेप्सितं फलम्

p1.133

दक्षिणाञ्च पृथग् दद्याद्वस्त्रभूषाङ्गुरीयकम् ।
कुलाष्टकसमायुक्तं चतुःषष्टिसमन्वितम्

p1.134

अचीतञ्च प्रयत्नेन सिद्धिर्भवत्यनेकशः ।
वित्तशाठ्यं न कुर्वीत यदीच्छेत् सिद्धिमात्मनः

p1.135

एवं षट्कं समाख्यातमनुग्रहं वरानने ।
अचीतव्यं प्रयत्नेन साधकैः स्वेष्टसिद्धये

p1.136

ध्यात्वैव पूजयेदेता डाकिन्याद्या वरानने ।
संपूज्य सप्तमीं देवीं पूजयेत् सर्वसिद्धये

p1.137

शक्तिदेहसमुत्पन्नं शक्तिनिर्माल्यभोजने ।
स्ववर्गेण समायुक्ता दत्तनिर्माल्यमित्यपि ।
प्रतिगृह्णयुगं स्वाहा इति निर्माल्यसर्जनम्

p1.138

डाकिनी सर्पवदना वित्तजा ज्वलनप्रभा ।
कमण्डलुं कर्त्तृकाञ्च धारयन्ती वरप्रदा

p1.139

उलूकवदना देवी राकिणी नीलसन्निभा ।
खड्गखेटकसंयुक्ता सर्वालङ्कारभूषिता

p1.140

लाकिनी श्रीकपालाढ्या पाशांकुशधरा सती ।
पाटलीपुष्पसङ्काशा सर्वाभरणभूषिता

p1.141

काकिनी हयवक्त्रा च माणिक्यसदृशप्रभा ।
त्रिमुखीं मुण्डसंयुक्ता सिद्धिदा सर्वशोभना

p1.142

शाकिनी त्वञ्जनप्रख्या मार्जारास्या सुशोभना ।
कुलिशञ्च तथा दण्डं धारयन्ति शुचिस्मिता

p1.143

हाकिनी ऋक्षवदना नीलनीरदसन्निभा ।
कपालशूलहस्ता च खेटकैरुपशोभिता ।
एकद्वित्रिचतुःपञ्चषण्मुखा सरभाभया

p1.144

इति ते कथितं किञ्चिद्विशेषदिवसार्चनम् ।
समासेन कुलेशानि किम्भूयः श्रोतुमिच्छसि

p1.10

॥ इति श्रीकुलार्णवे निर्वाणमोक्षद्वारे महारहस्ये सर्वागमोत्तमोत्तमे
सपादलक्षग्रन्थे पञ्चमखण्डे ऊर्ध्वाम्नायतन्त्रे
विशेषदिवसार्चनं नाम दशमोल्लासः

p1.1

अथैकादशोल्लासः
श्री देव्युवाच
कुलेश श्रोतुमिच्छामि सर्वलोकैकपूजित ।
कुलाचारक्रमं देव वद मे करुणानिधे

p1.2

ईश्वर उवाच
शृणु देवि प्रवक्ष्यामि यन्मां त्वं परिपृच्छसि ।
तस्य श्रवणमात्रेण पशुपाशैः प्रमुच्यते

p1.3

यदि चेद्दीक्षितो ज्येष्ठः कुलपूजादिवजीतः ।
तत्कनिष्ठः क्रमज्ञश्चेत् कुलपूजां समाचरेत्

p1.4

तत्समीपं ततो गत्वा नमस्कृत्य गुरुं यथा ।
तस्मै निवेद्य तत्सर्वं शेष भुञ्जीत पार्वती

p1.5

पूजामध्ये गुरौ ज्येष्ठे पूज्ये वापि समागते ।
नत्वा ब्रूयात् स्थितं शिष्टमाचरेत्तदनुज्ञया

p1.6

ज्येष्ठस्य च कनिष्ठस्य शिष्यावेकत्र संस्थितौ ।
तत्र पूर्ववदाचारः कथितः कुलनायिके

p1.7

अज्ञातकौलिके प्राप्ते पौर्वापर्यन्तु चिन्तयेत् ।
स्मृत्वा स्वस्य गुरुं देवि स्वस्य मार्गेण तर्पयेत्

p1.8

नित्यार्चनं दिने कुर्याद्रात्रौ नैमित्तिकार्चनम् ।
उभयोः काम्यकर्माणि चेति शास्त्रस्य निर्णयः

p1.9

अस्नात्वाऽनासनस्थो वा भुक्त्वा वा प्रलपन्नपि ।
गन्धपुष्पाक्षता कल्पवस्त्राद्यैरनलंकृतः ।
अविन्यस्तशरीरो वा कुलपूजां न चाचरेत्

p1.10

विना मन्त्रेण या पूजा विना मांसेन तर्पणम् ।
विना शक्त्या तु यत्पानं निष्फलं कथितं प्रिये

p1.11

श्रीचक्रमेको वा कुर्यादेकपात्रन्तु नार्चयेत् ।
नार्चयेदेकहस्तेन न पिबेदेकपाणिना

p1.12

मत्स्यमांसासवैर्द्देवि नार्चयेत् पशुसन्निधौ ।
प्रणम्य प्रविशेच्चक्रं विनिर्गच्छेत्प्रणम्य च

p1.13

श्रीचक्रे नासने तिष्ठेन्न च वीरासने प्रिये ।
श्रीचक्रदर्शने देवि नेत्रयोः पापनाशनम् ।
तन्नास्ति चेद् व्रणद्वन्द्वं कौलिकस्याक्षियुग्मकम्

p1.14

अनाचारान् सदाचारान् चक्रस्थान् शक्तिकौलिकान् ।
शिवगौरीधिया देवि भावयेन्नावमानयेत्

p1.15

कुलाचार्यगृहं गत्वा भक्त्या पापविशुद्धये ।
याचेदमृतञ्चान्नञ्च तदभावे जलं पिबेत्

p1.16

कुलाचार्येण तच्छक्त्या दत्तं पात्रञ्च भक्तितः ।
नमस्कृत्य तु गृह्णीयादन्यथा नरकं व्रजेत्

p1.17

अस्नात्वा वाप्यभक्त्या वा लोभाद्वापि कुलेश्वरि ।
यः सेवेत कुलद्रव्यं दारिद्र्यं समवाप्नुयात्

p1.18

उष्णीषी कञ्चुकी नग्नो मुक्तकेशो गणावृतः ।
व्यग्रो रुष्टो विवादी च न सेवेत कुलामृतम्

p1.19

योगामृतेन निष्ठीवान्मद्यभाण्डपरिभ्रमात् ।
ऊर्ध्व नालेन पानाच्च देवताशापमाप्नुयात्

p1.20

एकासने निविष्टस्तु भुञ्जानस्त्वेकभाजने ।
एकपात्रे पिबेद्द्रव्यं ते यान्ति नरकं प्रिये

p1.21

यः सेवेत कुलद्रव्यमेकग्रामे स्थिते गुरौ ।
तत्कुलज्ञे च तत्पुत्रे स्वजेष्ठे कुलदेशिके ।
विनानुज्ञां महेशानि सोऽक्षयं नरकं व्रजेत्

p1.22

उच्छिष्टो न स्पृशेच्चक्रे कुलद्रव्याणि पार्वति ।
बहिःप्रक्षाल्य च करौ कुलद्रव्याणि दापयेत्

p1.23

मद्यभाण्डं समुधृत्च न पात्रं पूरयेत् प्रिये ।
भोगपात्रं सुराकुण्डे निक्षिपेन्न कदाचन

p1.24

चक्रमध्ये शुचिधिया करप्रक्षालनादिकम् ।
यः करोति हि मूढात्मा स भवेदापदाम्पदम्

p1.25

निष्ठीवनं मलं मूत्रमधोवायुविसर्जनम् ।
श्रीचक्रमध्ये यः कुर्यात् स भवेद् योगिनीपशुः

p1.26

चक्रमध्ये घटे भग्ने पात्रे च पतिते भुवि ।
दीपनाशे च शान्त्यर्थं श्रीचक्रं कारयेत् प्रिये

p1.27

मत्ता जपन्ति ध्यायन्ति स्तुवन्ति प्रणमन्ति च ।
बोधयन्ति च पृच्छन्ति नन्दन्ति ज्ञानिनः प्रिये

p1.28

मत्ता भ्रमन्ति गर्जन्ति हसन्ति विवदन्ति च ।
रुदन्ति स्त्रियमिच्छन्ति निन्दन्त्यज्ञानिनः प्रिये

p1.29

परिहासं प्रलापञ्च वितण्डां बहुभाषितम् ।
औदासीन्यं भयं क्रोधं चक्रमध्ये विवर्जयेत्

p1.30

पात्रहस्तो महादेवि न भ्रमेच्चक्रमध्यतः ।
पूर्णपात्रं करे कृत्वा न तिष्ठेत्तु चिरं प्रिये

p1.31

नालपेत् पात्रहस्तः सन् न भिन्द्यात् पात्रमम्बिके ।
पादाभ्यां न स्पृशेत् पात्रं न बिन्दुं पातयेदधः

p1.32

नैकहस्तेन दातव्यं न मुद्रावजीतं प्रिये ।
पात्रं न चालयेत स्थानान्न कुर्यात् पात्रसङ्करम्

p1.33

सशब्दं न पिबेन्मद्यं तथैव न च पूरयेत् ।
नान्योन्यं ताडयेत्पात्रं तथा न पातयेदधः

p1.34

साधारं नोद्धरेत् पात्रमनाधारे न निक्षिपेत् ।
रिक्तपात्रं न कुर्वीत न पात्रं भ्रामयेत् प्रिये

p1.35

न पात्रं लंघयेद्धीमान् पात्रं नोत्पातयेत् प्रिये ।
प्रक्षाल्य गोपयेत् पात्रमित्याज्ञा परमेश्वरि

p1.36

यदा सन्दीपितोल्लासः कौलिकः पशुमीक्षते ।
पठेद्वा पशुशास्त्राणि सङ्गच्छेद्वा पशुस्त्रियम्

p1.37

कुर्यात् पशुप्रसङ्गं वा पशुकार्याणि वा चरेत् ।
धर्मार्थायुर्यशःपुण्यमर्थसौख्यादि नश्यति

p1.38

श्रीचक्रस्थं कुलद्रव्यं यः पशुभ्यः प्रयच्छति ।
स्नेहाल्लोभाद्भयाद्वापि स भवेद् योगिनीपशुः

p1.39

रिपुणापि न कर्त्तव्यो वाग्वादश्चक्रमध्यतः ।
पितृमातृसमं पश्येत्तेनोक्तं परुषं सहेत्

p1.40

यथास्त्रीपुत्रमित्रादि दृष्ट्वा चेतः प्रहृष्यति ।
तथा चेत् कौलिकान् दृष्ट्वा स भवेद् योगिनीप्रियः

p1.41

ब्रह्मादिस्तम्बपर्यन्तं यस्य मे गुरुसन्ततिः ।
यस्य मे सर्वशिष्यस्य को न पूज्यो महीतले ।
द्दति निश्चितबुद्धिर्यः स भवेदावयोः प्रियः

p1.42

अहं गुरुरहं ज्येष्ठस्त्वहं वेद्मीति गवीतः ।
अहमेव गतिर्येषां कौलिका न भवन्ति ते

p1.43

श्रीगुरुं कुलशास्त्राणि पूजास्थानानि यानि च ।
भक्त्या श्रीपूर्वकं देवि प्रणम्य परिकीर्त्तयेत्

p1.44

गुरुं नाम्ना न भावेत जपकालादृते प्रिये ।
श्रीनाथ देव स्वामीति विवादे साधने वदेत्

p1.45

श्रीगुरोः पादुकां मुद्रां मूलमन्त्रं स्वपादुकाम् ।
शिष्यादन्यस्य देवेशि न वदेद् यस्य कस्यचित्

p1.46

पारम्पर्यागमाम्नायं मन्त्राचारादिकं प्रिये ।
सर्व गुरुमुखाल्लब्धं सफलं स्यान्न चान्यथा

p1.47

श्रीशास्त्राश्रयमूलञ्च पुस्तकं न वदेत् प्रिये ।
नित्यं समर्चयेद्भक्त्या पशुहस्ते न निक्षिपेत्

p1.48

स्वदारवन्निषेवेत कुलशास्त्राणि पार्वति ।
पशुशास्त्राणि सर्वाणि वर्जयेत् परदारवत्

p1.49

स्वचर्मस्थं यथा क्षीरमपेयं स्याद् द्विजोत्तमैः ।
तथा पशुमुखाद्धर्मो न श्रोतव्यो हि कौलिकैः

p1.50

यः शृणोति कुलाचारं यथाशास्त्रञ्च यो वदेत् ।
तावुभौ गच्छतः साक्षाद् योगिनीवीरमेलनम्

p1.51

अश्रद्धधाना ये चात्र कुलधर्मे कुलेश्वरि ।
नरकान्नो निवर्त्तन्ते यावदाहूत संप्लवम्

p1.52

ऊढा धृता तथा क्रीता मूल्येन च समाहृता ।
सकृत् कामरता वापि पञ्चधा गुरुयोषितः ।
अलंघ्याः पूजनीयाः स्युर्गुरुवद्गुरुयोषितः

p1.53

गुरुशक्तिं वीरभार्यां कुमारीं व्रतधारिणीम् ।
व्यङ्गाङ्गी विकृताङ्गीञ्च कुब्जामपि न कामयेत्

p1.54

सुताञ्च भगिनीं पौत्रीं स्नुषां वापि प्रियामपि ।
न कामयेद् गुरोरग्रे कुर्यान्नान्योन्यसंग्रहम्

p1.55

कृष्णांशुकां कृष्णवणार्ं कुमारीञ्च कृशोदरीम् ।
मनोहरां यौवनस्थामर्चयेद्देवताधिया

p1.56

एकदापि न सेवेत बलेन कुलयोगिनीम् ।
चक्रमध्ये स्वयं क्षुब्धां कामयेत् कुलसुन्दरि

p1.57

आममांसं सुराकुम्भं मत्तेभं सिद्धिलिङ्गिनम् ।
सहकारमशोकञ्च क्रीडालोलाः कुमारिकाः

p1.58

एक्रवृक्षं श्मशानञ्च समूहं योषतामपि ।
नारीञ्च रक्तवसनां दृष्ट्वा वन्देत भक्तितः

p1.59

गुरुशक्तिसुतज्येष्ठकनिष्ठान् कुलदेशिकान् ।
कुलदर्शनशास्त्राणि कुलद्रव्याणि कौलिकान्

p1.60

प्रेरकान् सूचकांश्चापि वाचकान् दर्शकांस्तथा ।
शिक्षकान् बोधकान् योगी योगिनीसिद्धिरूपकान्

p1.61

कन्यां कुमारिकां नग्नामुन्मत्तां वापि योषितम् ।
न निन्देन्न जुगुप्सेत न हसेन्नावमानयेत्

p1.62

नाप्रियं नानृतं ब्रूयात् कस्यापि कुलयोगिनः ।
कुरूपा चेति कृष्णेति न वदेत् कुलयोषितम्

p1.63

परीक्षयेन्न भक्तानां वीराणाञ्च कृताकृतम् ।
न पश्येद्वनितां नग्नामुन्मत्तां प्रकटस्तनीम्

p1.64

दिवसे न रमेन्नारीं तद्योनिं नैव वीक्षयेत् ।
या काचिदङ्गना लोके सा मातृ कुलसम्भवा

p1.65

कुप्यन्ति कुलयोगिन्यो वनितानां व्यतिक्रमात् ।
स्त्रियं शतापराधाञ्चेत् पुष्पेणापि न ताडयेत् ।
दोषान्न गणयेत् स्त्रीणां गुणानेव प्रकाशयेत्

p1.66

तिष्ठन्ति कुलयोगिन्यः कुलवृक्षेषु सर्वदा ।
तत्पत्रेषु न भोक्तव्यमर्चयेत्तु विशेषतः

p1.67

न स्वपेत् कुलवृक्षाधो न चोपद्रवमाचरेत् ।
दृष्ट्वा भक्त्या नमस्कुर्याच्छेदयेन्न कदाचन

p1.68

श्लेष्मातकं करञ्जाख्यं निम्बाश्वत्थकदम्बकाः ।
बिल्ववटोडुम्बराश्च तिन्तिडी नवमी स्मृता

p1.69

प्रायश्चित्तं भृगोः पातं संन्यासं व्रतधारणम् ।
तीर्थयात्राभिगमनं कौलः पञ्च विवर्जयेत्

p1.70

वीरहत्या वृथापानं वीरपत्नीनिषेवणम् ।
वीरद्रव्यापहरणम् तत्संयोगश्च पञ्चमः ।
महापातकमित्युक्तं कौलिकानां कुलान्वये

p1.71

शैवे तत्त्वपरिज्ञानं गारुडे विषभक्षणम् ।
ज्योतिषे ग्रहणं सारं कौलेऽनुग्रहनिग्रहौ

p1.72

देवतागुरुशास्त्राणां सिद्धाचारविडम्बकाः ।
विद्याचौरो गुरुद्रोही ब्रह्मराक्षसतां व्रजेत्

p1.73

गुरुवाक्यं हतं कृत्वा वीरान् निर्भर्त्स्य च प्रिये ।
गुरुं हुङ्कृत्य तुङ्कृत्य वीरं निजीत्य वादतः ।
विकल्प्य कुलशास्त्राणि भवन्ति ब्रह्मराक्षसाः

p1.74

एकाक्षरप्रदातारं यो गुरुञ्चावमानयेत् ।
श्वानं योनिशतं गत्वा चण्डालत्वमवाप्नुयात्

p1.75

मातरं पितरं भार्यां भ्रातरं बान्धवं सुतम् ।
कुलनिन्दाकरं देवि हन्यादेवाविचारयन्

p1.76

गुर्वर्थं देवतार्थं वा कौलिकार्थं कुलेश्वरि ।
कुलागमार्थमथवा कुलधर्मार्थमेव वा

p1.77

देवि निन्दाकरं हत्वा बाधितः स्वयमेव वा ।
यस्त्यजेद्दुस्त्यजप्राणान् स परे लीयते शिवे

p1.78

एकस्मिन्निधनं यत्र प्रापिते दुष्टचारिणि ।
बहूनां भवति क्षेमं पुण्यं तस्य वधे भवेत्

p1.79

श्रीचक्रकृतवृत्तान्तं शुभं वा यदि वाऽशुभम् ।
कदाचिन्नैव वक्तव्यमित्याज्ञा परमेश्वरि

p1.80

कुलधर्मप्रसङ्गञ्च पशूनां पुरतः प्रिये ।
कदाचिन्नैव कुर्वीत शूद्राग्रे देवपाठवत्

p1.81

पीठक्षेत्रागमाम्नायं तद्विद्याचारकौलिकान् ।
कुलद्रव्यादिकं देवि न वदेत् पशुसन्निधौ

p1.82

यथा रक्षति चौरेभ्यो धनधान्यादिकं प्रिये ।
कुलधर्मं तथा देवि पशुभ्यः परिरक्षयेत्

p1.83

अन्तः कौलो बहिः शैवो जनमध्ये तु वैष्णवः ।
कौलं सुगोपयेद्देवि नारिकेलफलाम्बुवत्

p1.84

कुलधर्मादिकं सर्वं सर्वावस्थासु सर्वदा ।
गोपयेच्च प्रयत्नेन जननीजारगर्भवत्

p1.85

वेदशास्त्रपुराणानि स्पष्टानि गणिका इव ।
इयन्तु शाम्भवी विद्या गुप्ता कुलवधूरिव

p1.86

सुगुप्तकौलिकाचारमनुगृह्णन्ति देवताः ।
वाञ्छासिद्धिं प्रयच्छन्ति नाशयन्ति प्रकाशकान्

p1.87

कुलेशि कुलशास्त्रज्ञाः कुलपूजापरायणाः ।
ये त्वां रहसि सेवन्ते ते तिष्ठन्ति तवान्तिके

p1.88

गुरुं प्रकाशयेद्धीमान् मन्त्रं यत्नेन गोपयेत् ।
अप्रकाशप्रकाशाभ्यां नश्यतः सम्पदायुषी

p1.89

सर्वाचारपरिभ्रष्टः कुलाचारं समाश्रयेत् ।
कुलाचारपरिभ्रष्टौ रौरवं नरकं व्रजेत्

p1.90

शास्त्रेषु निष्कृतिर्दृष्टा महापातकिनामपि ।
कुलभ्रष्टस्य देवेशि न दृष्टा निष्कृतिः क्वचित्

p1.91

कुलधर्म समाश्रित्य आचारं यो न पालयेत् ।
यथेच्छचारिणस्तस्य महापातकिनः प्रिये

p1.92

आपदो दुरितं रोगा दारिद्र्यं कलहो भयम् ।
योगिनीनां प्रकोपश्च स्खलितानि पदे पदे

p1.93

भ्रंशमानः प्रनष्टश्च तेजोहीनोऽतिदुर्मतिः ।
निन्दितः सर्वविद्विष्टो विह्वलः सङ्गवजीतः ।
देशाद्देशान्तरं याति कार्यहानिश्च सर्वदा

p1.94

तत्रापि कुलमार्गस्थाः शाकिन्यः कुलपालिकाः ।
भक्षयन्ति पुरा तासां वरो दत्तो मयेव तु

p1.95

तस्मादाचारवान् देवि योगिनीनां प्रियो भवेत् ।
नाशयन्ति चतुर्वेदाननाचाराः कुलेश्वरि

p1.96

पादुकामात्रसारज्ञः सदाचारेषु यन्त्रितः ।
सदाचारेण देवत्वं योगिनीवीरमेलनम् ।
सम्प्राप्नुवन्ति तिर्यक्त्वं कौलिकास्तद्विपर्ययात्

p1.97

आज्ञासिद्धमिदं कौलमनाचाराद्विनश्यति ।
आचारपालनात् सत्यमाज्ञासिद्धिर्भविष्यति

p1.98

नाभिषेको न मन्त्रो वा न शास्त्रपठनादिकम् ।
कारणं कुलधर्मस्य सदाचारः कुलेश्वरि

p1.99

परा श्रीपादुकातत्त्वत्रयाचारादिवासनाः ।
यो वेत्ति समयी स स्यात् कौलिकश्चापि शाम्भवि

p1.100

तावन्न कौलिको देवि यावन्न समयीकृतः ।
देहपाते विमोक्षः स्यात् समयाचारपालनात्

p1.101

संस्कारेण विहीनत्वाद् गुरुवाक्यस्य लङ्घनात् ।
आचारवर्जनाद्देवि कौलिकः पतितो भवेत्

p1.102

नित्यं नैमित्तिकं द्रव्यं मन्त्रयन्त्रादिलोपनम् ।
अनर्हपशुदुःसङ्गमन्त्रसाङ्कर्यसम्भवम्

p1.103

गुप्तप्रकटसम्भूतं ज्ञानाज्ञानकृतं प्रिये ।
एवमादिषु दोषेषु पापस्य गुरुलाघवम्

p1.104

देशं कालं वयो वित्तं सम्यग् ज्ञात्वा यथाविधि ।
प्रायश्चित्तं गुरुर्द्दद्यात् सर्वपापविशुद्धये

p1.105

शिष्योऽपि गुरुणाऽऽज्ञप्तं प्रायश्चित्तं समाचरेत् ।
अथवा सर्वपापानां गुरुनामजपः स्मृतः

p1.106

जाम्बूनदस्य कलुषं परिशुद्धं यथाग्निना ।
अनाचारस्य मालिन्यं प्रायञ्चित्ताग्निना दहेत्

p1.107

बहुनात्र किमुक्तेन रहस्यं शृणु पार्वती ।
वर्णाश्रमाणां सर्वेषामाचारः सद्गतिप्रदः

p1.108

गुरुस्त्रिवारमाचारं कथयेच्च कुलेश्वरि ।
न गृह्णाति हि शिष्यश्चेत्तदा पापं गुरोर्न हि

p1.109

मन्त्रिदोषश्च राजानं जायादोषः पतिं यथा ।
तथा प्राप्नोत्यसन्देहं शिष्यपापं गुरुं प्रिये

p1.110

इति ते कथितं किञ्चित् समासेन कुलेश्वरि ।
कुलाचारविधिं देवि किम्भूयः श्रोतुमिच्छसि

p1.11

॥ इति श्रीकुलार्णवे निर्वाणमोक्षद्वारे महारहस्ये सर्वागमोत्तमोत्तमे
सपादलक्षग्रन्थे पञ्चमखण्डे ऊर्ध्वाम्नायतन्त्रे
कुलाचारकथनं नाम एकादशोल्लासः

p1.1

अथ द्वादशोल्लासः
श्री देव्युवाच
कुलेश श्रोतुमिच्छामि पादुका भक्तिलक्षणम् ।
आचारमपि देवेश वद मे करुणानिधे

p1.2

ईश्वर उवाच
शृणु देवि प्रवक्ष्यामि यन्मां त्वं परिपृच्छसि ।
तस्य श्रवणमात्रेण भक्तिराशु प्रजापते

p1.3

वाग्भवा मूलवलये सूत्राद्याः कवलीकृताः ।
एवं कुलार्णवे ज्ञानं पादुकायां प्रतिष्ठितम्

p1.4

कोटिकोटिमहादानात् कोटिकोटिमहाव्रतात् ।
कोटिकोटिमहायज्ञात् परा श्रीपादुकास्मृतिः

p1.5

कोटिकोटिमन्त्रजापात् कोटितीर्थावगाहनात् ।
कोटिदेवार्चनाद्देवि परा श्रीपादुकास्मृतिः

p1.6

महारोगे महोत्पाते महादोषे महाभये ।
महापदि महापापे स्मृता रक्षति पादुका

p1.7

दुराचारे दुरालापे दुःसङ्गे दुष्प्रतिग्रहे ।
दुराचारे च दुर्बुद्धौ स्मृता रक्षति पादुका

p1.8

तेनाधीतं स्मृतं ज्ञातम् इष्टं दत्तञ्च पूजितम् ।
जिह्वाग्रे वर्त्तते यस्य सदा श्रीपादुकास्मृतिः

p1.9

सकृत् श्रीपादुकां देवि यो वा जपति भक्तितः ।
स सर्वपापरहितः प्राप्नोति परमां गतिम्

p1.10

शुचिर्वाप्यशुचिर्वापि भक्त्या स्मरति पादुकाम् ।
अनायासेन धर्मार्थकाममोक्षान् लभते सः

p1.11

श्रीनाथचरणाम्भोजं यस्यां दिशि विराजते ।
तस्यां दिशि नमस्कुर्यात् भक्त्या प्रतिदिनं प्रिये

p1.12

न पादुकापरो मन्त्रो न देवः श्रीगुरोः परः ।
न हि शाक्तात् परा दीक्षा न पुण्यं कुलपूजनात्

p1.13

ध्यानमूलं गुरोर्मूत्तीः पूजामूलं गुरोः पदम् ।
मन्त्रमूलं गुरोर्वाक्यं मोक्षमूलं गुरोः कृपा

p1.14

गुरुमूलाः क्रियाः सर्वा लोकेऽस्मिन् कुलनायिके ।
तस्मात् सेव्यो गुरुनीत्यं सिद्ध्यर्थं भक्तिसंयुतैः

p1.15

तावदात्तीर्भयं शोको लोभमोहभ्रमादयः ।
यावन्नायाति शरणं श्रीगुरुं भक्तवत्सलम्

p1.16

तावद् भ्रमन्ति संसारे सर्वदुःखमलीमसाः ।
न भवेत् सद्गुरौ भक्तिर्यावद्देवेशि देहिनाम्

p1.17

सर्वसिद्धिफलोपेतो मन्त्रः शुध्यति शोभनः ।
गुरुप्रसादमूलोऽयं परतत्त्वमहाक्रमः

p1.18

यथा ददाति सन्तुष्टः प्रसन्नो वरदो मनुम् ।
तथा भक्त्या धनैः प्राणैर्गुरुं यत्नेन तोषयेत्

p1.19

यदा दद्यात् स्वशिष्याय स्वात्मानं देशिकोत्तमः ।
तदा मुक्तो भवेच्छिष्यस्ततो नास्ति पुनर्भवः

p1.20

तावदाराधयेच्छिष्यः प्रसन्नोऽसौ यदा भवेत् ।
गुरौ प्रसन्ने शिष्यस्य सद्यः पापक्षयो भवेत्

p1.21

मनसापि न काङ्क्षन्ते यान् कामाननुजीविनः ।
सम्पादयन्ति तान् सर्वान् स्वामिनो भक्तवत्सलाः

p1.22

ब्रह्मविष्णुमहेशादिदेवतामुनियोगिनः ।
कुर्वन्त्यनुग्रहं तुष्टा गुरौ तुष्टे न संशयः

p1.23

भक्त्या तुष्टेन गुरुणा यः प्रदिष्टः कृपालुना ।
कर्ममुक्तो भवेच्छिष्योः भुक्तिमुक्त्योः स भाजनम्

p1.24

शिष्येणापि तथा कार्यं तथा सन्तोषितो गुरुः ।
प्रियं कुर्याच्च देवेशि मनोवाक्कायकर्मभिः

p1.25

यदि तुष्टेन गुरुणात्मशिष्यो यत्र कुत्रचित् ।
मुक्तोऽसीति समादिष्टः सोऽपि मुक्तिं व्रजेत् प्रिये

p1.26

अथवा निष्प्रपञ्चेन धाम्ना केनचिदीश्वरः ।
करोति गुरुरूपेण पशुपाशविमोचनम्

p1.27

न मे प्रियश्चतुर्वेदी मद्भक्तः श्वपचोऽपि वा ।
तस्मै देयं ततो ग्राह्यं स तु पूज्यो ह्यहं तथा

p1.28

विप्रः षड्गुणयुक्तश्चेदभक्तो न प्रशस्यते ।
म्लेच्छोऽपि गुणहीनोऽपि भक्तिमान् शिष्य उच्यते

p1.29

गुरुभक्तिविहीनस्य तपो विद्या कुलं व्रतम् ।
सर्वं नश्यति तत्रैव भूषणं लोकरञ्जनम्

p1.30

गुरुभक्त्यग्निना सम्यग्दग्धदुर्मतिकल्मषः ।
श्वपचोऽपि परैः पूज्यो विद्वानपि न नास्तिकः

p1.31

धर्मार्थकामैः किन्तस्य मोक्ष एव करे स्थितः ।
सर्वार्थैः श्रीगुरौ देवि यस्य भक्तिः सदा स्थिरा

p1.32

स शिवो गुरुरूपेण भुक्तिमुक्तिप्रदो मम ।
इति भक्त्या स्मरेद् यस्तु तस्य सिद्विरदूरतः

p1.33

यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ ।
तस्य ते कथिता ह्यर्थाः प्रकाशन्ते कुलेश्वरि

p1.34

नारायणे महादेवे मातापित्रोश्च राजनि ।
भक्तिर्यथा महादेवि तथा कार्या निजे गुरौ

p1.35

लक्ष्मीनारायणौ वाणीधातारौ गिरिजाशिवौ ।
श्रीगुरुं गुरुपत्नीञ्च पितराविति चिन्तयेत्

p1.36

गुरुभक्त्या यथा देवि प्राप्यन्ते सर्वसिद्धयः ।
यज्ञः दानतपस्तीर्थव्रताद्यैर्न तथा प्रिये

p1.37

श्रीगुरौ निश्चला भक्तिर्वर्द्धते हि यथा यथा ।
तथा तथास्य विज्ञानं वर्द्धते कुलनायिके

p1.38

कि तीर्थाद्यैर्महायासैः किं व्रतैः कायशोषणैः ।
निर्व्याजसेवा देवेशि भक्तिरेषा हि सद्गुरोः

p1.39

कायाक्लेशेन महता तपसा वापि यत् फलम् ।
तत् फलं लभते देवि सुखेन गुरुसेवया

p1.40

भोगमोक्षाथीनां ब्रह्मविष्ण्वीशपदकाङ्क्षिणाम् ।
भक्तिरेव गुरौ देवि नान्यः पन्था इति श्रुतिः

p1.41

अशुभानि च कर्माणि महापातकजानि च ।
भक्तिः क्षणेन दहति तूलराशिमिवानलः

p1.42

विश्वासाय नमस्तस्मै सर्वसिद्धिप्रदायिने ।
येन मृद्दारुद्दषदः फलन्त्यविफलं फलम्

p1.43

न योगो न तपो नार्चाक्रमः कोऽपि प्रलीयते ।
अमाये कुलमार्गेऽस्मिन् भक्तिरेव विशिष्यते

p1.44

साक्षाद् गुरुमये देवि सर्वस्मिन् भुवनान्तरे ।
किन्नु भक्तिमतां क्षेत्रे मन्त्रः केषां न सिध्यति

p1.45

गुरौ मनुष्यबुद्धिञ्च मन्त्रे चाक्षरबुद्धिकम् ।
प्रतिमासु शिलाबुद्धि कुर्वाणो नरकं व्रजेत्

p1.46

गुरुं न मर्त्त्यं बुध्येत यदि बुध्येत तस्य हि ।
न कदाचिद्भवेत् सिद्धिर्मन्त्रैर्वा देवतार्चनैः

p1.47

श्रीगुरुं प्राकृतैः सार्द्धं ये स्मरन्ति वदन्ति च ।
तेषां हि सुकृतं सर्वं पातकं भवति प्रिये

p1.48

जन्महेतू हि पितरौ पूजनीयौ प्रयत्नतः ।
गुरुवीशेषतः पूज्यो धर्माधर्मप्रदर्शकः

p1.49

गुरुः पिता गुरुर्माता गुरुर्द्देवो महेश्वरः ।
शिवे रुष्टे गुरुस्त्राता गुरौ रुष्टे न कश्चन

p1.50

गुरोहीतं हि कर्त्तव्यं मनोवाक्कायकर्मभिः ।
अहिताचरणाद्देवि विष्ठायां जायते क्रिमिः

p1.51

शरीरवित्तप्राणैश्च श्रीगुरुं वञ्चयन्ति ये ।
क्रिमिकीटपतङ्गत्वं प्रात्नुवन्ति न संशयः

p1.52

मन्त्र त्यागाद्भवेन्मृत्युर्गुरुत्यागाद्दरिद्रता ।
गुरुमन्त्रपरित्यागाद्रौरवं नरकं व्रजेत्

p1.53

गुर्वर्थं धारयेद्देहं तदर्थं धनमर्जयेत् ।
निजप्राणान् परित्यज्य गुरुकार्यं समाचरेत्

p1.54

गुरूक्तं परुषं वाक्यमाशिषं परिचिन्तयेत् ।
तेन सन्ताडितो वापि प्रसादमिति संस्मरेत्

p1.55

भोग्य भोज्यानि वस्तूनि गुरुवे च समर्पयेत् ।
तच्छेषमिति सञ्चिन्त्य चानुभूयात् कुलेश्वरि

p1.56

गुर्वग्रे न तपः कुर्यान्नोपवासव्रतादिकम् ।
तीर्थयात्रां न कुर्याच्च न स्नायादात्मशुद्धये

p1.57

न वियोगं गुरोः कुर्यात् युष्मदो नैव भाषयेत् ।
ऋणदानं तथाऽऽदानं वस्तूनां क्रयविक्रयम् ।
न कुर्याद् गुरुभिः सार्द्धं शिष्यो भूत्वा कथञ्चन

p1.58

न कुर्यान्नास्तिकैर्वादं सम्भाषणमपीश्वरि ।
विलोक्य दूरतो गच्छेन्नासीत सह तैः क्वचित्

p1.59

गुरौ सन्निहिते यस्तु पूजयेदन्यमम्बिके ।
स याति नरकं घोरं सा पूजा निष्फला भवेत्

p1.60

शिरसा न वहेद्भारं गुरुपादाब्जधारिणा ।
तदाज्ञया तु कर्त्तव्यमाज्ञारूपो गुरुः स्मृतः

p1.61

मन्त्रागमाद्यमन्यत्र श्रुतं यस्मै निवेदयेत् ।
गुर्वाज्ञया तु गृह्णीयात्तन्निषिद्धं विवर्जयेत्

p1.62

स्वशास्त्रोक्तं रहस्यार्थं न वदेद् यस्य कस्यचित् ।
यदि ब्रूयात् स समयाच्च्युत एव न संशयः

p1.63

अद्वैतं भावयेन्नित्यं न द्वैतं गुरुणा सह ।
आत्मवत् सर्वभूतेभ्यो हितं कुर्यात् कुलेश्वरि

p1.64

आत्मार्थमानसद्भावैः शुश्रूषा स्याच्चतुवीधा ।
शुश्रूषया धिया देवि शिष्यः सन्तोषयेद् गुरुम्

p1.65

पदे पदेऽश्वमेधस्य फलं प्राप्नोत्यसंशयः ।
शुश्रूषणपरो यस्तु गुरुदेवमहात्मनाम्

p1.66

केवलं गुरुशुश्रूषा त्वत्कृपाकारिणी प्रिये ।
सद्भक्तिसहिता चेत् सा सर्वकामफलप्रदा

p1.67

क्षीयन्ते सर्वपापानि वर्द्धन्ते पुण्यराशयः ।
सिध्यन्ति सर्वकार्याणि गुरुशुश्रूषया प्रिये

p1.68

यद् यदात्महितं वस्तु तत्तद्धितमुपाचरेत् ।
गुरुदेवार्चको यस्तु तस्य पुण्यं न गण्यते

p1.69

भक्त्या वित्तानुसारेण गुरुमुद्दिश्य यत् कृतम् ।
अल्पे महति वा तुल्यं पुण्यमाढ्यदरिद्रयोः

p1.70

सर्वस्वमपि यो दद्याद् गुरौ भक्तिविवजीतः ।
शिष्यो न फलमाप्नोति भक्तिरेव हि कारणम्

p1.71

यस्मिन् द्रव्ये गुरोरस्ति स्पृहा नानुभवेत्तु तत् ।
अवश्यं यदि वाञ्छा स्यादनुभूयात्तदाज्ञया

p1.72

यस्तिलार्द्धं तदर्द्धं वा गुरुस्वमुपजीवति ।
लोभान्मोहात् स पच्येत नरके च त्रिसप्तके

p1.73

अत्यल्पं हि गुरोर्द्रव्यमदत्तं स्वीकरोति यः ।
स तिर्यग् योनिमापन्नः क्रव्यादैर्भक्ष्यते प्रिये

p1.74

गुरुद्रव्याभिलाषी च गुरुस्त्रीगमनोत्सुकः ।
पतितस्य क्षुल्लकस्य प्रायश्चित्तं न विद्यते

p1.75

आज्ञाभङ्गोऽर्थहरणं गुरोरप्रियवर्त्तनम् ।
गुरुद्रोहमिदं प्राहुर्यः करोति स पातकी

p1.76

स्वद्रव्यविनियोगञ्च नानिवेद्य गुरौ चरेत् ।
अनिवेद्य तु यः कुर्यात् स भवेद् ब्रह्मघातकः

p1.77

गुरोः स्थानं सम्प्रदायं तद्धर्मं यो विनाशयेत् ।
गुरुभिः स बहिष्कार्यो दण्ड्यो वध्यः स घातकैः

p1.78

गुरुकोपाद्विनाशः स्याद् गुरुद्रोहात्तु पातकम् ।
विमृत्युगुरुनिन्दायां गुर्वनिष्टान्महापदः

p1.79

जीवेदग्निप्रविष्टो वा नरः पीतविषोऽपि वा ।
मृत्युहस्तगतो वापि नापराधकरो गुरोः

p1.80

यत्र श्रीगुरुनिन्दा स्यात् पिधाय श्रवणेऽम्बिके ।
सद्यस्तस्माद्विनिष्क्रामेत् पुनर्न श्रवणं यथा ।
गुरोर्नाम स्मरेत् पश्चात् श्रवणे सा प्रतिक्रिया

p1.81

गुरुमित्रसुहृद्दासीदासाद्यान् नावमानयेत् ।
न निन्देदस्य समयान् वेदशास्त्रागमादिकान्

p1.82

गुरोः श्रीपादुकाभूषा गुरुनामस्मृतिर्जपः ।
गुर्वाज्ञाकरणं कृत्यं शुश्रूषा भजनं गुरोः

p1.83

विविक्षुर्द्देशिकावासं शान्तचित्तोऽतिभक्तिमान् ।
वाहनं पादुकां छत्रं चामरं व्यजनादिकम् ।
ताम्बूलं कज्जलं वेशमुत्सृज्य प्रविशेच्छनैः

p1.84

पादुकामासनं वस्त्रं वाहनं छत्रचामरे ।
दृष्ट्वा गुरोर्नमस्कुर्यान्नात्मभोगाय कामयेत्

p1.85

पादप्रक्षालनं स्नानमभ्यङ्गं दन्तधावनम् ।
मूत्रं निष्ठीवनं क्षौरं शयनं स्त्रीनिषेवनम्

p1.86

वीरासनं सुदुर्वाक्यं शासनं हास्यरोदनम् ।
केशमोचनमुष्णीषं कञ्चुकं नग्नतां तथा

p1.87

पादप्रसारणं वादं कलहं दूषणं प्रिये ।
अङ्गभङ्गाङ्गवाद्यादिकरास्फालनधूननम्

p1.88

द्यूतकौतुकमल्लादियुद्धनृत्यादि चाम्बिके ।
गुरुयोगिमहासिद्धिपीठक्षेत्राश्रमेषु च ।
ना चरेदाचरेन्मोहाद्देवताशापमाप्नुयात्

p1.89

उपचारेण सन्तिष्ठेद् गुर्वग्रे नेच्छया विशेत् ।
मुखावलोकी सेवेत तदुक्तञ्च समाचरेत्

p1.90

गुरूक्तानुक्त कार्येषु नोपेक्षां कारयेत् प्रिये ।
शिरसा यद्गुरुर्ब्रूयात्तत् कार्यमविशङ्कया

p1.91

निग्रहेऽनुग्रहे वापि गुरुः सर्वस्य कारणम् ।
निर्गतं यद्गुरोर्वक्त्रात् सर्वं शास्त्रं तदुच्यते

p1.92

गुरुकार्ये स्वयं शक्तो नापरं प्रेषयेत् प्रिये ।
बहुभृत्यपरैर्भृत्यैः सहितोऽप्यतिभक्तिमान्

p1.93

गच्छंस्तिष्ठन् स्वपन् जाग्रज्जपन् जुह्वात् प्रपूजयेत् ।
गुर्वाज्ञामेव कुर्वीत तदगतेनान्तरात्मना

p1.94

अभिमानो न कर्त्तव्यो जातिविद्याधनादिभिः ।
सर्वदा सेवयेत् नित्यं शिष्यः भ्रीगुरुसन्निधौ

p1.95

कामक्रोधपरित्यागी विनीतः स्तुतिभक्तिमान् ।
देवि भूम्यासने तिष्ठेद् गुरुकार्यं समाचरेत्

p1.96

स्वकार्यमन्यकार्यं वा शिष्यः स्वगुरुचित्तवित् ।
गुरुपार्श्वगतो नम्रः प्रसन्नवदनो भवेत्

p1.97

सामान्यतो निषिद्धञ्च तद्गुरोर्यदि सन्निधौ ।
आचरेत्तस्य सर्वस्य दोषः कोटिगुणो भवेत्

p1.98

अनादृत्य गुरोर्वाक्यं शृणुयाद् यः पराङ्मुखः ।
अहितं वा हितं वापि रौरवं नरकं व्रजेत्

p1.99

गोब्राह्मणवधं कृत्वा यत् पापं समवाप्नुयात् ।
तत् पापं समवाप्नोति गुर्वग्रेऽनृतभाषणात्

p1.100

स्थानान्तरगताचार्ये व्यसने विषमे स्थिते ।
श्रीगुरुं न त्यजेत् क्वापि तदादिष्टो व्रजेत् प्रिये

p1.101

अधः स्थिते गुरावूर्ध्वे न तिष्ठेत कदाचन ।
न गच्छेदग्रतस्तस्य न तिष्ठेदुत्थिते गुरौ

p1.102

शक्तिच्छायां सुरच्छायां गुरुच्छायां न लङ्घयेत् ।
न तेषु कुर्यात् स्वच्छायां न स्वपेद् गुरुसन्निधौ

p1.103

भाषणं पाठनं गानं भोजनं शयनादिकम् ।
अनादिष्टो न कुर्वीत न चावन्दनपूर्वकम्

p1.104

ब्रह्महत्याशतं कुर्यात् गुर्वाज्ञापरिपालनात् ।
विना गुर्वाज्ञया शिष्यौ विश्वसेन्नान्यशासनात्

p1.105

सर्वं गुर्वाज्ञया कुर्यान्न निन्देत्तत्स्त्रियं प्रिये ।
भक्त्या प्रणम्य चोत्तिष्ठेत् कृताञ्जलिपुटः प्रिये

p1.106

पश्चात्पदेन निर्गच्छेन्नमस्कृत्य गुरोर्गृहात् ।
एकासने नोपविशेद् गुरुणा तत्समैः सह

p1.107

न विशेदासने देवि देवतागुरुसन्निधौ ।
गुरोः सिंहासनं देयं ज्येष्ठानामुत्तमासनम् ।
देश्यासनं कनिष्ठानामितरेषां समासनम्

p1.108

जाति विद्याधनाढ्यो वा दूरे दृष्ट्वा गुरुं मुदा ।
दण्डप्रणामं कृत्वैकं त्रिः प्रदक्षिणमाचरेत्

p1.109

ततस्त्रिः षड् द्वादश वा ज्येष्ठादिष्वेकमेव वा ।
गुरुप्रगुरुयोगेन वन्देत प्रगुरु प्रिये

p1.110

ततो नमेद् गुरुं वापि गुर्वाज्ञां न विचारयेत् ।
प्रगुरोः सन्निधौ शिष्यः स्वगुरुं मनसा नमेत्

p1.111

गुरुबुद्ध्या नमेत् सर्व दैवतं तृण्मेव वा ।
न नमेद्देवबुद्ध्या तु प्रतिमां लौहमृण्मयीम्

p1.112

गुरोः प्रणामत्रितयं ज्येष्ठानामेक एव च ।
पूज्यानामञ्जलिस्तद्वदन्येषां वाक्यवन्दनम्

p1.113

देवान् गुरून् कुलाचार्यान् ज्ञानवृद्धान् तपोधनान् ।
विद्याधिकान् स्वधर्मस्थान् प्रणमेत् कुलनायिके

p1.114

स्त्रीद्विष्टं गुरुभिः शप्तं पाषण्डं पण्डितं शठम् ।
विकर्माणं कृतघ्नञ्चानाश्रमिणञ्च नो नमेत्

p1.115

अनिवेद्य गुरोर्भुङ्क्ते यस्त्वेकग्रामसंस्थितः ।
अमेध्यं तद्भवेदन्नं शूकरो जायते मृतः

p1.116

एकग्रामस्थितः शिष्यस्त्रिसन्ध्यं प्रणमेद् गुरुम् ।
क्रोशामात्रस्थितः शिष्यो गुरुं प्रतिदिनं नमेत्

p1.117

अर्द्धयोजनगः शिष्यः प्रणमेत् पञ्चपर्वसु ।
एकयोजनमारम्य योजनद्वादशावधि

p1.118

तत्संख्यादिवसैर्मासैः श्रीगुरुं प्रणमेत् प्रिये ।
दूरदेशस्थितः शिष्यो भक्त्या तत्सन्निधिं गतः

p1.119

तत्र योजनसंख्योक्तमासेन प्रणमेद् गुरुम् ।
अतिदूरगतः शिष्यो यदिच्छा स्यात्तदा व्रजेत्

p1.120

रिक्तहस्तश्च नोपेयाद्राजानं देवतां गुरुम् ।
फलपुष्पाम्बरादीनि यथाशक्त्या समर्पयेत्

p1.121

एवं यो न चरेद्देवि ब्रह्मराक्षसतां व्रजेत् ।
गुरुशक्तिश्च तत्पुत्रो ज्येष्ठभ्राता गुरुः स्मृतः

p1.122

आत्मविच्च कनीयांसं पुत्रवत् परिपालयेत् ।
कुलाचार्यस्य देवेशि गुरुज्येष्ठकनिष्ठयोः ।
गुरुकल्पस्य कुर्वीत प्रणामं स्वरगुरोर्यथा

p1.123

यागज्येष्ठः क्रमज्येष्ठः कुलज्येष्ठस्तृतीयकः ।
गुरुज्येष्ठसुतो देवि इति ज्येष्ठचतुष्टयम्

p1.124

यागज्येष्ठाभिवादेन क्रमिकाष्टाङ्गयोगतः ।
गुरुश्च कुलवृक्षश्च वन्दनीयौ विधानतः

p1.125

पितृमात्रादिसर्वेषु पूज्यकोटिषु बन्धुषु ।
अभ्युत्थानप्रणामाद्यैरव्यक्तो दोषभाग्बहिः

p1.126

यदा त्वाचार्यरूपेण चात्मानं सम्प्रकाशयेत् ।
अभ्युत्थानप्रणामाद्यैर्द्दोषभाक् स भवेत्तदा

p1.127

पतिर्भूत्वा पशुभ्यश्च प्रणामं यः करिष्यति ।
स महापशुरित्युक्तो देवताशापमाप्नुयात्

p1.128

यो गुरुस्थानकं प्राप्तः पादुकापरिसंख्यया ।
गुरुवत् स तु मन्तव्यो ज्येष्ठैर्वन्द्यो न च प्रिये

p1.129

इति ते कथितं किञ्चित् पादुकाभक्तिलक्षणम् ।
समासेन कुलेशानि किं भूयः श्रोतुमिच्छसि

p1.12

॥ इति श्रीकुलार्णवे निर्वाणमोक्षद्वारे महारहस्ये सर्वागमोत्तमोत्तमे
सपादलक्षग्रन्थे पञ्चमखण्डे ऊर्ध्वाम्नायतन्त्रे
पादुकाकथनं नाम द्वादशोल्लासः

p1.1

अथ त्रयोदशोल्लासः
श्री देव्युवाच
कुलेश श्रोतुमिच्छामि करुणामृतवारिधे ।
वक्तुमर्हसि देवेश लक्षणं गुरुशिष्ययोः

p1.2

ईश्वर उवाच
शृणु देवि प्रवक्ष्यामि यन्मां त्वं परिपृच्छसि ।
तस्य श्रवणमात्रेण गुरुभावः प्रजायते

p1.3

दुष्टवंशोद्भवं दुष्टं गुणहीनं विरूपिणम् ।
परशिष्यञ्च पाषण्डं षण्डं पण्डितमानिनम्

p1.4

हीनाधिकविकाराङ्गं विकलावयवान्वितम् ।
पङ्गुमन्धञ्च बधिरं मलिनं व्याधिपीडितम्

p1.5

उत्सृष्टं दुर्मुखञ्चापि स्वेच्छावेशधरं प्रिये ।
दुवीकाराङ्गचेष्टादिगतिभाषणवीक्षणम्

p1.6

निद्रातन्द्राजडालस्यद्यूतादिव्यसनान्वितम् ।
कपाटकुड्यस्तम्भादौ तिरोहिततनुं सदा ।
अन्तर्भक्तिकरं क्षुद्रं बाह्यभक्तिविवजीतम्

p1.7

व्यलीकवादिनं स्तब्धं प्रोषितं प्रेषकं शठम् ।
धनस्त्रीशुद्धिरहितं निषेधविधिवजीतम्

p1.8

रहस्यभेदकं वापि देवि कार्यविनाशकम् ।
मार्जारबकवृत्तिञ्च रन्ध्रान्वेषणतत्परम्

p1.9

मायाविनं कृतघ्नञ्च प्रच्छन्नान्तरदायकम् ।
विश्वासघातकं स्वामिद्रोहिणं पापकारिणम्

p1.10

अविश्वासकरं संशयात्मकं सिद्ध्यकाङ्क्षिणम् ।
आततायिनमादित्सु कोपितं कूटसाक्षिणम्

p1.11

सर्वप्रतारकं देवि सर्वोत्कृष्टाभिमानिनम् ।
असत्यं निष्ठुरासक्तं ग्राम्यादिबहुभाषिणम्

p1.12

दुवीचारकुतर्कादिकारकं कलहप्रियम् ।
वृथाक्षेपकरं मूर्खं चपलं वाग्विडम्बकम्

p1.13

परोक्षे दूषणकरं प्रत्यक्षे प्रियवादिनम् ।
वाग्ब्रह्मवादिनं विद्या चौरमात्मप्रशंसकम्

p1.14

गुणासहिष्णुमहितमार्त्तक्रोधनमम्बिके ।
वाचालं दुर्जनसखं सर्वलोकविगहीतम्

p1.15

पिशुनं परसन्ताप्यं सम्विदप्रणयं प्रिये ।
स्वक्लेशवादिनं स्वामिद्रोहिणं स्वात्मवञ्चकम्

p1.16

जिह्वोपस्थपरं देवि तस्करं पशुचेष्टितम् ।
अकारणद्वेषहासक्लेशक्रोधादिकारिणम्

p1.17

अतिहासमकर्माणं मर्मान्तपरिहासकम् ।
कामुकञ्चातिनिर्लज्जं मिथ्यादुश्चेष्टसूचकम्

p1.18

असूयामदमात्सर्यदम्भाहङ्कारसंयुतम् ।
ईर्ष्यापारुष्यपैशुन्यकार्पण्यक्रोधमानसम्

p1.19

अधीरं दुःखिनं भीरुमशक्तस्तवमातुरम् ।
अप्रबुद्धमतिं मन्दं मूढं चिन्ताकुलं विटम्

p1.20

तृष्णालोभयुतं दीनमतुष्टं सर्वयाचकम् ।
बह्वाशिनं कपटिनं भ्रामकं कुटिलं प्रिये

p1.21

भक्तिश्रद्धादयाशान्तिधर्माचारविवजीतम् ।
मातापितृगुरुप्राज्ञसद्वचोहास्यकारकम्

p1.22

कुलद्रव्यादिबीभत्सं गुरुसेवाभिमानिनम् ।
स्त्रीद्विष्टं समयभ्रष्टं गुरुशप्तं कुलेश्वरि ।
इत्यादिदुर्गुणोपेतं गुरुः शिष्यं विवर्जयेत्

p1.23

सच्छिष्यन्तु कुलेशानि शुभलक्षणसंयुतम् ।
समाधि साधनोपेतं गुणशीलसमन्वितम्

p1.24

स्वच्छदेहाम्बरं प्राज्ञं धामीकं शुद्धमानसम् ।
दृढव्रतं सदाचारं श्रद्धाभक्तिसमन्वितम्

p1.25

दक्षमल्पाशिनं गूढचित्तं निर्व्याजसेवकम् ।
विमृश्यकारिणं वीरं मनोदारिद्र्यवजीतम्

p1.26

सर्वकार्यातिकुशलं स्वच्छं सर्वोपकारिणम् ।
कृतज्ञं पापभीतञ्च साधुसज्जनसम्मतम्

p1.27

आस्तिकं दानशीलञ्च सर्वभूतहिते रतम् ।
विश्वासविनयोपेतं धनदेहाद्यवञ्चकम्

p1.28

असाध्यसाधकं शूरमुत्साहबलसंयुतम् ।
अनुकूलं क्रियायुक्तमप्रमत्तं विचक्षणम्

p1.29

हितसत्यमितस्मेरभाषणं मुक्तदूषणम् ।
सकृदुक्तगृहातार्थं चतुरं बुद्धिविस्तरम्

p1.30

स्वस्तुतौ परनिन्दायां विमुखं सुमुखं प्रिये ।
जितेन्द्रियं सुसन्तुष्टं धीमन्तं ब्रह्मचारिणम्

p1.31

त्यक्ताधिव्याधिचापल्यदुःखभ्रान्तिमसंशयम् ।
गुरुध्यानस्तुतिकथादेवार्चावन्दनोत्सुकम्

p1.32

गुरुदैवतसम्भक्तं कामिनीपूजकं परम् ।
नित्यं गुरुसमीपस्थं गुरुसन्तोषकारकम्

p1.33

मनोवाक्तनुभिनीत्यं परिचर्या समुद्यतम् ।
गुर्वाज्ञापालकं देवि गुरुकीत्तीप्रकाशकम्

p1.34

गुरुवाक्यप्रमाणज्ञं गुरुशुश्रूषणे रतम् ।
चित्तानुवत्तीनं प्रेष्यकारिणं कुलनायिके

p1.35

जातिमानधने गर्ववजीतं गुरुसन्निधौ ।
निरपेक्षं गुरुद्रव्ये तत्प्रसादाभिकाङ्क्षिणम्

p1.36

कुलधर्मकथायोगियोगिनीकौलिकप्रियम् ।
कुलार्चनादिनिरतं कुलद्रव्याजुगुप्सकम्

p1.37

जपध्यानादिनिरतं मोक्षमार्गाभिकाङ्क्षिणम् ।
कुलशास्त्रप्रियं देवि पशुशास्त्रपराङ्मुखम् ।
इत्यादिलक्षणोपेतं गुरुः शिष्यं परिग्रहेत्

p1.38

श्रीगुरुः परमेशानि शुद्धवेशो मनोहरः ।
सर्वलक्षणसम्पन्नः सर्वावयवशोभितः

p1.39

सर्वागमार्थतत्त्वज्ञः सर्वमन्त विधानवित् ।
लोकसम्मोहनकरो देववत् प्रियदर्शनः

p1.40

सुमुखः सुलभः स्वच्छो भ्रमसंशयनाशकः ।
इङ्गिताकारवित् प्राज्ञ ऊहापोहविदुज्ज्वलः

p1.41

अन्तर्लक्ष्यो बहिर्दृष्टिः सर्वज्ञो देशकालवित् ।
आज्ञासिद्धिस्त्रिकालज्ञो निग्रहानुग्रहक्षमः

p1.42

वेधको बोधकः शान्तः सर्वजीवदयापरः ।
स्वाधीनेन्द्रियसञ्चारषड्वर्गविजयक्षमाः

p1.43

अग्रगण्योऽतिगम्भीरः पात्रापात्रविशेषवित् ।
शिवविष्णुसमः साधुर्मन्ददर्शनदूषकः

p1.44

निर्मलो नित्यसन्तुष्टः स्वतन्त्रो मन्त्रशक्तिमान् ।
सद्भक्तवत्सलो धीरः कृपालुः स्मितपूर्णवाक्

p1.45

भक्तप्रियः सदोदारो गम्भीरः शिष्टसाधकः ।
स्वेष्टदेवगुरुज्येष्ठ वनितापूजनोत्सुकः

p1.46

नित्ये नैमित्तिके काम्ये रतः कर्मण्यनिन्दिते ।
रागद्वेषभयक्लेशदम्भाहङ्कारवजीतः

p1.47

स्वविद्यानुष्ठानरतो धर्मादीनामुपार्जकः ।
यदृच्छालाभसन्तुष्टो गुणदोषविभेदकः

p1.48

स्त्रीधनादिष्वनासक्तो दुःसङ्गव्यसनादिषु ।
सर्वाहम्भावसंयुक्तो निर्द्वन्द्वो नियतव्रतः

p1.49

अलोलुपो ह्यसङ्कल्पपक्षपाती विचक्षणः ।
वित्तविद्यादिभिर्मन्त्रयन्त्रतन्त्राद्यविक्रयी

p1.50

निःसङ्गो निवीकल्पश्च निर्णीतार्थोऽतिधामीकः ।
तुल्यनिन्दास्तुतिर्मौनो निरपेक्षो निरामयः ।
इत्यादिलक्षणोपेतः श्रीगुरुः कथितः प्रिये

p1.51

यः शिवः सर्वगः सूक्ष्मश्चोन्मना निष्कलोऽव्ययः ।
व्योमाकारो ह्यजोऽनन्तः स कथं पूज्यते प्रिये

p1.52

अत एव शिवः साक्षाद्गुरुरूपं समाश्रितः ।
भक्त्या सम्पूजितो देवि भुक्तिं मुक्तिं प्रयच्छति

p1.53

शिवोऽहं नाकृतिर्द्देवि नरदृग्गोचरो नहि ।
तस्मात् श्रीगुरुरूपेण शिष्यान् रक्षति धामीकान्

p1.54

मनुष्यचर्मणा बद्धः साक्षात् परशिवः स्वयम् ।
सच्छिष्यानुग्रहार्थाय गूढं पर्यटति क्षितौ

p1.55

सद्भक्तरक्षणायैव निराकारोऽपि साकृतिः ।
शिवः कृपानिधिर्लोके संसारीव हि चेष्टते

p1.56

ललाटलोचनं चान्दीं कलामपि च दोर्द्दयम् ।
अन्तर्धाय च वर्त्तेयं गुरुरूपो महीतले

p1.57

अत्रिनेत्रः शिवः साक्षादचतुर्बाहुरच्युतः ।
अचतुर्वदनो ब्रह्मा श्रीगुरुः कथितं प्रिये

p1.58

नरवद्दृश्यते लोके श्रीगुरुः पापकर्मणा ।
शिववद् दृश्यते लोके भवानि पुण्यकर्मणा

p1.59

श्रीगुरुं परमं तत्त्वं तिष्ठन्तं चक्षुरग्रतः ।
मन्दभाग्या न पश्यन्ति ह्यन्धाः सूर्यमिवोदितम्

p1.60

गुरुः सदाशिवः साक्षात् सत्यमेव न संशयः ।
शिव एव गुरुर्नो चेद्भुक्ति मुक्ति ददाति कः

p1.61

सदाशिवस्य देवस्य श्रीगुरोरपि पार्वती ।
उभयोरन्तरं नास्ति यः करोति स पातकी

p1.62

देशिकाकृतिमास्थाय पशोः पाशानशेषतः ।
छित्त्वा परं पदं देवि नयत्येनमतो गुरुः

p1.63

सर्वानुग्रहकर्त्तृत्वादीश्वरः करुणानधिः ।
आचार्यरूपमास्थाय दीक्षया मोक्षयेत् पशून्

p1.64

यथा घटश्च कलसः कुम्भश्चैकार्थवाचकः ।
तथा देवश्च मन्त्रश्च गुरुश्चैकार्थ उच्यते

p1.65

यथा देवस्तथा मन्त्रो यथा मन्त्रस्तथा गुरुः ।
देवमन्त्रगुरूणाञ्च पूजया सदृशं फलम्

p1.66

शिवरूपं समास्थाय पूजां गृह्णामि पार्वती ।
गुरुरूपं समादाय भवपाशान्निकृन्तये

p1.67

सिद्धान्तशारवेत्ताहं बीजोऽहमिति बोधकृत् ।
अविच्छिन्नः सदा हृष्टहृदयो गुरुरुच्यते

p1.68

यो विलंघ्याश्रमान् वर्णानात्मन्येव स्थितः सदा ।
ज्योतिवर्णाश्रमी योगी स गुरुः कथितः प्रिये

p1.69

षडध्वानं षडाधारं षोडशाधारनिर्णयम् ।
यो जानाति विधानेन स गुरुः कथितः प्रिये

p1.70

दृश्यं विना स्थिरा दृष्टिर्मनश्चालम्बनं विना ।
विनायासं स्थिरो वायुर्यस्य स्यात् स गुरुः प्रिये

p1.71

यत्तु संवित्तिजननं परानन्दसमुद्भवम् ।
तत्तत्त्वं विदितं येन स गुरुः कुलनायिके

p1.72

भूतभव्यौ तन्त्रमन्त्रौ वेत्ति यः शाक्तशाम्भवम् ।
वेधञ्च षड्विधं देवि स हि वेधकरो गुरुः

p1.73

पदमन्त्रकलायन्त्रसतत्त्वतभुवनाश्रयम् ।
शोधयेद् यः षडध्वानं स गुरुः कथितः प्रिये

p1.74

वेधं पदं विरोधञ्च ग्रहणं मोक्षणं तथा ।
यो वा सम्यग्विजानाति स गुरुः कथितः प्रिये

p1.75

जाग्रत् स्वप्नः सुषुप्तिश्च तुरीयं तदतीतकम् ।
यो वेत्ति पञ्चकं देवि स गुरुः कथितः प्रिये

p1.76

पिण्डं पदं तथा रूपं रूपातीतं चतुष्टयम् ।
यो वा सम्यग्विजानाति स गुरुः कथितः प्रिये

p1.77

यो वा पराञ्च पश्यन्तीं मध्यमां वैखरीमपि ।
चतुष्टयं विजानाति स गुरुः कथितः प्रिये

p1.78

आत्मविद्याशिवसर्वमिति तत्त्वचतुष्टयम् ।
यो वेत्ति परमेशानि स गुरुर्नापरः प्रिये

p1.79

पाशच्छेदं वेधदीक्षां पशुग्रहणमेव च ।
त्रिविधं यो विजानाति स गुरुः परमो मतः

p1.80

पदं पाशं पशुनाञ्च रहस्यार्थं विधानतः ।
यो जानाति वरारोहे स गुरुः कथितः प्रिये

p1.81

चक्रसङ्केतकं मन्त्रं पूजासङ्केतकं तथा ।
त्रितयं यो विजानाति स गुरुः कथितः प्रिये

p1.82

वाणेतरस्वयम्भ्वाख्यलिङ्गत्रितयसंस्थितिम् ।
तत्त्वतो यो विजानाति स गुरुः कथितः प्रिये

p1.83

आणवं कार्मणञ्चैव मायीयञ्च मलत्रयम् ।
यो विशोधयितुं शक्तः स गुरुः परमो मतः

p1.84

आरक्तशुक्लमिश्रा(कृष्णा)ख्यचरणत्रयवासनाम् ।
यो जानाति महादेवि स गुरुः परमो मतः

p1.85

महामुद्रां नभोमुद्राम् उङ्डीयानं जलन्धरम् ।
मूलबन्धञ्च यो वेत्ति स गुरुः परमो मतः

p1.86

शिवादिक्षितिपर्यन्तं षट्त्रिंशत्तत्त्वनिर्णयम् ।
यो विजानाति तत्त्वेन स गुरुः परमो मतः

p1.87

अन्तर्यागं बहिर्यागं कलाज्ञानस्थितिं प्रिये ।
चारुयन्त्रविधानञ्च यो वेत्ति स गुरुः प्रिये

p1.88

पिण्डब्रह्माण्डयोरैक्यं स्थितिं यो वेत्ति तत्त्वतः ।
शिरास्थिरोमसंख्यादि स गुरुर्नापरः प्रिये

p1.89

पद्मादिचतुरशीतिनानासनविचक्षणः ।
यमाद्यष्टाङ्गयोगज्ञः स गुरुः परमो मतः

p1.90

घृणा सङ्का भयं लज्जा जुगुप्सा चेति पञ्चमी ।
कुलं शीलं तथा जातिरष्टौ पाशाः प्रकीत्तीताः

p1.91

पाशबद्धः पाशुर्ज्ञेयः पाशमुक्तो महेश्वरः ।
तस्मात् पाशहरो यस्तु स गुरुः परमो मतः

p1.92

बन्धनं योनिमुद्राया मन्त्रचैतन्यदर्शनम् ।
यन्त्रमन्त्रस्वरूपञ्च यो वेत्ति स गुरुः प्रिये

p1.93

विनिक्षिप्तां गतायातां संक्लिष्टां संविनीतकाम् ।
चतुवीधां मनोऽवस्थां यो वेत्ति स गुरुः प्रिये

p1.94

मूलादिब्रह्मरन्ध्रान्तसप्ताम्भोजदलेषु यः ।
जीवाचारफलं वेत्ति स गुरुर्नापरः प्रिये

p1.95

शिवादिगुरुपर्यन्तं पारम्पर्यक्रमेण यः ।
अवाप्ततत्त्वसम्भारः स गुरुर्नापरः प्रिये

p1.96

येन वा दशीते तत्त्वे तत्क्षणात्तन्मयो भवेत् ।
मन्यते मुक्तमात्मानं स गुरुर्नापरः प्रिये

p1.97

ये दत्त्वा सहजानन्दं दरन्तीन्द्रियजं सुखम् ।
सेव्यास्ते गुरवः शिष्यैरन्ये त्याज्याः प्रतारकाः

p1.98

संसारभयभीतस्य शिष्यस्य गुरुरादरात् ।
व्रतोपवासनियमैनीयन्ता स गुरुर्मतः

p1.99

यः प्रसन्नः क्षणार्द्धेन मोक्षलक्ष्मीं प्रयच्छति ।
दुर्लभं तं विजानीयाद् गुरुं संसारतारकम्

p1.100

यः क्षणेनात्मसामर्थ्यं स्वशिष्याय ददाति हि ।
क्रियायासादिरहितं स गुरुर्द्देवदुर्लभः

p1.101

य सद्यः प्रत्ययकरं सुलभञ्चात्मसौख्यदम् ।
ज्ञानोपदेशं कुरुते स गुरुर्द्देवदुर्लभः

p1.102

द्वीपाद् द्वीपान्तरं देवि सञ्चरेद्यथा तथा ।
यो दद्यात् स गुरुर्ज्ञानमभ्यासादिविवजीतम्

p1.103

क्षुधितस्य यथा तृप्तिराहारादाशु जायते ।
तथोपदेशमात्रेण ज्ञानदो दुर्लभो गुरुः

p1.104

गुरवो बहवः सन्ति दीपवच्च गृहे गृहे ।
दुर्लभोऽयं गुरुर्देवि सूर्यवत् सर्वदीपकः

p1.105

गुरवो बहवः सन्ति वेदशास्त्रादिपारगाः ।
दुर्लभोऽयं गुरुर्द्देवि परतत्त्वार्थपारगः

p1.106

गुरवो बहवः सन्ति आत्मनोऽन्यप्रदा भुवि ।
दुर्लभोऽयं गुरुर्द्देवि लोकेष्वात्मप्रकाशकः

p1.107

गुरवो बहवः सन्ति कुमन्त्रौषधिवेदिनः ।
निगमागमशास्त्रोक्तमन्त्रज्ञो दुर्लभो भुवि

p1.108

गुरवो बहवः सन्ति शिष्यवित्तापहारकाः ।
दुर्लभोऽयं गुरुर्द्देवि शिष्यदुःखापहारकः

p1.109

वर्णाश्रमकुलाचारनिरता बहवो भुवि ।
सर्वसङ्कल्पहीनो यः स गुरुर्द्देवि दुर्लभः

p1.110

गुरोर्यस्यैव सम्पर्कात् परानन्दोऽभिजायते ।
गुरुं तमेव वृणुयान्नापरं मतिमान्नरः

p1.111

यस्यानुभवपर्यन्तं बुद्धिस्तत्र प्रवर्त्तते ।
यस्यालोकनमात्रेण मुच्यते नात्र संशयः

p1.112

शङ्कया भक्षितं सर्वं त्रैलोक्यं सचराचरम् ।
सा शङ्का भक्षिता येन स गुरुर्द्देविदुर्लभः

p1.113

यथा वह्निसमीपस्थं नवनीतं विलीयते ।
तथा पापं विलीयते सदाचार्य समीपतः

p1.114

यथा दीप्तानलः काष्ठं शुष्कमार्द्रञ्च निर्दहेत् ।
तथा गुरुकटाक्षस्तु शिष्यपापं दहेत् क्षणात्

p1.115

यथा महानिलोद्धूतं तूलं दशदिशो व्रजेत् ।
तथैव गुरुकारुण्यात् पापराशिः पलायते

p1.116

दीपदर्शनमात्रेण प्रणश्यति तमो यथा ।
सद्गुरोर्द्दर्शनाद्देवि तथाऽज्ञानं विनश्यति

p1.117

सर्वलक्षणसम्पन्नो वेदशास्त्रविधानवित् ।
सर्वोपायविधानज्ञस्तत्त्वज्ञानी गुरुः स हि

p1.118

पूजाहोमाश्रमाचारतपस्तीर्थव्रतादिकम् ।
मन्त्रागमादिविज्ञानं तत्त्वहीनस्य निष्फलम्

p1.119

स्वयं वेद्ये परे तत्त्वे स्वात्मानं वेत्ति निश्चलः ।
आत्मनोऽनुग्रहो नास्ति परस्यानुग्रहः कथम्

p1.120

ब्रह्माकारं मनोरूपं प्रप्यक्षं स्वतनुस्थितम् ।
यो न जानाति चान्यस्य कथं मोक्षं ददात्यसौ

p1.121

सर्वलक्षणहीनोऽपि तत्त्वज्ञानी गुरुः स्मृतः ।
तस्मात्तत्त्वविदेवेह मुक्तो मोचक एव च

p1.122

यस्तत्त्वविन्महेशानि स पशुं बोधयत्यपि ।
तत्त्वहीनात् कुतोऽध्यात्मतत्त्वज्ञानपरिग्रहः

p1.123

तत्त्वज्ञैरुपदिष्टा ये तत्त्वाज्ञस्ते न संशयः ।
पशुभिश्चोपदिष्टा ये देवि ते पशवः स्मृताः

p1.124

विद्धस्तु वेधयेद्देवि नाविद्धो वेधको भवेत् ।
मुक्तस्तु मोचयेद् बद्धं न मुक्तो मोचकः कथम्

p1.125

अभिज्ञश्चोद्धरेन्मूर्ख न मूर्खो मूर्खमुद्धरेत् ।
शिलां सन्तारयेन्नौही किं शिला तारयेच्छिलाम्

p1.126

तत्त्वहीनं गुरुं लब्ध्वा केवलं भव तत्परः ।
इहामुत्र फलं किञ्चित् स नरो नाप्नुयात् प्रिये

p1.127

शैवे गुरुत्रयं प्रोक्तं वैष्णवे गुरुपञ्चकम् ।
वेदशास्त्रेषु शतशो गुरुरेकः कुलान्वये

p1.128

प्रेरकः सूचकश्चैव वाचको दर्शकस्तथा ।
शिक्षको बोधकश्चैव षडेते गुरुवः स्मृताः

p1.129

पञ्चैते कार्यभूताः स्युः कारणं बोधको भवेत् ।
पूर्णाभिषेककर्त्ता यो गुरुस्तस्यैव पादुका ।
पूजनीया महेशानि बहुत्वेऽपि न संशयः

p1.130

श्रीगुरु लक्षणोपेतं संशयच्छेदकारकम् ।
लब्ध्वा ज्ञानप्रदं देवि न गुर्वन्तरमाश्रयेत्

p1.131

अनभिज्ञं गुरुं प्राप्य सदा संशयकारकम् ।
गुर्वन्तरन्तु गत्वा स नैतद्दोषेण लिप्यते

p1.132

मधुलुब्धो यथा भृङ्गः पुष्पात् पुष्पान्तरं व्रजेत् ।
ज्ञानलुब्धस्तथा शिष्यः गुरोगुर्वन्तरं व्रजेत्

p1.133

इति ते कथितं किञ्चिल्लक्षणं गुरुशिष्ययोः ।
समासेन कुलेशानि किम्भूयः श्रोतुमिच्छसि

p1.13

॥ इति श्रीकुलार्णवे निर्वाणमोक्षद्वारे महारहस्ये सर्वागमोत्तमोत्तमे
सपादलक्षग्रन्थे पञ्चमखण्डे ऊर्ध्वाम्नायतन्त्रे
गुरुशिष्यलक्षणं नाम त्रयोदशोल्लासः

p1.1

अथ चतुर्दशोल्लासः
श्री देव्युवाच
कुलेश श्रोतुमिच्छामि परीक्षां गुरुशिष्ययोः ।
उपदेशक्रमं दीक्षाभेदांश्च वद मे प्रभो

p1.2

ईश्वर उवाच
शृणु देवि प्रवक्ष्यामि यन्मां त्वं परिपृच्छसि ।
तस्य श्रवणमात्रेण चित्तशुद्धिः प्रजायते

p1.3

विना दीक्षां न मोक्षः स्यात्तदुक्तं शिवशासने ।
सा च न स्याद्विनाचार्यमित्याचार्यपरम्परा

p1.4

तस्मात् सिद्धान्तं सम्प्राप्य सम्प्रदायादिहेतुभिः ।
अन्तरेणोपदेष्टारं मन्त्राः स्युनीष्फला यतः

p1.5

देवास्तमेव शंसन्ति पारम्पर्यप्रवर्त्तकम् ।
गुरुं मन्त्रागमाभिज्ञं समयाचारपालकम्

p1.6

गुरुः शिष्याधिकारार्थं विरक्तोऽपि शिवाज्ञया ।
किञ्चित्कालं विधायेत्थं स्वशिष्याय समर्पयेत्

p1.7

तस्यापीताधिकारस्य योगः साक्षात् परे शिवे ।
देहान्ते शाश्वती मुक्तिरिति शङ्करभाषितम्

p1.8

तस्मात् सर्वप्रयत्नेन साक्षात्परशिवोदितम् ।
सम्प्रदायमविच्छिन्नं सदा कुर्यात् गुरुः प्रिये

p1.9

शक्तिसिद्धिसुसिद्ध्यर्थं परीक्ष्य विधिवद् गुरुः ।
पश्चादुपदिशेन्मन्त्रमन्यथा निष्फलं भवेत्

p1.10

अन्यायेन तु यो दद्याद् गृह्णात्यन्यायतश्च यः ।
ददता गृह्णता देवि कुलशापो भविष्यति

p1.11

गुरुशिष्यावुभौ मोहादपरीक्ष्य परस्परम् ।
उपदेशं ददद् गृह्णन् प्राप्नुयातां पिशाचताम्

p1.12

अशास्त्रीयोपदेशञ्च यो गृह्णाति ददाति हि ।
भुञ्जाते तावुभौ घोरान्नरकानेकविंशतिम्

p1.13

असंस्कृतोपदेशञ्च यः करोति स पातकी ।
विनश्यति च तन्मन्त्रं सैकते शालिबीजवत्

p1.14

अनर्हे मन्त्रविज्ञानं न तिष्ठति कदाचन ।
तस्मात् परीक्ष्य कर्त्तव्यमन्यथा निष्फलं भवेत्

p1.15

कृत्वा समयदीक्षाञ्च दत्त्वा समयपादुकाम् ।
सन्निधायात्मनः शिष्यं वदेन्मन्त्रं न चान्यथा

p1.16

सच्छिष्यायातिभक्ताय यज्ज्ञानमुपदिश्यते ।
तज्ज्ञानं तत्तुशास्त्रार्थं तद्विदध्यादखण्डितम्

p1.17

असच्छिष्येष्वभक्तेषु यज्ज्ञानमुपदिश्यते ।
तत् प्रयात्यपवित्रत्वं गोक्षीरं श्वघृतादिव

p1.18

धनेच्छाभयलोभाद्यैरयोग्यं यदि दीक्षयेत् ।
देवताशापमाप्नोति कृतञ्च निष्फलं भवेत्

p1.19

ज्ञानेन क्रियया वापि गुरु शिष्यं परीक्षयेत् ।
संवत्सरं तदर्द्धं वा तदर्द्धं वा प्रयत्नतः

p1.20

उत्तमांश्चाधमे कुर्यान्नीचानुत्तमकर्मणि ।
प्राणद्रव्यप्रणामाद्यैरादेशैश्च स्वयं समैः

p1.21

तत्कर्मसूचकैर्वाक्यैर्मायाभिः क्रूरचेष्टितैः ।
पक्षपातैरुदासीनैरनेकैश्च मुहुर्मुहुः

p1.22

आकृष्टस्ताडितो वापि यो विषादं न याति च ।
गुरुः कृपां करोतीति मुदा सञ्चिन्तयेत् सदा

p1.23

श्रीगुरोः स्मरणे चापि कीर्त्तनं दर्शनेऽपि च ।
वन्दने परिचर्यायामाह्वाने प्रेषणे प्रिये

p1.24

आनन्दकम्परोमाञ्चस्वरनेत्रादिविक्रियाः ।
येषां स्युस्तेऽत्र योग्याश्च दीक्षासंस्कारकर्मणि

p1.25

शिष्योऽपि लक्षणैरेतैः कुर्याद् गुरुपरीक्षणम् ।
आनन्दाद्यैर्जपस्तोत्रध्यानहोमार्चनादिषु

p1.26

ज्ञानोपदेशसामर्थ्यं मन्त्रसिद्धिमपीश्वरि ।
वेधकत्वं परिज्ञाय शिष्यो भूयान्न चान्यथा

p1.27

आदिमध्यावसानेषु योग्याः शक्तिनिपातिताः ।
अधमा मध्यमाः श्रेष्ठाः शिष्या देवि प्रकीत्तीताः

p1.28

आदौ भक्तिर्भवेद्देवि दीक्षार्थं समुदन्ति ये ।
पुनवीपुलहृष्टास्ते आदियोग्या इतीरिताः

p1.29

दीक्षासमयसम्प्राप्ता ज्ञानविज्ञानवजीताः ।
भक्त्या प्रध्वस्तपर्याया मध्ययोग्याश्च ते स्मृताः

p1.30

आदौ भक्तिविहीना ये मध्यभक्तास्तु ये नराः ।
अन्तप्रवृद्धभक्ताश्च अन्तयोग्या भवन्ति ते ।
उत्तमज्ञानसंज्ञाश्चेत्युपदेशस्त्रिधा प्रिये

p1.31

यथा पिपीलिका मन्दमन्दं वृक्षाग्रगं फलम् ।
चिरेणाप्नोति कर्मोपदेशश्चापि तथा स्मृतः

p1.32

यथा कपिश्च शाखायां शाखामुल्लंघ्य यत्नतः ।
फलं प्राप्नोति धर्मस्य चोपदेशस्तथा प्रिये

p1.33

यथा वियद्गमः शीघ्रं फल एव निषीदति ।
तथा ज्ञानोपदेशश्च कथितः कुलनायिके

p1.34

स्पर्शाख्या देवि दृक्संज्ञा मानसाख्या महेश्वरि ।
क्रियायासादिरहिता देवा दीक्षा त्रिधा स्मृता

p1.35

यथा पक्षी स्वपक्षाभ्यां शिशून् संवर्द्धयेच्छनैः ।
स्पर्शदीक्षोपदेशच्च तादृशः कथितः प्रिये

p1.36

स्वापत्यानि यथा मत्स्यो वीक्षणेनैव पोषयेत् ।
दृग्भ्यां दीक्षोपदेशश्च तादृशः परमेश्वरि

p1.37

यथा कूर्मः स्वतनयान् ध्यानमात्रेण पोषयेत् ।
वेधदीक्षोपदेशश्च मानसः स्यात् तथाविधः

p1.38

शक्तिपातानुसारेण शिष्योऽनुग्रहमर्हति ।
यत्र शक्तिर्न पतति तत्र सिद्धिर्न जायते

p1.39

क्रियावर्णकलास्पर्शवाग्दृङ्मानससंज्ञया ।
दीक्षा मोक्षप्रदा देवि सप्तधा परिकीत्तीता

p1.40

समयाख्या विशेषा च साधिका पुत्रिकाह्वया ।
वेधका पूर्णसंज्ञा चाचार्या निर्वाणसंज्ञिका

p1.41

क्रियादीक्षाष्टधा प्रोक्ता कुण्डमण्डपपूवीका ।
कलसादिसमायुक्ता कर्त्तव्या गुरुणा बहिः ।
देवेशि देहशुद्ध्यर्थं पूर्वोक्तविधिनाचरेत्

p1.42

वर्णदीक्षा त्रिधा प्रोक्ता द्विचत्वारिंशदक्षरैः ।
पञ्चाशद्वर्णैर्वा देवि द्विषष्टिलिपिभिस्तु ता

p1.43

वर्णान् शिष्यतनौ न्यस्य प्रतिलोमेन संहरेत् ।
परमात्मनि संयोज्य तच्चैतन्यं गुरुः प्रिये

p1.44

तस्मादुत्पाद्य तान् वर्णान् न्यसेच्छिष्यतनौ पुनः ।
सृष्टिक्रमेण विधिना चैतन्यञ्च प्रयोजयेत्

p1.45

जायते देवताभावः परानन्दमयः शिशोः ।
एषा वर्णमयी प्रोक्ता दीक्षा पाशहरा प्रिये

p1.46

कलादीक्षा त्रिधा ज्ञेया कर्त्तव्या विधिवत् प्रिये ।
निवृत्तिर्जानुपर्यन्तं तलादारभ्य संस्थिता

p1.47

जानुनोर्नाभिपर्यन्तं प्रतिष्ठा तिष्ठति प्रिये ।
नाभेः कण्ठावधि व्याप्ता विद्या शान्तिस्ततः परम्

p1.48

कण्ठाल्ललाटपर्यन्तं व्याप्ता तस्माच्छिरोऽवधि ।
शान्त्यतीता कला चैषा कलाव्याप्तिरितीरिता

p1.49

संहारक्रमयोगेन स्थानात् स्थानान्तरं प्रिये ।
संयोज्य विधिवत् सम्यग्विधिवेत्ता शिरोऽवधि

p1.50

इयं प्रोक्ता कुलेशानि दिव्यभावप्रदायिनी ।
अष्टत्रिंशत्कलाभिर्वा पञ्चाशद्भिरथापि वा

p1.51

तत्त्वन्यासक्रमेणैव सृष्टिसंहारमार्गतः ।
ज्ञात्वा गुरुमुखाद्देविं शिष्ये संयोज्य वेधयेत्

p1.52

जायते देवताभावो योगिनीवीरमेलनम् ।
कलादीक्षा समुद्दिष्टा पशुपाशापहारिणी

p1.53

द्दस्ते शिवं गुरुं ध्यात्वा जपेन्मूलाङ्गमालिनीम् ।
गुरुः स्पृशेच्छिष्यतनुं स्पर्शदीक्षा भवेदियम्

p1.54

चित्तं तत्त्वे समाधाय परतत्त्वोपबृंहितान् ।
उच्चरेत् संहतान्मन्त्रान् वाग्दीक्षेति निगद्यते

p1.55

निमील्य नयने ध्यात्वा परतत्त्वप्रसन्नधीः ।
सम्यक् पश्येद्गुरुः शिष्यं दृग्दीक्षा च भवेत् प्रिये

p1.56

गुरोरालोकमात्रेण भाषणात् स्पर्शनादपि ।
सद्यः सञ्जायते ज्ञानं सा दीक्षा शाम्भवी मता

p1.57

मनोदीक्षा द्विधा प्रोक्ता तीव्रा तीव्रतरापि च ।
अध्वानं षड्विधं ज्ञात्वा शिष्यदेहे स्मरन् प्रिये

p1.58

कल्पयेद्भुवनं तत्त्वं कलां वर्णं पदं मनुम् ।
आजानुनाभिहृत्कण्ठतालुमूर्द्धान्तमम्बिके

p1.59

गुरूपदिष्टमार्गेण वेधं कुर्याद्विचक्षणः ।
पाशयुक्तः क्षणाच्छिष्यश्छिन्नपाशस्तदा भवेत् ।
एषा मुक्तिप्रदा प्रोक्ता तीव्रदीक्षा कुलेश्वरि

p1.60

देवि तीव्रतरा चापि गुरुणा स्मृतमात्रतः ।
सम्यक् संवेधिनः शिष्यश्छिन्नपापस्तदा भवेत्

p1.61

वाह्यव्यापारनिर्मुक्तो भूमौ पतति तत्क्षणात् ।
सञ्जातदिव्यभावोऽसौ सर्वं जानाति शाम्भवि

p1.62

यदस्ति वेधकाले तत् स्वयमेवानुभूयते ।
प्रबुद्धः सन् न शक्नोति तत् सुखं वक्तुमीश्वरि

p1.63

वेधविद्धः शिवः साक्षान्न पुनर्जन्मभाग् भवेत् ।
एषा तीव्रतरा दीक्षा भवबन्धविमोचनी ।
शिवभावप्रदा साक्षात् त्वां शपे कुलनायिके

p1.64

आनन्दश्चैव कम्पश्चेद्भवो घूर्णा कुलेश्वरि ।
निद्रा मूर्च्छा च वेधस्य षडवस्थाः प्रकीत्तीताः

p1.65

दृश्यन्ते षड्गुणा ह्येते वेधकाले कुलेश्वरि ।
वेधितो यत्र कुत्रापि तिष्ठेन्मुक्ता न संशयः

p1.66

वेधदीक्षाकरो लोके श्रीगुरुर्दुर्लभः प्रिये ।
शिष्योऽपि दुर्लभस्ताद्दृक् पुण्ययोगेन लभ्यते ।
न दद्याद् यस्य कस्यापि इत्याज्ञा परमेश्वरि

p1.67

कुलद्रव्यैः समभ्यर्च्य कुलचक्रं विधानतः ।
शिष्याय दर्शयेद्देवि दीक्षैषा कौलिकी स्मृता

p1.68

कुलद्रव्यं मुखे पूर्व पञ्चगव्यामृतान्वितम् ।
अभिषिञ्चेद् गुरुः शिष्यं गण्डूषाख्या समीरिता

p1.69

सजीवमीनयुक्तेन सुरया पूरितेन च ।
पञ्चामृतैः सुसम्पूर्णशङ्खेन कलसेन वा ।
अभिषेकं ततः कुर्याद्बाह्ये तत् कथितं प्रिये

p1.70

मीनस्तु लम्बिका देवि वक्त्रं कलस उच्यते ।
पञ्चगवयामृतापूर्णं शिष्यं तेनाभिषेचयेत्

p1.71

अयं सिद्धाभिषेकः स्यादाचार्यस्यापि पार्वति ।
त्रिकालं दन्तकाष्ठञ्च पुष्पाञ्जलिरपि प्रिये

p1.72

शङ्खे वेदकलान्यासस्तज्ज्ञानञ्चाष्टधा भवेत् ।
समयो दन्तकाष्ठेन साधकः कुसुमाञ्जलिः

p1.73

पुत्रं शङ्खाभिषेकेण बोधको वेधसंज्ञया ।
पूर्णाभिषेकेणाचार्यः पञ्चावस्थाः प्रकीत्तीताः

p1.74

कुलाचारैकनिरता गुरुभक्ता दृढव्रताः ।
पूर्णाभिषेकपूता ये ते मुक्ताश्चेह जन्मनि

p1.75

पूर्णाभिषेकपूता ये मृताश्च कुलनायिके ।
पुनर्लब्ध्वोत्तमं जन्म गुरुणा शिवरूपिणा

p1.76

शुद्धाः पूर्णाभिषेकेण शिवसायुज्यदायिना ।
तेन मुक्तिं व्रजेयुस्ते शाम्भवी वाचमव्रवीत्

p1.77

पूर्णा(दीक्षा)भिषेकहीनो यः कौलिको मिरयते यदि ।
पिशाचत्वमवाप्नोति यावदाहूतसंप्लवम्

p1.78

दीक्षा च द्विविधा प्रोक्ता बाह्याभ्यन्तरभेदतः ।
क्रियादीक्षा भवेद्बाह्या वेधाख्याभ्यन्तरी मता

p1.79

अन्तः शुद्धिर्बहिः शुद्धिद्वीविधा परिकीत्तीता ।
अन्तरा च क्रियाशुद्धिर्बहिः शुद्धिश्च दीक्षया

p1.80

दीक्षया मोक्षदीपेन चण्डालोऽपि विमुच्यते ।
आभ्यां विना कुलेशानि कौलिको नैव मुच्यते

p1.81

शरीरस्य न संस्कारो जायते न च कर्मणः ।
आत्मनः कारयेद्दीक्षामनादिकुलकुण्डलीम्

p1.82

दीक्षा ह्येताः कर्मसाम्ये भिन्नार्थप्रतिपादिकाः ।
अभिसन्धानतो देवि देशिकोत्तमशिष्ययोः

p1.83

मन्त्रौषधेर्यथा हन्याद्विषशक्तिं कुलेश्वरि ।
पशुपाशं तथा छिन्द्याद्दीक्षया मन्त्रवित् क्षणात्

p1.84

अस्मात् प्रवितताद्वन्धात् परसंस्थानबोधकात् ।
दीक्षैव मोक्षयेत् पूर्वं दिव्यं धाम नयत्यपि

p1.85

उपपातकलक्षाणि महापातककोटिशः ।
क्षणाद्दहति देवेशि दीक्षा हि विधिना कृता

p1.86

यया चोन्मीलितात्मानो भवन्ति पशवः शिवाः ।
सा दीक्षा ह्युदिता देवि पशुपाशविमोचिका

p1.87

यया दीक्षितमात्रेण जायन्ते प्रत्ययाः प्रिये ।
सा दीक्षा मोक्षदा ज्ञेया शेषास्तु जनसेविकाः

p1.88

उपासनाशतेनापि यां विना नैव सिध्यति ।
तां दीक्षामाश्रयेद् यत्नात् श्रीगुरोर्मन्त्रसिद्धये

p1.89

रसेन्द्रेण यथा विद्धमयः सुवर्णतां व्रजेत् ।
दीक्षाविद्धस्तथा ह्यात्मा शिवत्वं लभते प्रिये

p1.90

दीक्षाग्निदग्धकर्मासौ मायाविच्छिन्नबन्धनः ।
गतः परां ज्ञानकाष्ठां निर्बीजस्तु शिवो भवेत्

p1.91

गतं शूद्रस्य शूद्रत्वं विप्रस्यापि च विप्रता ।
दीक्षासंस्कारसम्पन्ने जातिभेदो न विद्यते

p1.92

शिवलिङ्गे शिला बुद्धिं कुर्वन् यत् पापमश्नुते ।
दीक्षितश्चापि पूर्वत्वस्मृत्या तत् पापमाप्नुयात्

p1.93

दार्वश्मलौहमृद्रत्नजातिलिङ्गप्रतिष्ठितम् ।
यथोच्यते तथा शुद्धाः सर्ववर्णास्तु दीक्षिताः

p1.94

येन पूजितमात्रेण चाब्रह्मभुवनान्तिकम् ।
पूजितं तेन सर्वं स्याद्दीक्षितेन न संशयः

p1.95

दीक्षितस्य न कार्यं स्यात्तपोभिनीयमव्रतैः ।
न तीर्थक्षेत्रगमनैर्न च शरीरयन्त्रणैः

p1.96

अदीक्षिता ये कुर्वन्ति जपपूजादिकाः क्रियाः ।
न फलन्ति प्रिये तेषां शिलायामुप्तबीजवत्

p1.97

देवि दीक्षाविहीनस्य न सिद्धिर्न च सद्गतिः ।
तस्मात् सर्वप्रयत्नेन गुरुणा दीक्षितो भवेत्

p1.98

द्विजो यो दीक्षितः पश्चादन्त्यजः पूर्वदीक्षितः ।
द्विजः कनिष्ठः स ज्येष्ठ इति शास्त्रार्थनिर्णयः

p1.99

गुरुशक्तिसुतानाञ्च यो वा स्यात् पूर्वदीक्षितः ।
गुरुवत्तेन ते पूज्या नावमान्याः कथञ्चन

p1.100

शिष्यो दीक्षितमात्रश्चेद् यदि स्वर्गं गतो गुरुः ।
एकसन्तानकेनैव पूर्णसंस्कारमाचरेत्

p1.101

दर्शनेषु च सर्वेषु गुरुणा ज्ञानशालिना ।
दीक्षितो यस्तु विधिना स युक्तो नापरः प्रिये

p1.102

अधिवासनपूर्वन्तु चक्रपूजापुरःसरम् ।
दीक्षया शोधयेच्छिष्यमन्यथा निष्फलं भवेत्

p1.103

शूद्रसङ्करजातीनामादिशुद्धिवीधीयते ।
पादोदकप्रदानाद्यैः कुर्यात् पापविमोचनम्

p1.104

एकाब्देन द्विजो योग्यः क्षत्रियो वत्सरद्वयात् ।
वैश्यो योग्यस्त्रिभिर्वर्षैश्चतुभिः शूद्र एव च

p1.105

विधवायाः सुतादेशात् कन्यायाः पितुराज्ञया ।
नाधिकारः स्वतो नार्या भार्याया भर्त्तुराज्ञया

p1.106

स्याद्वेदाध्ययने शूद्रो नाधिकारी यथा प्रिये ।
तथैवादीक्षितश्चापि नाधिकारी कुलेश्वरि

p1.107

श्रीगुरुं गुरुपत्नीञ्च तत्पुत्रं शक्ति कौलिकान् ।
दीक्षितस्तोषयेद्देवि यथाविभवविस्तरम्

p1.108

इति ते कथितं किञ्चित् परीक्षा गुरुशिष्ययोः ।
दीक्षाभेदादिकं देवि किम्भूयः श्रोतुमिच्छसि

p1.14

॥ इति श्रीकुलार्णवे निर्वाणमोक्षद्वारे महारहस्ये सर्वागमोत्तमोत्तमे
सपादलक्षग्रन्थे पञ्चमखण्डे ऊर्ध्वाम्नायतन्त्रे
गुरुशिष्यपरीक्षाकथनं नाम चतुर्दशोल्लासः

p1.1

अथ पञ्चदशोल्लासः
श्री देव्युवाच
कुलेश श्रोतुमिच्छामि पुरश्चरणलक्षणम् ।
स्थानाहारादिभेदञ्च वद मे परमेश्वर

p1.2

ईश्वर उवाच
शृणु देवि प्रवक्ष्यामि यन्मां त्वं परिपृच्छसि ।
तस्य श्रवणमात्रेण मन्त्रतत्त्वं प्रकाशते

p1.3

जपयज्ञात् परो यज्ञो नापरोऽस्तीह कश्चन ।
तस्माज्जपेन धर्मार्थकाममोक्षांश्च साधयेत्

p1.4

सर्वपादान् परित्यज्य मन्त्रपादं समभ्यसेत् ।
अप्रमादाद् भवेत् सिद्धिः प्रमादादशुभं फलम्

p1.5

भोगापवर्गसङ्कल्पकल्पव्रतशुभो जपः ।
जपध्यानमयं योगं तस्माद्देवि समाचरेत्

p1.6

आब्रह्मबीजदोषाश्च नियमातिक्रमोद्भवाः ।
ज्ञानाज्ञानकृताः सर्वं प्रणश्यन्ति जपात् प्रिये

p1.7

संसारे दुःखभूयिष्ठे यदीच्छेत् सिद्धिमात्मनः ।
पञ्चाङ्गोपासनेनैव मन्त्रजापी व्रजेत् सुखम्

p1.8

पूजा त्रैकालिकी नित्यं जपस्तर्पणमेव च ।
होमो ब्राह्मणभुक्तिश्च पुरश्चरणमुच्यते

p1.9

यद् यदङ्गं विहीयेत तत्संख्याद्विगुणो जपः ।
कुर्याद् द्वित्रिचतुःपञ्च-संख्यां वा साधकः प्रिये

p1.10

कुर्वीत चाङ्गसिद्ध्यर्थं तदशक्तौ स भक्तितः ।
तच्चेदङ्गं विहीयेत मन्त्री नेष्टमवाप्नुयात्

p1.11

अन्नैश्चतुवीधैर्देवि पदार्थैः षड्रसान्वितैः ।
सुभोजितेषु विप्रेषु सर्वं हि सफलं भवेत्

p1.12

सम्यक्सिद्धैकमन्त्रस्य पञ्चाङ्गोपासनेन च ।
सर्वमन्त्राश्च सिध्यन्ति त्वत्प्रसादात् कुलेश्वरि

p1.13

उपदेशस्य सामर्थ्यात् श्रीगुरोश्च प्रसादतः ।
मन्त्रप्रभावाद्भक्त्या च मन्त्रसिद्धिः प्रजायते

p1.14

सिद्धमन्त्राद् गुरोर्लब्धो मन्त्रो यः सिद्धिभाग्भवेत् ।
पूर्वजन्मकृताभ्यासान्मन्त्रो वा शीघ्रसिद्धिदः

p1.15

दीक्षापूर्वं कुलेशानि पारम्पर्यक्रमागतम् ।
न्यायलब्धश्च यो मन्त्रः स च सिद्धो न संशयः

p1.16

सहस्रं प्रजपेन्मन्त्रं मातृकाक्षरसंपुटम् ।
अनुलोमविलोमेन मन्त्रसिद्धिः प्रजायते

p1.17

त्रिषष्ट्यक्षरसंयुक्तमातृकाक्षरसंपुटम् ।
क्रमोत्क्रमात्सहस्रन्तु तस्य सिद्धो भवेन्मनुः

p1.18

मातृकाजपमात्रेण मन्त्राणां कोटिकोटयः ।
जषिताः स्युर्न सन्देहो यतः सर्वं तदुद्भवम्

p1.19

अनेककोटिमन्त्राणि चित्ताकुलकराणि च ।
मन्त्रं गुरुकृपाप्राप्तमेकं स्यात् सर्वसिद्धिदम्

p1.20

यदृच्छया श्रुतं मन्त्रं दृष्टेनापि छलेन च ।
पत्रे स्थितं वा चाध्याप्य तज्जपः स्यादनर्थकृत्

p1.21

पुस्तके लिखितान्मन्त्रान् विलोक्य प्रजपन्ति ये ।
ब्रह्महत्यासमं तेषां पातकं व्याधिदुःखदम्

p1.22

पुण्यक्षेत्रं नदीतीरं गुहा पर्वतमस्तकम् ।
तीर्थप्रदेशाः सिन्धूनां सङ्गमः पावनं वनम्

p1.23

उद्यानानि विविक्तानि विल्वमूलं तटं गिरेः ।
देवतायतनं कूलं समुद्रस्य निजं गृहम्

p1.24

साधनेषु प्रशस्तानि स्थानान्येतानि मन्त्रिणाम् ।
अथवा निवसेत्तत्र यत्र चित्तं प्रसीदति

p1.25

सूर्यस्याग्नेर्गुरोरिन्दोर्दीपस्य च जलस्य च ।
गोविप्रकुलवृक्षाणां सन्निधौ शस्यते जपः

p1.26

गृहे शतगुणं विद्याद् गोष्ठे लक्षगुणं भवेत् ।
कोटिर्देवालये पुण्यमनन्तं शिवसन्निधौ

p1.27

म्लेच्छदुष्टमृगव्यालशङ्कातङ्कविवजीतः ।
एकान्तपावने निन्दारहिते भक्तिसंयुते

p1.28

स्वदेशे धामीके देशे सुभिक्षे निरुपद्रवे ।
राजभक्तजनस्थाने निवसेत्तापसाश्रये

p1.29

राजानः सचिवा राज्ञां पुरुषाः प्रभवो जनाः ।
चरन्ति येन मार्गेण न वसेत्तत्र मन्त्रवित्

p1.30

जीर्णदेवालयोद्यानगृहवृक्षतलेषु च ।
नदीतडागकूपेषु भूच्छिद्रादिषु नो वसेत्

p1.31

दीपनाथमयष्ट्वा यो जपपूजादिकं चरेत् ।
तत्फलं गृह्यते तेन तस्यायासः फलं भवेत्

p1.32

वंशाश्मधरणीदारुतृणपल्लवनिमीतम् ।
वर्जयेदासनं धीमान् दारिद्र्यव्याधिदुःखदम्

p1.33

तूलकम्बलवस्त्राणां सिंहव्याघ्रमृगाजिनम् ।
कल्पयेदासनं धीमान् सौभाग्यज्ञानवृद्धिदम्

p1.34

पद्मस्वस्तिकवीरादिष्वासनेषूपविश्य च ।
जपार्च्चनादिकं कुर्यादन्यथा निष्फलं भवेत्

p1.35

द्वादशावर्त्तयन् बुद्ध्या प्रणवन्तु त्रिमात्रकम् ।
मुञ्चेत् पिङ्गलया वायुमन्तःस्थं रेचको भवेत्

p1.36

षोडशावर्त्तयन् तारं पूरयेद् बाह्यमारुतम् ।
शनकैरिडया बद्ध्वा पूरकं परिकीत्तीतम्

p1.37

द्वादशावर्त्तयन् तारं वायुं मध्ये च कुम्भयेत् ।
शोषयेद्वायुबीजेन देहशोषणमीरितम्

p1.38

पुनश्च पूर्ववद्वायुं विरेच्यापूर्य कुम्भयेत् ।
दहेत् दहनबीजेन देहदाहनमीरितम्

p1.39

पुनश्च पूर्ववद्वायुं विरेच्यापूर्य कुम्भयेत् ।
शिवकुण्डलिनीयोगस्यन्दनामृतधारया ।
आपादमस्तकं देवि प्लावयेत् प्लावनं भवेत्

p1.40

जपध्यानं विनाऽगर्भः सगर्भस्तद्विपर्ययात् ।
अगर्भाद् गर्भसंयुक्तः प्राणायामः शताधिकः

p1.41

तपांसि तीर्थयात्राद्या मखदानव्रतादयः ।
प्राणायामस्य तस्यैते कलां नार्हन्ति षोडशीम्

p1.42

मानसं वाचिकं पापं कायिकं वापि यत् कृतम् ।
तत् सर्वं निर्द्दहेच्छीघ्रं प्राणायामत्रयं शिवे

p1.43

दह्यते ध्मार्यमानानां धातूनाञ्च यथा मलम् ।
तथेन्द्रियाणां दह्यन्ते दोषाः प्राणस्य संयमात्

p1.44

प्राणायामैवीशुद्धात्मा यद् यत् कर्म करोति हि ।
तत्तत् फलत्यसन्देहस्त्वप्रयत्नेन वा कृतम्

p1.45

आगमोक्तेन मार्गेणाभ्यासं नित्यं करोति यः ।
देवताभावमाप्नोति मन्त्रसिद्धिः प्रजायते

p1.46

यो न्यासकवचच्छन्दो मन्त्रं जपति तं प्रिये ।
विघ्ना दृष्ट्वा पलायन्ते सिंहं दृष्टवा यथा गजाः

p1.47

अकृत्वा न्यासजालं यो मूढात्मा प्रजपेन्मनुम् ।
वाध्यते सर्वविघ्नैश्च व्याघ्रैर्मृगशिशुर्यथा

p1.48

अक्षमाला द्विधा प्रोक्ता कल्पिताऽकल्पितेति च ।
कल्पिता मणिभिः कॢप्ता मातृका स्यादकल्पिता

p1.49

आदिक्षान्ताक्षवर्णत्वादक्षमालेति कीत्तीता ।
अनुलोमविलोमाभ्यां गणयेन्मन्त्रवित्तमः

p1.50

एकैकमङ्गुलीभिः स्याद्रेखाभिर्द्दशधा फलम् ।
मणिभिः शतसाहस्रं माणिक्याऽनन्तमुच्यते

p1.51

त्रिंशद्भिः स्याद्धनं पुष्टिः सप्तविंशतिभिर्भवेत् ।
पञ्चविंशतिभिर्मोक्षं पञ्चदश्याभिचारके ।
पञ्चाशद्भिः कुलेशानि सर्वसिद्धिरुदीरिता

p1.52

अङ्गुष्ठेन च मोक्षः स्यात्तर्जनी शत्रुनाशिनी ।
मध्यमां धनदां विद्यात् शान्तिकर्मण्यनामिका ।
कनिष्ठा स्तम्भन्याकर्षण्यङ्गुली सुप्रकीत्तीता

p1.53

एतज्जपिष्यामीत्यादौ सङ्कल्प्य मन्त्रवित्तमः ।
स्थिरासनो जपित्वाऽथ देव्यै सोदकमर्पयेत्

p1.54

उच्चैर्जपोऽधमः प्रोक्त उपांशुमध्यमः स्मृतः ।
उत्तमो मानसो देवि त्रिविधः कथितो जपः

p1.55

अतिह्रस्वो व्याधिहेतुरतिदीर्घस्तपःक्षयः ।
अक्षराक्षरसंयुक्तो यो मन्त्रः स न सिध्यति

p1.56

मनसा यः स्मरेत् स्तोत्रं वचसा वा मनुं जपेत् ।
उभयं निष्फलं देवि भिन्नभाण्डोदकं यथा

p1.57

जातसूतकमादौ स्यात्तदन्ते मृतसूतकम् ।
सूतकद्वयसंयुक्तो यो मन्त्रः स न सिध्यति

p1.58

आद्यन्तरहितं कृत्वा मन्त्रमावर्त्तयेद्धिया ।
सूतकद्वयनिर्मुक्तो यो मन्त्रः सर्वसिद्धिदः

p1.59

मन्त्रार्थं मन्त्रचैतन्यं योनिमुद्रां न वेत्ति यः ।
शतकोटिजपेनापि तस्य सिद्धिर्न जायते

p1.60

सुप्तबीजाश्च ये मन्त्रा न दास्यन्ति फलं प्रिये ।
मन्त्रा चैतन्यसहिताः सर्वसिद्धिकराः स्मृताः

p1.61

चैतन्यरहिता मन्त्राः प्रोक्ता वर्णास्तु केवलम् ।
फलं नैव प्रयच्छन्ति लक्षकोटिजपादपि

p1.62

मन्त्रोच्चारे कृते यादृक् स्वरूपं प्रथमं भवेत् ।
शतैः सहस्रैर्लक्षैर्वा कोटिजापेन् तत् फलम्

p1.63

हृत्कण्ठग्रन्थिभेदश्च सर्वावयववर्द्धनम् ।
आनन्दाश्रु च पुलको देहावेशः कुलेश्वरि ।
गद्गदोक्तिश्च सहसा जायते नात्र संशयः

p1.64

सकृदुच्चरितेऽप्येवं मन्त्रे चैतन्यसंयुते ।
दृश्यन्ते प्रत्यया यत्र पारम्पर्य तदुच्यते

p1.65

रुद्धः कूटाक्षरो मुग्धो बद्धः क्रुद्धश्च भेदितः ।
बालः कुमारो युवकः प्रौढो वृद्धश्च गवीतः

p1.66

स्तम्भितो र्मूच्छितो मत्तः कीलितः खण्डितः शठः ।
मन्दः पराङ्मुखश्छिन्नो बधिरोऽन्धस्त्वचेतनः

p1.67

किङ्करः क्षुधितः स्तब्धः स्थानभ्रष्टञ्च पीडितः ।
निःस्नेहो विकलो ध्वस्तो निर्जीवः खण्डितारिकः

p1.68

सुप्तस्तिरस्कृतो नीचो मलिनश्च दुरासदः ।
निःसत्त्वो निजीतो दग्धचपलश्च भयङ्करः

p1.69

निस्त्रिंशो निन्दितः क्रूरः फलहीनो निकृन्तनः ।
निर्वीर्यो भ्रमितो शप्त रुग्णः कष्टोऽङ्गहीनकः ।
जडो रिपुरुदासीनो लज्जितो मोहितोऽलसः

p1.70

षष्ट्येतान् मन्त्रदोषांश्च योऽज्ञात्वा प्रजपेन्मनुम् ।
सिद्धिर्न जायते तस्य लक्षकोटिजपादपि

p1.71

कथ्यन्ते दश संस्कारा मन्त्रदोषहराः प्रिये ।
जननं जीवनं पश्चात्ताडनं बोधनं ततः

p1.72

अभिषेकोऽथ विमलीकरणाप्यायने तथा ।
तर्पणं दीपनं गुप्तिः संस्काराः कुलनायिके

p1.73

शाणोल्लोढानि शस्त्राणि यथा स्युनीशितानि वै ।
मन्त्राश्च स्फूत्तीमायान्ति संस्कारैर्द्दशभिस्तथा

p1.74

भक्ष्यं हविष्यं शाकादि विहितानि फलान्यपि ।
मूलं शक्तु यवानाञ्च शस्तान्येतानि मन्त्रिणाम्

p1.75

यस्यान्नपानपुष्टाङ्गः कुरुते धर्मसञ्चयम् ।
अन्नदातुः फलं चार्द्धं कर्त्तुश्चार्द्धं न संशयः

p1.76

तस्मात् सर्वप्रयत्नेन परान्नं वर्जयेत् सुधीः ।
पुरश्चरणकाले च काम्यकर्मस्वपीश्वरि

p1.77

जिह्वा दग्धा परान्नेन करौ दग्धौ प्रतिग्रहात् ।
मनो दग्धं परस्त्रीभिः कार्यसिद्धिः कथं भवेत्

p1.78

इन्द्राग्निरुद्रग्रहदृग्वेदार्कदिक्षडष्टसु ।
षोडशमनुबाणाब्धितिथित्रयोदशस्वपि

p1.79

लिखेत् षोडशकोष्ठेषु मातृकार्णान् विचक्षणः ।
स्वनामाद्यक्षराद् यावन्मन्त्राद्यक्षरदर्शनम्

p1.80

सिद्धादीन् कल्पयेन्मन्त्री कुर्यात् साध्यादिभिः पुनः ।
चतुश्चतुवीभागेन सिद्धादीन् गणयेत् पुनः

p1.81

सिद्धसिद्धो जपात् सिद्धो द्विगुणात् सिद्धसाध्यकः ।
सिद्धसुसिद्धोऽर्द्धजपात् सिद्धारिर्हन्ति बान्धवान्

p1.82

साध्यसिद्धोऽतिसंक्लेशात् साध्यसाध्यो निरर्थकः ।
साध्यसुसिद्धो भजनात् साध्यारिहन्ति गोत्रजान्

p1.83

सुसिद्धसिद्धोऽर्द्धजपात्तत्साध्यस्तु यथोक्ततः ।
तत्सुसिद्धो ग्रहादेव सुसिद्धारिः स्वगोत्रहा

p1.84

अरिसिद्धः सुतं हन्यादरिसाध्यस्तु योषितम् ।
तत्सुसिद्धः कुलं हन्ति स्वात्मानं हन्ति तद्रिपुः

p1.85

सिद्धार्णा बान्धवाः प्रोक्ताः साध्यास्ते सेवकाः स्मृताः ।
सुसिद्धाः पोषका ज्ञेयाः शत्रवो घातकाः स्मृताः

p1.87

बान्धवा नवबार्णकाः स्युद्विषड्दश सेवकाः ।
वह्निरुद्रमुनयस्तु(पोषका) द्वादशाष्टकचतुरस्तु(घातकाः) ।८६
प्राप लोभा पटु प्राह्यं रुद्रस्याद्रिरुरुः करम् ।
लोक लोप पटुः प्रायः खलोघोभेदिताः प्रिये ।
वर्णाः क्रमात् स्वरान्तौ तु रेवत्यंशगतौ तदा

p1.88

जन्म सम्पद् विपत् क्षेम प्रत्यरिः साधको वधः ।
मित्रं परममित्रञ्च जन्मादीनि पुनः पुनः

p1.89

वालं गौरं खुरं शोणं शमीशोभेति राशिषु ।
क्रमेण भेदिता वर्णाः कन्यायां शादयः स्मृता

p1.90

लग्नो धनं भ्रातृबन्धुपुत्रशत्रुकलत्रकाः ।
मरणं धर्मकर्माय व्यया द्वादश राशयः

p1.91

स्वराशेर्मन्त्रशश्यन्तं गणनीयं विचक्षणैः ।
अज्ञाते राशिनक्षत्रे नामाद्यक्षरराशितः

p1.92

नामाद्यक्षरमारभ्य यावन्मन्त्रादिमाक्षरम् ।
त्रिधा कृत्वा स्वरैभिन्द्यात्तदन्यद्विपरीतकम्

p1.93

कृत्वाधिकमृणं ज्ञेयं ऋणी चेन्मन्त्रवित्तमः ।
स्वयमृणी चेत्तन्मन्त्रं जपेत्पूर्वमृणी यतः

p1.94

वायवग्निभूजलाकाशाः पञ्चाशल्लिपयः क्रमात् ।
पञ्च ह्रस्वाः पञ्च दीर्घा बिन्द्वन्ताः सन्धिसम्भवाः ।
कादयः पञ्चशः षक्षसहान्ताश्च प्रकीत्तीताः

p1.95

महीसलिलयोमीत्रमनिलानलयोरपि ।
शात्रवं वैपरीत्येन मैत्रं सर्वत्र चापरम्

p1.96

परस्परविरुद्धानां वर्णानां यत्र सङ्गतिः ।
वर्जयेत्तादृशं मन्त्रं नाशकृत्तत् कुलेश्वरि

p1.97

एकाक्षरे तथा कूटे त्रैपुरे मन्त्रनायिके ।
स्त्रीदत्ते स्वप्नलब्धे च सिद्धादीन्नैव शोधयेत्

p1.98

मन्त्रसिद्धोपदिष्टेषु चतुराम्नायजेषु च ।
मालामन्त्रेषु देवेशि सिद्धादीन्नैव शोधयेत्

p1.99

नृसिंहार्कवराहाणां प्रासादप्रणवस्य च ।
सपिण्डाक्षरमन्त्राणां सिद्धादीन्नैव शोधयेत्

p1.100

मनोऽन्यत्र शिवोऽन्यत्र शक्तिरन्यत्र मारुतः ।
न सिध्यति वरारोहे लक्षकोटिजपादपि

p1.101

वादार्थं पठ्यते विद्या परार्थं क्रियते जपः ।
ख्यात्यर्थं दीयते दानं कथं सिद्धिर्वरानने

p1.102

धनार्थं गम्यते तीर्थं दम्भार्थं क्रियते तपः ।
कार्यार्थे देवतापूजा कथं सिद्धिर्नु जायते

p1.103

अमेध्येन तु देहेन न्यासं देवार्चनं जपम् ।
होमं कुवन्ति चेन्मूढास्तत् सर्वं निष्फलं भवेत्

p1.104

विण्मूत्रत्यागशेषादियुक्तः कर्म करोति यः ।
जपार्चनादिकं सर्वमपवित्रं भवेत् प्रिये

p1.105

मलिनाम्बरकेशादिमुखदौर्गन्धसंयुतः ।
यो जपेत्तं दहत्याशु देवता सुजुगुप्सिता

p1.106

आलस्यं जृम्भणं निद्रां क्षुतं निष्ठीवनं भयम् ।
नीचाङ्गस्पर्शनं कोपं जपकाले विवर्जयेत्

p1.107

अत्याहारः प्रलापश्च प्रजल्पो नियमाग्रहः ।
अन्यासङ्गश्च लौल्यञ्च षड्भिर्मन्त्रो न सिध्यति

p1.108

उष्णीशी कञ्चुकी नग्नो मुक्तकेशो गणावृतः ।
अपवित्रोत्तरीयश्चाशुचिर्गच्छंश्च नो जपेत्

p1.109

जाड्यं दुःखं तृणच्छेदं विवादं वा मनोरथम् ।
बहिस्तु देहवायुञ्च जपकाले विवर्जयेत्

p1.110

शान्तः शुचिमिताहारो भूशायी भक्तिमान् वशी ।
निर्द्वन्द्वः स्थिरधीमौनी संयतात्मा जपेत् प्रिये

p1.111

विश्वासास्तिक्यकरुणाश्रद्धानियमनिश्चयैः ।
सन्तोषौत्सुक्यधर्मादिगुणैर्युक्तो जपेन्नरः

p1.112

सुगन्धिपुष्पाभरणवस्त्रादिभिरलङ्कृतः ।
तस्य हस्तगता सिद्धिर्नान्यस्य जपकोटितः

p1.113

तन्निष्ठस्तद्गतप्राणस्तच्चित्तस्तत्परायणः ।
तत्पदार्थानुसन्धानं कुर्वन् मन्त्रं जपेत् प्रिये

p1.114

जपात् श्रान्तः पुनर्ध्यायेद्ध्यानात् श्रान्तः पुनर्जपेत् ।
जपध्यानादियुक्तस्य क्षिप्रं मन्त्रः प्रसिध्यति

p1.115

इति ते कथितं किञ्चित् पुरश्चरणलक्षणम् ।
समासेन कुलेशानि किं भूयः श्रोतुमिच्छसि

p1.15

॥ इति श्रीकुलार्णवे निर्वाणमोक्षद्वारे महारहस्ये सर्वागमोत्तमोत्तमे
सपादलक्षग्रन्थे पञ्चमखण्डे ऊर्ध्वाम्नायतन्त्रे
पुरश्चरणादिकथनं नाम पञ्चदशोल्लासः

p1.1

अथ षोडशोल्लासः
श्रीदेव्युवाच
कुलेश श्रोतुमिच्छामि करुणामृतवारिधे ।
काम्यकर्मविधानञ्च वद मे परमेश्वर

p1.2

ईश्वर उवाच
शृणु देवि प्रवक्ष्यामि यन्मां त्वं परिपृच्छसि ।
तस्य श्रवणामात्रेण प्रयोगनिपुणो भवेत्

p1.3

मन्त्री विशुद्धहृदयः पूर्वोक्तनियमान्वितः ।
श्रीप्रासादपरामन्त्रं तत्त्वलक्षं जपेत् प्रिये

p1.4

दशांशं जुहुयाद्देवि संस्कृते हव्यवाहने ।
दशांशं तर्पयेद्दुग्धैः सलिलैः शालितण्डुलैः

p1.5

गन्धपुष्पाक्षताकल्पधनवस्त्रादिभिः प्रिये ।
भक्ष्याथोन्यान्नपानाद्यैर्हव्यद्रव्यैर्मनोहरैः

p1.6

तोषयेद् योगिनीचक्रं यथाविभवविस्तरम् ।
एवं न्यासजपध्यानसहोमार्च्चनतर्पणः

p1.7

मन्त्री सिद्धिमनुर्द्देवि साक्षात् परशिवो भवेत् ।
ततः स्वमनसोऽभीष्टान् प्रयोगान् कुलनायिके

p1.8

मन्त्रेणानेन मतिमान् साधयेद् भुक्तिमुक्तये ।
सिद्धमन्त्रस्य सिध्यन्ति षट् कर्माणि न संशयः ।
नैव सिध्यन्त्यसिद्धस्य देवताशापमाप्नुयात्

p1.9

काम्यप्रयोगकर्त्तॄणां परलोको न विद्यते ।
प्रयोगसिद्धिरेवैषां फलमन्यन्न तु प्रिये

p1.10

एकस्यापि विधानस्य न कुत्रापि फलद्वयम् ।
देवेशि दृश्यते तस्मान्निष्कामो देवतां यजेत्

p1.11

होमतर्पणमन्त्राद्यैर्न्यासध्यानविशेषकैः ।
आत्मनश्च परस्यापि षट् कर्माणि समाचरेत्

p1.12

प्रयोगान्ते चक्रपूजां विधिनैव समाचरेत् ।
लक्षमेकं जपेन्मन्त्रं न्यासध्यानसमन्वितः

p1.13

प्रयोगदोषशान्त्यर्थमात्मरक्षार्थमेव च ।
न चेत् फलं न चाप्नोति देवताशापमाप्नुयात्

p1.14

तिथिवारञ्च नक्षत्रं योगमासर्त्तु पक्षकम् ।
दीपेशं कुलचक्राणि ज्ञात्वा कर्माणि साधयेत्

p1.15

ऋषिष्छन्दोदेवताङ्गन्यासध्यानार्च्चनादिकम् ।
बीजं शक्तिं कीलकञ्च ज्ञात्वा मन्त्राणि साधयेत्

p1.16

पुत्रबान्धवदाराश्च राशिवर्णानुकूलता ।
भूतमैत्रीं तथोद्यन्तं ज्ञात्वा मन्त्राणि साधयेत्

p1.17

मन्त्रविद्याऽभेदरूपं निद्राञ्च बोधरूपकम् ।
स्त्रीपुंनपुंसकादींश्च ज्ञात्वा कर्माणि साधयेत्

p1.18

स्वरवर्णपदद्वित्वं विदुश्चैतन्यसूतकम् ।
हृस्वदीर्घप्लुतादींश्च ज्ञात्वा मन्त्राणि साधयेत्

p1.19

पञ्चशुद्ध्यासनप्राणायामन्यासाक्षमालिकाः ।
दोषसंस्कारमुद्रादीन् ज्ञात्वा कर्माणि साधयेत्

p1.20

तथैवासनदिग्बन्धनाडीबन्धादिसङ्गतिम् ।
देवताकालमुद्रादि ज्ञात्वा कर्माणि साधयेत्

p1.21

साध्यसाधककर्माणि लेखनीद्रव्यपञ्चकम् ।
स्थानं यन्त्रं प्रमाणञ्च ज्ञात्वा कर्माणि साधयेत्

p1.22

उत्पत्तिवासनावर्णमूत्तीसंस्कारसंस्थितम् ।
कुण्डद्रव्यप्रमाणादीन् ज्ञात्वा होमं समाचरेत्

p1.23

अग्निप्रभां धूम्रवर्णध्वनिगन्धशिखाकृतीः ।
शुभचेष्टादिकं ज्ञात्वा कल्पयेत्तु शुभाशुभम्

p1.24

मन्त्रतत्त्वानुसन्धानदेहावेशादिलक्षणम् ।
मन्त्रोच्चारणभेदञ्च ज्ञात्वा कर्माणि साधयेत्

p1.25

मण्डलं कलसद्रव्यशुद्धि गन्धाष्टकादिकम् ।
दीक्षानामप्रदानादि ज्ञात्वा दीक्षां समाचरेत्

p1.26

नित्यं नैमित्तिकं काम्यं नियमं नाम वासनाम् ।
पूजाधारणयन्त्रादि ज्ञात्वा कर्माणि साधयेत्

p1.27

पूजागृहप्रवेशादिकुलपूजकलक्षणम् ।
कुलद्रव्यादिशुद्धिञ्च ज्ञात्वा पूजां समाचरेत्

p1.28

अन्तर्यागं बहिर्यागं घटार्घ्यस्थापनादिकम् ।
पञ्चपुष्पाञ्जलिं देवि ज्ञात्वा कर्माणि साधयेत्

p1.29

पात्राधारालिपिशितं कलामुद्राध्वमेलनम् ।
बटुकादिबलिं देवि ज्ञात्वा कर्माणि साधयेत्

p1.30

कुलाकुलाख्यसहजशक्तिभेदञ्च लक्षणम् ।
शुभलक्षणसंयुक्तं स्त्रीसंस्कारार्चनादिकम् ।
देवि सम्भोगकालञ्च ज्ञात्वा शक्तिं परिग्रहेत्

p1.31

पानभेदं फलोल्लासप्रमाणं स्थितिलक्षणम् ।
तत्त्वत्रयस्य स्वीकारं ज्ञात्वा कुलसुधां पिबेत्

p1.32

चक्रप्रवेशं प्रणति स्थिति निर्गमनं प्रिये ।
योगिनीभोगचेष्टादि ज्ञात्वा भवति कौलिकः

p1.33

रत्युल्लासनकालञ्च कुलदीपनिवेदनम् ।
शान्तस्तवादिपठनं ज्ञात्वा स्यात् कुलदेशिकाः

p1.34

मिथुनानुग्रहाष्टाष्टपुष्पिणीकन्यकार्च्चनाम् ।
विशेषतिथिपूजाञ्च ज्ञात्वा कर्माणि साधयेत्

p1.35

आम्नायभेदं सङ्केतं पुष्पसङ्कोचमेव च ।
गुरुत्रयं सम्प्रदाय ज्ञात्वा कर्माणि साधयेत्

p1.36

श्रौतविद्याकुलाचारं मनुभेदञ्च पादुकाम् ।
चरणत्रितयं देवि ज्ञात्वा कर्माणि साधयेत्

p1.37

स्वाधिकस्य समन्यूनकौलिकाराधनक्रमम् ।
सिद्धमुद्राधरार्चादि ज्ञात्वा कर्माणि साधयेत्

p1.38

गुर्वग्निप्रेतसंस्कारमन्त्येष्टिं दिग्बलिक्रमम् ।
मोक्षदीपविधानादि ज्ञात्वा कर्माणि साधयेत्

p1.39

इत्याद्याः कथिताः किञ्चिद्विशेषाः कुलनायिके ।
सर्वेषामेव मन्त्राणां विधिः साधारणक्रमः

p1.40

मन्त्राः पुरुषदेवाः स्युवीद्याः स्त्रीदेवताः प्रिये ।
मन्त्राः पुंसो हुंफडन्ताः प्राणे चरति दक्षिणे ।
प्रबुध्यन्तेऽग्निजायान्ता विद्याः स्त्रीदेवताः प्रिये

p1.41

वामे प्राणे प्रबुध्यन्ते नमोऽन्ताः स्युर्नपुंसकाः ।
नाडीद्वयगते प्राणे सर्वे बोधं प्रयान्ति च

p1.42

शान्तिके मनवः सौम्या भूयिष्ठेन्द्वमृताक्षराः ।
स्वाहान्ताः स्युवीयत्प्रायाश्चाग्नेयाः क्रूरकर्मसु

p1.43

फट् च पुष्टौ वषट् वश्ये हुंफट् चैव तु मारणे ।
स्तम्भने च नमः प्रोक्तं स्वाहा शान्तिकपौष्टिके

p1.44

होमतर्पणयोः स्वाहा न्यासपूजनयोर्नमः ।
मन्त्रान्ते योजयेन्मन्त्री जपकाले यथास्थितम्

p1.45

शान्तिके राजतं ताम्रं भूर्जपत्रन्तु वश्यके ।
सर्वकार्येषु सौवर्णे क्रूरे स्यात् प्रेतकर्पटम्

p1.46

त्रिगन्धं शान्तिके प्रोक्तं पञ्चगन्धञ्च वश्यके ।
सर्वकार्यंष्वष्टगन्धं क्रूरे चाष्टविषाणि च

p1.47

शान्तके लेखनी दूर्वा वश्यादौ शिखिपुच्छिका ।
हेम्ना तु सर्वकार्याणि क्रूरे स्यात् काकपुच्छिका

p1.48

स्वगृहे शान्तिकर्मं स्याद्वश्याद्यं चण्डिकालये ।
सर्वकार्यं देवगृहे श्मशाने क्रूरकर्म च

p1.49

लक्षणान्येवमादीनि ज्ञात्वा गुरुमुखात् प्रिये ।
सर्वकर्माणि कुर्वीत मन्त्री तत्तत्फलाप्तये

p1.50

मूले प्रासादबीजञ्च तरुणादित्यसन्निभम् ।
उत्तमाङ्गे पराबीजं चन्द्रायुतसमप्रभम्

p1.51

परस्परजनस्पर्शजनितानन्दनिर्भरः ।
मूलादिब्रह्मरन्ध्रान्तं अनवच्छिन्नरूपिभिः

p1.52

परामृतरसासेकैः सिक्तमापादमस्तकम् ।
आत्मानं भावयेन्नित्यं स भवेदजरामरः

p1.53

एवं ध्यात्वा कुलेशानि सर्वकर्माणि साधयेत् ।
सिध्यन्ति तरसा देवि नात्र कार्या विचारणा

p1.54

ध्यानभेदं प्रवक्ष्यामि सर्वसिद्धिकरं प्रिये ।
ईप्सितं लभते येन पूजाहोमादिकं विना

p1.55

स्थाने मनोहरे देवि साधकः स्थिरमानसः ।
स्थितो मृद्वासने ध्यायेद् गुरुवन्दनपूर्वकम्

p1.56

मस्तकस्थितसम्पूर्णचन्द्रमण्डलमध्यगम् ।
श्रीप्रासादपराबीजं षोडशस्वरसंयुतम्

p1.57

शुद्धस्फटिककर्पूरकुन्देन्दुधवलं प्रिये ।
सच्चन्द्रबिम्बसञ्जातसुधाप्लावितविग्रहम्

p1.58

आत्मानं भावयेन्नित्यं निश्चलेनान्तरात्मना ।
सर्वारिष्टं विलीयेत शुभश्रीपुष्टिकारकम्

p1.59

श्रीप्रासादपरामन्त्रमष्टोत्तरसहस्रकम् ।
तरुणोल्लाससहितो मण्डलं पूजयेत् प्रिये

p1.60

अपमृत्युमहारोगजरामरणजं भयम् ।
ग्रहापस्मारवेतालभूतोन्मादादिजं भयम्

p1.61

जित्वाधिव्याधिरहितः पुत्रपौत्रसमन्वितः ।
जीवेद्वर्षशतं साग्रं पूजितः सर्वमानवः

p1.62

अश्रुतं बुध्यते शास्त्रं कविता निर्मला भवेत् ।
चिन्मयो जायते साक्षान्नात्र कार्या विचारणा

p1.63

ज्वरोन्मादादिरोगेषु जपेच्छिरसि चिन्तयन् ।
शूलवातव्रणग्रन्थिमूत्रकृच्छ्रादिसम्भवे ।
तत्तत्स्थानेषु देवेशि पूर्ववच्चिन्तयन् जपेत्

p1.64

महारोगेषु जातेषु सर्वाङ्गेषु विचिन्तयेत् ।
तत्क्षणाच्छान्तिमायान्ति रोगाः सर्वे न संशयः

p1.65

दशेन्द्रियेषु यो ध्यायेल्लभेदिन्द्रियसौष्ठवम् ।
यत्र बीजं स्मरेत्तत्र तत्फलं भवति ध्रुवम्

p1.66

सदा यश्चिन्तयेन्मूध्नी स भवेदजरामरः ।
सर्वरोगप्रहरणं विद्यारोग्यप्रदं प्रिये

p1.67

अस्मात् परतरध्यानं नास्ति सत्यं न संशयः ।
सात्त्विकध्यानजं देवि फलमेतदुदीरितम्

p1.68

शान्तिकर्माणि सर्वाणि विधिनानेन कारयेत् ।
विधिनानेन देवेशि सौभाग्यमतुलं भवेत्

p1.69

द्वादशाधारपद्मेषु द्वादशस्वरसंयुतम् ।
बीजं सञ्चिन्तयेद् यस्तु स भवेदजरामरः

p1.70

षडाधारेषु षड्दीर्घयुक्तं बीजं विचिन्तयेत् ।
षडाधारस्थदेवीभिः पूज्यते कुलनायिके

p1.71

हृत्पद्मकणीकामध्ये सूर्यमण्डलसंस्थितम् ।
पराप्रासादबीजन्तु तरुणारुणसन्निभम्

p1.72

जवाबन्धूकसिन्दूरपद्मरागप्रभोज्ज्वलम् ।
पञ्चविशतिभिः स्पर्शाक्षरैः संवीतमम्बिके

p1.73

तत्प्रभापटलच्छायाव्यक्तीकृतजगत्त्रयम् ।
आत्मानञ्च स्मरेद्देवि निश्चलेनान्तरात्मना

p1.74

पराप्रासादबीजन्तु तरुणोल्लाससंयुतः ।
अष्टोत्तरसहस्रन्तु मण्डलं प्रजपेत् सुधीः

p1.75

देवदानवगन्धर्वसिद्धकिन्नरगुह्यकान् ।
विद्याधरान्मुनीन् यक्षान् नागानप्सरसः स्त्रियः

p1.76

सिंहव्याघ्रोरगेन्द्रादीनन्यान् दुष्टमृगानपि ।
वश्यान् करोत्यसन्देहं किं पुनर्मानवादिकान्

p1.77

महदैश्वर्यमाप्नोति स्वर्गभोगादिकं प्रिये ।
यस्य मूध्नी स्मरन् जप्यात् स वश्यो जायते हठात्

p1.78

राजसध्यानजं देवि फलमेतदुदीरितम् ।
वश्यकर्माणि सर्वाणि विधिनानेन कारयेत्

p1.79

सर्ववश्यकरं देवि सर्वैश्वर्यफलप्रदम् ।
अस्मात् परतरं ध्यानं नास्ति सत्यं न संशयः

p1.80

लिखेत्त्रिकोणं षट्कोणं अष्टारञ्च महीपुरम् ।
मूलमन्त्रं लिखेन्मध्ये साध्यनामसमन्वितम्

p1.81

षट्कोणेषु षडङ्गानि विलिखेत् परमेश्वरि ।
केशरेषु स्वरानष्टौ वर्गान् पत्रेषु पार्वति

p1.82

भूगृहस्य चतुष्कोणे विलिखेन्मूलमम्बिके ।
पञ्चवर्णरजोभिश्च शुभं दृष्टिमनोहरम्

p1.83

एवं यन्त्रं समालिख्य विधिवन्मन्त्रवित्तमः ।
एकत्रिषड्वसुचतुःकलसान् स्थापयेत् प्रिये

p1.84

मध्यादिचतुरस्रान्तं द्वात्रिंशत् कलसान् प्रिये ।
अथवाष्टादशेशानि सप्त वा दश वा प्रिये

p1.85

चतुरो वाप्यथैकं वा कुर्यात् साधकसत्तमः ।
अस्थिरक्तशिरातन्तुमृण्मांसं रुधिरं जलम्

p1.86

चर्मवस्त्रशिलाकूर्मनारिकेलफलं शिरः ।
मन्त्रप्राणसमायुक्तां यजेत् कलसदेवताम्

p1.87

सावित्रीनापराङ्गानि मातरोज् भैरवान्विताः ।
विदिक्षु गुरुविघ्नेशदुर्गाक्षेत्रपतीन् प्रिये

p1.88

कलसेषु समभ्यर्च्य विधिवन्मन्त्रवित्तमः ।
अभिषिञ्चेत् प्रियं शिष्यं सर्वपापप्रशान्तये

p1.89

आयुः श्रीकान्तिसौभाग्यविद्यारोग्यादिकं भवेत् ।
राजाभिषिक्तो लभते चतुःसागरगां महीम्

p1.90

अकिञ्चनोऽभिषिक्तश्च महदैश्वर्यमाप्नुयात् ।
वन्ध्याभिषिक्ता लभते पुत्रं सर्वगुणान्वितम्

p1.91

भूतापमृत्युरोगाद्या विनश्यन्ति न संशयः ।
त्रिलौहे वापि भूर्जे वा लिखित्वा यन्त्रमुत्तमम्

p1.92

विधृतं बाहुना देवि सर्वरक्षाकरं भवेत् ।
आयुरारोग्यमैश्वर्यं विद्यालाभं यशो जयम्

p1.93

यद् यत् स्वमनसोऽभीष्टं तत्तदाप्नोत्यसंशयः ।
खड्गवश्यं वयःस्तम्भं यक्षिण्यञ्जनपादुकाम्

p1.94

अणिमाद्यष्टसिद्ध्यादि महारसरसायनम् ।
सञ्जीवयोगगुटिकाप्रमुखाखिलसिद्धयः

p1.95

पराप्रासादमन्त्रज्ञैर्दृश्यन्ते नात्र संशयः ।
षट् कर्माणि प्रयुञ्जीत नान्यथा भवति प्रिये

p1.96

पीतद्रव्यैर्हरिद्राद्यैः समित्पत्रफलादिभिः ।
जुहुयात् पूर्ववन्मन्त्री देवताध्यानतत्परः

p1.97

वाक्श्रोत्रगतिदृक्सेनानदीग्रहरिपून् प्रिये ।
नानादुष्टमृगान् देवि स्तम्भयेन्नात्र संशयः

p1.98

ग्रहवेगादिदुष्टानां विनाशनकरं प्रिये ।
अस्मात् परतरं ध्यानं नास्ति सत्यं न संशयः

p1.99

तामसध्यानजं देवि फलमेतदुदीरितम् ।
दुष्टमारणकर्माणि विधिनानेन साधयेत्

p1.100

इत्यादि ध्यानभेदेन ज्ञात्वा गुरुमुखात् प्रिये ।
षट् कर्माणि प्रयुञ्जीत नान्यथा वीरवन्दिते

p1.101

खदिरश्वेतमन्दारसितभानुसमिद्वरैः ।
पलाशोदुम्बराश्वत्थप्लक्षापामार्गसत्वचैः

p1.102

नन्द्यावर्त्तसिताम्भोजहयारिकुसुमादिभिः ।
सितैरन्यैः शुभैर्द्र्रव्यैः समित्पत्रफलान्तरः

p1.103

भक्ष्यैश्च पायसैर्दूर्वासहितैस्तिलतण्डुलैः ।
मधुरत्रयसंयुक्तैर्मन्त्रवित् कुलनायिके

p1.104

एकेन वाथ सर्वैर्वा तत्कार्यगुरुलाघवम् ।
ज्ञात्वा देवि सहस्रन्तु जुहुयादथ पञ्च वा

p1.105

अयुतं नियुतं वापि प्रयुतं वा कुलेश्वरि ।
तत्तत्कर्मोदिते कुण्डे संस्कृते हव्यवाहने

p1.106

आवाह्य देवतामस्मिन् ध्यात्वा सावरणां प्रिये ।
विधिवज्जुहुयाद्देवि तद्गतेनान्तरात्मना

p1.107

सर्वरोगव्रणोन्मादापस्मारोत्पातयक्ष्मजम् ।
सर्वदुःखप्रशमनं तत्क्षणान्नात्र संशयः

p1.108

अनेन सर्वशान्तिञ्च ज्ञानं विद्यां लभेत् प्रिये ।
कदम्बाशोकवकुलपुन्नागाम्रमधूकजैः

p1.109

चम्पकद्वयपालाशपाटलश्रीकपित्थकैः ।
मालतीमल्लिकाजातिबन्धूकारुणपङ्कजैः

p1.110

कल्हारारुणमन्दारयूथिकुन्दजवादिभिः ।
सनारिकेलकदलीद्राक्षेक्षुपृथुकैरपि

p1.111

चन्दनागुरुकर्पूररोचनाकुंकुमादिभिः ।
रक्तैरन्यैः शुभद्रव्यैः समिधृतफलोद्भवैः

p1.112

पूर्ववज्जुहुयाद्देवि विधिवन्मन्त्रवित्तमः ।
महीपतींश्च पुरुषान् कान्ता यौवनगवीताः

p1.113

सिंहान् मत्तान् तथा व्याघ्रान् मृगान् दुष्टान् गजानपि ।
सिद्धदेवाप्सरोयक्षगन्धर्ववनितास्तथा ।
देवानपि कुलेशानि वशयेन्नात्र संशयः

p1.114

वाजीलवणहोमेन स्त्रियमाकर्षयेद् ध्रुवम् ।
विधिनानेन देवेशि सौभाग्यमुत्तमं लभेत्

p1.115

बहुनात्र किमुक्तेन त्रिषु लोकेषु मन्त्रिणाम् ।
अनेन मन्त्रराजेन नासाध्यं विद्यते क्वचित्

p1.116

ऊर्ध्वाम्नायैकनिष्णातः पराप्रासादमन्त्रवित् ।
कुलार्णवार्थतत्त्वज्ञो जीवन्मुक्तः कुलेश्वरि

p1.117

सुतीर्थे वाप्यतीर्थे वा जलमध्येऽपि वा वसन् ।
पराप्रासादमन्त्रज्ञो मुक्त एव न संशयः

p1.118

दिक्पीठक्षेत्रमुद्रादिवृक्षवल्लीमठादिकाः ।
ज्ञेया भैरवदेव्यश्च ऊर्ध्वाम्नायस्य पार्वति

p1.119

निम्बकारस्करोन्मत्तकण्टकीविप्रदन्तिभिः ।
अस्थिकण्टकवृक्षाद्यैर्द्रव्यैरशुभसाधनैः

p1.120

वटुकैः कृष्णवर्णैश्च समित्पत्रफलान्तरैः ।
गृहधूमचिताङ्गारत्रिकट्वम्लचिताञ्जनैः

p1.121

उन्मत्तरससंसिक्तै पिष्ट्वा सम्यक् प्रसेचितैः ।
साध्यपादरजोभिश्च चिताभस्मसमन्वितैः

p1.122

साध्यप्रतिकृतिं कुर्यादेकनक्षत्रवृक्षजाम् ।
सम्यक्प्रतिष्ठितप्राणां कुण्डस्योपरि लम्बयेत्

p1.123

खनेत्तत्प्रतिमां मन्त्री कुण्डस्याधो यथाविधि ।
मलीमसेन मनसा चोग्रदृष्टिरमर्षणः

p1.124

चितानले विषतरु सप्तकाष्ठसमेधिते ।
तद्द्रव्यैर्जुहुयाद्देवि विधिवन्मन्त्रवित्तमः

p1.125

कुर्याद्विद्वेषणोच्चाटमारणानि न संशयः ।
शान्तिके सात्त्विकं देवि श्वेतवर्णं विचिन्तयेत्

p1.126

वश्ये तु राजसं देवि रक्तवर्णं विचिन्तयेत् ।
तामसं क्रूरकार्येषु कृष्णवर्णं विचिन्तयेत्

p1.127

आत्मरक्षां पुरा कृत्वा पश्चात् कर्माणि साधयेत् ।
योऽन्यथा कुरुते मोहात् स भवेद्देवतापशुः

p1.128

तस्माद्देवि महाषोढान्यासं पूजां बलिं सुधीः ।
कृत्वा कर्माणि कुर्वीत नान्यथा वीरवन्दिते

p1.129

मूलाधारसरोजान्तर्वह्निमध्यगतं प्रिये ।
पराप्रासादबीजं तत् कल्पान्ताग्निसमप्रभम्

p1.130

प्रतिलोमसु संवीतं दशभिर्व्यापकाक्षरैः ।
स्वयं कालानलसमः सर्वभूतभयङ्करः

p1.131

दक्षिणाशामुखो भूत्वात्युग्रदृष्टिमलीमसः ।
यौवनोल्लाससहितः पराप्रासादसंज्ञकम्

p1.132

मन्त्रं मण्डलकं जप्यादष्टोत्तरसहस्रकम् ।
अनिष्टकारिणः सत्त्वान् कलहायासकारिणः

p1.133

वृथा द्वेषकरान् क्रूरान् सपर्याविघ्नकारिणः ।
भूतोपग्रहवेतालान् पिशाचान् यक्षराक्षसान्

p1.134

इत्यादिदुष्टजन्तूंश्च सदा क्लेशकरान् परान् ।
तद्वह्निमध्यपतितान्निर्दग्धांश्च चिन्तयेत् ।
क्षणेन नाशमायान्ति शलभा इव पावके

p1.135

यस्यमूध्नी स्मरेद्बीजं स मृत्युमधिगच्छति ।
ध्यानेनानेन देवेशि कालादीनपि नाशयेत्

p1.136

इति ते कथितः किञ्चित् काम्यकर्मविधिः प्रिये ।
समासेन कुलेशानि कि भूयः श्रोतुमिच्छसि

p1.16

॥ इति श्रीकुलार्णवे निर्वाणमोक्षद्वारे महारहस्ये सर्वागमोत्तमोत्तमे
सपादलक्षग्रन्थे पञ्चमखण्डे ऊर्ध्वाम्नायतन्त्रे
काम्यकर्मकथनं नाम षोडशोल्लासः

p1.1

अथ सप्तदशोल्लासः
श्री देव्युवाच
कुलेश श्रोतुमिच्छामि गुरुनामादिवासनाम् ।
तत्त्वं कुलपदार्थानां वद मे परमेश्वर

p1.2

ईश्वर उवाच
शृणु देवि प्रवक्ष्यामि यन्मां त्वं परिपृच्छसि ।
तस्य श्रवणमात्रेण कुलज्ञानं प्रकाशते

p1.3

नमस्ते नाथ भगवन् शिवाय गुरुरूपिणे ।
विद्यावतारसंसिद्ध्यै स्वीकृतानेकविग्रह

p1.4

नारायणस्वरूपाय परमात्मस्वरूपिणे ।
सर्वाज्ञानतमोभेदभानवे चैतन्याय च

p1.5

सर्वज्ञाय दयाकॢप्तविग्रहाय शिवात्मने ।
परत्रेह च भक्तानां भव्यानां भावदायिने

p1.6

पुरस्तात् पार्श्वयोः पृष्ठे नमः कुर्यामुपर्यधः ।
सदा सच्चित्तरूपेण विधेहि तव दासताम्

p1.7

गुशब्दस्त्वन्धकारः स्यात् रुशब्दस्तन्निरोधकः ।
अन्धकारनिरोधत्वात् गुरुरित्यभिधीयते

p1.8

गकारः सिद्धदः प्रोक्तो रेफः पापस्य दाहकः ।
उकारो विष्णुरित्युक्तस्त्रितयात्मा गुरुः परः

p1.9

गकारो ज्ञानसम्पत्ती रेफस्तत्र प्रकाशकः ।
उकारः शिवतादात्म्यं गुरुरित्यभिधीयते

p1.10

गुह्यागमात्मतत्त्वान्धनद्धानां बोधनादपि ।
रुद्रादिदेवरूपत्वाद् गुरुरित्यभिधीयते

p1.11

स्वयमाचरते शिष्यानाचारे स्थापयत्यपि ।
आचिनोतीह शास्त्रार्थानाचार्यस्तेन कथ्यते

p1.12

चराचरसमासन्नमध्यापयति यः स्वयम् ।
यमादियोगसिद्धत्वादाचार्य इति कथ्यते

p1.13

आत्मभावप्रदानात्तु रागद्वेषादिवर्ज्जनात् ।
ध्यानैकनिष्ठाचित्तत्वादाराध्य इति कथ्यते

p1.14

देवतारूपधारित्वाच्छिष्यानुग्रहकारणात् ।
करुणामयमूत्तीत्वाद्देशिकः कथितः प्रिये

p1.15

स्वान्तःशान्तिसमुन्मीलत्परतत्त्वार्थचिन्तनात् ।
मिथ्याज्ञानविहीनत्वात् स्वामीति कथितः प्रिये

p1.16

मनोदोषादिदूरत्वाद्धेतुवादादिवर्ज्जनात् ।
श्वादिप्राणिषु सादृश्याद् रम्यत्वाच्च महेश्वरः

p1.17

श्रीमोक्षज्ञानदातृत्वान्नादब्रह्मात्मबोधनात् ।
स्थगिताज्ञानचिह्नत्वात् श्रीनाथः कथितः प्रिये

p1.18

देशकालाविरोधेन वर्त्तमानात् कुलागमे ।
वशीकृतजगज्जीवाद्देव इत्यभिधीयते

p1.19

भवपाशप्रशमनात् टङ्कारेन्दुकशेखरात् ।
रक्षणात् कमनीयत्वात् भट्टारक इतीरितः

p1.20

प्रगुप्तागमवेदान्तरहस्यार्थविभावनात् ।
भुक्तिमुक्तिप्रदानाच्च प्रभुरित्यभिधीयते

p1.21

योनिमुद्रानुसन्धानात् प्रस्फुरन्मन्त्रवैभवात् ।
गीर्वाणगणपूज्यत्वाद् योगीति कथितः प्रिये

p1.22

सङ्गदुःखपरित्यागात् यत्र कुत्राश्रमाश्रयात् ।
मिथ आत्मनिबन्धत्वात् संयमीत्यभिधीयते

p1.23

तत्त्वस्वरूपमननात् परिवादादिवजीतात् ।
स्वीकारात् शुभकार्याणां तपस्वीत्यभिधीयते

p1.24

अक्षरत्वाद्वरेण्यत्वाद्धूतसंसारबन्धनात् ।
तत्त्वमस्यर्थसिद्धत्वात् अवधूतोऽभिधीयते

p1.25

वीतरागमदक्लेशकोपमात्सर्यमोहतः ।
रजस्तमोविदूरत्वाद्वीर इत्यभिधीयते

p1.26

कुलं गोत्रं समाख्यातं तच्च शक्तिशिवोद्भवम् ।
येन मोक्ष इति ज्ञानं कौलिकः सोऽभिधीयते

p1.27

अकुलं शिव इत्युक्तं कुलं शक्तिः प्रकीत्तीता ।
कुलाकुलानुसन्धानान्निपुणाः कौलिकाः प्रिये

p1.28

सारसंग्रहणाच्चैव धर्ममार्गप्रवर्त्तनात् ।
करणग्रामनियमात् साधकः सोऽभिधीयते

p1.29

भजनात् परया भक्त्या मनोवाक्कायकर्मभिः ।
तरत्यखिलदुःखानि तस्माद्भक्त इतीरितः

p1.30

शरीरमर्थं प्राणांश्च सद्गुरुभ्यो निवेद्य यः ।
गुरुभ्यः शिक्षते योगं शिष्य इत्यभिधीयते

p1.31

योनिमुद्रानुसन्धानात् गिरिजापादसेवनात् ।
निर्लीनोपाधिविभवाद् योगिनीत्यभिधीयते

p1.32

शतकोटिमहादिव्ययोगिनीप्रीतिकारणात् ।
तीव्रमुक्तिप्रदानाच्च शक्तिरित्यभिधीयते

p1.33

पालनाद्दुरितच्छेदात् कामितार्थस्य वर्द्धनात् ।
पादुकेति समाख्याता मम तत्त्वं तव प्रिये

p1.34

जन्मान्तरसहस्रेषु कृतपापप्रणाशनात् ।
परदेवप्रकाशाच्च जप इत्यभिधीयते

p1.35

स्तोकस्तोकेन मनसः परमप्रीतिकारणात् ।
स्तोतृसन्तारणाद्देवि स्तोत्रमित्यभिधीयते

p1.36

यावदिन्द्रियसन्तापं मनसा संनियम्य च ।
स्वान्तेनाभीष्टदेवस्य चिन्तनं ध्यानमुच्यते

p1.37

चरितार्थविकाशाच्च रक्षणादपि पार्वति ।
नरनारीस्वरूपाच्च चरणं कथितं प्रिये

p1.38

वेदिताऽखिलशास्त्रार्थसद्धर्मार्थनिरूपणात् ।
दर्शनानां प्रमाणत्वाद्वेद इत्यभिधीयते

p1.39

पुण्यपापादिकथनाद्राक्षसादिनिवारणात् ।
नवभक्त्यादिजननात् पुराण इति कथ्यते

p1.40

शासनादनिशं देवि वर्णाश्रमनिवासिनाम् ।
तारणात् सर्वपापेभ्यः शास्त्रमित्यभिधीयते

p1.41

स्मरणोत्सुकनिष्ठानां धर्माधर्मनिरूपणात् ।
तिमिरोत्पाटनाद्देवि स्मृतिरित्यभिधीयते

p1.42

इष्टधर्मादिकथनात्तिमिराज्ञानभञ्जनात् ।
हरणात् सर्वदुःखानां इतिहास इति स्मृतः

p1.43

आचारकथनाद्दिव्यगतिप्राप्तिनिदानतः ।
महात्मतत्त्वकथनादागमः कथितः प्रिये

p1.44

शाकिनीगणपूज्यत्वात्तारणाद्भववारिधे ।
परादिशक्तिसान्निध्याच्छाक्त इत्यभिधीयते

p1.45

कौमारादिनिरोधत्वात् लयजन्मादिभञ्जनात् ।
अशेषकुलसम्बन्धात् कौल इत्यभिधीयते

p1.46

पाशच्छेदकराद्देवि रञ्जनात् परतेजसः ।
यतिभिश्चिन्त्यमानत्वात् परम्पर्यमितीरितम्

p1.47

संसारसारभूतत्वात् प्रकाशानन्ददानतः ।
यशः सौभाग्यकरणात् सम्प्रदाय इतीरितः

p1.48

आदित्वात् सर्वमार्गाणां मनोल्लासप्रवर्द्धनात् ।
यज्ञादिधर्महेतुत्वादाम्नाय इति कीतीतः

p1.49

श्रुतानेकमहामन्त्रयन्त्रतन्त्रादिदैवतात् ।
श्रुतौ यदनविच्छिन्नाच्छ्रौत इत्यभिधीयते

p1.50

आम्नायतत्त्वरूपत्वाच्चातुर्यार्थनिरूपणात् ।
रागद्वेषादिशमनादाचार इति कीर्त्त्यते

p1.51

दिव्यभावप्रदानाच्च क्षालनात् कल्मषस्य च ।
दीक्षेति कथिता सद्भिर्भवबन्धविमोचनात्

p1.52

अहम्भावहराद्भीतिमथनात् सेचनादपि ।
कम्पानन्दादिजननादभिषेक इति स्मृतः

p1.53

उल्बणत्वात् परत्वाच्च देवताप्रीतिदानतः ।
शक्तिपातनिमित्तादप्युपदेश इति स्मृतः

p1.54

मननात्तत्त्वरूपस्य देवस्यामिततेजसः ।
त्रायते सर्वभयतस्तस्मान्मन्त्र इतीरितः

p1.55

देहमास्थाय भक्तानां वरदानाच्च पार्वति ।
तापत्रयादिशमनाद्देवता परिकीत्तीता

p1.56

न्यायोपाजीतवित्तानामङ्गेषु विनिवेशनात् ।
सर्वरक्षाकराद्देवि न्यास इत्यभिधीयते

p1.57

मुदं कुर्वन्ति देवानां मनांसि द्रावयन्ति च ।
तस्मान्मुद्रा इति ख्याता दशीतव्याः कुलेश्वरि

p1.58

अनन्तफलदानाच्च क्षपिताशेषकल्मषात् ।
मातृकात्मतया लाभकरणादक्षमालिका

p1.59

मङ्गलत्वाच्च डाकिन्या योगिनीगणसंश्रयात् ।
ललितत्वाच्च देवेशि मण्डलं परिकीत्तीतम्

p1.60

कमलासनरूपत्वाल्लघुतत्त्वादिनाशनात् ।
शमितापारपापाच्च कलशः परिकीत्तीतः

p1.61

यमभूतादिसर्वेभ्यो भयेभ्योऽपि कुलेश्वरि ।
त्रायते सततञ्चैव तस्माद् यन्त्रमितीरितम्

p1.62

आत्मसिद्धिप्रदानाच्च सर्वरोगनिवारणात् ।
नवसिद्धिप्रदानाच्च आसनं कथितं प्रिये

p1.63

मायाजालादिशमनान्मोक्षमार्गनिरूपणात् ।
अष्टदुःखादिविरहान् मद्यमित्यभिधीयते

p1.64

महादानार्थरूपत्वाद् यागभूम्येककारणात् ।
मद्भावजननाद्देवि मद्यमित्यभिधीयते

p1.65

सुमनसः सेवितत्वाद् राज्यदत्वात् सदा प्रिये ।
सुराकारप्रदानत्वात् सुरेति परिकीत्तीता

p1.66

अमृतांशुस्वरूपत्वान्मृत्युभीतिनिवारणात् ।
तत्त्वप्रकाशहेतुत्वादमृतं कथितं प्रिये

p1.67

पानाङ्गविश्वरूपत्वात्त्रिचतुष्ककलाश्रयात् ।
पतितत्राणनाद्देवि पात्रमित्यभिधीयते

p1.68

आशुशुक्षणिरूपत्वाद्धातृदेवप्रियादपि ।
रक्षणादपि चाधेयस्याधारं तु विदुर्बुधाः

p1.69

माङ्गल्यजननाद्देवि संविवदानन्ददानतः ।
सर्वदेवप्रियत्वाच्च मांस इत्यभिधीयते

p1.70

पूर्वजन्मानुशमनाज्जन्ममृत्युनिवारणात् ।
सम्पूर्णफलदानाच्च पूजेति कथिता प्रिये

p1.71

अभीष्टफलदानाच्च चतुर्वर्गफलाश्रयात् ।
नन्दनात् सर्वदेवानामर्चनं समुदाहृतम्

p1.72

तत्त्वात्मकस्य देवस्य परिवारवृतस्य च ।
नवानन्दप्रजननात्तर्पणं समुदाहृतम्

p1.73

गम्भीरापारदौर्भाग्यक्लेशनाशनकारणात् ।
धर्मज्ञानप्रदानाच्च गन्ध इत्यभिधीयते

p1.74

आघ्राणनप्रजननान् मोक्षमार्गप्रदर्शनात् ।
दग्धदुःखादिदमनादामोद इति कथ्यते

p1.75

अन्नदानात् कुलेशानि क्षपिताशेषकल्मषात् ।
तादात्म्यकरणाद्देवि अक्षताः परिकीत्तीताः

p1.76

पुण्यसंवर्द्धनाच्चापि पापौघपरिहारतः ।
पुष्कलार्थप्रदानाच्च पुष्पमित्यभिधीयते

p1.77

धूताशेषमहादोषपूतिगन्धप्रभावतः ।
परमानन्दजननाद्धूप इत्यभिधीयते

p1.78

दीर्घाज्ञानमहाध्वान्ताहङ्कारपरिवर्जनात् ।
परतत्त्वप्रकाशाच्च दीप इत्यभिधीयते

p1.79

मोहध्वान्तप्रशमनात् क्षयातीविनिवारणात् ।
दिव्यरूपप्रदानाच्च परतत्त्वप्रकाशनात् ।
ख्यातो मोक्षो दीप इति मोक्षमार्गैकसाधनः

p1.80

चतुवीधं कुलेशानि द्रव्यञ्च षड्रसान्वितम् ।
निवेदनाद्भवेत्तृप्तिर्नैवेद्यं समुदाहृतम्

p1.81

बहुप्रकारविचरद् भूतौघप्रीतिकारणात् ।
लिप्तपापप्रशमनाद् बलिरित्यभिधीयते

p1.82

तत्त्वत्रयविशुद्धिः स्यात्त्वत्सेवामात्रतः प्रिये ।
तत्त्वप्रकाशहेतुत्वात्तत्त्वत्रयमितीरितम्

p1.83

चतुर्वर्गफलावापात् लुण्ठिताज्ञानबन्धनात् ।
कल्याणधर्ममूलत्वाच्चलुकं कथितं प्रिये

p1.84

प्रकाशानन्दजननात् सामरस्यप्रदानतः ।
दर्शनात् परतत्त्वस्य प्रसाद इति कथ्यते

p1.85

पाशसञ्छेदनाद्देवि नरकस्य निवारणात् ।
पाबनात् परमेशानि पानमित्यभिधीयते

p1.86

कर्मणा मनसा वाचा सर्वावस्थासु सर्वदा ।
समीपसेवा विधिवत् उपास्तिरिति कथ्यते

p1.87

पञ्चाङ्गोपासनेनेष्टदेवता प्रीतिदानतः ।
पुरश्चरति भक्तस्य तत् पुरश्चरणं प्रिये

p1.88

आवाहनादिकर्माणि षोडश द्वादशावधि ।
विधिनाचरणं प्रोक्तं उपहारमिति स्मृतम्

p1.89

सम्पूज्य सावृतिं देवं षोडशैरुपचारकैः ।
स्वस्थानप्रेषणं प्रोक्तं मृद्वासनमिति प्रिये

p1.90

देवं पूजार्थमाह्वानमावाहनमिति स्मृतम् ।
आसने सन्निवेशः स्यात् स्थापनं कुलनायिके

p1.91

अन्योन्यसम्मुखाकारः सन्निधापनमीरितम् ।
यत्र कुत्राप्यचलनं सन्निरोधनमीरितम्

p1.92

देवताङ्गे षडङ्गानां न्यासः स्यात् सकलीकृतिः ।
आच्छादनं समुद्दिष्टमवगुण्ठनमीरितम्

p1.93

दर्शनं धेनुमुद्राया अमृतीकरणं प्रिये ।
क्षमस्वेत्यञ्जलिर्द्देवि परमीकरणं प्रिये ।
स्वागतं कुशलप्रश्नं निगदेद्देवताग्रतः

p1.94

पाद्यं श्यामाकदूर्वाब्जविष्णुक्रान्ताभिरुच्यते ।
जातालवङ्गकक्कोलैरुक्तमाचमनीयकम्

p1.95

अखिलाघप्रशमनार्द्धनपुत्रविवर्द्धनात् ।
अनर्घफलदानाच्च अर्घ्यमित्यभिधीयते

p1.96

सिद्धार्थमक्षतञ्चैव कुशाग्रं तिलमेव च ।
यवं गन्धः फलं पुष्पमष्टाङ्गार्घ्यं प्रकीत्तीतम्

p1.97

मध्वाज्यदधिभिः प्रोक्तो मधुपर्कः कुलेश्वरि ।
देहप्रक्षालनं स्नानं सुगन्धिसलिलैः सह

p1.98

चन्द्राचन्दनकस्तूरीकालागुरुभिरुच्यते ।
अष्टाङ्गप्रणिपातन्तु कथितं वन्दनं प्रिये

p1.99

एतच्चराचरं सर्वं क्षेत्रमित्यभिधीयते ।
तत् क्षेत्रं पालितं येन क्षेत्रपालः स उच्यते

p1.100

इति ते कथिता किञ्चिद् गुरुनामादिवासना ।
समासेन महेशानि यो जानाति स पूजकः

p1.101

रहस्यातिरहस्यानां रहस्योऽयं महेश्वरि ।
ऊर्ध्वाम्नायोऽयमाख्यातः समासेन सविस्तरात्

p1.102

कुलार्णवमिदं शास्त्रं योगिनीनां हृदि स्थितम् ।
प्रकाशितं मया चाद्य गोपनीयं प्रयत्नतः

p1.103

पुस्तकञ्च महेशानि पशुगेहे न निक्षिपेत् ।
न दद्यात् पशुहस्ते च न पठेत् पशुसन्निधौ ।
न पठेदासवोल्लासं ग्रन्थं भूमौ न निक्षिपेत्

p1.104

नित्यं सम्पूजयेद्भक्त्या जानीयाद् गुरुवक्त्रतः ।
नापुत्राय प्रवक्तव्यं नाशिष्याय कदाचन

p1.105

स्नेहाल्लोभाद्भयादुक्त्वा सोऽचिरान्नश्यति ध्रुवम् ।
देवि यद्विद्यते प्राज्ञे तत्तत् किञ्चिन्मयोदितम्

p1.106

साधकानां हितार्थाय भुक्तिमुक्तिफलेषिणाम् ।
यश्चोर्ध्वाम्नायमाहात्म्यं पठेत् श्रीचक्रसन्निधौ

p1.107

भक्त्या परमया देवि यः शृणोति स कौलिकः ।
व्रतं स्नानं तपस्तीर्थं यज्ञदेवार्चनादिषु

p1.108

तत् फलं कोटिगुणितं लभते नात्र संशयः ।
त्वत्सन्निधौ सन्निवसेन्नात्र कार्या विचारणा

p1.17

॥ इति श्रीकुलार्णवे निर्वाणमोक्षद्वारे महारहस्ये सर्वागमोत्तमोत्तमे
सपादलक्षग्रन्थे पञ्चमखण्डे ऊर्ध्वाम्नायतन्त्रे
काम्यकर्मकथनं नाम सप्तदशोल्लासः

स्रोतः
कुलार्णवतन्त्रम् (मुक्तबोध पुस्तकालयम्)

मूल पाठ: kulārṇavatantram · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc