भाषा

ENहिગુ
ग्रंथ पाठ

किरातार्जुनीय · अध्याय 8

8.1

अथ स्वमायाकृतमन्दिरोज्ज्वलं ज्वलन्मणि व्योमसदां सनातनम्
सुराङ्गना गोपतिचापगोपुरं पुरं वनानां विजिहीर्षया जहुः ॥

8.2

यथायथं ताः सहिता नभश्चरैः प्रभाभिर् उद्भासितशैलवीरुधः
वनं विशन्त्यो वनजायतेक्षणाः क्षणद्युतीनां दधुर् एकरूपताम् ॥

8.3

निवृत्तवृत्तोरुपयोधरक्लमः प्रवृत्तैनिर्ह्रादिविभूषणारवः
नितम्बिनीनां भृशम् आदधे धृतिं नभःप्रयाणाद् अवनौ परिक्रमः ॥

8.4

घनानि कामं कुसुमानि बिभ्रतः करप्रचेयान्य् अपहाय शाखिनः
पुरो ऽभिसस्रे सुरसुन्दरीजनैर् यथोत्तरेच्छा हि गुणेषु कामिनः ॥

8.5

तनूर् अलक्तारुणपाणिपल्लवाः स्फुरन्नखांशूत्करमञ्जरीभृतः
विलासिनीबाहुलता वनालयो विलेपनामोदहृताः सिषेविरे ॥

8.6

निपीयमानस्तबका शिलीमुखैर् अशोकयष्टिश् चलबालपल्लवा
विडम्बयन्ती ददृशे वधूजनैर् अमन्ददष्टौष्ठकरावधूननम् ॥

8.7

करौ धुनाना नवपल्लवाकृती वृथा कृथा मानिनि मा परिश्रमम्
उपेयुषी कल्पलताभिशङ्कया कथं न्व् इतस् त्रस्यति षट्पदावलिः ॥

8.8

जहीहि कोपं दयितो ऽनुगम्यतां पुरानुशेते तव चञ्चलं मनः
इति प्रियं कांचिद् उपैतुम् इच्छतीं पुरो ऽनुनिन्ये निपुणः सखीजनः ॥

8.9

समुन्नतैः काशदुकूलशालिभिः परिक्वणत्सारसपङ्क्तिमेखलैः
प्रतीरदेशैः स्वकलत्रचारुभिर् विभूषिताः कुञ्जसमुद्रयोषितः ॥

8.10

विदूरपातेन भिदाम् उपेयुषश् च्युताः प्रवाहाद् अभितः प्रसारिणः
प्रियाङ्कशीताः शुचिमौक्तिकत्विषो वनप्रहासा इव वारिबिन्दवः ॥

8.11

सखीजनं प्रेम गुरूकृतादरं निरीक्षमाणा इव नम्रमूर्तयः
स्थिरद्विरेफाञ्जनशरितोदरैर् विसारिभिः पुष्पविलोचनैर् लताः ॥

8.12

उपेयुषीणां बृहतीर् अधित्यका मनांसि जह्रुः सुरराजयोषिताम्
कपोलकाषैः करिणां मदारुणैर् उपाहितश्यामरुचश् च चन्दनाः ॥

8.13

स्वगोचरे सत्य् अपि वित्तहारिणा विलोभ्यमानाः प्रसवेन शाखिनाम्
नभश्चराणाम् उपकर्तुम् इच्छतां प्रियाणि चक्रुः प्रणयेन योषितः ॥

8.14

प्रयच्छतोच्चैः कुसुमानि मानिनी विपक्षगोत्रं दयितेन लम्भिता
न किंचिद् ऊचे चरणेन केवलं लिलेख बाष्पाकुललोचना भुवम् ॥

8.15

प्रिये ऽपरा यच्छति वाचम् उन्मुखी निबद्धदृष्टिः शिथिलाकुलोच्चया
समादधे नांशुकम् आहितं वृथा विवेद पुष्पेषु न पाणिपल्लवम् ॥

8.16

सलीलम् आसक्तलतान्तभूषणं समासजन्त्या कुसुमावतंसकम्
स्तनोपपीडं नुनुदे नितम्बिना घनेन कश्चिज् जघनेन कान्तया ॥

8.17

कलत्रभारेण विलोलनीविना गलद्दुकूलस्तनशालिनोरसा
बलिव्यपायस्फुटरोमराजिना निरायतत्वाद् उदरेण ताम्यता ॥

8.18

विलम्बमानाकुलकेशपाशया कयाचिद् आविष्कृतबाहुमूलया
तरुप्रसूनान्य् अपदिश्य सादरं मनोधिनाथस्य मनः समाददे ॥

8.19

व्यपोहितुं लोचनतो मुखानिलैर् अपारयन्तं किल पुष्पजं रजः
पयोधरेणोरसि काचिद् उन्मनाः प्रियं जघानोन्नतपीवरस्तनी ॥

8.20

इमान्य् अमूनीत्य् अपवर्जिते शनैर् यथाभिरामं कुसुमाग्रपल्लवे
विहाय निःसारतयेव भूरुहान् पदं वनश्रीर् वनितासु संदधे ॥

8.21

प्रवालभङ्गारुणपाणिपल्लवः परागपाण्डूकृतपीवरस्तनः
महीरुहः पुष्पसुगन्धिर् आददे वपुर्गुणोच्छ्रायम् इवाङ्गनाजनः ॥

8.22

वरोरुभिर् वारणहस्तपीवरैश् चिराय खिन्नान् नवपल्लवश्रियः
समे ऽपि यातुं चरणान् अनीश्वरान् मदाद् इव प्रस्खलतः पदे पदे ॥

8.23

विसारिकाञ्चीमणिरश्मिलब्धया मनोहरोच्छायनितम्बशोभया
स्थितानि जित्वा नवसैकतद्युतिं श्रमातिरिक्तैर् जघनानि गौरवैः ॥

8.24

समुच्छ्वसत्पङ्कजकोशकोमलैर् उपाहितश्रीण्य् उपनीवि नाभिभिः
दधन्ति मध्येषु वलीविभङ्गिषु स्तनातिभाराद् उदराणि नम्रताम् ॥

8.25

समानकान्तीनि तुषारभूषणैः सरोरुहैर् अस्फुटपत्त्रपङ्क्तिभिः
चितानि घर्माम्बुकणैः समन्ततो मुखान्य् अनुत्फुल्लविलोचनानि च ॥

8.26

विनिर्यतीनां गुरुस्वेदमन्थरं सुराङ्गनानाम् अनुसानुवर्त्मनः
सविस्मयं रूपयतो नभश्चरान् विवेश तत्पूर्वम् इवेक्षणादरः ॥

8.27

अथ स्फुरन्मीनविधूतपङ्कजा विपङ्कतीरस्खलितोर्मिसंहतिः
पयो ऽवगाढुं कलहंसनादिनी समाजुहावेव वधूः सुरापगा ॥

8.28

प्रशान्तघर्माभिभवः शनैर् विवान् विलासिनीभ्यः परिमृष्टपङ्कजः
ददौ भुजालम्बम् इवात्तशीकरस् तरङ्गमालान्तरगोचरो ऽनिलः ॥

8.29

गतैः सहावैः कलहंसविक्रमं कलत्रभारैः पुलिनं नितम्बिभिः
मुखैः सरोजानि च दीर्घलोचनैः सुरस्त्रियः साम्यगुणान् निरासिरे ॥

8.30

विभिन्नपर्यन्तगमीनपङ्क्तयः पुरो विगाढाः सखिभिर् मरुत्वतः
कथंचिद् आपः सुरसुन्दरीजनैः सभीतिभिस् तत्प्रथमं प्रपेदिरे ॥

8.31

विगाढमात्रे रमणीभिर् अम्भसि प्रयत्नसंवाहितपीवरोरुभिः
विभिद्यमाना विससार सारसान् उदस्य तीरेषु तरङ्गसंहतिः ॥

8.32

शिलाघनैर् नाकसदाम् उरःस्थलैर् बृहन्निवेशैश् च वधूपयोधरैः
तटाभिनीतेन विभिन्नवीचिना रुषेव भेजे कलुषत्वम् अम्भसा ॥

8.33

विधूतकेशाः परिलोलितस्रजः सुराङ्गनानां प्रविलुप्तचन्दनाः
अतिप्रसङ्गाद् विहितागसो मुहुः प्रकम्पम् ईयुः सभया इवोर्मयः ॥

8.34

विपक्षचित्तोन्मथना नखव्रणास् तिरोहिता विभ्रममण्डनेन ये
हृतस्य शेषान् इव कुङ्कुमस्य तान् विकत्थनीयान् दधुर् अन्यथा स्त्रियः ॥

8.35

सरोजपत्त्रे नु विलीनषट्पदे विलोलदृष्टेः स्विद् अमू विलोचने
शिरोरुहाः स्विन् नतपक्ष्मसन्ततेर् द्विरेफवृन्दं नु निशब्दनिश्चलम् ॥

8.36

अगूढहासस्फुटदन्तकेसरं मुखं स्विद् एतद् विकसन् नु पङ्कजम्
इति प्रलीनां नलिनीवने सखीं विदांबभूवुः सुचिरेण योषितः ॥

8.37

प्रियेण संग्रथ्य विपक्षसंनिधाव् उपाहितां वक्षसि पीवरस्तने
स्रजं न काचिद् विजहौ जलाविलां वसन्ति हि प्रेम्णि गुणा न वस्तुनि ॥

8.38

असंशयं न्यस्तम् उपान्तरक्ततां यद् एव रोद्धुं रमणीभिर् अञ्जनम्
हृते ऽपि तस्मिन् सलिलेन शुक्लतां निरास रागो नयनेषु न श्रियम् ॥

8.39

द्युतिं वहन्तो वनितावतंसका हृताः प्रलोभाद् इव वेगिभिर् जलैः
उपप्लुतास् तत्क्षणशोचनीयतां च्युताधिकाराः सचिवा इवाययुः ॥

