भाषा

ENहिગુ
ग्रंथ पाठ

कौशिकपद्धति · अध्याय 1.8

1.8.1

सर्वकर्मार्थाः परिभाषाः । अथ निशाकर्मपरिभाषा उच्यन्ते ॥
पुरस्ताद्धोमवत्सु निशाकर्मसु पूर्वाह्णे यज्ञोपवीती शालानिवेशनं समूहयत्युपवत्स्यद्भक्तमशित्वा स्नातोऽहतवसनः प्रयुङ्क्ते

1.8.2

येषु निशाकर्मसु तन्त्रं तेष्वयं धर्मः । केचित् ऽस्नातोऽहतवसनः प्रयुङ्क्तेऽ इति सर्वार्थाः परिभाषा मन्यन्ते । यथा ऽचित्राकर्मनिशायां सम्भारान् सम्पातवतः करोतिऽ (कौश्स् 23.12) । समाप्ता निशाकर्मपरिभाषाः ॥
अथ स्वस्त्ययनपरिभाषा उच्यन्ते -
स्वस्त्ययनेषु च

1.8.3

इज्यानां दिश्यान् बलीन् हरति

1.8.4

प्रतिदिशमुपतिष्ठते

1.8.5

ऽयेऽस्यां स्थऽ (3.26) इति सूक्तेन प्रतिदिशं प्रत्यृचं बलिहरणं करोति । ऽप्राची दिग्ऽ (3.27) इति प्रतिदिशमुपतिष्ठते । यथा ऽउत्तमेन (4.28) सारूपवत्सस्य रुद्राय त्रिर्जुहोतिऽ (कौश्स् 50.14) । तत्र हविरुच्छिष्टेन बलिहरणं कुर्यात् । समाप्ताः स्वस्त्ययनपरिभाषाः ॥
पुनः सर्वार्थाः परिभाषा उच्यन्ते -
सर्वत्राधिकरणं कर्तुर्दक्षिणा

1.8.6

हविरुच्छिष्टमाज्यधान्युदपात्रं चर्म मण्डपदर्भसमिधः शान्त्युदकभाजनस्रुक्स्रुवादीनि देयानि कर्त्रे । सर्वत्र धेनुर्दक्षिणाज्यतन्त्रे । पाकतन्त्रे पूर्णपात्रं ब्रह्मणो दक्षिणा । यत् किञ्चित् तन्त्रे प्रविशति तत् सर्वमधिकरणमित्युच्यते ॥ नित्येषु नाधिकरणमस्ति । परद्रव्येषु नाधिकरणमस्ति । यथा नापितस्य क्षरः ॥
त्रिरुदकक्रिया

1.8.7

प्रोक्षणाचमनपर्युक्षणादि त्रिः कर्तव्यम् । यथा ऽऋतं त्वा सत्येन परिषिञ्चामि इति सह हविर्भिः पर्युक्ष्यऽ (कौश्स् 3.4) ॥
अनन्तराणि समानानि युक्तानि

1.8.8

सूक्तानामनन्तरपठितानां समानानां समुच्चयः । यथा ऽमा नो विदन् (1.19) अदारसृत् (1.20) स्वस्तिदा (1.21)ऽ (कौश्स् । 14.7) इति समुच्चयः । एवमन्यत्रापि.
शान्तं सम्भारम्

1.8.9

सर्वत्र शान्तिकेषु शान्तं सम्भारं दर्भसमिदादि । अभिचारे रौद्रमाङ्गिरसं सम्भारम् ॥
अधिकृतस्य सर्वम्

1.8.10

स्रुक्स्रुवसमित्काष्ठादिमणिद्रव्यकाष्ठानि कर्तव्यानि । यत् किं च द्रव्यं च । यथा ऽकथं महे (5.11) इति मादानकशृतं क्षीरौदनमश्नातिऽ (कौश्स् 12.1) । ऽफालचमसे सरूपवत्सायाः दुग्धेऽ (कौश्स् । 12.2) । चमसोऽपि मादानक एव । ऽकथं महेऽ इत्युत्तरमप्यनेन सूक्तेन कर्म कुर्यात् ॥
विशये यथान्तरम्

1.8.11

मन्त्रद्रव्यसंशये सन्निधानं गृहीतव्यम् । यथा लोमानि हस्तिरोमाणि यथा ऽविद्मा शरस्य (1.3) इति प्रमेहणं बध्नातिऽ (कौश्स् 25.10) ॥
[प्र यच्छ पर्शुम् (12.3.31) इति दर्भलवनं प्रयच्छति

1.8.12

]
ऽप्र यच्छ पर्शुम्ऽ इति मन्त्रेण दर्भाहाराय दात्रं प्रयच्छति । ऽओषधीर्दान्तु पर्वन्ऽ (12.3.31) इत्युपरि पर्वणां लूत्वा तूष्णीमाहृत्योत्तरतोऽग्नेरुपसादयति ॥
[अरातीयोः (10.6.1) इति तक्षति

1.8.13

]
ऽअरातीयोःऽ (10.6.1) इत्यृचोलूखलमुसलकाष्ठम् । अन्यार्थमिन्धनार्थम् । काष्ठतक्षणं करोति ॥
[यत् त्वा शिक्वः (10.6.3) इति प्रक्षालयति

1.8.14

]
ऽयत् त्वा शिक्वःऽ इत्यृचा काष्ठानि प्रक्षालयति ॥
[यद्यत्कृष्णः (12.3.13) इति मन्त्रोक्तम्

1.8.15

]
ऽयद्यत्कृष्णःऽ इत्यृचा वस्त्रेण वा हस्तेन वोलूखलादीनि विमार्ष्टि मार्जनं करोति पात्राणाम्.
[पलाशोदुम्बरजम्बुकाम्पीलस्रग्वङ्घशिरीषस्रक्त्यवरणबिल्वजङ्गिडकुटकगर्ह्यगलावलवेतसशिम्ब- लसिपुनस्यन्दनारणिकाश्मयोक्ततुन्युपूतुदारवः शान्ताः

1.8.16

]
अथ शान्तवृक्षा उच्यते । पलाशः प्रसिद्धः । उदुम्बरः प्रसिद्धः । जम्बुः प्रसिद्धः । काम्पीलो मालवके प्रसिद्धः । स्रक् मालवके प्रसिद्धः । वङ्घः कन्यकुब्जे प्रसिद्धः । शिरीषो भोजपुरे वागारि (दि?)त्यवाटिकायां प्रसिद्धः । स्रक्त्यस्तिलकः प्रसिद्धः । वरणो वरणक इत्यानन्दपुरे प्रसिद्धः । बिल्वः प्रसिद्धः । जङ्गिडो वाराणस्यां प्रसिद्धः । कुटको मालवके प्रसिद्धः । गर्ह्यो हिमवति प्रसिद्धः । गलावलस्तत्रैव प्रसिद्धः । वेतसः प्रसिद्धः । शिम्बलः प्रसिद्धः । सिपुनः केवनिका । स्यन्दनो हिमवति नर्मदायामाथर्वणिकस्थाने प्रसिद्धः । अरणिका नर्मदातटे प्रसिद्धा । अश्मयोक्तोऽश्मन्तको भृगुकच्छे प्रसिद्धः । तुन्युस्तैन्दुकी । पूतुदारुर्देवदारुः । देवदारुश्च वैद्यके प्रसिद्धः । समाप्ताः शान्तवृक्षाः । शान्तिकवृक्षा एते । स्रुक् स्रुवः समिधो नेक्षणं दर्विः सामिधेनीः प्रादेशमात्रीः समिधोऽग्निहोत्रावसथ्याग्निष्टोमादियज्ञेष्वेतेषां वृक्षाणां पात्राणि शान्तिकपौष्टिकादिषु कर्तव्यानि ॥
[चितिप्रायश्चित्तिशमीशमकासवंशाशाम्यवाकातलाशापलाशवाशाशिंशपाशिम्बलसिपुनदर्भापामार्गा-
कृतिलोष्टवल्मीकवपादूर्वाप्रान्तव्रीहियवाः शान्ताः

1.8.17

]
अथ शान्तौषधय उच्यन्ते । चितिः प्रसिद्धा । प्रायश्चित्तिः पर्वणि पर्वणि तस्यास्त्रीणि पत्राणि भवन्ति । शमी वापीप्रसिद्धा । शमकानन्दपुरे विश्वामित्रीवाप्याः समीपेऽस्ति । सवंशा शृगालवंशका घर्मोलिका । शाम्यवाका काकजङ्घासदृशा । तलाशावल्ली । पलाशः प्रसिद्धः । वाशा वृषक आटरूषकः । शिंशपा प्रसिद्धा । शिम्बलः प्रसिद्धः । सिपुनः करी । दर्भः प्रसिद्धः । अपामार्गः प्रसिद्धः । आकृतिलोष्टः क्षेत्रमृत्तिका । वल्मीकवपा प्रसिद्धा । दूर्वा प्रसिद्धा । सा च प्रान्तया ग्राह्या । व्रीहियवौ प्रसिद्धौ । एताः सर्वाः शान्ता ओषधयः शान्त्युदकादौ प्रयोक्तव्या । एतासां समुच्चयः । एतासामलाभे यवः प्रतिनिधिः कार्य इति पैठीनसिः । शान्तौषधिकल्पः समाप्तः ॥
प्रमन्दोशीरशलल्युपधानशकधूमा जरन्तः

1.8.18

प्रमन्दो गेन्दुकः । उशीरः प्रसिद्धः । शलली प्रसिद्धा । उपधानं विद्यागन्धुकम् । शकधूमो ब्राह्मणः । एते जरन्तो जीर्णा ग्राह्याः । यथा ऽप्रमन्दालङ्कारान् सम्पातवतः प्रयच्छतिऽ (कौश्स् 32.29) । ऽउशीराणि भिनद्मि (5.23.13) इति मन्त्रोक्तम्ऽ (कौश्स् 29.24) । ऽत्रिः शलल्या मासं प्राशयतिऽ (कौश्स् 29.12) । ऽसोपधानमास्तरणम्ऽ (कौश्स् 64.26) । ऽशकधूमं किमद्याहरिति पृच्छतिऽ (कौश्स् 50.15) । एतान्युदाहरणानि ॥
सीसनदीसीसे अयोरजांसि कृकलासशिरः सीसानि

1.8.19

यत्र सीसानि तत्रैतानि सर्वाणि प्रत्येतव्यानि । सीसं प्रसिद्धम् । नदीसीसं नदीफेनम् । अयोरजो लोहसङ्घातिका । कृकलासशिरः प्रसिद्धम् । सीसानां समुच्चयः । यथा ऽयेऽमावास्याम् (1.16) इति सन्नह्य सीसचूर्णानि भक्तेऽलङ्कारेऽ (कौश्स् 47.23) उदाहरणम् ॥
दधि घृतं मधूदकमिति रसाः

1.8.20

रसकर्मण्येते रसाः प्रत्येतव्याः समुच्चयेन । यथा ऽरसकर्माणि कुरुतेऽ (कौश्स् 21.22) ॥
व्रीहियवगोधूमोपवाकतिलप्रियङ्गुश्यामाका इति मिश्रधान्यानि

1.8.21

व्रीहियवगोधूमाः प्रसिद्धाः । उपवाक इन्द्रयवः । तिलः प्रसिद्धः । प्रियङ्गु कङ्गुणिका । श्यामाकः प्रसिद्धः । एतेषां समुच्चयः । यत्र मैश्रधान्यशब्दस्तत्रैते प्रत्येतव्याः । एतानि सर्वाणि मिश्रधान्यानि । यथा ऽमैश्रधान्यं पुरोडाशमन्याशायां वा निदधातिऽ (कौश्स् 46.10) उदाहरणम् ॥
ग्रहणमा ग्रहणात्

1.8.22

ग्रहणं प्रतीकग्रहणम् । ग्रहणमनुग्रहणं तावदनुवर्तते यावत् प्रतीकग्रहणं द्वितीयम् । यथा ऽपूर्वस्य मेधाजननानिऽ (कौश्स् 10.1) इत्याद्यनुवर्तते तावद्यावद् ऽअहं रुद्रेभिःऽ (4.30; कौश्स् 10.16) इति द्वितीयमुदाहरणम् । ऽब्राह्मणो जज्ञे (4.6; कौश्स् 28.1) वारिदम् (4.7)ऽ इति ग्रहणं भवति । अग्रे ऽभूतो भूतेषु (4.8; कौश्स् 17.1)ऽ इति ग्रहणात् ऽवारिदम्ऽ इत्यग्रहणेऽपि ग्रहणं भवति ॥
यथार्थमुदर्कान् योजयेत्

1.8.23

अनुषङ्गो यथार्थं सर्वत्र कर्तव्यः । यथा ऽविद्मा शरस्य पितरं पर्जन्यं शतवृष्ण्यम्ऽ (1.3.1) इति वैदिकम् । लौकिकमिति भवति ऽकृतयामं कङ्कतमवसृजामिऽ इति । तथा मीमांसायामप्यनुषङ्गो ऽवाक्यपरिसमाप्तिः सर्वेषु तुल्ययोगित्वात्ऽ (जैसू 2.1.46) । अनुषङ्गः पुनरुक्तमित्यर्थः ॥
अथ चतुर्गणीमहाशान्तिगणाः पठ्यन्ते -
इहैव ध्रुवाम् (3.12) एह यातु (6.73) यमो मृत्युः (6.93) सत्यं बृहत् (12.1) इत्यनुवाको वास्तोष्पतीयानि

1.8.24

इति वास्तोष्पतीयो गणः । सर्वत्र सूक्तेन प्रयोगोऽथर्ववेदे । ऽसूक्तादि सूक्तं प्रतीयात्ऽ इति वचनात् । यथा ऽवास्तोष्पतीयैः कुलिजकृष्टेऽ (कौश्स् 43.4) ॥
दिव्यो गन्धर्वः (2.2) इमं मे अग्ने (6.111) यौ ते माता (8.6) इति मातृनामानि

1.8.25

यत्र मातृनामानि तत्रैतानि प्रत्येतव्यानि । सर्वत्र सूक्तप्रयोगः यथा ऽदिव्यो गन्धर्व इति मातृनामभिर्जुहुयात्ऽ (कौश्स् 94.15) ॥
स्तुवानम् (1.7) इदं हविः (1.8) निस्सालाम् (2.14) अरायक्षयणम् (2.18.3) शं नो देवी पृश्निपर्णी (2.25) आ पश्यतिं (4.20) तान्त्सत्यौजाः (4.36) त्वया पूर्वम् (4.37) पुरस्ताद्युक्तः (5.29) रक्षोहणम् (8.3-4) इत्यनुवाकश्चातनानि

मूल पाठ: Kauśikapaddhati · Edition: Keśava's Kauśikapaddhati on the Kauśikasūtra of the Atharvaveda. Critically edited by V.P. Limaye, R.N. Dandekar, C.G. Kashikar, V.V. Bhide, S.S. Bahulkar, Pune: Tilak Maharashtra Vidyapeeth 1982. · Data entry Ketaki Gokhale · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc