भाषा

ENहिગુ
ग्रंथ पाठ

Kramastotra · श्लोक 1-20

1

अयं दुःखव्रातव्रतपरिगमे पारणविधिर् महासौख्यासारप्रसरणरसे दुर्दिनम् इदम् ।
यद् अन्यन्यक्कृत्या विषमविशिखप्लोषणगुरोर् विभोः स्तोत्रे शश्वत् प्रतिफलति चेतो गतभयम् ॥

2

विमृश्य स्वात्मानं विमृशति पुनः स्तुत्यचरितं तथा स्तोता स्तोत्रे प्रकटयति भेदैकविषये ।
विमृष्टश् च स्वात्मा निखिलविषयज्ञानसमये तदित्थं त्वत्स्तोत्रे ऽहम् इह सततं यत्नरहितः ॥

3

अनामृष्टः स्वात्मा न हि भवति भावप्रमितिभाज् अनामृष्टः स्वात्मेत्य् अपि हि न विना ऽमर्शनविधेः ।
शिवश् चासौ स्वात्मा स्फुरद् अखिलभावैकसरसस् ततो ऽहम् त्वत्स्तोत्रे प्रवणहृदयो नित्यसुखितः ॥

4

विचित्रैर् जात्यादिभ्रमणपरिपाटीपरिकरैर् अवाप्तम् सार्वज्ञं हृदय यद् अयत्नेन भवता ।
तद् अन्तस् त्वद्बोधप्रसरसरणीभूतमहसि स्फुटम् वाचि प्राप्य प्रकटय विभोः स्तोत्रम् अधुना ॥

5

विधुन्वानो बन्धाभिमतभवमार्गस्थितिम् इमां रसीकृत्यानन्तस्तुतिहुतवहप्लोषितभेदाम् ।
विचित्रस्वस्फारस्फुरितमहिमारम्भरभसात् पिबन् भावान् एतान् वरद मदमत्तो ऽस्मि सुखितः ॥

6

भव प्राज्यैश्वर्यप्रथितबहुशक्तेर् भगवतो विचित्रं चारित्रं हृदयम् अधिशेते यदि ततः ।
कथं स्तोत्रं कुर्याद् अथ च कुरुते तेन सहसा शिवैकात्म्यप्राप्तौ शिवनतिर् उपायः प्रथमकः ॥

7

ज्वलद्रूपं भास्वत्पचनम् अथ दाहं प्रकटनम् विमुच्यान्यद् वह्नेः किम् अपि घटते नैव हि वपुः ।
स्तुवे संविद्रश्मीन् यदि निजनिजांस् तेन स नुतो भवेन् नान्यः कश्चिद् भवति परमेशस्य विभवः ॥

8

विचित्रारम्भत्वे गलितनियमे यः किल रसः परिच्छेदाभावात् परमपरिपूर्णत्वम् असमम् ।
स्वयं भासां योगः सकलभवभावैकमयताविरुद्धैर् धर्मौघैः परचितिर् अनर्घोचितगुणा ॥

9

इतीदृक्षैर् रूपैर् वरद विविधं ते किल वपुर् विभाति स्वांशे ऽस्मिन् जगति गतभेदं भगवतः ।
तद् एवैतत्स्तोतुं हृदयम् अथ गीर्बाह्यकरणप्रबन्धाश् च स्युर् मे सततम् अपरित्यक्तरभसः ॥

10

तवैवैकस्यान्तः स्फुरितमहसो बोधजलधेर् विचित्रोर्मिव्रातप्रसरणरसो यः स्वरसतः ।
त एवामी सृष्टिस्थितिलयमयस्फूर्जितरुचां शशाङ्कार्काग्नीनां युगपद् उदयापायविभवाः ॥

11

अतश् चित्राचित्रक्रमतदितरादिस्थितिजुषो विभोः शक्तिः शश्वद् व्रजति न विभेदं कथम् अपि ।
तद् एतस्यां भूमाव् अकुलम् इति ते यत् किल पदं तदेकाग्रीभूयान् मम हृदयभूर् भैरव विभो ॥

12

अमुष्मात् संपूर्नात् वत रसमहोल्लाससरसान् निजां शक्तिं भेदं गमयसि निजेच्छाप्रसरतः ।
अनर्घं स्वातन्त्र्यं तव तदिदम् अत्यद्भुतमयीं भवच्छक्तिं स्तुन्वन् विगलितभयो ऽहं शिवमयः ॥

13

इदन्तावद् रूपं तव भगवतः शक्तिसरसं क्रमाभावाद् एव प्रसभविगलत् कालकलनम् ।
मनःशक्त्या वाचाप्य् अथ करणचक्रैर् बहिर् अथो घटाद्यैस् तद्रूपं युगपद् अधितिष्ठेयम् अनिशम् ॥

14

क्रमोल्लासं तस्यां भुवि विरचयन् भेदकलनां स्वशक्तीनां देव प्रथयसि सदा स्वात्मनि ततः ।
क्रियाज्ञानेच्छाख्यां स्थितिलयमहासृष्टिविभवां त्रिरूपं भूयासं समधिशयितुं व्यग्रहृदयः ॥

15

पुरा सृष्टिर् लीना हुतवहमयी यात्र विलसेत् परोल्लासौन्मुख्यं व्रजति शशिसंस्पर्शसुभगा ।
हुताशेन्दुस्फारोभयविभवभाग् भैरवविभो तवेयं सृष्ट्याख्या मम मनसि नित्यं विलसताम् ॥

16

विसृष्टे भावांशे बहिर् अतिशयास्वादविरसे यदा तत्रैव त्वं भजसि रभसाद् रक्तिमयताम् ।
तदा रक्ता देवी तव सकलभावेषु ननु मां क्रियाद् रक्तापानक्रमघटितगोष्ठीगतघृणम् ॥

17

बहिर् वृत्तिं हातुं चितिभुवम् उदारां निवसितुं यदा भावाभेदं प्रथयसि विनष्टोर्मिचपलः ।
स्थितेर् नाशं देवी कलयति तदा सा तव विभो स्थितेः सांसारिक्याः कलयतु विनाशं मम सदा ॥

18

जगत्संहारेण प्रशमयितुकामः स्वरभसात् स्वशङ्कातङ्काख्यं विधिम् अथ निषेधं प्रथयसि ।
यमं सृष्ट्वेत्थं त्वं पुनर् अपि च शङ्कां विदलयन् महादेवी सेयं मम भवभयं संदलयताम् ॥

19

विलीने शङ्कौघे सपदि परिपूर्णे च विभवे गते लोकाचारे गलितविभवे शास्त्रनियमे ।
अनन्तं भोग्यौघं ग्रसितुम् अभितो लंपटरसा विभो संहाराख्या मम हृदि भिदांशं प्रहरतु ॥

20

तदित्थं देवीभिः सपदि दलिते भेदविभवे विकल्पप्राणासौ प्रविलसति मातृस्थितिर् अलम् ।
अतः संहारांशम् निजहृदि विमृश्य स्थितिमयी प्रसन्ना स्यान् मृत्युप्रलयकरणी मे भगवती ॥

मूल पाठ: Kramastotra · Data entry Marino Faliero · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc