कौशिकसूत्र · भाग 120
(कौश्स्_1,1.1) अथ विधिं वक्ष्यामः
(कौश्स्_1,1.2) स पुनर् आम्नायप्रत्ययः
(कौश्स्_1,1.3) आम्नायः पुनर् मन्त्राश् च ब्राह्मणानि च
(कौश्स्_1,1.4) तद् यथाब्राह्मणं विधिर् एवं कर्मलिङ्गा मन्त्राः
(कौश्स्_1,1.5) तथान्यार्थः
(कौश्स्_1,1.6) तथा ब्राह्मणलिङ्गा मन्त्राः
(कौश्स्_1,1.7) तदभावे संप्रदायः
(कौश्स्_1,1.8) प्रमुक्तत्वाद् ब्राह्मणानाम्
(कौश्स्_1,1.9) यज्ञं व्याख्यास्यामः
(कौश्स्_1,1.10) देवानां पितॄणां च
(कौश्स्_1,1.11) प्राङ्मुख उपांशु करोति
(कौश्स्_1,1.12) यज्ञोपवीती देवानाम्
(कौश्स्_1,1.13) प्राचीनवीती पितॄणाम्
(कौश्स्_1,1.14) प्राग् उदग् वा देवानाम्
(कौश्स्_1,1.15) दक्षिणा पितॄणाम्
(कौश्स्_1,1.16) प्रागुदग् अपवर्गं देवानाम्
(कौश्स्_1,1.17) दक्षिणाप्रत्यग् अपवर्गं पितॄणाम्
(कौश्स्_1,1.18) सकृत् कर्म पितॄणाम्
(कौश्स्_1,1.19) त्र्यवरार्धं देवानाम्
(कौश्स्_1,1.20) यथादिष्टं वा
(कौश्स्_1,1.21) अभिदक्षिणम् आचारो देवानाम्
(कौश्स्_1,1.22) प्रसव्यं पितॄणाम्
(कौश्स्_1,1.23) स्वाहाकारवष्ट्कारप्रदाना देवाः
(कौश्स्_1,1.24) स्वधाकारनमस्कारप्रदाना पितरः
(कौश्स्_1,1.25) उपमूललूनं बर्हिः पितॄणाम्
(कौश्स्_1,1.26) पर्वसु देवानाम्
(कौश्स्_1,1.27) <प्र यछ पर्शुम् [12.3.31अ]> इति दर्भाहाराय दात्रं प्रयछति
(कौश्स्_1,1.28) <ओषधीर् दान्तु पर्वन् [12.3.31ब्-पर्त्]> इति_उपरि पर्वणां लूत्वा तूष्णीम् आहृत्य_उत्तरतो_अग्नेर् उपसादयति
(कौश्स्_1,1.29) नाग्निं विपर्यावर्तेत
(कौश्स्_1,1.30) नान्तरा यज्ञाङ्गानि व्यवेयात्
(कौश्स्_1,1.31) दक्षिणं जानु प्रभुज्य जुहोति
(कौश्स्_1,1.32) या पूर्वा पौर्णमासी सानुमतिर् या_उत्तरा सा राका [च्f. ऐत्ब् 7.11.2]
(कौश्स्_1,1.33) या पूर्वामावास्या सा सिनीवाली या_उत्तरा सा कुहूः [च्f. ऐत्ब् 7.11.2]
(कौश्स्_1,1.34) अद्य_उपवसथ इति_उपवत्स्यद्भक्तम् अश्नाति
(कौश्स्_1,1.35) मधुलवणमांसमाषवर्जम्
(कौश्स्_1,1.36) <ममाग्ने वर्चः [5.3.1]> इति समिध आधाय व्रतम् उपैति
(कौश्स्_1,1.37) <व्रतेन त्वां व्रतपते [7.74.4]> इति वा
(कौश्स्_1,1.38) ब्रह्मचारी व्रती
(कौश्स्_1,1.39) अधः शयीत
(कौश्स्_1,1.40) प्रातर्हुते_अग्नौ <कर्मणे वां वेषाय वां सुकृताय वाम् [च्f. त्स् 1.1.4.1 एत्च्., कौश्स् 58.5]> इति पाणी प्रक्षाल्यापरेणाग्नेर् दर्भान् आस्तीर्य तेषूत्तरम् आनडुहं रोहितं चर्म प्राग्ग्रीवम् उत्तरलोम प्रस्तीर्य पवित्रे कुरुते
(कौश्स्_1,1.41) दर्भौ_अप्रछिन्नान्तौ प्रक्षाल्यानुलोमम् अनुमार्ष्टि <विष्णोर् मनसा पूते स्थः [प्स् 20.45.6, म्स् 4.1.5:7.15 एत्च्.]> इति
(कौश्स्_1,2.1) <त्वं भूमिम् अत्य् एष्य् ओजसा त्वं वेद्यां सीदसि चारुर् अध्वरे । त्वां पवित्रम् ऋषयो भरन्तस् त्वं पुनीहि दुरितान्य् अस्मत् ॥ [प्स् 11.13.3 = ;स्स् 19.33.3 (बुत् सकलपाठ!)]> इति पवित्रे अन्तर्धाय हविर् निर्वपति <देवस्य त्वा सवितुः प्रसवे_अश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्यां जुष्टं निर्वपामि [सकल - च्f. 19.51.2, प्स् 5.40.1, त्स् 1.1.4.2 एत्च्.]> इति
(कौश्स्_1,2.2) एवम् <अग्निषोमाभ्याम् [इबिद्.]> इति
(कौश्स्_1,2.3) <इन्द्राग्निभ्याम् [-]> इति_अमावास्यायाम्
(कौश्स्_1,2.4) नित्यं पूर्वम् आग्नेयम्
(कौश्स्_1,2.5) निरुप्तं पवित्राभ्यां प्रोक्षति <अमुष्मै त्वा जुष्टम् [-]> यथादेवतम्
(कौश्स्_1,2.6) उलूखलमुसलं शूर्पं प्रक्षालितं चर्मणि_आधाय व्रीहीन् उलूखल ओप्यावघ्नंस् त्रिर् हविष्कृता वाचं विसृजति <हविष्कृद् आ द्रवेहि [च्f. अअप्;स्स् 1.19.9 एत्च्.]> इति
(कौश्स्_1,2.7) +अवहत्य [एद्. अपहत्य] सुफलीकृतान् कृत्वा त्रिः प्रक्षाल्य तण्डुलान् <अग्ने वरुर् यज्ञियस् त्वाधि अरुक्षत् [11.1.16]> इति चरुम् अधिदधाति
(कौश्स्_1,2.8) <शुद्धाः पूताः [11.1.17]> इति_उदकम् आसिञ्चति
(कौश्स्_1,2.9) <ब्रह्मणा शुद्धाः [11.1.18]> इति तण्डुलान्
(कौश्स्_1,2.10) <परि त्वाग्ने पुरं वयम् [7.71.1]> इति त्रिः पर्यग्नि करोति
(कौश्स्_1,2.11) नेक्षणेन त्रिः प्रदक्षिणम् उदायौति
(कौश्स्_1,2.12) अत ऊर्ध्वं यथाकामम्
(कौश्स्_1,2.13) उत्तरतो_अग्नेर् उपसादयतीध्मम्
(कौश्स्_1,2.14) उत्तरं बर्हिः
(कौश्स्_1,2.15) <अग्नये त्वा जुष्टं प्रोक्षामि [इ.अ. क्स् 1.10:5.22]> इतीध्मम्
(कौश्स्_1,2.16) <पृथिव्यै [-]> इति बर्हिः
(कौश्स्_1,2.17) दर्भमुष्टिम् अभ्युक्ष्य पश्चाद् अग्नेः प्रागग्रं निदधाति <ऊर्णम्रदं प्रथस्व स्वासस्थं देवेभ्यः [चोर्रुप्त्: च्f. इ.अ. क्स् 1.11:6.2-3]> इति
(कौश्स्_1,2.18) दर्भाणाम् अपादाय <ऋषीणां प्रस्तरो_असि [16.2.6]> इति दक्षिणतो_अग्नेर् ब्रह्मासनं निदधाति
(कौश्स्_1,2.19) पुरस्ताद् अग्नेर् आस्तीर्य तेषां मूलानि_अपरेषां प्रान्तैर् अवछादयन् परिसर्पति दक्षिणेनाग्निम् आ पश्चार्धात्
(कौश्स्_1,2.20) <परि स्तृणीहि [7.99.1]> इति संप्रेष्यति
(कौश्स्_1,2.21) <देवस्य त्वा सवितुः प्रसवे_अश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्यां प्रसूतः प्रशिषा परिस्तृणामि [-]> इति
(कौश्स्_1,2.22) एवम् उत्तरतो_अयुजो धातून् कुर्वन्
(कौश्स्_1,2.23) यत्र समागछन्ति तद् दक्षिणोत्तरं कृणोति
(कौश्स्_1,2.24) स्तीर्णं प्रोक्षति <हविषां त्वा जुष्टं प्रोक्षामि [-]> इति
(कौश्स्_1,2.25) नानभ्युक्षितं संस्तीर्णम् उपयोगं लभेत
(कौश्स्_1,2.26) नैधो_अभ्यादानम्
(कौश्स्_1,2.27) नानुत्पूतं हविः
(कौश्स्_1,2.28) नाप्रोक्षितं यज्ञाङ्गम्
(कौश्स्_1,2.29) तस्मिन् प्रक्षालितोपवातानि निदधाति
(कौश्स्_1,2.30) स्रुवम् आज्यधानीं च
(कौश्स्_1,2.31) विलीनपूतम् आज्यं गृहीत्वाधिश्रित्य पर्यग्नि कृत्वा_उदग् उद्वास्य पश्चाद् अग्नेर् उपसाद्य_उदगग्राभ्यां पवित्राभ्याम् उत्पुनाति
(कौश्स्_1,2.32) <विष्णोर् मनसा पूतम् असि [प्स् 20.45.7अ]>
(कौश्स्_1,2.33) <देवस् त्वा सविता_उत् पुनातु [प्स् 20.45.7ब्]>
(कौश्स्_1,2.34) <अछिद्रेण त्वा पवित्रेण शतधारेण सहस्रधारेण सुप्वोत् पुनामि [प्स् 20.45.7च्द्]> इति तृतीयम्
(कौश्स्_1,2.35) तूष्णीं चतुर्थम्
(कौश्स्_1,2.36) शृतं हविर् अभिघारयति <मध्वा समञ्जन् घृतवत् कराथ [च्f. प्स् 5.16.3द्]> इति
(कौश्स्_1,2.37) अभिघार्य_उदञ्चम् उद्वासयति <उद् वासयाग्नेः शृतम् अकर्म हव्यम् आ सीद पृष्ठम् अमृतस्य धाम [च्f. प्स् 5.16.3अब्]> इति
(कौश्स्_1,2.38) पश्चाद् आज्यस्य निधायालंकृत्य समानेन_उत्पुनाति
(कौश्स्_1,2.39) <अदारसृत् [1.20.1]> इति_अवेक्षते
(कौश्स्_1,2.40) <उत् तिष्ठत [7.72.1-3]> इति_ऐन्द्रम्
(कौश्स्_1,2.41) <अग्निर् भूयाम् [12.1.19-21]> इति तिसृभिर् उपसमादधाति <अस्मै क्षत्राणि [7.78.2]> <एतम् इध्मम् [10.6.35]> इति वा
(कौश्स्_1,3.1) <युनज्मि त्वा ब्रह्मणा दैव्येन हव्यायास्मै वोढेव [एद्. वोढवे: मिस्प्रिन्त्. च्f. zएह्न्देर् 1999: 191. म्स्स्.: वोढेव] जातवेदः । इन्धानास् त्वा सुप्रजसः सुवीरा ज्योग् जीवेम बलिहृतो वयं ते [म्स् 1.4.1:47.6 एत्च्.]> इति
(कौश्स्_1,3.2) दक्षिणतो जाङ्मायनम् उदपात्रम् उपसाद्याभिमन्त्रयते <तथोदपात्रं धारय यथाग्रे ब्रह्मणस्पतिः । सत्यधर्मा अदीधरद् देवस्य सवितुः सवे [-]> इति
(कौश्स्_1,3.3) अथ_उदकम् आसिञ्चति <इहेत देवीर् अमृतं वसाना हिरण्यवर्णा अनवद्यरूपाः । आपः समुद्रो वरुणश् च राजा संपातभागान् हविषो जुषन्ताम् [-, च्f. प्स् 2.40.1अ] ॥ इन्द्रप्रशिष्टा वरुणप्रसूता अपः समुद्राद् दिवम् उद् वहन्तु । इन्द्रप्रशिष्टा वरुणप्रसूता दिवस् पृथिव्या श्रियम् उद् वहन्तु [-, च्f. 4.27.4अ, र्व् 10.66.2अ]> इति
(कौश्स्_1,3.4) <ऋतं त्वा सत्येन परिषिञ्चामि जातवेदः [च्f. वैत्स् 7.4, त्ब् 2.1.11.1 एत्च्.]> इति सह हविर्भिः पर्युक्ष्य जीवाभिर् <[19.69.1-4]> आचम्य_उत्थाय वेदप्रपद्भिः प्रपद्यते_<ओ;म् प्रपद्ये भूः प्रपद्ये भुवः प्रपद्ये स्वः प्रपद्ये जनत् प्रपद्ये [त 4.42.2-4]> इति
(कौश्स्_1,3.5) प्रपद्य पश्चात् स्तीर्णस्य दर्भान् आस्तीर्य <अहे दैधिषव्योद् अतस् तिष्ठान्य् अस्य सदने सीद यो ऽस्मत् पाकतरः [त्स् 3.2.4.4, वैत्स् 1.20]>_इति ब्रह्मासनम् अन्वीक्षते
(कौश्स्_1,3.6) <निरस्तः पराग्वसुः सह पाप्मना निरस्तः सो ऽस्तु यो ऽस्मान् द्वेष्टि यं च वयं द्विष्मः [गोभ्ग्स् 1.6.14, ;स्ब्म् 1.5.1.23 एत्च्.]>_इति दक्षिणा तृणं निरस्यति (च्f. 139.38ff.)
(कौश्स्_1,3.7) तद् अन्वालभ्य जपति <इदम् अहम् अर्वाग्वसोः सदने सीदामि_[ग्ब् 2.1.1, ;स्ब्म् 1.5.1.24]_ऋतस्य सदने सीदामि सत्यस्य सदने सीदामि_[प्ब् 1.2.2 एत्च्.]_इष्टस्य सदने सीदामि पूर्तस्य सदने सीदामि [-] मामृषद् देव [एम्. ब्लोओम्fइएल्द् ग्ग 1902 514 -- एद्. एव] बर्हिः स्वासस्थं त्वाध्यासदेयम् ऊर्णम्रदम् अनभिशोकम् [च्f. अअश्व्;स्स् 1.4.7]>
(कौश्स्_1,3.8) <विमृग्वरीं [12.1.29]>_इत्य् उपविश्यासनीयं ब्रह्मजपं जपति <बृहस्पतिर् ब्रह्मा ब्रह्मसदन आसिष्यते (थुस् ब्ल्.) [अअश्व्;स्स् 1.12.9]> <बृहस्पते यज्ञं गोपाय [अअश्व्;स्स् 1.12.9, त्ब् 3.7.6.3]> <यद् उद् उद्वत उन् निवतः शकेयम् [त्स् 3.2.4.4]> इति
(कौश्स्_1,3.9) दर्भैः स्रुवं निर्मृज्य <निष्टप्तं रक्षो निष्टप्ता अरातयः प्रत्युष्टं रक्षः प्रत्युष्टा अरातयः [त्स् 1.1.2.1, त्ब् 3.7.6.3]> इति प्रतप्य मूले स्रुवं गृहीत्वा जपति <विष्णोर् हस्तो_असि दक्षिणः पूष्णा दत्तो बृहस्पतेः । तं त्वाहं स्रुवम् आ ददे देवानां हव्यवाहनम् [सन्ख्ग्स् 1.9.3] ॥ अयं स्रुवो वि दधाति होमान्_शताक्षरछन्दसा जागतेन । सर्वा यज्ञस्य समनक्ति विष्ठा बार्हस्पत्या_इष्टिः शर्मणा दैव्येन [अप्स्स् 4.7.2]> इति
(कौश्स्_1,3.10) <ओं भूः शं भूत्यै त्वा गृह्णे भूतये [-]> इति प्रथमं ग्रहं गृह्णाति
(कौश्स्_1,3.11) <ओं भुवः शं पुष्ट्यै त्वा गृह्णे पुष्टये [-]> इति द्वितीयम्
(कौश्स्_1,3.12) <ओं स्वः शं त्वा गृह्णे सहस्रपोषाय [-]> इति तृतीयम्
(कौश्स्_1,3.13) <ओं जगत्_शं त्वा गृह्णे_अपरिमितपोषाय [-]> इति चतुर्थम्
(कौश्स्_1,3.14) राजकर्माभिचारिकेषु <अमुष्य त्वा प्राणाय गृह्णे_अपानाय व्यानाय समानाय_उदानाय [-]> इति पञ्चमम्
(कौश्स्_1,3.15) <अग्नाव् अग्निः हृदा पूतम् [4.39.9-10]> <पुरस्ताद् युक्तः [5.29.1]> <यज्ञस्य चक्षुः [2.35.5 = 19.58.5]> इति जुहोति
(कौश्स्_1,3.16) पश्चाद् अग्नेर् मध्यदेशे समानत्र पुरस्ताद्धोमान्
(कौश्स्_1,3.17) दक्षिणेनाग्निम् उदपात्र आज्याहुतीनां संपातान् आनयति
(कौश्स्_1,3.18) पुरस्ताद्धोम आज्यभागः संस्थितहोमः समृद्धिः शान्तानाम्
(कौश्स्_1,3.19) इति_एतौ_आज्यभागौ
(कौश्स्_1,4.1) <वृष्णे बृहते स्वर्विदे अग्नये शुल्कं हरामि त्विषीमते । स न स्थिरान् बलवतः कृणोतु ज्योक् च नो जीवातवे दधाति ॥ [प्स् 19.52.7]> <अग्नये स्वाहा> इति_उत्तरपूर्वार्धे_आग्नेयम् आज्यभागं जुहोति
(कौश्स्_1,4.2) दक्षिणपूर्वार्धे सोमाय <त्वं सोम दिव्यो नृचक्षाः सुगा;म् अस्मभ्यं पथो अनु ख्यः । अभि नो गोत्रं विदुष इव नेषो ऽछा नो वाचम् उशतीं जिगासि ॥ [प्स् 1.51.3]> <सोमाय स्वाहा> इति
(कौश्स्_1,4.3) मध्ये हविः
(कौश्स्_1,4.4) उपस्तीर्याज्यं संहताभ्याम् अङ्गुलिभ्यां द्विर् हविषो_अवद्यति मध्यात् पूर्वार्धात्_च
(कौश्स्_1,4.5) अवत्तम् अभिघार्य द्विर् हविः प्रत्यभिघारयति
(कौश्स्_1,4.6) यतो यतो_अवद्यति तद् अनुपूर्वम्
(कौश्स्_1,4.7) एवं सर्वाणि_अवदानानि
(कौश्स्_1,4.8) अन्यत्र सौविष्टकृतात्
(कौश्स्_1,4.9) <उद् एनम् उत्तरं नय [6.5.1]> इति पुरस्ताद्धोमसंहतां पूर्वाम्
(कौश्स्_1,4.10) एवं पूर्वांपूर्वां संहतां जुहोति
(कौश्स्_1,4.11) स्वाहान्ताभिः प्रत्यृचं होमाः
(कौश्स्_1,4.12) याम् उत्तराम् अग्नेर् आज्यभागस्य जुहोति रक्षोदेवत्या सा यां दक्षिणतः सोमस्य पितृदेवत्या सा
(कौश्स्_1,4.13) तस्माद् अन्तरा होतव्या देवलोके_एव हूयन्ते
(कौश्स्_1,4.14) यां हुत्वा पूर्वाम् अपरां जुहोति सापक्रमन्ती स पापीयान् यजमानो भवति
(कौश्स्_1,4.15) यां परांपरां संहतां जुहोति साभिक्रमन्ती स वसीयान् यजमानो भवति
(कौश्स्_1,4.16) याम् अनग्नौ जुहोति सान्धा तया चक्षुर् यजमानस्य मीयते सो_अन्धंभावुको यजमानो भवति
(कौश्स्_1,4.17) यां धूमे जुहोति सा तमसि हूयते सो_अरोचको यजमानो भवति
(कौश्स्_1,4.18) यां ज्योतिष्मति जुहोति तया ब्रह्मवर्चसी भवति तस्मात्_ज्योतिष्मति होतव्यम्
(कौश्स्_1,4.19) एवम् <अस्मै क्षत्रम् अग्नीषोमौ [6.54.2]> इति_अग्निषोमीयस्य
(कौश्स्_1,5.1) <अग्नीषोमा सवेदसा सहूती वनतं गिरः । स देवत्रा बभूवथुः ॥ युवम् एतानि दिवि रोचनान्य् अग्निश् च सोम सक्रतू अधत्तम् । युवं सिन्धू;म्र् अभिशस्तेर् अवद्याद् अग्नीषोमाव् अमुञ्चतं गृभीतान् ॥ अग्नीशोमा य आहुतिं यो वां दाशाद् धविश्कृतिम् । स प्रजया सुवीर्यं विश्वम् आयुर् व्यश्नवत् ॥ [र्व् 1.93.9,5,3 एत्च्.]>
(कौश्स्_1,5.2) <इन्द्राग्नी रोचना दिवः परि वाजेषु भूषथः । तद् वां चेति प्र वीर्यम् ॥ [र्व् 3.12.9]> <श्नथद् वृत्रम् उत सनोति वाजम् इन्द्रा यो अग्नी सहुरी सपर्यात् । इरज्यन्ता वसव्यस्य भूरेः सहस्तमा सहसा वाजयन्ता ॥ [र्व् 6.60.1]> <इन्द्राग्नी अस्मान् रक्षतां यौ प्रजानां प्रजावती । स प्रजया सुवीर्यं विश्वम् आयुर् व्यश्नवत् ॥ [10.1.21च्द् + र्व् 1.93.3च्द्]> <गोमद् धिरण्यवद् वसु यद् वाम् अश्वावद् ईमहे । इन्द्राग्नी वनेमहि ॥ [र्व् 7.94.9]> <स्वाहा> इति
(कौश्स्_1,5.3) ऐन्द्राग्नस्य हविषो_अमावास्यायाम्
(कौश्स्_1,5.4) प्राक् स्विष्टकृतः पार्वणहोमौ समृद्धिहोमाः काम्यहोमाश् च
(कौश्स्_1,5.5) <पूर्णा पश्चात् [7.80(=85).1]> इति पौर्णमास्याम्
(कौश्स्_1,5.6) <यत् ते देवा अकृण्वन् भागधेयम् [7.79.1]> इत्य् अमावास्यायाम्
(कौश्स्_1,5.7) <आकूत्यै त्वा स्वाहा । कामाय त्वा स्वाहा । समृधे त्वा स्वाहा । आकूत्यै त्वा कामाय त्वा समृधे त्वा स्वाहा । [च्f. त्स् 3.4.2.1 एत्च्.]> <ऋचा स्तोमं समर्धय गायत्रेण रथन्तरं । बृहद् गायत्रवर्तनि ॥ [त्स् 3.1.10.1 एत्च्.]> <स्वाहा>
(कौश्स्_1,5.8) <पृथिव्याम् अग्नये समनमन् [4.39.1-8]> इति संनतिभिश् च <प्रजापते न त्वद् एतान्य् अन्यः [7.80(=85).3]> इति च
(कौश्स्_1,5.9) उपस्तीर्याज्यं सर्वेषाम् उत्तरतः सकृत्सकृद् अवदाय द्विर् अवत्तम् अभिघारयति
(कौश्स्_1,5.10) न हवींषि
(कौश्स्_1,5.11) <आ देवानाम् अपि पन्थाम् अगन्म यच् छक्नवाम तद् अनुप्रवोढुम् । अग्निर् विद्वान् स यजात् स इद् धोता सो ऽध्वरान् स ऋतून् कल्पयाति ॥ [सकल प्स् 19.47.6 = ;स्स् 19.59.3, र्व् 10.2.3 एत्च्.]> <अग्नये स्विष्टकृते स्वाहा> इत्य् उत्तरपूर्वार्धे_अवयुतं हुत्वा सर्वप्रायश्चित्तीयान् होमान्_जुहोति
(कौश्स्_1,5.12) <स्वाहेष्टेभ्यः स्वाहा । वषड् अनिष्टेभ्यः स्वाहा । भेषजं स्विष्ट्यै स्वाहा । निष्कृतिर् दुरिष्ट्यै स्वाहा । दैवीभ्यस् तनूभ्यः स्वाहा । [-, च्f. बौध्;स्स् 1.21:32.10, हिर्;स्स् 2.6.1]> <अयाश् चाग्ने ऽस्य् अनभिशस्तिश् च सत्यम् इत् त्वम् अया असि । अयासा मनसा कृतो ऽयास् +सन् [एद्. ऽयास्य] हव्यम् ऊहिषे । आ [+अया?] नो धेहि भेषजम् ॥ [म्स् 1.4.3:51.10, क्स् 5.4:57.1-4, कौश्स् 97.4, हिर्;स्स् 2.6.2 एत्च्.]> <स्वाहा> इति । <ओं स्वाहा भूः स्वाहा भुवः स्वाहा स्वः स्वाहों भूर् भुवः स्वः स्वाहा> इति
(कौश्स्_1,6.1) <यन् मे स्कन्नं मनसो जातवेदो यद् वास्कन्दद् धविषो यत्रयत्र । उत्प्रुषो विप्रुषः सं जुहोमि सत्याः सन्तु यजमानस्य कामाः ॥ [अब्: -, च्द्: व्स्क् 2.5.3]> <स्वाहा> इति
(कौश्स्_1,6.2) <यन् मे स्कन्नं [अब्: -, च्द्: व्स्क् 2.38(=2.5.2)]> <यद् अस्मृति [7.106(=111).1]> इति च स्कन्नास्मृतिहोमौ
(कौश्स्_1,6.3) <यद् अद्य त्वा प्रयति [7.97(=102).1-8]> इति सष्थितहोमाः
(कौश्स्_1,6.4) <मनसस् पते [7.97(=102).8]> इति उत्तमं चतुर्गृहीतेन
(कौश्स्_1,6.5) बर्हिर् आज्यशेषे_अनक्ति [शेषेणानक्ति?]
(कौश्स्_1,6.6) <पृथिव्यै त्वा [-]> इति मूलम् <अन्तरिक्षाय त्वा [-]> इति मध्यं <दिवे त्वा [-]> इति अग्रम् एवं त्रिः
(कौश्स्_1,6.7) <सं बर्हिर् अक्तम् [7.98(=103).1]> इत्य् अनुप्रहरति यथादेवतम्
(कौश्स्_1,6.8) स्रुवम् अग्नौ धारयति
(कौश्स्_1,6.9) यद् आज्यधान्यां तत् संस्रावयति <संस्रावभागास् तविषा बृहन्तः प्रस्तरेष्ठा बर्हिषदश् च देवाः । इमं यज्ञम् अभि विश्वे गृणन्तः स्वाहा देवा अमृता मादयन्ताम् ॥ [प्स् 20.35.2, त्स् 1.1.13.2-3]> इति
(कौश्स्_1,6.10) <स्रुवो ऽसि घृताद् अनिशितः सपत्नक्षयणो दिवि षीद । अन्तरिक्षे सीद पृथिव्यां सीदोत्तरो ऽहं भूयासम् अधरे मत्सपत्नाः [क्स् 31.14:15.20, च्f. भार्;स्स् 4.11.1, अअप्;स्स् 2.4.2 एत्च्.]> इति स्रुवं प्राग्दण्डं निदधाति
(कौश्स्_1,6.11) <वि मुञ्चामि ब्रह्मणा जातवेदसम् अग्निं होतारम् अजरं रथस्पृतम् । सर्वा देवानां जनिमानि विद्वान् यथाभागं वहतु हव्यम् अग्निः ॥ [प्स् 12.19.9]> <अग्नये स्वाहा> इति समिधम् आदधाति
(कौश्स्_1,6.12) <एधो ऽसि [7.89(=94).4अ]> इति द्वितीयां <समिद् असि [7.89(=94).4ब्]> इति तृतीयम्
(कौश्स्_1,6.13) <तेजो ऽसि [7.89(=94).4च्]> इति मुखं विमार्ष्टि
(कौश्स्_1,6.14) दक्षिणेनाग्निं त्रीन् विष्णुक्रमान् क्रमते <विष्णोः क्रमो ऽसि [10.5.25-27]> इति दक्षिणेन पादेनानुसंहरति सव्यम्
(कौश्स्_1,6.15) <सूर्यस्यावृतम् [10.5.37]> इत्य् अभिदक्षिणम् आवर्तते
(कौश्स्_1,6.16) <अगन्म स्वः [16.9.3-4]> इत्य् आदित्यम् ईक्षते
(कौश्स्_1,6.17) <इन्द्रस्य वचसा वयं मित्रस्य वरुणस्य च । ब्रह्मणा स्थापितं पात्रं पुनर् उत्थापयामसि ॥ [-, च्f. 6.85.2अब्, प्स् 19.6.2अब्, अव्परिश् 37.19.2]> इत्य् अपरेणाग्निम् उदपात्रं परिहृत्योत्तरेणाग्निम् <आपो हि ष्ठा मयोभुवः [1.5.1-5?]> इति मार्जयित्वा बर्हिषि पत्न्याञ्जलौ निनयति <समुद्रं वः प्र हिणोमि [10.5.23-24]> इति <इदं जनासः [1.32.1-4]?> इति वा
(कौश्स्_1,6.18) <वीरपत्न्य् अहं भूयासम् [-]> इति मुखं विमार्ष्टि
(कौश्स्_1,6.19) <व्रतानि व्रतपतये [च्f. कौश्स् 5.6.16(=42.17): प्स् 19.51.4]> इति समिधम् आदधाति
(कौश्स्_1,6.20) <सत्यं त्वर्तेन [च्f. त्ब् 2.1.11.1]> इति परिषिच्य_उदञ्चि हविरुच्छिष्टान्य् उद्वासयति
(कौश्स्_1,6.21) पूर्णपात्रं दक्षिणा
(कौश्स्_1,6.22) <नादक्षिणं हविः कुर्वीत यः कुरुते कृत्याम् आत्मनः कुरुते [च्f. क्स् 37.12:93.3f.]> इति ब्राह्मणम्
(कौश्स्_1,6.23) <अन्वाहार्यं ब्राह्मणान् भोजयति
(कौश्स्_1,6.24) यद् वै यज्ञस्यानन्वितं भवति तद् अन्वाहार्येणान्वाह्रियते
(कौश्स्_1,6.25) एतद् अन्वाहार्यस्यान्वाहार्यत्वम् [-]>
(कौश्स्_1,6.26) <ईड्या वा अन्ये देवाः सपर्येण्या अन्ये । देवा ईड्या देवा ब्राह्मणाः सपर्येण्याः
(कौश्स्_1,6.27) यज्ञेन_एव_ईड्यान् प्रीणाति अन्वाहार्येण सपर्येण्यान्
(कौश्स्_1,6.28) ते_अस्य_उभे प्रीता यज्ञे भवन्तीति [च्f. क्स् 8.13:97.11ff.]>
(कौश्स्_1,6.29) इमौ दर्शपूर्णमासौ व्याख्यातौ
(कौश्स्_1,6.30) दर्शपूर्णमासाभ्यां पाकयज्ञाः
(कौश्स्_1,6.32) कुम्भीपाकाद् एव व्युद्धारं जुहुयात्
(कौश्स्_1,6.33) अधिश्रयण_पर्यग्निकरण_अभिघारण_उद्वासन_अलंकरण_उत्पवनैः संस्कृत्य
(कौश्स्_1,6.34) अथापि श्लोकौ भवतः <आज्यभागान्तं प्राक्तन्त्रम् ऊर्ध्वं स्विष्टकृता सह । हवींषि यज्ञ आवापो यथा तन्त्रस्य तन्तवः [-, अत्त्रिबुतेद् तो ग्ब् ब्य् सायण इ, प्. 349] ॥> <पाकयज्ञान् समासाद्य_एकाज्यान् एकबर्हिषः । एकस्विष्टकृतः कुर्यात्_नानापि सति दैवते_इति ॥ [अअश्व्ग्स् 1.3.10]>
(कौश्स्_1,6.35) एतेन_एवामावास्यो व्याख्यातः
(कौश्स्_1,6.36) ऐन्द्राग्नो_अत्र द्वितीयो भवति
(कौश्स्_1,6.37) तयोर् व्यतिक्रमे <त्वम् अग्ने व्रतपा असि [19.59]> <कामस् तद् अग्रे [19.52]> इति शान्ताः
(कौश्स्_1,7.1) अश्नात्य् अनादेशे स्थालीपाकः
(कौश्स्_1,7.2) पुष्टिकर्मसु सारूपवत्से
(कौश्स्_1,7.3) आज्यं जुहोति
(कौश्स्_1,7.4) समिधम् आदधाति
(कौश्स्_1,7.5) आवपति व्रीहियवतिलान्
(कौश्स्_1,7.6) भक्षयति क्षीरौदनपुरोडाशरसान्
(कौश्स्_1,7.7) मन्थ_ओदनौ प्रयछति
(कौश्स्_1,7.8) पूर्वं त्रिषप्तीयम्
(कौश्स्_1,7.9) उदकचोदनायाम् उदपात्रं प्रतीयात्
(कौश्स्_1,7.10) पुरस्ताद्_उत्तरतः संभारम् आहरति
(कौश्स्_1,7.11) गोर् अनभिप्रापाद् वनस्पतीनाम्
(कौश्स्_1,7.12) सूर्योदयनतः
(कौश्स्_1,7.13) पुरस्ताद्_उत्तरतो_अरण्ये कर्मणां प्रयोगः
(कौश्स्_1,7.14) उत्तरत उदकान्ते प्रयुज्य कर्माण्य् अपां सूक्तैर् आप्लुत्य प्रदक्षिणम् आवृत्य अप उपस्पृश्यानवेक्षमाणा ग्रामम् उदाव्रजन्ति
(कौश्स्_1,7.15) आश्यबन्ध्याप्लवनयानभक्षाणि संपातवन्ति
(कौश्स्_1,7.16) सर्वाण्य् अभिमन्त्र्याणि
(कौश्स्_1,7.17) स्त्रीव्याधिताव् आप्लुतावसिक्तौ शिरस्तः प्रक्रम्या प्रपदात् प्रमार्ष्टि
(कौश्स्_1,7.18) पूर्वं प्रपाद्य प्रयछति
(कौश्स्_1,7.19) त्रयोदश्यादयस् तिस्रो दधिमधुनि वासयित्वा बध्नाति
(कौश्स्_1,7.20) आशयति
(कौश्स्_1,7.21) अन्वारब्धायाभिमन्त्रणहोमाः
(कौश्स्_1,7.22) पश्चाद् अग्नेश् चर्मणि हविषां संस्कारः
(कौश्स्_1,7.23) आनडुहः शकृत्पिण्डः
(कौश्स्_1,7.24) जीवघात्यं चर्म
(कौश्स्_1,7.25) अकर्णो_अश्मा
(कौश्स्_1,7.26) आप्लवनावसेचनानाम् आचामयति च
(कौश्स्_1,7.27) संपातवताम् अश्नाति न्यङ्क्ते वा
(कौश्स्_1,7.28) अभ्याधेयानां धूमं नियछति
(कौश्स्_1,7.29) शुचिना कर्मप्रयोगः
(कौश्स्_1,8.1) पुरस्ताद्धोमवत्सु निशाकर्मसु पूर्वाह्णे यज्ञोपवीती शालानिवेशमं समूहयत्य् उपवत्स्यद्भक्तम् अशित्वा स्नातो_अहतवसनः प्रयुङ्क्ते
(कौश्स्_1,8.2) स्वस्त्ययनेषु च
(कौश्स्_1,8.3) ईज्यानां दिश्यान् बलीन् हरति
(कौश्स्_1,8.4) प्रतिदिशम् उपतिष्ठते
(कौश्स्_1,8.5) सर्वत्राधिकरणम् कर्तुर् दक्षिणा
(कौश्स्_1,8.6) त्रिर् उदकक्रिया
(कौश्स्_1,8.7) अनन्तराणि समानानि युक्तानि
(कौश्स्_1,8.8) शान्तं संभारम्
(कौश्स्_1,8.9) अधिकृतस्य सर्वम्
(कौश्स्_1,8.10) विषये [एद्. विशये; सेए चलन्द्, अz, अऌ.; स्पेइजेर् मुसेउम् 9 249 दिसग्रेएस्] यथान्तरम्
(कौश्स्_1,8.11) <प्र यछ पर्शुम् [12.3.31]> इति दर्भलवनं प्रयछति
(कौश्स्_1,8.12) <अरातीयोः [10.6.1]> इति तक्षति
(कौश्स्_1,8.13) <यत् त्वा शिक्वः [10.6.3]> इति प्रक्षालयति
(कौश्स्_1,8.14) <यत्_यत् कृष्णः [12.3.13]> इति मन्त्रोक्तम्
(कौश्स्_1,8.15) पलाश_उदुम्बर_जम्बु_काम्पील_स्रग्_वङ्घ_शिरीष_स्रक्त्य_वरण_बिल्व_जङ्गिड_कुटक_गर्ह्य_गलावल_वेतस_शिम्बल_सिपुन_स्यन्दन_अरणिका_अश्मयोक्त_तुन्यु_पूतुदारवः शान्ताः
(कौश्स्_1,8.16) चिति_प्रायश्चित्ति_शमी_शमका_सवंशा_शाम्यवाका_तलाश_पलाश_वाशा_शिंशपा_शिम्बल_सिपुन_दर्भ_अपामार्ग_आकृतिलोष्ट_वल्मीकवपा_दूर्वाप्रान्त_व्रीहि_यवाः शान्ताः
(कौश्स्_1,8.17) प्रमन्द_उशीर_शलली_उपधान_शकधूमा जरन्तः
(कौश्स्_1,8.18) सीस_नदीसीसे अयोरजांसि कृकलासशिरः सीनानि
(कौश्स्_1,8.19) दधि घृतं मधूदकम् इति रसाः
(कौश्स्_1,8.20) व्रीहि_यवा_गोधूम_उपवाक_तिल_प्रियङ्गु_श्यामाका इति मिश्रधान्यानि
(कौश्स्_1,8.21) ग्रहणम् आ ग्रहणात्
(कौश्स्_1,8.22) यथार्थम् उदर्कान् योजयेत्
(कौश्स्_1,8.23) <इहैव ध्रुवाम् [3.12]> <एह यातु [6.73]> <यमो मृत्युः [6.93]> <सत्यं बृहत् [12.1]> इत्य् अनुवाको वास्तोष्पतीयानि
(कौश्स्_1,8.24) <दिव्यो गन्धर्वः [2.2]> <इमं मे अग्ने [6.111]> <यौ ते माता [8.6]> इति मातृनामानि
(कौश्स्_1,8.25) <स्तुवानम् [1.7]> <इदं हविः [1.8]> <निस्सालाम् [2.14]> <अरायक्षयणम् [2.18.3]> <शं नो देवी पृश्निपर्णी [2.25]> <आ पश्यति [4.20]> <तान्त् सत्यौजाः [4.36]> <त्वया पूर्वम् [4.37]> <पुरस्ताद् युक्तः [5.29]> <रक्षोहणम् [8.3-4]> इति अनुवाकश् चातनानि
(कौश्स्_1,9.1) <अम्बयो यन्ति [1.4]> <शंभुमयोभू [1.5-6]> <हिरण्यवर्णाः [1.33]> <निस्सालाम् [2.14]> <ये अग्नयः [3.21.1-7]> <ब्रह्म जज्ञानम् [4.1.1]> इत्य् एका <उत देवाः [4.13]> मृगारसूक्तान्य् उत्तमं वर्जयित्वा [4.23-29] <अप नः शोशुचद् अघम् [4.33]> <पुनन्तु मा [6.19]> <सस्रुषीः [6.23]> <हिमवतः प्रस्रवन्ति [6.24]> <वायोः पूतः पवित्रेण [6.51]> <शं च नो मयश् च नः [6.57.3]> <अनडुद्भ्यस् त्वं प्रथमं [6.59]> <मह्यम् आपः [6.61]> <वैश्वानरो रश्मिभिः [6.62]> <यमो मृत्युः [6.93]> <विश्वजित् [6.107]> <संज्ञानम् नः [7.52]> <यद्य् अन्तरिक्षे [7.66]> <पुनर् मैत्व् इन्द्रियम् [7.67]> <शिवा नः [7.68.3]> <शं नो वातो वातु [7.69]> <अग्निं ब्रूमो वनस्पतीन् [11.6]> इति
(कौश्स्_1,9.2) <पृथिव्यै श्रोत्राय [6.10]> इति त्रिः प्रत्यासिञ्चति
(कौश्स्_1,9.3) <अम्बयो यन्ति [1.4]> <शंभुमयोभू [1.5-6]> <हिरण्यवर्णाः [1.33]> शंततीयं च [4.13] <यद्य् अन्तरिक्षे [7.66]> <पुनर् मैत्व् इन्द्रियम् [7.67]> <शिवा नः [7.68.3]> <शं नो वातो वातु [7.69]> <अग्निं ब्रूमो वनस्पतीन् [11.6]> इति
(कौश्स्_1,9.4) <पृथिव्यै श्रोत्राय [6.10]> इति त्रिः प्रत्यासिञ्चति
(कौश्स्_1,9.5) इति शान्तियुक्तानि
(कौश्स्_1,9.6) उभयतः सावित्र्य् उभयतः <शं नो देवी [1.6]>
(कौश्स्_1,9.7) अहतवासः कंसे शान्त्युदकं करोति
(कौश्स्_1,9.8) <अतिसृष्टो अपां वृषभः [16.1.1]> इत्य् अपो_अतिसृज्य सर्वा इमा आप ओषधय इति पृष्ट्वा सर्वा इत्य् आख्यात ओं बृहस्पतिप्रसूतः करवाणीत्य् अनुज्ञाप्य_ओं सवितृप्रसूतः कुरुतां भवान् इत्य् अनुज्ञातः कुर्वीत
(कौश्स्_1,9.9) पूर्वया कुर्वीतेति गार्ग्य_पार्थश्रवस_भागालि_काङ्कायन_उपरिबभ्रव_कौशिक_जाटिकायन_कौरुपथयः
(कौश्स्_1,9.10) अन्यतरया कुर्वीतेति युवा कौशिको युवा कौशिकः
(कौश्स् 1 चोलोफोन्) इति अथर्ववेदे कौशिकसूत्रे प्रथमो ऽध्यायः समाप्तः
(कौश्स्_2,1[10].1) पूर्वस्य मेधाजननानि
(कौश्स्_2,1[10].2) शुकसारिकृशानां जिह्वा बध्नाति
(कौश्स्_2,1[10].3) आशयति
(कौश्स्_2,1[10].4) औदुम्बरपलाशकर्कन्धूनाम् आदधाति
(कौश्स्_2,1[10].5) आवपति
(कौश्स्_2,1[10].6) भक्षयति
(कौश्स्_2,1[10].7) उपाध्यायाय भैक्षम् प्रयछति
(कौश्स्_2,1[10].8) सुप्तस्य कर्णम् अनुमन्त्रयते
(कौश्स्_2,1[10].9) उपसीदञ् जपति
(कौश्स्_2,1[10].10) धानाः सर्पिर्मिश्राः सर्वहुताः
(कौश्स्_2,1[10].11) तिलमिश्रा हुत्वा प्राश्नाति
(कौश्स्_2,1[10].12) पुरस्ताद् अग्नेः कल्माषम् दण्डं निहत्य पश्चाद् अग्नेः कृष्णाजिने धाना अनुमन्त्रयते
(कौश्स्_2,1[10].13) सूक्तस्य पारं गत्वा प्रयछति
(कौश्स्_2,1[10].14) सकृज् जुहोति
(कौश्स्_2,1[10].15) दण्डधानाजिनं ददाति
(कौश्स्_2,1[10].16) <अहं रुद्रेभिर् [4.30]> इति शुक्लपुष्पहरितपुष्पे किंस्त्यनाभिपिप्पल्यौ जातरूपशकलेन प्राक् स्तनग्रहात् प्राशयति
(कौश्स्_2,1[10].17) प्रथमप्रवदस्य मातुर् उपस्थे तालूनि संपातान् आनयति
(कौश्स्_2,1[10].18) दधिमध्व् आशयति
(कौश्स्_2,1[10].19) उपनीतं वाचयति वार्षशतिकं कर्म
(कौश्स्_2,1[10].20) <त्वं नो मेधे [6.108]> <द्यौश् च म [12.1.35]> इति भक्षयति
(कौश्स्_2,1[10].21) आदित्यम् उपतिष्ठते
(कौश्स्_2,1[10].22) <यद् अग्ने तपसा [7.61]> इत्य् आग्रहायण्यां भक्षयति
(कौश्स्_2,1[10].23) अग्निम् उपतिष्ठते
(कौश्स्_2,1[10].24) <प्रातर् अग्निं [3.16]> <गिराव् अरगराटेषु [6.69]> <दिवस्पृथिव्याः [6.125.2]> इति संहाय मुखं विमार्ष्टि
(कौश्स्_2,2[11].1) पूर्वस्य ब्रह्मचारिसांपदानि
(कौश्स्_2,2[11].2) औदुम्बर्यादयः
(कौश्स्_2,2[11].3) ब्रह्मचार्यावसथाद् उपस्तरणान्य् आदधाति
(कौश्स्_2,2[11].4) पिपीलिकोद्वापे मेदोमधुश्यामाकेषीकतूलान्य् आज्यं जुहोति
(कौश्स्_2,2[11].5) आज्यशेषे पिपीलिकोद्वापान् ओप्य ग्रामम् एत्य सर्वहुतान्
(कौश्स्_2,2[11].6) ब्रह्मचारिभ्यो_अन्नं धानास् तिलमिश्राः प्रयछति
(कौश्स्_2,2[11].7) एतानि ग्रामसा.पदानि
(कौश्स्_2,2[11].8) विकार स्थूणामूलावतक्षणानि सभानाम् उपस्तरणानि
(कौश्स्_2,2[11].9) ग्रामीणेभ्यो_अन्नम्
(कौश्स्_2,2[11].10) सुरां सुरापेभ्यः
(कौश्स्_2,2[11].11) औदुम्बरादीन्य् भक्षणान्तानि सर्वसांपदानि
(कौश्स्_2,2[11].12) त्रिर् ज्योतिः कुरुते
(कौश्स्_2,2[11].13) उपतिष्ठते
(कौश्स्_2,2[11].14) सव्यात् पाणिहृदयाल् लोहितं रसमिश्रम् अश्नाति
(कौश्स्_2,2[11].15) पृश्निमन्थः
(कौश्स्_2,2[11].16) जिह्वाया उत्साद्यम् अक्ष्योः +परिस्तरणं मस्तृहणं [एद्. परिस्तरणमस्तृहणं; सेए म्स्स् 34 (1976), प्. 23f.] हृदयं दूर्श उपनह्य तिस्रो रात्रीः पल्पूलने वासयति
(कौश्स्_2,2[11].17) चूर्णानि करोति
(कौश्स्_2,2[11].18) मैश्रधान्ये मन्थ ओप्य दधिमधुमिश्रम् अश्नाति
(कौश्स्_2,2[11].19) <अस्मिन् वसु [1.9]> <यद् आबध्नन् [1.35]> <नव प्राणान् [5.28]> इति युग्मकृष्णलं वासितं बध्नाति
(कौश्स्_2,2[11].20) सारूपवत्सं पुरुषगात्रं द्वादशरात्रं संपातवन्तं कृत्वानभिमुखन् अश्नाति
(कौश्स्_2,3[12].1) <कथं महे [5.11]> इति मादानकशृतं क्षीरौदनम् अश्नाति
(कौश्स्_2,3[12].2) चमसे सरूपवत्साया दुग्धे व्रीहियवाववधाय मूर्छयित्वा मध्व् आसिच्याश्यति
(कौश्स्_2,3[12].3) <पृथिव्यै श्रोत्राय [6.10]> इति जुहोति
(कौश्स्_2,3[12].4) <वत्सो विराजो [13.1.33]> इति मन्थान्तानि
(कौश्स्_2,3[12].5) <सहृदयं [3.30]> <तद् ऊ षु [5.1.5]> <सं जानीध्वम् [6.64]> <एह यातु [6.73]> <सं वः पृच्यन्तां [6.74]> <सं वो मनांसि [6.94]> <संज्ञानं नः [7.52]> इति सांमनस्यानि
(कौश्स्_2,3[12].6) उदकूलिजं संपातवन्तं ग्रामं परिहृत्य मध्ये निनयति
(कौश्स्_2,3[12].7) एवं सुराकूलिजम्
(कौश्स्_2,3[12].8) त्रिहायण्या वत्सतर्याः शुक्त्यानि [सेए चलन्द्, zर्] पिशितान्य् आशयति
(कौश्स्_2,3[12].9) भक्तं सुरां प्रपां संपातवत् करोति
(कौश्स्_2,3[12].10) पूर्वस्य <ममाग्ने वर्चो [5.3]> इति वर्चस्यानि
(कौश्स्_2,3[12].11) औदुम्बर्यादीनि त्रीणि
(कौश्स्_2,3[12].12) कुमार्या दक्षिणम् ऊरुम् अभिमन्त्रयते
(कौश्स्_2,3[12].13) वपां जुहोति
(कौश्स्_2,3[12].14) अग्निम् उपतिष्ठते
(कौश्स्_2,3[12].15) <प्रातर् अग्निं [3.16]> <गिराव् अरगराटेषु [6.69]> <दिवस्पृथिव्याः [6.125.2]> इति दधिमध्व् आशयति
(कौश्स्_2,3[12].16) कीलालमिश्रं क्षत्रियं कीलालम् इतरान्
(कौश्स्_2,4[13].1) <हस्तिवर्चसम् [3.22]> इति हस्तिनम्
(कौश्स्_2,4[13].2) हास्तिदन्तं बध्नाति
(कौश्स्_2,4[13].3) लोमानि जतुना संदिह्य जातरूपेणापिधाप्य
(कौश्स्_2,4[13].4) <सिंहे व्याघ्रे [6.38]> <यशो हविर् [6.39]> इति स्नातकसिंहव्याघ्रबस्तकृष्णवृषभराज्ञां नभिलोमानि
(कौश्स्_2,4[13].5) दशानां शान्तवृक्षाणां शकलानि
(कौश्स्_2,4[13].6) एतयोः <प्रातर् अग्निं [3.16]> <गिराव् अरगराटेषु [6.69]> <दिवस्पृथिव्याः [6.125.2]> इति सप्त मर्माणि स्थालीपाके पृक्तान्य् अश्नाति
(कौश्स्_2,4[13].7) अकुशलं यो ब्राह्मणो लोहितम् अश्नीयाद् इति गार्ग्यः
(कौश्स्_2,4[13].8) उक्तो लोममणिः
(कौश्स्_2,4[13].9) सर्वैर् आप्लावयति
(कौश्स्_2,4[13].10) अवसिञ्चति
(कौश्स्_2,4[13].11) चतुरङ्गुलं तृणं रजोहरणबिन्दुना_ [सेए चलन्द्, zर्] _अभिश्चोत्य_उपमथ्य
(कौश्स्_2,4[13].12) शुनि किलासम् अजे पलितं तृणे ज्वरो यो_अस्मान् द्वेष्टि यं च वयं द्विष्मस् तस्मिन् राजयक्ष्म इति दक्षिणा तृणं निरस्यति गन्धप्रवादाभिर् अलं कुरुते
(कौश्स्_2,5[14].1) पूर्वस्य हस्तित्रसनानि
(कौश्स्_2,5[14].2) रथचक्रेण संपातवता प्रतिप्रवर्तयति
(कौश्स्_2,5[14].3) यानेनाभियाति
(कौश्स्_2,5[14].4) वादित्रैः
(कौश्स्_2,5[14].5) दृतिवस्त्योर् ओप्य शर्कराः
(कौश्स्_2,5[14].6) तोत्त्रेण नग्नप्रछन्नः
(कौश्स्_2,5[14].7) <विद्मा शरस्य [1.2]> <मा नो विदन् [1.19]> <अदारसृद् [1.20]> <स्वस्तिदा [1.21]> <अव मन्युर् [6.65]> <निर्हस्तः [6.66]> <परि वर्त्मान्य् [6.67]> <अभिभूर् [6.97]> <इन्द्रो जयाति [6.98]> <अभि त्वेन्द्र [6.99]> इति सांग्रामिकानि
(कौश्स्_2,5[14].8) आज्यसक्तूञ् जुहोति
(कौश्स्_2,5[14].9) धनुरिध्मे धनुः समिधम् आदधाति
(कौश्स्_2,5[14].10) एवम् इष्विध्मे
(कौश्स्_2,5[14].11) धनुः संपातवद् विमृज्य प्रयछति
(कौश्स्_2,5[14].12) प्रथमस्य_इषुपर्ययणानि
(कौश्स्_2,5[14].13) द्रुघ्न्यार्त्नीज्यापाशतृणमूलानि बध्नाति
(कौश्स्_2,5[14].14) <आरे असाव् [1.26]> इत्य् अपनोदनानि
(कौश्स्_2,5[14].15) फलीकरणतुषबुसावतक्षणान्य् आवपति
(कौश्स्_2,5[14].16) अन्वाह
(कौश्स्_2,5[14].17) <अग्निर् नः शत्रून् [3.1]> अग्निर् नो दूतः [3.2]> इति मोहनानि
(कौश्स्_2,5[14].18) ओदनेन_उपयम्य फलीकरणान् उलूखलेन जुहोति
(कौश्स्_2,5[14].19) एवम् अणून्
(कौश्स्_2,5[14].20) एकविंशत्या शर्कराभिः प्रतिनिष्पुनाति
(कौश्स्_2,5[14].21) अप्वां यजते
(कौश्स्_2,5[14].22) <संशितम् [3.19]> इति शितिपदीं संपातवतीम् अवसृजति
(कौश्स्_2,5[14].23) उद्वृधत्सु [चलन्द्: उद्धृष्यत्सु?] योजयेत्
(कौश्स्_2,5[14].24) <इमम् इन्द्र [4.22 & 4.23]> इति युक्तयोः प्रदानान्तानि
(कौश्स्_2,5[14].25) दिग्युक्ताभ्यां [3.26 & 3.27] <नमो देववधेभ्यो [6.13]> इति उपतिष्ठते
(कौश्स्_2,5[14].26) <त्वया मन्यो [4.31]> <यस् ते मन्यो [4.32]> इति संरम्भणानि
(कौश्स्_2,5[14].27) सेने समीक्षमाणो जपति
(कौश्स्_2,5[14].28) भाङ्गमौञ्जान् पाशन् इङ्गिडालंकृतान् संपातवतो_अनूक्तान् सेनाक्रमेषु वपति
(कौश्स्_2,5[14].29) एवम् आमपात्राणि
(कौश्स्_2,5[14].30) इङ्गिडेन संप्रोक्ष्य तृणान्य् आङ्गिरसेनाग्निना दीपयति
(कौश्स्_2,5[14].31) यां धूमो_अवतनोति तां जयन्ति
(कौश्स्_2,6[15].1) <ऋधङ् मन्त्रस् [5.1]> <तद् इद् आस [5.2]> इत्य् आश्वत्थ्यां पात्र्यां त्रिवृति गोमयपरिचये हस्तिपृष्ठे पुरुषशिरसि वामित्राञ् जुह्वद् अभिप्रक्रम्य निवपति
(कौश्स्_2,6[15].2) +वराहविहताद् [एद्. वराहविहिताद्; चलन्द्, क्ल्.स्छ्र्. प्. 70] राजानो वेदिं कुर्वन्ति
(कौश्स्_2,6[15].3) तस्यां प्रदानान्तानि
(कौश्स्_2,6[15].4) एकेष्वा हतस्यादहने_उपसमाधाय दीर्घदण्डेण स्रुवेण रथ्चक्रस्य खेन समया जुहोति
(कौश्स्_2,6[15].5) योजनीयं श्रुत्वा योजयेत्
(कौश्स्_2,6[15].6) <यदि चिन् नु त्वा [5.2.4]> <नमो देववधेभ्यो [6.13]> इत्य् अन्वाह
(कौश्स्_2,6[15].7) वैश्याय प्रदानान्तानि
(कौश्स्_2,6[15].8) <त्वया वयम् [5.2.5]> इति आयुधिग्रामण्ये
(कौश्स्_2,6[15].9) <नि तद् दधिषे [5.2.6]>_इति राज्ञोदपात्रं द्वौद्वौ_अवेक्षयेत्
(कौश्स्_2,6[15].10) +यं [एद्.: यन्; चलन्द्, क्ल्.स्छ्र्. प्. 57] न पश्येद् न युध्येत
(कौश्स्_2,6[15].11) <नि तद् दधिषे [5.2.6]> <वनस्पते [12.3.33]> <अया विष्ठा [7.3]> <अग्न इन्द्रश् [7.110]> <दिशस् चतस्रो [8.8.22]> इति नवं रथं राजानं ससारथिम् आस्थापयति
(कौश्स्_2,6[15].12) <ब्रह्म जज्ञानम् [5.6]> इति जीवितविज्ञानम्
(कौश्स्_2,6[15].13) तिस्रः स्नावरज्जूर् अङ्गारेषु_अवधाय
(कौश्स्_2,6[15].14) उत्कुचतीषु कल्याणम्
(कौश्स्_2,6[15].15) सांग्रामिकम् एता व्यादिशति मध्ये मृत्युर् इतरे सेने
(कौश्स्_2,6[15].16) पराजेष्यमाणान् मृत्युर् अतिवर्तते ज्येष्यन्तो मृत्युम् [नोते चोन्ज्. स्पेइजेर् मुसेउम् 9 249]
(कौश्स्_2,6[15].17) अग्रेषूत्कुचत्सु मुख्या हन्यन्ते मध्येषु मध्या अन्तेषु_अवरे
(कौश्स्_2,6[15].18) एवम् इषीकाः
(कौश्स्_2,7[16].1) <उच्चैर् घोषो [5.20]> <उप श्वासय [6.126]> इति सर्ववादित्राणि प्रक्षाल्य तगर_उशीरेण संधाव्य संपातवन्ति त्रिर् आहत्य प्रयछति
(कौश्स्_2,7[16].2) <विहृदयम् [5.21]> इत्य् उच्चैस्तरां (?) हुत्वा स्रुवम् उद्वर्तयन्
(कौश्स्_2,7[16].3) सोमांशुं हरिणचर्मणि_उत्सीव्य क्षत्रियाय बध्नाति
(कौश्स्_2,7[16].4) <परि वर्त्मानि [6.67]> <इन्द्रो जयाति [6.98]> इति राजा त्रिः सेनां परियाति
(कौश्स्_2,7[16].5) उक्तः पूर्वस्य सोमांशुः
(कौश्स्_2,7[16].6) <संदानं वो [6.103]> <आदानेन [6.104]> इति पाशैर् आदानसंदानानि
(कौश्स्_2,7[16].7) <मर्माणि ते [7.118]> इति क्षत्रियं संनाहयति
(कौश्स्_2,7[16].8) अभयानाम् अप्ययः
(कौश्स्_2,7[16].9) <इन्द्रो मन्थतु [8.8]> इति
(कौश्स्_2,7[16].10) <पूतिरज्जुर् [8.8.2अब्]> इति पूतिरज्जुम् अवधाय
(कौश्स्_2,7[16].11) अश्वत्थबधकयोर् अग्निं मन्थति
(कौश्स्_2,7[16].12) <धूमम् [8.8.2च्द्]> इति धूमम् अनुमन्त्रयते
(कौश्स्_2,7[16].13) <अग्निम् [8.8.2च्द्]> इत्य् अग्निम्
(कौश्स्_2,7[16].14) तस्मिन्न् अरण्ये सपत्नक्षयणीर् आदधात्य् अश्वत्थ_बधक_ताजद्भङ्ग_आह्व_खदिर_शराणाम्
(कौश्स्_2,7[16].15) उक्ताः पाशाः
(कौश्स्_2,7[16].16) आश्वत्थानि कूटानि भाङ्गानि जालानि
(कौश्स्_2,7[16].17) बाधकदण्डानि
(कौश्स्_2,7[16].18) <स्वाहैभ्यो [8.8.24च्द्]> इति मित्रेभ्यो जुहोति
(कौश्स्_2,7[16].19) <दुराहामीभ्य [8.8.24च्द्]> इति सव्येन_इङ्गिडम् अमित्रेभ्यो बाधके
(कौश्स्_2,7[16].20) उत्तरतो_अग्नेर् लोहिताश्वत्थस्य शाखां निहत्य नीललोहिताभ्यां सूत्राभ्यां परितत्य <नीललोहितेनामून् [8.8.24ए]> इति दक्षिणा प्रहापयति
(कौश्स्_2,7[16].21) <ये बाहव् [11.9]> <उत् तिष्ठत [11.10]> इति यथालिङ्गं संप्रेष्यति
(कौश्स्_2,7[16].22) होमार्थे पृषदाज्यम्
(कौश्स्_2,7[16].23) प्रदानान्तानि वाप्यानि
(कौश्स्_2,7[16].24) वाप्यैस् त्रिषन्धीनि वज्ररूपाण्य् अर्बुदिरूपाणि
(कौश्स्_2,7[16].25) शितिपदीं संपातवतीं दर्भरज्ज्वा क्षत्रियाय_उपसङ्गदण्डे बध्नाति
(कौश्स्_2,7[16].26) द्वितीयाम् अस्यति
(कौश्स्_2,7[16].27) <अस्मिन् वसु [1.9]> इति राष्ट्रावगमनम्
(कौश्स्_2,7[16].28) आनुशूकानां व्रीहीणाम् आव्रस्कजैः काम्पीलैः शृतं सारूपवत्सम् आशयति
(कौश्स्_2,7[16].29) <अभीवर्तेन [1.29]> इति रथनेमिमणिम् अयःसीसलोहरजतताम्रवेष्टितं हेमनाभिं वासितं बद्ध्वा सूत्रोतं बर्हिषि कृत्वा संपातवन्तं प्रत्यृचं भृष्टीर् अभीवर्त्तोत्तमाभ्याम् आचृतति
(कौश्स्_2,7[16].30) <अचिक्रदत् [3.3]> <आ त्वा गन् [3.4]> इति यस्माद् राष्ट्राद् अवरुद्धस् तस्याशायां शयनविधं पुरोडाशं दर्भेषूदके निनयति
(कौश्स्_2,7[16].31) ततो लोष्टेन ज्योतिर् आयतनं संस्तीर्य क्षीरौदनम् अश्नाति
(कौश्स्_2,7[16].32) यतो लोष्टस् ततः संभाराः
(कौश्स्_2,7[16].33) तिसृणां प्रातरशिते पुरोडाशे ह्वयन्ते
(कौश्स्_2,8[17].1) <भूतो भूतेषु [4.8]> इति राजानम् अभिषेक्ष्यन् महानदे शान्त्युदकं करोत्य् आदिष्टानाम्
(कौश्स्_2,8[17].2) स्थालीपाकं श्रपयित्वा दक्षिणतः परिगृह्याया दर्भेषु तिष्ठन्तम् अभिषिञ्चति
(कौश्स्_2,8[17].3) तल्पार्षभं चर्मारोहयति
(कौश्स्_2,8[17].4) उदपात्रं समासिञ्चेते
(कौश्स्_2,8[17].5) विपरिदधाने
(कौश्स्_2,8[17].6) सहैव नौ सुकृतं सह दुष्कृतम् इति ब्रह्मा ब्रूयात्
(कौश्स्_2,8[17].7) यो दुष्कृतं करवत् तस्य दुष्कृतं सुकृतं नौ सहेति
(कौश्स्_2,8[17].8) आशयति
(कौश्स्_2,8[17].9) अश्वम् आरोह्यापराजितां प्रतिपादयति
(कौश्स्_2,8[17].10) सहस्रं ग्रामवरो दक्षिणा
(कौश्स्_2,8[17].11) विपरिधानान्तम् एकराजेन व्याख्यातम्
(कौश्स्_2,8[17].12) तल्पे दर्भेष्व् अभिशिञ्चति
(कौश्स्_2,8[17].13) वर्षीयसि वैयाघ्रं चर्मारोहयति
(कौश्स्_2,8[17].14) चत्वारो राजपुत्रास् ताल्पाः पृथक्पादेषु शयनं परामृश्य सभां प्रापयन्ति
(कौश्स्_2,8[17].15) दासः पादौ प्रक्षालयति
(कौश्स्_2,8[17].16) महाशूद्र उपसिञ्चति
(कौश्स्_2,8[17].17) कृतसंपन्नान् अक्षान् आ तृतीयं विचिनोति
(कौश्स्_2,8[17].18) वैश्यः सर्वस्वजैनम् उपतिष्ठते_उत्सृजायुष्मन्न् इति
(कौश्स्_2,8[17].19) उत्सृजामि ब्राह्मणाय_उत्सृजामि क्षत्रियाय_उत्सृजामि वैश्याय धर्मो मे जनपदे चर्यताम् इति
(कौश्स्_2,8[17].20) प्रतिपद्यते
(कौश्स्_2,8[17].21) आशयति
(कौश्स्_2,8[17].22) अश्वम् आरोह्यापराजितां प्रतिपादयति
(कौश्स्_2,8[17].23) सभाम् उदायाति
(कौश्स्_2,8[17].24) मधुमिश्रं ब्राह्मणान् भोजयति
(कौश्स्_2,8[17].25) रसान् आशयति
(कौश्स्_2,8[17].26) माहिषाण्य् उपयाति
(कौश्स्_2,8[17].27) कुर्युर् गाम् इति गार्ग्यपार्थश्रवसौ नेति भागलिः
(कौश्स्_2,8[17].28) <इमम् इन्द्र वर्धय क्षत्रियं मे [4.22]> इति क्षत्रियं प्रातः_प्रातर् अभिमन्त्रयते
(कौश्स्_2,8[17].29) उक्तं समासेचनं विपरिधानम्
(कौश्स्_2,8[17].30) <सविता प्रसवानाम् [5.24]> इति पौरोहित्ये वत्स्यन् वैश्वलोपीः समिध आधाय
(कौश्स्_2,8[17].31) <इन्द्र क्षत्रम् [7.84.2]> इति क्षत्रियम् उपनयीत
(कौश्स्_2,8[17].32) तद् आहुर् न क्षत्रियं सावित्रीं वाचयेद् इति
(कौश्स्_2,8[17].33) कथं नु तम् उपनयीत यन् न वाचयेद्
(कौश्स्_2,8[17].34) वाचयेद् एव वाचयेद् एव
(कौश्स् 2 चोलोफोन्) इति अथर्ववेदे कौशिकसूत्रे द्वितीयो ऽध्यायः समाप्तः
(कौश्स्_3,1[18].1) पूर्वस्य पूर्वस्यां पौर्णमास्याम् अस्तमित उदकान्ते कृष्णचैलपरिहितो निरृतिकर्माणि प्रयुङ्क्ते
(कौश्स्_3,1[18].2) नाव्याया दक्षिणावर्ते शापेटं निखनेत्
(कौश्स्_3,1[18].3) अपां सूक्तैर् अवसिञ्चति
(कौश्स्_3,1[18].4) अप्सु कृष्णं जहाति
(कौश्स्_3,1[18].5) अहतवसन उपमुच्य_उपानहौ जीवघात्याया उदाव्रजति
(कौश्स्_3,1[18].6) प्रोष्य ताम् उत्तरस्यां सांपदं कुरुते
(कौश्स्_3,1[18].7) शापेटम् आलिप्याप्सु निबध्य तस्मिन्न् उपसमाधाय संपातवन्तं करोति
(कौश्स्_3,1[18].8) अश्नाति
(कौश्स्_3,1[18].9) आधाय कृष्णं प्रवाहयति
(कौश्स्_3,1[18].10) उपमुच्य जरदुपानहौ सव्येन जरत्_छत्त्रं दक्षिणेन शालातृणाण्य् आदीप्य जीर्णं वीरिणम् अभिन्यस्यति
(कौश्स्_3,1[18].11) अनावृतम् आवृत्य सकृज् जुहोति
(कौश्स्_3,1[18].12) सव्यं प्रहरत्य् उपानहौ च
(कौश्स्_3,1[18].13) जीर्णे वीरिण उपसमाधाय <अयं ते योनिर् [3.20]> इति जरत्कोष्ठाद् व्रीहीञ् शर्करामिश्रान् आवपति
(कौश्स्_3,1[18].14) <आ नो भर [5.7]> इति धानाः
(कौश्स्_3,1[18].15) युक्ताभ्यां सह कोष्ठाभ्यां तृटीयाम्
(कौश्स्_3,1[18].16) कृष्णशकुनेः सव्यजङ्घायाम् अङ्कम् अनुबध्याङ्के पुरोडाशं <प्र पतेतः [7.115]> इति अनावृतं प्रपादयति
(कौश्स्_3,1[18].17) नीलं संधाय लोहितम् आछाद्य शुक्लं परिणह्य द्वितीयया_उष्णीषम् अङ्केन_उपसाद्य सव्येन सहाङ्केनावाङ् अप्सु_अपविध्यति
(कौश्स्_3,1[18].18) तृतीयया छन्नं चतुर्थ्या संवीतम्
(कौश्स्_3,1[18].19) पूर्वस्य चित्राकर्म
(कौश्स्_3,1[18].20) कुलायशृतं [एद्. कुलाय श्-, बुत् च्f. चलन्द् क्ल्. स्छ्र्. 58] हरितबर्हिषम् अश्नाति
(कौश्स्_3,1[18].21) अन्वक्ताः प्रादेशमात्रीर् आदधाति
(कौश्स्_3,1[18].22) नाव्ययोः सांवैद्ये पश्चाद् अग्नेर् भूमिपरिलेखे कीलालं मुखेनाश्नाति
(कौश्स्_3,1[18].23) तेजोव्रतं त्रिरात्रम् अश्नाति
(कौश्स्_3,1[18].24) तद्भक्षः
(कौश्स्_3,1[18].25) शंभुमयोभुभ्यां [1.5 + 1.6]> <ब्रह्म जज्ञानम् [4.1.1]> <अस्य वामस्य [9.9]> <यो रोहितो [13.1.25]> <उद् अस्य केतवो [13.2.1]> <मूर्धाहं [16.3.1]> <विषासहिम् [17.1.1-5]> इति सलिलैः क्षीरौदनम् अश्नाति
(कौश्स्_3,1[18].26) मन्थान्तानि
(कौश्स्_3,1[18].27) द्वितीयेन प्रवत्स्यन् हविषाम् उपदधीत
(कौश्स्_3,1[18].28) अथ प्रत्येत्य
(कौश्स्_3,1[18].29) अथ प्रत्येत्य
(कौश्स्_3,1[18].30) अथ प्रार्थयमाणः
(कौश्स्_3,1[18].31) अथ प्रार्थयमाणः
(कौश्स्_3,1[18].32) चत्वारो धायाः पलाशयष्टीनां भवन्ति
(कौश्स्_3,1[18].33) दर्भाणाम् उपोलवानां चत्वारः
(कौश्स्_3,1[18].34) तं व्यतिषक्तम् अष्टावरम् इध्मं सात्त्रिके_अग्नौ_आधायाज्येनाभिजुहुयात्
(कौश्स्_3,1[18].35) धूमं नियछेत
(कौश्स्_3,1[18].36) लेपं प्राश्नीयात्
(कौश्स्_3,1[18].37) तम् उ चेन् न विन्देद् अथ सत्त्रस्यायतने यज्ञायतनम् इव कृत्वा
(कौश्स्_3,1[18].38) समुद्र इत्य् आचक्षते कर्म
(कौश्स्_3,2[19].1) <अम्बयो यन्त्य् [1.4.1]> शंभुमयोभुभ्यां [1.5 + 1.6] <ब्रह्म जज्ञानम् [4.1]> <आ गावो [4.21.1]> <एका च मे [5.15.1]> इति गा लवणं पाययत्य् उपतापिनीः
(कौश्स्_3,2[19].2) प्रजननकामाः
(कौश्स्_3,2[19].3) प्रपाम् अवरुणद्धि
(कौश्स्_3,2[19].4) <सं सं स्रवन्तु [1.15.1]> इति नाव्याभ्याम् उदकम् आहरतः सर्वत उपासेचम्
(कौश्स्_3,2[19].5) तस्मिन् मैश्रधान्यं शृतम् अश्नाति
(कौश्स्_3,2[19].6) मन्थं वा दधिमधुमिश्रम्
(कौश्स्_3,2[19].7) यस्य श्रियं कामयते ततो व्रीहि_आज्यपय आहार्य क्षीरौदनम् अश्नाति
(कौश्स्_3,2[19].8) तदलाभे हरितगोमयम् आहार्य शोषयित्वा त्रिवृति गोमयपरिचये शृतम् अश्नाति
(कौश्स्_3,2[19].9) <शेरभक [2.24.1]> इति सामुद्रम् अप्सु कर्म व्याख्यातम्
(कौश्स्_3,2[19].10) अनपहतधाना लोहिताजाया द्रप्सेन संनीयाश्नाति
(कौश्स्_3,2[19].11) एतावद् उपैति
(कौश्स्_3,2[19].12) तृणानां ग्रन्थीन् उद्ग्रथ्नन्न् अपक्रामति
(कौश्स्_3,2[19].13) तान् उदाव्रजन्न् उदपात्रस्य_उदपात्रेणाभिप्लावयति मुखं विमार्ष्टि [नोते चोन्ज्. स्पेइजेर् मुसेउम् 9 250]
(कौश्स्_3,2[19].14) <एह यन्तु पशवो [2.26.1]> <सं वो गोष्ठेन [3.24.1]> <प्रजावतीः [4.21.7 । 7.75]> <प्रजापतिर् [6.11.3]> इति गोष्ठकर्माणि
(कौश्स्_3,2[19].15) गृष्टेः पीयूषं श्लेष्ममिश्रम् अश्नाति
(कौश्स्_3,2[19].16) गां ददाति
(कौश्स्_3,2[19].17) उदपात्रं निनयति
(कौश्स्_3,2[19].18) समूह्य सव्येनाधिष्ठायार्धं दक्षिणेन विक्षिपति
(कौश्स्_3,2[19].19) सारूपवत्से शकृत्पिण्डान् गुग्गुलुलवणे प्रतिनीय पश्चाद् अग्नेर् निखनति
(कौश्स्_3,2[19].20) तिसृणां प्रातर् अश्नाति
(कौश्स्_3,2[19].21) विकृते संपन्नम्
(कौश्स्_3,2[19].22) <आयम् अगन् [3.5.1]> <अयं प्रतिसरो [8.5.1]> <अयं मे वरणो [10.3.1]> <अरातीयोर् [10.6.1]> इति मन्त्रोक्तान् वासितान् बध्नाति
(कौश्स्_3,2[19].23) उत्तमस्य चतुरो जातरूपशकलेनानुसूत्रं गमयित्वावभुज्य त्रैधं पर्यस्यति
(कौश्स्_3,2[19].24) <एतम् इध्मम् [10.6.35]> इत्य् उपसमाधाय
(कौश्स्_3,2[19].25) <तम् इमं देवता [10.6.29]> इति वासितम् उल्लुप्य <ब्रह्मणा तेजसा [10.6.30]> इति बध्नाति
(कौश्स्_3,2[19].26) <उत्तमो असि [6.15.1]> इति मन्त्रोक्तम्
(कौश्स्_3,2[19].27) <अक्षितास् त [6.142.3]> इति यवमणिम्
(कौश्स्_3,2[19].28) <प्रथमा ह व्युवास सा [3.10]> इत्य् अष्टक्याया वपां सर्वेण सूक्तेन त्रिर् जुहोति
(कौश्स्_3,2[19].29) समवत्तानां स्थालीपाकस्य
(कौश्स्_3,2[19].30) सहहुतान् आज्यमिश्रान् हुत्वा पश्चाद् अग्नेर् वाग्यतः संविशति
(कौश्स्_3,2[19].31) महाभूतानां कीर्तयन् संजिहीते
(कौश्स्_3,3[20].1) <सीरा युञ्जन्ति [3.17.1]> इति युगलाङ्गलं प्रतनोति
(कौश्स्_3,3[20].2) दक्षिणम् उष्टारं प्रथमं युनक्ति
(कौश्स्_3,3[20].3) <एहि पूर्णक [-]>_इत्य् उत्तरम्
(कौश्स्_3,3[20].4) कीनाशा इतरान्
(कौश्स्_3,3[20].5) <अश्विना फालं कल्पयताम् उपावतु बृहस्पतिः । यथासद् बहुधान्यम् अयक्ष्मं बहुपूरुषम् [प्स् 8.18.6]> इति फालम् अतिकर्षति
(कौश्स्_3,3[20].6) <इरावान् असि धार्तराष्ट्रे तव मे सत्त्रे राध्यताम् [-]> इति प्रतिमिमीते
(कौश्स्_3,3[20].7) <अपहताः प्रतिष्ठाः [-]> इत्य् अपूपैः प्रतिहत्य कृषति
(कौश्स्_3,3[20].8) सूक्तस्य पारं गत्वा प्रयछति
(कौश्स्_3,3[20].9) तिस्रः सीताः प्राचीर् गमयन्ति कल्याणीर् वाचो वदन्तः
(कौश्स्_3,3[20].10) <सीते वन्दामहे त्वा [3.17.8]> इत्य् आवर्तयित्वा_उत्तरस्मिन् सीतान्ते पुरोडाशेन_इन्द्रं यजते
(कौश्स्_3,3[20].11) अश्विनौ स्थालीपाकेन
(कौश्स्_3,3[20].12) सीतायां संपातान् आनयन्ति
(कौश्स्_3,3[20].13) उदपात्रे_उत्तरान्
(कौश्स्_3,3[20].14) शष्पहविषाम् अवधाय
(कौश्स्_3,3[20].15) सर्वम् अनक्ति
(कौश्स्_3,3[20].16) यत्र संपातान् आनयति ततो लोष्टं धारयन्तं पत्नी पृछत्य् अकृक्षत_इति
(कौश्स्_3,3[20].17) अकृक्षाम_इति
(कौश्स्_3,3[20].18) किम् आहार्षीर् इति
(कौश्स्_3,3[20].19) <वित्तिं भूतिं पुष्टिं प्रजां पशून् अन्नम् अन्नाद्यम् [च्f. इ.अ. प्स् 5.35.1, प्स् 19.53.19? (= प्स्क् 19.53.10)]> इति
(कौश्स्_3,3[20].20) उत्तरतो मध्यमायां निवपति
(कौश्स्_3,3[20].21) अभ्यज्य_उत्तरफालं प्रातर् आयोजनाय निदधाति
(कौश्स्_3,3[20].22) सीताशिरःसु दर्भान् आस्तीर्य प्लक्ष_उदुम्बरस्य त्रींस्_त्रींश् चमसान् निदधाति
(कौश्स्_3,3[20].23) रसवतो दक्षिणे शष्पवतो मध्यमे पुरोडाशवत उत्तरे
(कौश्स्_3,3[20].24) दर्भान् प्रत्यवभुज्य संवपति
(कौश्स्_3,3[20].25) सारूपवत्से शकृत्पिण्डान् गुग्गुलुलवणे प्रतिनीयाश्नाति
(कौश्स्_3,3[20].26) अनडुत्सांपदम्
(कौश्स्_3,4[21].1) <पयस्वतीर् [3.24]> इति स्फातिकरणम्
(कौश्स्_3,4[21].2) शान्तफलशिलाकृतिलोष्टवल्मीकराशिवापं त्रीणि कूदीप्रान्तानि मध्यमपलाशे दर्भेण परिवेष्ट्य राशिपल्येषु करोति
(कौश्स्_3,4[21].3) सायं भुञ्जते
(कौश्स्_3,4[21].4) प्रत्यावपन्ति शेषम्
(कौश्स्_3,4[21].5) आ भक्तयातनात्
(कौश्स्_3,4[21].6) अनुमन्त्रयते
(कौश्स्_3,4[21].7) <अयं नो नभसस् पतिः [6.79]> इति पल्ये_अश्मानं संप्रोक्ष्यान्वृचं काशी ओप्यावापयति
(कौश्स्_3,4[21].8) <आ गावो [4.21]> इति गा आयतीः प्रत्युत्तिष्ठति
(कौश्स्_3,4[21].9) प्रावृषि प्रथमधारस्य_इन्द्राय त्रिर् जुहोति
(कौश्स्_3,4[21].10) <प्रजावतीः []> इति प्रतिष्ठमाना अनुमन्त्रयते
(कौश्स्_3,4[21].11) कर्कीप्रवादानां द्वादशदाम्न्यां संपातवत्याम् <अयं घासो ... इह वत्साम् [4.38.7च्द्]> इति मन्त्रोक्तम्
(कौश्स्_3,4[21].12) <यस् ते शोकाय [5.1.3]> इति वस्त्रसांपदी
(कौश्स्_3,4[21].13) तिस्रः कूदीमयीर् ऊर्णनाभिकुलाय परिहिता अन्वक्ता आदधाति
(कौश्स्_3,4[21].14) अत्यन्तेषीकामौञ्जपरिहिता [थुस् wइथ् चलन्द्, अz प्. 55, न्. 5] मधुना प्रलिप्य चिक्कशेषु पर्यस्य
(कौश्स्_3,4[21].15) <उत पुत्रः [5.1.8]> इति ज्येष्ठं पुत्रम् अवसाययति
(कौश्स्_3,4[21].16) मितशरणः सांपदं कुरुते
(कौश्स्_3,4[21].17) <अर्धम् अर्धेन [5.1.9]> इत्य् आर्द्रपाणिर् असंज्ञात्वा [सो चलन्द्; एद्. आर्द्रपाणी रसं ज्ञात्वा] प्रयछति
(कौश्स्_3,4[21].18) शान्तशाखया प्राग्भागम् अपाकृत्य
(कौश्स्_3,4[21].19) प्रत्यग्नि परिचृतति
(कौश्स्_3,4[21].20) तस्या अमावास्यायां तिस्रः प्रादेशमात्रीर् आदधाति
(कौश्स्_3,4[21].21) <त्वे क्रतुम् [5.2.3]> इति रसप्राशनी
(कौश्स्_3,4[21].22) रसकर्माणि कुरुते
(कौश्स्_3,4[21].23) <स्तुष्व वर्ष्मन् [5.2.7]> इति प्राजापत्यामावास्यायाम् अस्तमिते वल्मीकशिरसि दर्भावस्तीर्णे_अध्यधि दीपं धारयंस् त्रिर् जुहोति
(कौश्स्_3,4[21].24) तण्डुलसंपातान् आनीय रसैर् उपसिच्याश्नाति
(कौश्स्_3,4[21].25) एवं पौर्णमास्याम् आज्य_ऊतान्
(कौश्स्_3,5[22].1) <ऋधङ्मन्त्रो [5.1]> <तद् इद् आस [5.2]> इति मैश्रधान्यं भृष्टपिष्टं लोहितालंकृतं रसमिश्रम् अश्नाति
(कौश्स्_3,5[22].2) अभृष्टं प्लक्ष_उदुम्बरस्य_उत्तरतो_अग्नेस् त्रिषु चमसेषु पूर्वाह्णस्य तेजसाग्रम् अन्नस्य प्राशिषम् इति पूर्वाह्णे
(कौश्स्_3,5[22].3) मध्यन्दिनस्य तेजसा मध्यम् अन्नस्य प्राशि.अम् इति मध्यन्दिने
(कौश्स्_3,5[22].4) अपराह्णस्य तेजसा सर्वम् अन्नस्य प्राशिषम् इत्य् अपराह्णे
(कौश्स्_3,5[22].5) ऋतुमत्या स्त्रिया अङ्गुलिभ्यां लोहितम्
(कौश्स्_3,5[22].6) यत् क्षेत्रं कामयते तस्मिन् कीलालं दधिमधुमिश्रम्
(कौश्स्_3,5[22].7) संवत्सरं स्त्रियम् अनुपेत्य शुक्त्यां रेत आनीय तण्डुलमिश्रं सप्तग्रामम्
(कौश्स्_3,5[22].8) द्वादशीम् अमावास्या_इति क्षीरभक्षो भवत्य् अमावास्यायां दधिमधुभक्षस् तस्य मूत्रे_उदकदधिमधुपल्पूलनानि_आसिच्य
(कौश्स्_3,5[22].9) <क्रव्यादं नाडी प्र विवेशाग्निं प्रजाभाङ्गिरतो माययैतौ । आवां देवी जुषाणे घृताची इमम् अन्नाद्याय प्र विशतं स्वाहा [-]> इति
(कौश्स्_3,5[22].10) निशायाम् आग्रयणतण्डुलान् उदक्यान् मधुमिश्रान् निदधात्य् आ यवानां पङ्क्तेः
(कौश्स्_3,5[22].11) एवं यवान् उभयान् समोप्य
(कौश्स्_3,5[22].12) त्रिवृति गोमयपरिचये शृतम् अश्नाति
(कौश्स्_3,5[22].13) समृद्धम् इति काङ्कायनः
(कौश्स्_3,5[22].14) <ममाग्ने वर्चो [5.3]> इति सात्त्रिकान् अग्नीन् दर्भपूतीकभाङ्गाभिः परिस्तीर्य गार्हपत्यशृतं सर्वेषु संपातवन्तं गार्हपत्यदेशे_अश्नाति
(कौश्स्_3,5[22].15) एवं पूर्वस्मिन्न् अपरयोर् उपसंहृत्य
(कौश्स्_3,5[22].16) एवं द्रोणकलशे रसान् उक्तम्
(कौश्स्_3,6[23].1) <यजूंषि यज्ञे [5.26]> इति नवशालायां सर्पिर् मधुमिश्रम् अश्नाति [बुत् चलन्द्: जुहोति]
(कौश्स्_3,6[23].2) <दोषो गाय [6.1]> इति द्वितीयाम्
(कौश्स्_3,6[23].3) युक्ताभ्यां तृतीयाम्
(कौश्स्_3,6[23].4) आनुमतीं चतुर्थीम्
(कौश्स्_3,6[23].5) शालाम् अङ्गुलिभ्यां संप्रोक्ष्य गृहपत्न्यासाद उपविश्य_उदपात्रं निनयति
(कौश्स्_3,6[23].6) <इहैव स्त [7.60.7]> इति वाचं विसृजते
(कौश्स्_3,6[23].7) <ऊर्ध्वा अस्य [5.27]> इति वार्ष्मणम् औदुम्बरं मन्थप्रतिरूपम् अभिजुहोति
(कौश्स्_3,6[23].8) असंख्याता अधिशृत्य सप्तागमशष्कुलीः
(कौश्स्_3,6[23].9) <त्वष्टा मे []> इति प्रातर् +विभक्ष्यमाणो [सो चलन्द्; एद्. विभुङ्क्ष्यमाणो]_अश्नाति
(कौश्स्_3,6[23].10) ज्याजुं बद्नाति
(कौश्स्_3,6[23].11) दण्डं संपातवन्तं विमृज्य धारयति
(कौश्स्_3,6[23].12) <वायुर् एनाः [6.141]> इति युक्तयोश् चित्राकर्म निशायां संभारान् संपातवतः करोति
(कौश्स्_3,6[23].13) अपरेद्युर् <वायुर् एनाः [6.141]> इति शाखया_उदकधारया गाः परिक्रामति
(कौश्स्_3,6[23].14) प्रथमजस्य शकलम् अवधाय_औदुम्बरेणासिना <लोहितेन [6.141.2]> इति मन्त्रोक्तम्
(कौश्स्_3,6[23].15) <यथा चक्रुर् [6.141.3]> इतीक्षुकाशकाण्ड्या लोहितं निर्मृज्य रसमिश्रम् अश्नाति
(कौश्स्_3,6[23].16) सर्वम् औदुम्बरम्
(कौश्स्_3,6[23].17) <यस्येदम् आ [6.33]> इत्य् आयोजनानाम् अप्ययः
(कौश्स्_3,7[24].1) <उच् छ्रयस्व [6.142]> इति बीजोपहरणम्
(कौश्स्_3,7[24].2) आज्यमिश्रान् यवान् उर्वरायां कृष्टे फालेन_उदुह्यान्वृचं काशीन् निनयति निवपति
(कौश्स्_3,7[24].3) <अभि त्यम् [7.14]> इति महावकाशे_अरण्य उन्नते विमिते प्राग्द्वारप्रत्यग्द्वारेष्व् अप्सु संपातान् आनयति
(कौश्स्_3,7[24].4) कृष्णाजिने सोमांशून् विचिनोति
(कौश्स्_3,7[24].5) सोममिश्रेण संपातवन्तम् अश्नाति
(कौश्स्_3,7[24].6) आदीप्ते संपन्नम्
(कौश्स्_3,7[24].7) <तां सवितः [7.15]> इति गृष्टिदाम बध्नाति
(कौश्स्_3,7[24].8) <सं मा सिञ्चन्तु [7.33]> इति सर्वोदके मैश्रधान्यम्
(कौश्स्_3,7[24].9) <दिव्यं सुपर्णं [7.39]> इत्य् ऋषभदण्डिनो वपया_इन्द्रं यजते
(कौश्स्_3,7[24].10) अनुबद्धशिरःपादेन गोशालां चर्मणावछाद्यावदानकृतं ब्राह्मणान् भोजयति
(कौश्स्_3,7[24].11) प्रोष्य समिध आदाय_ <ऊर्जं बिभ्रद् [7.60]> इति गृहसंकाशे जपति
(कौश्स्_3,7[24].12) सव्येन समिधो दक्षिणेन शालावलीकं संस्तभ्य जपति
(कौश्स्_3,7[24].13) अतिव्रज्य समिध आधाय <सुमङ्गलि प्रजावति सुशीमे [सो चलन्द्; एद्. सुसीमे] _अहं वां गृहपतिर् जीव्यासम्> इति स्थूणे गृह्णात्य् उपतिष्ठते
(कौश्स्_3,7[24].14) <यद् वदामि [12.1.58]> इति मन्त्रोक्तम्
(कौश्स्_3,7[24].15) गृहपत्न्यासादे_उपविश्य_उदपात्रं निनयति
(कौश्स्_3,7[24].16) <इहैव स्त [7.60.7]> इति प्रवत्स्यन्न् अवेक्षते
(कौश्स्_3,7[24].17) <सूयवसाद् [7.73.11]> सूयवसे पशून् निष्ठापयति
(कौश्स्_3,7[24].18) दूर्वाग्रैर् अञ्जलौ_अप आनीय दर्शं दार्शीभिर् उपतिष्ठते
(कौश्स्_3,7[24].19) <इन्द्रस्य कुक्षिर् [7.111]> <साहस्रस् [9.4]> इत्य् ऋषभं संपातवन्तम् अतिसृजति
(कौश्स्_3,7[24].20) रेतोधायै त्वातिसृजामि वयोधायै त्वातिसृजामि यूथत्वायै त्वातिसृजामि गणत्वायै त्वातिसृजामि सहस्रपोषायै त्वातिसृजाम्य् अपरिमितपोस्.आयै त्वातिसृजामि
(कौश्स्_3,7[24].21) <एतं वो युवानं [9.4.24]> इति पुराणं प्रवृत्य नवम् उत्सृजते संप्रोक्षति
(कौश्स्_3,7[24].22) उत्तरेण पुष्टिकाम ऋषभेण_इन्द्रं यजते
(कौश्स्_3,7[24].23) संपत्कामः श्वेतेन पौर्णमास्याम्
(कौश्स्_3,7[24].24) <सत्यं बृहद् [12.1]> इत्य् आग्रहायण्याम्
(कौश्स्_3,7[24].25) पश्चाद् अग्नेर् दर्भेषु खदायां सर्वहुतम्
(कौश्स्_3,7[24].26) द्वितीयं संपातवन्तम् अश्नाति
(कौश्स्_3,7[24].27) तृतीयस्यादितिः सप्तभिर् <भूमे मातर् [12.1.63]> इति त्रिर् जुहोति
(कौश्स्_3,7[24].28) पश्चाद् अग्नेर् दर्भेषु कशिपु_आस्तीर्य <विमृग्वरीं []> इत्य् उपविशति
(कौश्स्_3,7[24].29) <यास् ते शिवास् [9.2.25]> इति संविशति
(कौश्स्_3,7[24].30) <यच् छयानः []> इति पर्यावर्तते
(कौश्स्_3,7[24].31) नवभिः <शन्तिवा [12.1.59]> इति दशम्या_ <उद् आयुषा [3.31.10]> इत्य् उपोत्तिष्ठति
(कौश्स्_3,7[24].32) <उद् वयं [7.53.7]> इत्य् उत्क्रामति
(कौश्स्_3,7[24].33) <उदीराणा [12.1.28]> इति त्रीणि पदानि प्राङ् वा_उदङ् वा बाह्येन_उपनिष्क्रम्य <यावत् ते [12.1.33]> इति वीक्षते
(कौश्स्_3,7[24].34) उन्नताच् च
(कौश्स्_3,7[24].35) पुरस्ताद् अग्नेः सीरं युक्तम् उदपात्रेण संपातवतावसिञ्चति
(कौश्स्_3,7[24].36) आयोजनानाम् अप्ययः
(कौश्स्_3,7[24].37) <यस्यां सदोहविर्धाने [12.1.38-40]> इति जुहोति वरो म आगमिष्यतीति
(कौश्स्_3,7[24].38) <यस्याम् अन्नं [12.1.42]> इत्य् उपतिष्ठते
(कौश्स्_3,7[24].39) <निधिं बिभ्रति [12.1.44-45]> इति मणिं हिरण्यकामः
(कौश्स्_3,7[24].40) एवं वित्त्वा
(कौश्स्_3,7[24].41) <यस्यां कृष्णम् [12.1.52]> इति वार्षकृतस्याचमति शिरस्य् आनयते
(कौश्स्_3,7[24].42) <यं त्वा पृषती रथे [13.1.21-26]> इति द्यौः पृषत्य् आदित्यो रोहितः
(कौश्स्_3,7[24].43) पृषतीं गां ददाति
(कौश्स्_3,7[24].44) पृषत्या क्षीरौदनं सर्वहुतम्
(कौश्स्_3,7[24].45) पुष्टिकर्मणाम् उपधानोपस्थानम्
(कौश्स्_3,7[24].46) सलिलैः सर्वकामः सलिलैः सर्वकामः
(कौश्स् 3 चोलोफोन्) इति अथर्ववेदे कौशिकसूत्रे तृतीयो ऽध्यायः समाप्तः
(कौश्स्_4,1[25].1) अथ भैषज्यानि
(कौश्स्_4,1[25].2) लिङ्ग्युपतापो +भिषज्यम् [च्f. चलन्द्, अz, प्. 67, न्.2 बुत् अल्सो स्पेइजेर् मुसेउम् 9 250]
(कौश्स्_4,1[25].3) वचनाद् अन्यत्
(कौश्स्_4,1[25].4) पूर्वस्य_उदपात्रेण संपातवताङ्क्ते
(कौश्स्_4,1[25].5) वलीर् विमार्ष्टि
(कौश्स्_4,1[25].6) <विद्मा शरस्य [1.2.1]>_<अदो यद् [2.3.1 एत्च्.]> इति मुञ्जशिरो रज्ज्वा बध्नाति
(कौश्स्_4,1[25].7) आकृतिलोष्टवल्मीकौ परिलिख्य पाययति
(कौश्स्_4,1[25].8) सर्पिषालिम्पति
(कौश्स्_4,1[25].9) अपिधमति
(कौश्स्_4,1[25].10) <विद्मा शरस्य [1.3.1]> _इति प्रमेहणं बध्नाति
(कौश्स्_4,1[25].11) आखुकिरिपूतीकमथितजरत्प्रमन्दसाव्रस्कान् पाययति
(कौश्स्_4,1[25].12) उत्तमाभ्याम् आस्थापयति
(कौश्स्_4,1[25].13) यानम् आरोहयति
(कौश्स्_4,1[25].14) इषुं विसृजति
(कौश्स्_4,1[25].15) वस्तिं विष्यति
(कौश्स्_4,1[25].16) वर्तिं बिभेत्ति
(कौश्स्_4,1[25].17) एकविंशतिं यवान् दोहन्याम् अद्भिर् आनीय द्रुघ्नीं जघने संस्तभ्य फलतो_अवसिञ्चति
(कौश्स्_4,1[25].18) आलबिसोलं फाण्टं पाययति
(कौश्स्_4,1[25].19) उदावर्तिने च
(कौश्स्_4,1[25].20) <अम्बयो यन्त्य् [1.4.1]>_<वायोः पूतः []> इति च शान्ताः
(कौश्स्_4,1[25].21) उत्तरस्य ससोमाः
(कौश्स्_4,1[25].22) चातनानाम् अपनोदनेन व्याख्यातम्
(कौश्स्_4,1[25].23) त्रपुसमुसलखदिरतार्ष्टाघानाम् आदधाति
(कौश्स्_4,1[25].24) अयुग्मान् खादिरान्_शङ्कून् <अक्ष्यौ नि विध्य [5.29.4]> इति पश्चाद् अग्नेः समंभूमि निहन्ति
(कौश्स्_4,1[25].25) एवम् आयसलोहान्
(कौश्स्_4,1[25].26) तप्तशर्कराभिः शयनं राशिपल्याणि परिकिरति
(कौश्स्_4,1[25].27) अमावास्यायां सकृद्गृहीतान् यवान् अनपहतान् अप्रतीहारपिष्टान् आभिचारिकं परिस्तीर्य तार्ष्टाघेध्म आवपति
(कौश्स्_4,1[25].28) य आगछेत् तं ब्रूयात्_शणशुल्बेन जिह्वां निर्मृजानः शालायाः प्रस्कन्द_इति
(कौश्स्_4,1[25].29) तथाकुर्वन्न् अनाद्ये ह्नुवाने
(कौश्स्_4,1[25].30) वीरिणतूलमिश्रम् इङ्गिडं प्रपुटे जुहोति
(कौश्स्_4,1[25].31) इध्माबर्हिः शालायाम् आसजति
(कौश्स्_4,1[25].32) अपरेद्युर् विकृते पिशाचतो रुजति
(कौश्स्_4,1[25].33) उक्तो होमः
(कौश्स्_4,1[25].34) वैश्रवणायाञ्जलिं कृत्वा जपन्न् आचमयति_अभ्युक्षति
(कौश्स्_4,1[25].35) निशि_उल्मुके संकर्षति
(कौश्स्_4,1[25].36) स्वस्त्याद्यं कुरुते
(कौश्स्_4,1[25].37) <अयं देवानाम् [1.10.1]> इति_एकविंशत्या दर्भपिञ्जूलीभिर् वलीकैः सार्धम् अधिशिरो_अवसिञ्चति
(कौश्स्_4,2[26].1) <जरायुजः [1.12.1]> इति मेदो मधु सर्पिस् तैलं पाययति
(कौश्स्_4,2[26].2) मौञ्जप्रश्नेन शिरसि_अपिहितः सव्येन तित-उनि पूल्यानि धारयमाणो दक्षिणेनावकिरन् व्रजति
(कौश्स्_4,2[26].3) सव्येन तित-उप्रश्नौ दक्षिणेन ज्यां द्रुघ्नीम्
(कौश्स्_4,2[26].4) प्रैषकृद् अग्रतः
(कौश्स्_4,2[26].5) यत्र_एनं व्याधिर् गृह्णाति तत्र तित-उप्रश्नौ निदधाति
(कौश्स्_4,2[26].6) ज्यां च
(कौश्स्_4,2[26].7) आव्रजनम्
(कौश्स्_4,2[26].8) घृतम् नस्तः
(कौश्स्_4,2[26].9) पञ्चपर्वणा ललाटं संस्तभ्य जपति_ <अमूर् या [1.17.1]> इति
(कौश्स्_4,2[26].10) पञ्चपर्वणा पांसुसिकताभिः परिकिरति
(कौश्स्_4,2[26].11) अर्मकपालिकां बध्नाति
(कौश्स्_4,2[26].12) पाययति
(कौश्स्_4,2[26].13) चतुर्भिर् दूर्वाग्रैर् दधिपललं पाययति
(कौश्स्_4,2[26].14) <अनु सूर्यम् [1.22.1]> इति मन्त्रोक्तस्य लोममिश्रम् आचमयति
(कौश्स्_4,2[26].15) पृष्ठे चानीय
(कौश्स्_4,2[26].16) शङ्कुधानं चर्मणि_आसीनाय दुग्धे संपातवन्तं बध्नाति
(कौश्स्_4,2[26].17) पाययति
(कौश्स्_4,2[26].18) हरिद्रौदनभुक्तम् उच्छिष्टान् उच्छिष्टेना प्रपदात् प्रलिप्य मन्त्रोक्तान् अधस्तल्पे हरितसूत्रेण सव्यजङ्घासु बद्ध्वावस्नापयति
(कौश्स्_4,2[26].19) प्रपादयति
(कौश्स्_4,2[26].20) वदत उपस्थापयति
(कौश्स्_4,2[26].21) क्रोडलोमानि जतुना संदिह्य जातरूपेणापिधाप्य
(कौश्स्_4,2[26].22) <नक्तंजाता [1.23.1]> <सुपर्णो जातः [1.24.1]> इति मन्त्रोक्तं शकृदा(सेए चलन्द्, क्ल्.स्छ्र्., प्. 59)_आलोहितं प्रघृष्यालिम्पति
(कौश्स्_4,2[26].23) पलितानि_आछिद्य
(कौश्स्_4,2[26].24) मारुतानि_अपिहितः
(कौश्स्_4,2[26].25) <यद् अग्निर् [1.25.1]> इति परशुं जपन्_तापयति क्वाथयति_अवसिञ्चति
(कौश्स्_4,2[26].26) <उप प्रागाद् [1.28.1]> इति_उद्विजमानस्य शुक्लप्रसूनस्य वीरिणस्य चतसृणाम् इषीकाणाम् उभयतः प्रत्युष्टं बध्नाति
(कौश्स्_4,2[26].27) त्रिविदग्धं काण्डमणिम्
(कौश्स्_4,2[26].28) उल्मुके स्वस्त्याद्यम्
(कौश्स्_4,2[26].29) मातृनाम्नोः सर्वसुरभिचूर्णानि_अन्वक्तानि हुत्वा शेषेण प्रलिम्पति
(कौश्स्_4,2[26].30) चतुष्पथे च शिरसि दर्भेण्ड्वे_अङ्गारकपाले_अन्वक्तानि
(कौश्स्_4,2[26].31) तित-उनि प्रतीपं गाहमानो वपतीतरो_अवसिञ्चति पश्चात्
(कौश्स्_4,2[26].32) आमपात्रे_ओप्यासिच्य मौञ्जे त्रिपादे वयोनिवेशने प्रबध्नाति
(कौश्स्_4,2[26].33) <अघद्विष्टा [2.7.1]> <शं नो देवी [2.25.1]> <वरणो [6.85.1]>_<पिप्पली [6.109.1]> <विद्रधस्य [6.127.1]> <या बभ्रवो [8.7.1]>_इति
(कौश्स्_4,2[26].34) उपोत्तमेन पलाशस्य चतुरङ्गुलेनालिम्पति
(कौश्स्_4,2[26].35) प्रथमेन मन्त्रोक्तं बध्नाति
(कौश्स्_4,2[26].36) द्वितीयेन मन्त्रोक्तस्य संपातवतानुलिम्पति [नोते स्पेइजेर् मुसेउम् 9 250]
(कौश्स्_4,2[26].37) तृतीयेन मन्त्रोक्तं बध्नाति
(कौश्स्_4,2[26].38) चतुर्थेनाशयति
(कौश्स्_4,2[26].39) पञ्चमेन वरुणगृहीतस्य मूर्ध्नि संपातान् आनयति
(कौश्स्_4,2[26].40) उत्तमेन शाकलम्
(कौश्स्_4,2[26].41) <उद् अगातां [2.8.1]>_इति_आप्लावयति बहिः
(कौश्स्_4,2[26].42) <अपेयं [2.8.2]>_इति व्युछन्त्याम्
(कौश्स्_4,2[26].43) <बभ्रोर् [2.8.3]> इति मन्त्रोक्तम् आकृतिलोष्टवल्मीकौ परिलिख्य जीवकोषण्याम् उत्सीव्य बध्नाति
(कौश्स्_4,3[27].1) <नमस् ते लाङ्गलेभ्यो [2.8.4]>_इति सीरयोगम् अधिशिरो_अवसिञ्चति
(कौश्स्_4,3[27].2) <नमः सनिस्रसाक्षेभ्यो [2.8.5]>_इति शून्यशालायाम् अप्सु संपातान् आनयति
(कौश्स्_4,3[27].3) उत्तरं जरत्खाते सशालातृणे
(कौश्स्_4,3[27].4) तस्मिन्न् आचमयति आप्लावयति
(कौश्स्_4,3[27].5) <दशवृक्ष [2.9.1]>_इति शाकलः
(कौश्स्_4,3[27].6) दश सुहृदो जपन्तो_अभिमृशन्ति
(कौश्स्_4,3[27].7) <क्षेत्रियात् त्वा [2.10.1]>_इति चतुष्पथे काम्पीलशकलैः पर्वसु बद्ध्वा पिञ्जूलीभिर् आप्लावयति
(कौश्स्_4,3[27].8) अवसिञ्चति
(कौश्स्_4,3[27].9) <पार्थिवस्य [2.29.1]>_इति_उद्यति पृष्ठसंहितौ_उपवेशयति
(कौश्स्_4,3[27].10) प्राङ्मुखं व्याधितम् प्रत्यङ्मुखम् अव्याधितं शाखासूपवेश्य वैतसे चमसे_उपमन्थनीभ्यां तृष्णागृहीतस्य शिरसि मन्थम् उपमथ्यातृषिताय प्रयछति
(कौश्स्_4,3[27].11) तस्मिन्_तृणां संनयति
(कौश्स्_4,3[27].12) उद्धृतम् उदकम् पाययति
(कौश्स्_4,3[27].13) <सवासिनौ [2.29.6च्]>_इति मन्त्रोक्तम्
(कौश्स्_4,3[27].14) <इन्द्रस्य या मही [2.31.1]>_इति खल्वङ्गान् अलाण्डून् हननान् घृतमिश्रान्_जुहोति
(कौश्स्_4,3[27].15) बालान् कल्माषे काण्डे सव्यं परिवेष्ट्य संभिनत्ति
(कौश्स्_4,3[27].16) प्रतपति
(कौश्स्_4,3[27].17) आदधाति
(कौश्स्_4,3[27].18) सव्येन दक्षिणामुखः पांसून् उपमथ्य परिकिरति
(कौश्स्_4,3[27].19) संमृद्नाति
(कौश्स्_4,3[27].20) आदधाति
(कौश्स्_4,3[27].21) <उद्यन्न् आदित्यः [2.32.1]>_इति_उद्यति गोनाम_इति_आहासौ_इति
(कौश्स्_4,3[27].22) सूक्तान्ते ते हता इति
(कौश्स्_4,3[27].23) दर्भैर् अभ्यस्यति
(कौश्स्_4,3[27].24) मध्यन्दिने च
(कौश्स्_4,3[27].25) प्रतीचीम् अपराह्णे
(कौश्स्_4,3[27].26) बालस्तुकाम् आछिद्य खल्वादीनि
(कौश्स्_4,3[27].27) <अक्षीभ्यां ते [2.33.1]>_इति वीबर्हम्
(कौश्स्_4,3[27].28) उदपात्रेण संपातवतावसिञ्चति
(कौश्स्_4,3[27].29) <हरिणस्य [3.7.1]>_इति बन्धनपायनाचमनशङ्कुधानज्वालेनावनक्षत्रे_अवसिञ्चति
(कौश्स्_4,3[27].30) अमितमात्रायाः सकृद्गृहीतान् यवान् आवपति
(कौश्स्_4,3[27].31) भक्तं प्रयछति
(कौश्स्_4,3[27].32) <मुञ्चामि त्वा [3.11.1]>_इति ग्राम्ये पूतिशफरीभिर् ओदनम्
(कौश्स्_4,3[27].33) अरण्ये तिलशणगोमयशान्ताज्वालेनावनक्षत्रे_अवसिञ्चति
(कौश्स्_4,3[27].34) मृगारैर् मुञ्च_इति_आप्लावयति
(कौश्स्_4,4[28].1) <ब्राह्मणो जज्ञे [4.6.1]>_इति तक्षकायाञ्जलिं कृत्वा जपन्न् आचमयति_अभ्युक्स्.अति
(कौश्स्_4,4[28].2) कृमुकशकलं संक्षुद्य दूर्शजरदजिनावकरज्वालेन
(कौश्स्_4,4[28].3) संपातवति_उदपात्रे_ऊर्ध्वफलाभ्यां दिग्धाभ्यां मन्थम् उपमथ्य रयिधारणपिण्डान् अन्वृचं प्रकीर्य छर्दयते
(कौश्स्_4,4[28].4) हरिद्रां सर्पिषि पाययति
(कौश्स्_4,4[28].5) <रोहण्य् [4.12.1]>_इति_अवनक्षत्रे_अवसिञ्चति
(कौश्स्_4,4[28].6) पृषातकं पाययति_अभ्यनक्ति
(कौश्स्_4,4[28].7) <आ पश्यति [4.20.1]>_इति सदंपुष्पामणिं बध्नाति
(कौश्स्_4,4[28].8) <भवाशर्वौ [4.28.1]>_इति सप्त काम्पीलपुटान् अपां पूर्णान् संपातवतः कृत्वा दक्षिणेनावसिच्य पश्चाद् अपविध्यति
(कौश्स्_4,4[28].9) <त्वया पूर्णम् [4.37.1]> इति कोशेन शमीचूर्णानि भक्ते
(कौश्स्_4,4[28].10) अलंकारे
(कौश्स्_4,4[28].11) शालां परितनोति
(कौश्स्_4,4[28].12) <उतामृतासुर् [5.1.7]> इति_अमतिगृहीतस्य भक्तं प्रयछति
(कौश्स्_4,4[28].13) कुष्ठलिङ्गाभिर् नवनीतमिश्रेणाप्रतीहारं प्रलिम्पति
(कौश्स्_4,4[28].14) लाक्षालिङ्गाभिर् दुग्धे फाण्टान् पाययति
(कौश्स्_4,4[28].15) <ब्रह्म जज्ञानम् [5.6.1]> इति सूतिकारिष्टकौ प्रपादयति
(कौश्स्_4,4[28].16) मन्थाचमन_उपस्थानम् आदित्यस्य
(कौश्स्_4,4[28].17) <दिवे स्वाहा [5.9.1]>_<इमं यवम् [6.91.1]> इति चतुर उदपात्रे संपातान् आनयति
(कौश्स्_4,4[28].18) द्वौ पृथिव्याम्
(कौश्स्_4,4[28].19) तौ प्रत्याहृत्याप्लावयति
(कौश्स्_4,4[28].20) सयवे च_उत्तरेण यवं बध्नाति
(कौश्स्_4,5[29].1) <ददिर् हि [5.13.1]>_इति तक्षकाय_इति_उक्तम्
(कौश्स्_4,5[29].2) द्वितीयया ग्रहणी
(कौश्स्_4,5[29].3) सव्यं परिक्रामति
(कौश्स्_4,5[29].4) शिखासिचि स्तम्बान् उद्ग्रथ्नाति
(कौश्स्_4,5[29].5) तृतीयया प्रसर्जनी
(कौश्स्_4,5[29].6) चतुर्थ्या दक्षिणम् <अपेह्य् [7.88]>_इति दंश्म तृणैः प्रकर्ष्याहिम् अभिनिरस्यति
(कौश्स्_4,5[29].7) यतो दष्टः
(कौश्स्_4,5[29].8) पञ्चम्या वलीकपललज्वालेन
(कौश्स्_4,5[29].9) षष्ठ्यार्त्नीज्यापाशेन
(कौश्स्_4,5[29].10) द्वाभ्यां मधूद्वापान् पाययति
(कौश्स्_4,5[29].11) नवम्या श्वावित्पुरीषम्
(कौश्स्_4,5[29].12) त्रिःशुक्लया मांसं प्राशयति
(कौश्स्_4,5[29].13) दशम्यालाबुनाचमयति
(कौश्स्_4,5[29].14) एकादश्या नाभिं बध्नाति
(कौश्स्_4,5[29].15) मधुलावृषलिङ्गाभिः खलतुलपर्णीं संक्षुद्य मधुमन्थे पाययति
(कौश्स्_4,5[29].16) उत्तराभिर् भुङ्क्ते
(कौश्स्_4,5[29].17) द्वारं सृजति
(कौश्स्_4,5[29].18) <अग्निस् तक्मानम् [5.22.1]> इति लाजान् पाययति
(कौश्स्_4,5[29].19) दावे लोहितपात्रेण मूर्ध्नि संपातान् आनयति
(कौश्स्_4,5[29].20) <ओते मे [5.23.1]>_इति करीरमूलं काण्डेन_एकदेशम्
(कौश्स्_4,5[29].21) ग्रामात् पांसून्
(कौश्स्_4,5[29].22) पश्चाद् अग्नेर् मातुर् उपस्थे मुसलबुध्नेन नवनीतान्वक्तेन त्रिः प्रतीहारं तालूनि तापयति
(कौश्स्_4,5[29].23) शिग्रुभिर् नवनीतमिश्रैः प्रदेग्धि
(कौश्स्_4,5[29].24) एकविंशतिम् उशीराणि <भिनद्म्य् [5.23.13च्]>_इति मन्त्रोक्तम्
(कौश्स्_4,5[29].25) उशीराणि प्रयछति
(कौश्स्_4,5[29].26) एकविंशत्या सहाप्लावयति
(कौश्स्_4,5[29].27) <आ यं विशन्ति [6.2.2]>_इति वयोनिवेशनशृतं क्षीरौदनम् अश्नाति
(कौश्स्_4,5[29].28) <परि द्याम् इव [6.12.1]>_इति मधुशीभं पाययति
(कौश्स्_4,5[29].29) जपन्_च
(कौश्स्_4,5[29].30) <अस्थिस्रंसं [6.14.1]>_इति शकलेनाप्सु_इटे संपातवतावसिञ्चति
(कौश्स्_4,6[30].1) <आबयो [6.16.1]> इति सार्षपं तैलसंपातं बध्नाति
(कौश्स्_4,6[30].2) काण्डं प्रलिप्य
(कौश्स्_4,6[30].3) पृक्तं शाकं प्रयछति
(कौश्स्_4,6[30].4) चत्वारि शाकफलानि प्रयछति
(कौश्स्_4,6[30].5) क्षीरलेहम् आङ्क्ते
(कौश्स्_4,6[30].6) अश्नाति
(कौश्स्_4,6[30].7) <अग्नेर् इव [6.20.1]>_इति_उक्तं दावे
(कौश्स्_4,6[30].8) <इमा यस् तिस्रः [6.21.1]>_इति वृक्षभूमौ जाताज्वालेनावसिञ्चति
(कौश्स्_4,6[30].9) शीर्षफाण्टाक्षैः
(कौश्स्_4,6[30].10) निकटाभ्याम्
(कौश्स्_4,6[30].11) <कृष्णं नियानं [6.22.1]>_इति_ओषध्याभिश्चोतयते
(कौश्स्_4,6[30].12) मारुतानाम् अप्ययः
(कौश्स्_4,6[30].13) <हिमवतः [6.24.1]>_इति +स्यन्दमाना [एद्.: स्यन्दमानाद्; चलन्द्, क्ल्. स्छ्र्., प्. 59] अन्वीपम् आहार्य वलीकैः
(कौश्स्_4,6[30].14) <पञ्च च या [6.25.1]>_इति पञ्च पञ्चाशतं परशुपर्णान् काष्ठैर् आदीपयति
मूल पाठ: Kauśikasūtra · Data entry Arlo Griffiths · GRETIL (Göttingen) · CC BY-NC-SA 4.0