8.40

विपत्त्रलेखा निरलक्तकाधरा निरञ्जनाक्षीर् अपि बिभ्रतीः श्रियम्
निरीक्ष्य रामा बुबुधे नभश्चरैर् अलंकृतं तद्वपुषैव मण्डनम् ॥

8.41

तथा न पूर्वं कृतभूषणादरः प्रियानुरागेण विलासिनीजनः
यथा जलार्द्रो नखमण्डनश्रिया ददाह दृष्टीश् च विपक्षयोषिताम् ॥

8.42

शुभाननाः साम्बुरुहेषु भीरवो विलोलहाराश् चलफेनपङ्क्तिषु
नितान्तगौर्यो हृतकुङ्कुमेष्व् अलं न लेभिरे ताः परभागम् ऊर्मिषु ॥

8.43

ह्रदाम्भसि व्यस्तवधूकराहते रवं मृदङ्गध्वनिधीरम् उज्झति
मुहुस्तनैस् तालस्समं समाददे मनोरमं नृत्यम् इव प्रवेपितम् ॥

8.44

श्रिया हसद्भिः कलमानि सस्मितैर् अलंकृताम्बुः प्रतिमागतैर् मुखैः
कृतानुकूल्या सुरराजयोषितां प्रसादसाफल्यम् अवाप जाह्वनी ॥

8.45

परिस्फुरन्मीनविघट्टितोरवः सुराङ्गनास् त्रासविलोलदृष्टयः
उपाययुः कम्पितपाणिपल्लवाः सखीजनस्यापि विलोकनीयताम् ॥

8.46

भयाद् इवाश्लिष्य झषाहते ऽम्भसि प्रियं मुदानन्दयति स्म मानिनी
अकृत्रिमप्रेमरसाहितैर् मनो हरन्ति रामाः कृतकैर् अपीहितैः ॥

8.47

तिरोहितान्तानि नितान्तम् आकुलैर् अपां विगाहाद् अलकैः प्रसारिभिः
ययुर् वधूनां वदनानि तुल्यतां द्विरेफवृन्दान्तरितैः सरोरुहैः ॥

8.48

करौ धुनाना नवपल्लवाकृती पयस्य् अगाधे किल जातसम्भ्रमा
सखीषु निर्वाच्यम् अधार्ष्ठ्यदूषितं प्रियाङ्गसंश्लेषम् अवाप मानिनी ॥

8.49

प्रियैः सलीलं करवारिवारितः प्रवृद्धनिःश्वासविकम्पितस्तनः
सविभ्रमाधूतकराग्रपल्लवो यथार्थताम् आप विलासिनीजनः ॥

8.50

उदस्य धैर्यं दयितेन सादरं प्रसादितायाः करवारिवारितम्
मुखं निमीलन्नयनं नतभ्रुवः श्रियं सपत्नीवदनाद् इवाददे ॥

8.51

विहस्य पाणौ विधृते धृताम्भसि प्रियेण वध्वा मदनार्द्रचेतसः
सखीव काञ्ची पयसा घनीकृता बभार वीतोच्चयबन्धम् अंशुकम् ॥

8.52

निरञ्जने साचिविलोकितं दृशाव् अयावकं वेपथुर् ओष्ठपल्लवम्
नतभ्रुवो मण्डयदि स्म विग्रहे बलिक्रिया चातिलकं तदास्पदम् ॥

8.53

निमीलदाकेकरलोचचक्षुषां प्रियोपकण्ठं कृतगात्रवेपथुः
निमज्जतीनां श्वसितोद्धतस्तनः श्रमो नु तासां मदनो नु पप्रथे ॥

8.54

प्रियेण सिक्ता चरमं विपक्षतश् चुकोप काचिन् न तुतोष सान्त्वनैः
जनस्य रूढप्रणयस्य चेतसः किम् अप्य् अमर्षो ऽनुनये भृशायते ॥

8.55

इत्थं विहृत्य वनिताभिर् उदस्यमानं पीनस्तनोरुजघनस्थलशालिनीभिः
उत्सर्पितोर्मिचयलङ्घिततीरदेशम् औत्सुक्य् अनुन्नम् इव वारि पुरः प्रतस्थे ॥

8.56

तीरान्तराणि मिथुनानि रथाङ्गनाम्नां नीत्वा विलोलितसरोजवनश्रियस् ताः
संरेजिरे सुरसरिज्जलधौतहारास् तारावितानतरला इव यामवत्यः ॥

8.57

संक्रान्तचन्दनरसाहितवर्णभेदं विच्छिन्नभूषणमणिप्रकरांशुचित्रम्
बद्धोर्मि नाकवनितापरिभुक्तमुक्तं सिन्धोर् बभार सलिलं शयनीयलक्ष्मीम् ॥

मूल पाठ: Kirātārjunīya · Edition: the text commented on by Mallinātha, also as regards e.g. word-division; note that there are often other possible word-divisions (especially in the citra-verses of sarga 15) and quite a few variants in the texts of other commentators. · Data entry Harunaga Isaacson · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc