काव्यालंकारसूत्र (अन्य संस्करण) · अध्याय 1.2
काव्यं सद्दृष्टादृष्टार्थम्, प्रीतिकीर्तिहेतुत्वात् ॥ व्कल्_1,1.5* ॥
द्वितीयो ऽध्यायः ।
अरोचकिनः सतृणाभ्यवहारिणश्च कवयः
पूर्वे शिष्याः, विवेकित्वात् ॥ व्कल्_1,2.2* ॥
नेतरे, तद्विपर्ययात् ॥ व्कल्_1,2.3* ॥
न शास्त्रमद्रव्येष्वर्थवत्
न कतकं पङ्कप्रसादनाय
रीतिरात्मा काव्यस्य
विशिष्टा पदरचना रीतिः
विशेषो गुणात्मा
सा त्रिधा --- वैदर्भी गौडीया पाञ्चाली चेति
विदर्भादिषु दृष्टत्वात्तत्समाख्या
समग्रगुणोपेता वैदर्भी
ओजःकान्तिमती गौडीया
माधुर्यसौकुमार्योपपन्ना पाञ्चाली
तासां पूर्वा ग्राह्या, गुणसाकल्यात् ॥ व्कल्_1,2.14* ॥
न पुनरितरे, स्तोकगुणत्वात् ॥ व्कल्_1,2.15* ॥
तदारोहणार्थमितराभ्यास इत्येके
तत्तु न; अतत्त्वशीलस्य तत्त्वानिष्पत्तेः ॥ व्कल्_1,2.17* ॥
न शणसूत्रवानाभ्यासे त्रसरसूत्रवानवैचित्र्यलाभः
सापि समासाभावे शुद्धवैदर्भी
तस्यामर्थगुणसंपदास्वाद्या
तदुपारोहादर्थगुणलेशो ऽपि
मूल पाठ: Kāvyālaṃkārasūtra · Edition: Narayanarama, Delhi : Motilal Banarsidas, 1983. śrīVāmanācāryaviracitāni Kāvyālaṅkārasūtrāni Svavṛttisamalaṅkṛtāni śrīNārāyaṇarāma ācārya Kāvyatīrtha ityetaiṣ ṭippaṇyādibhiḥ samalaṅkṛtya saṃśodhitāni Delhi : Motilal Banarsidasa, 1983 · Data entry Masahiro Takano · GRETIL (Göttingen) · CC BY-NC-SA 4.0