भाषा

ENहिગુ
ग्रंथ पाठ

Kramastotra · श्लोक 21-29

21

तदित्थं ते तिस्रो निजविभवविस्फारणवशाद् अवाप्ताः षट्चक्रक्रमकृतपदं शक्तय इमाः ।
क्रमाद् उन्मेषेण प्रविदधति चित्रां भवदशाम् इमाभ्यो देवीभ्यः प्रवणहृदयः स्यां गतभयः ॥

22

इमां रुन्धे भूमिं भवभयभिदातङ्ककरणीम् इमां बोधैकान्तद्रुतिरसमयीम् चापि विदधे ।
तदित्थं संरोधं द्रुतिम् अथ विलुप्याशुभततीर् यथेष्टं चाचारं भजति लसतां सा मम हृदि ॥

23

क्रियाबुद्ध्यक्षादेः परिमितपदे मानपदवीम् अवाप्तस्य स्फारं निजनिजरुचा संहरति या ।
इयं मार्त.ङ्दस्य स्थितिपदयुजः सारम् अखिलम् हठाद् आकर्षन्ती कृशतु मम भेदं भवभयात् ॥

24

समग्राम् अक्षालीं क्रमविरहिता सात्मनि मुहुर् निवेश्यानन्तान्तर्बहलितमहारश्मिनिवहा ।
परा दिव्यानन्दं कलयितुम् उदारादरवती प्रसन्ना मे भूयात् हृदयपदवीं भूषयतु च ॥

25

प्रमाणे संलीने शिवपदलसद्वैभववशात् शरीरप्राणादिर् मितकृतकमातृस्थितिमयः ।
यदा कालोपाधिः प्रलयपदम् आसादयति ते तदा देवी यासौ लसति मम सा स्याच् छिवमयी ॥

26

प्रकाशाख्या संवित् क्रमविरहिता शून्यपदतो बहिर्लीनात्यन्तम् प्रसरति समाच्छादकतया ।
ततो ऽप्य् अन्तःसारे गलितरभसाद् अक्रमतया महाकाली सेयं मम कलयतां कालम् अखिलम् ॥

27

ततो देव्यां यस्यां परमपरिपूर्णस्थितिजुषि क्रमं विच्छिद्याशु स्थितिमतिरसात् संविदधति ।
प्रमाणं मातारं मितिम् अथ समग्रं जगद् इदं स्थितां क्रोडीकृत्य श्रयतु मम चित्तं चितिम् इमाम् ॥

28

अनर्गलस्वात्ममये महेशे तिष्ठन्ति यस्मिन् विभुशक्तयस् ताः ।
तं शक्तिमन्तं प्रणमामि देवं मन्थानसंज्ञं जगदेकसारम् ॥

29

इत्थं स्वशक्तिकिरणौघनुतिप्रबन्धान् आकर्ण्य देव यदि मे व्रजसि प्रसादम् ।
तेनाशु सर्वजनतां निजशासनांशुसंशान्तिताखिलतमःपटलां विधेयाः ॥

मूल पाठ: Kramastotra · Data entry Marino Faliero · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc