भाषा

ENहिગુ
ग्रंथ पाठ

कौशिकपद्धति · अध्याय 1.5

1.5.1

अग्नीषोमा सवेदसा सहूती वनतं गिरः । सं देवत्रा बभूवथुः ॥ युवमेतानि दिवि रोचनान्यग्निश्च सोम सक्रतू अधत्तम् । युवं सिन्धू;म्रभिशस्तेरवद्यादग्नीषोमावमुञ्चतं गृभीतान् ॥ अग्नीषोमा य आहुतिं यो वां दाशाद्धविष्कृतिम् । स प्रजया सुवीर्यं विश्वमायुर्व्यश्नवत्

1.5.2

[इन्द्राग्नी रोचना दिवः परि वाजेषु भूषयः । तद्वां चेति प्र वीर्यम् ॥ श्नथद्वृत्रमुत सनोति वाजमिन्द्रा यो अग्नी सहुरी सपर्यात् । इरज्यन्ता वसव्यस्य भूरेः सहस्तमा सहसा वाजयन्ता ॥ इन्द्राग्नी अस्मान् रक्षतां यौ प्रजानां प्रजावती । स प्रजया सुवीर्यं विश्वमायुर्व्यश्नवत् (पैप्प्स् 16.37.1) ॥ गोमद्धिरण्यवद्वसु यद्वामश्वावदीमहे । इन्द्राग्नी तद्वनेमहि (पैप्प्स् 1.96.3) स्वाहा इति

1.5.3

ऐन्द्राग्नस्य हविषोऽमावास्यायाम्

1.5.4

]
आमावास्यायामैन्द्राग्नौ द्वितीयो भवति ऽइन्द्राग्नी रोचनाऽ इति चतस्रः ॥
[प्राक् स्विष्टकृतः पार्वणौ होमौ समृद्धिहोमाः काम्यहोमाश्च

1.5.5

पूर्णा पश्चात् (7.80.1) इति पौर्णमास्याम्

1.5.6

]
ऽपूर्णा पश्चात्ऽ इति पौर्णमास्यां पार्वणहोमः ॥
[यत्ते देवा अकृण्वन् भागधेयम् (7.79.1) इत्यमावास्यायाम्

1.5.7

]
ऽयत्ते देवाःऽ इत्यमावास्यायां पार्वणहोमः ॥
[आकूत्यै त्वा स्वाहा । कामाय त्वा स्वाहा । समृधे त्वा स्वाहा । आकूत्यै त्वा कामाय त्वा समृधे त्वा स्वाहा । ऋचा स्तोमं समर्धय गायत्रेण रथन्तरम् । बृहद्गायत्रवर्तनि स्वाहा

1.5.8

]
ऽआकूत्यै त्वाऽ इति चतुर्भिः ऽऋचा स्तोमम्ऽ इति च समृद्धिहोमाञ्जुहोति । उदपात्रे सम्पातानानयति ॥
[पृथिव्यामग्नये समनमन् (4.39.1-8) इति सन्नतिभिश्च

1.5.9

प्रजापते न त्वदेतान्यन्यः (7.80.3) इति च

1.5.10

]
ऽपृथिव्यामग्नयेऽ इत्यष्टभिः सन्नतिहोमाञ्जुहोति ऽप्रजापते न त्वदेतानिऽ इति च ॥
उपस्तीर्याज्यं सर्वेषामुत्तरतः सकृत्सकृदवदाय द्विरवत्तमभिघारयति

1.5.11

न हवींषि

1.5.12

[आ देवानामपि पन्थामगन्म यच्छक्नवाम तदनुप्रवोढुम् । अग्निर्विद्वान् स यजात् स इद्धोता सोऽध्वरान् स ऋतून् कल्पयाति (पैप्प्स् 19.47.6) अग्नये स्विष्टकृते स्वाहा इत्युत्तरपूर्वार्धेऽवयुतं हुत्वा सर्वप्रायश्चित्तीयान् होमाञ्जुहोति

1.5.13

]
ऽआ देवानाम्ऽ इति स्विष्टकृतं जुहोति ॥
[स्वाहेष्टेभ्यः स्वाहा । वषडनिष्टेभ्यः स्वाहा । भेषजं स्विष्ट्यै स्वाहा । निष्कृतिर्दुरिष्ट्यै स्वाहा । दैवीभ्यस्तनूभ्यः स्वाहा । अयाश्चाग्नेऽस्यनभिशस्तिश्च सत्यमित् त्वमया असि । अयासा मनसा कृतोऽयास्यं हव्यमूहिषे । अया नो धेहि भेषजं स्वाहा इति ओं स्वाहा भूः स्वाहा भुवः स्वाहा स्वः स्वाहों भूर्भुवः स्वः स्वाहा इति

मूल पाठ: Kauśikapaddhati · Edition: Keśava's Kauśikapaddhati on the Kauśikasūtra of the Atharvaveda. Critically edited by V.P. Limaye, R.N. Dandekar, C.G. Kashikar, V.V. Bhide, S.S. Bahulkar, Pune: Tilak Maharashtra Vidyapeeth 1982. · Data entry Ketaki Gokhale · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc